61165: कितः =========== **Padacheda:** कितः | S | 6 | 1 | Sutrartha --------- **यः तद्धित-प्रत्ययः कित्-अस्ति, सः यस्य समुदायस्य अन्ते आगच्छति, तस्य समुदायस्य अन्तिम-स्वरः उदात्तः भवति ।** यस्मिन् तद्धितप्रत्यये ककारः इत्संज्ञकः अस्ति, सः प्रत्ययः 'कित्' प्रत्ययः अस्ति इत्युच्यते । एतादृशः तद्धितसंज्ञकः कित्-प्रत्ययः यस्य प्रकृति-प्रत्यय-समुदायस्य अन्ते अस्ति, तस्य अन्तिम-स्वरः उदात्तः भवति । यथा - नड + फक् → ना॒डा॒य॒न । अत्र 'फक्' अयम् तद्धितप्रत्ययः 'कित्' अस्ति, अतः तस्य योजनेन निर्मितस्य समुदायस्य अन्तिमस्वरः उदात्तसंज्ञकः भवति । अन्ये स्वराः **अनुदात्तं पदमेकवर्जम्** (6.1.158) इत्यनेन अनुदात्ताः भवन्ति । Sutrartha (English) ------------------- The word ending in a तद्धितसंज्ञक कित्-प्रत्यय become अन्तोदात्त. Vasu English Summary -------------------- A stem formed by a तद्धित-affix having an indicatory क , has acute accent on the end syllable. Vasu English Translation ------------------------ A stem formed by a तद्धित-affix having an indicatory क , has acute accent on the end syllable. Thus ना॒डा॒य॒नः꣡ formed by फक् (4.1.99), so also चा॒रा॒य॒णः꣡ ॥ Similarly आक्षि॒कः꣡, शा॒लाकि॒कः꣡ formed by ठक् (4.4.1). Kashika ------- तद्धितस्येत्येव। तद्धितस्य कितोऽन्त उदात्तो भवति। **नडादिभ्यः फक्** (४.१.९९) ना॒डा॒य॒नः। चा॒रा॒य॒णः। **प्राग्वहतेष्ठक्** (४.४.१) — आ॒क्षि॒कः। शा॒ला॒कि॒कः॥ Siddhanta Kaumudi ----------------- कितस्तद्धितस्यान्त उदात्तः । यदाग्नेयः ॥ Nyaas ----- प्रत्ययस्वरस्यापवादोऽयम्। `आक्षिकः, शालाकिकः` इति। `तेन दीव्यति` (4.4.2) इत्यर्थे ठक्॥ Prakriyasarvasvam ----------------- तद्धितस्यान्त उदात्तः स्यात् । नाडायनः । आक्षिकः ।