61161: अनुदात्तस्य च यत्रोदात्तलोपः =================================== **Padacheda:** अनुदात्तस्य | S | 6 | 1 | च | S | 0 | 0 | यत्र | S | 0 | 0 | उदात्तलोपः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- An unaccented vowel gets also the acute accent, when on account of it preceding acute is elided. Vasu English Translation ------------------------ An unaccented vowel gets also the acute accent, when on account of it preceding acute is elided. The word *udatta* is understood here. Thus कुमार꣡ + ई॒ = कुमा॒री꣡ ॥ The word कुमार has acute on the last, when the unaccented (*anudatta*) ङीप् is added to it, the अ꣡ is elided (6.1.148), the *anudatta* ई॒ becomes *udatta*. So also प॒थिन्꣡ + श॒स् = प॒थः꣡ (7.1.88), प॒थिन् + ए॒ = प॒थे, प॒थिन् + आ॒ = प॒था꣡ ॥ The पथिन् has acute on the last. So also कुमुद + ड्मतुप् = कुमुद्वा꣡न् (4.2.87), न॒ड्व꣡त्, वे॒तस्वत् ॥ The words कुमुद &c, are end-acute, and the affix मत् (वत्) is *anudatta* (3.1.4). Why 'an *anudatta* vowel gets &c'. Observe प्रा॒सङ्गः + य॑त् = प्रासङ्ग्यः ॥ (प्रासङ्गं वहति (4.4.76)). Here though प्रसङ्ग꣡ is end-acute (6.2.144) formed by घञ् with _*gati*)) it is followed by य॑ which is *svarita* (6.1.185), this *svarita* causes the *lopa* of अ꣡ *udatta*: but it does not itself become *udatta*. No, this is not a proper counter-example. For by the general rule of accent (6.1.158), when one syllable is ordained to be *udatta* or *svarita*, all the other syllables of that word become *anudatta*. Therefore when य॑ is taught to be *svarita*, all the other syllables (like ङ्ग꣡) will become *anudatta*. So there is no *lopa* of *udatta* when य॑ comes. The word अनुदात्त is used to indicate that the initial *anudatta* becomes *udatta*. Had *anudatta* not been used, the *sutra* would have been यत्रोदात्तलोपश्च, which would mean यस्मिन् प्रत्यये परत; उदात्तालुप्यते तस्यान्त उदात्तो भवति, for the *anuvritti* of अन्त would then be read from the last. There would then be anomaly in the case of मा हि धुक्षाताम्, and माहि धुक्षाथाम् ॥ From the root दुह we have formed धुक्षाताम् and धुक्षाथाम् in the Aorist Atmanepada*, dual. दुह् + क्स꣡ + आताम् = दुह् + स् (7.3.72) + आताम् ॥ Here आताम् causes the elision of the *udatta* अ of स ॥ Therefore the final of आता꣡म् would be *udatta*, which is not desired. The augment अ is not added because of मा, had it been added, the अ꣡ would have been *udatta* (6.4.71). Had हि not been given, then also the whole of धुक्षाताम् would have become *anudatta* in माधुक्षाताम् because of तिङ्ङतिङः (8.1.28). See (8.1.34) (हि च). Why have we used the word यत्र in the *sutra*? If it was not employed, then the subsequent *anudatta* may be such which would not have caused the elision of the previous *udatta*; such *udatta* being elided by some other operator, and still such *anudatta* would have become *udatta*. Thus in भार्गवः, भार्गवौ, भृगवः ॥ Here भृगवः is plural of भार्गवः ॥ The word भार्गव is end-acute and this acute (अण्) was elided in the plural, before the affix जस् was added. The elision here is not caused by जस्, but is a subject of जस् (not निमित्त but विषय). Therefore जस् does not become *udatta*, which would have been the case, had यत्र not been used. प्राक् सुबुत्पत्ते गोत्रप्रत्ययस्य लुक् ॥ The *gotra* affix was elided prior to the adding of the case-ending. Why do we say "when an *udatta* is elided"? Observe बिद + अञ् (4.1.104) = ब꣡द ॥ The feminine of this will be बैद꣡ + ङीन् (4.1.73) = बैदी꣡ ॥ Here ई causes the elision of *anudatta_ अ of द, and hence remains unchanged. So also आ꣡ र्वी ॥ Bhashya ------- अनुदात्तस्य च यत्रोदात्तलोपः (2598) (पदकृत्यभाष्यम्) अनुदात्तस्येति किमर्थम् ? प्रासङ्गं वहति प्रासङ्ग्यः ॥ (6272 अनुदात्तस्येति पदस्य प्रत्याख्यानवार्तिकम् ॥ 1 ॥) - उदात्तलोपे स्वरितोदात्तयोरभावादनुदात्तग्रहणानर्थक्यम् - उदात्तलोपे स्वरितोदात्तयोरभावादनुदात्तग्रहणमनर्थकम् । न हि कश्चिदुदात्त उदात्ते स्वरिते वा लुप्यते, सर्वोऽनुदात्त एव । ननु चायमुदात्तः स्वरिते लुप्यते - प्रासङ्गं वहति - प्रासङ्ग्य इति । एषोऽपि निघाते कृतेऽनुदात्त एव लुप्यते । इदमिह संप्रधार्यम् - निघातः क्रियताम्, लोप इति; किमत्र कर्तव्यम् ? परत्वाल्लोपः । एवं तर्ह्ययमद्य निघातस्वरः सर्वस्वराणामपवादः । न चापवादविषय उत्सर्गोऽभिनिविशते । पूर्वं ह्यपवादा अभिनिविशन्ते पश्चादुत्सर्गाः । प्रकल्प्य वाऽपवादविषयं तत उत्सर्गोऽभिनिविशते । तन्न तावदत्र कदाचिदन्तोदात्तस्थाथादिस्वरो भवति, अपवादं निघातं प्रतीक्षते । तत्र - निघातः क्रियतां लोप इति, यद्यपि परत्वाल्लोपः सोऽसावविद्यमानोदात्तः - अनुदात्ते लुप्यते ॥ (वार्तिकावतरणभाष्यम्) किं पुनरनुदात्तस्यान्त उदात्तो भवति, आहोस्विदादिः ? कश्चात्र विशेषः ? (6273 अन्तोदात्तत्वे दोषवार्तिकम् ॥ 2 ॥) - अन्त इति चेत् र्श्ॉङ्क्सयुष्मदस्मदिदंकिंलोपेषु स्वरः - अन्त इति चेत् र्श्ॉङ्क्सयुष्मदस्मदिदंकिंलोपेषु स्वरो न सिध्यति । र्श्ॉम् - विन्दाते, खिन्दाते । र्श्ॉम् ॥ क्स - मा हि धुक्षाताम्, मा हि धुक्षाथाम् । क्स ॥ युष्मदस्मद् - युष्मभ्यम्, अस्मभ्यम् ॥ इदङ्किम्लोपः - इयान्, कियान् ॥ अस्तु तर्ह्यादिः । (6274 आदेरुदात्तत्वे दोषवार्तिकम् ॥ 3 ॥) - आदिरिति चेदिन्धीत द्वयमित्यन्तः - आदिरिति चेदिन्धीत द्वयमित्यन्तोदात्तत्वं विधेयम् । इन्धीत्, द्वयम् - त्रयम् ॥ (6275 आद्युदात्तत्वस्थापकवार्तिकम् ॥ 4 ॥) आदौ सिद्धमस्तु तर्ह्यादिरुदात्तो भवतीति ॥ (वार्तिकावतरणभाष्यम्) ननु चोक्तम् - आदिरिति चेदिन्धीत द्वयमित्यन्त इति ॥ (6276 आद्युदात्तत्वे दोषवारकवार्तिकम् ॥ 5 ॥) - विदीन्धिखिदिभ्यश्च लसार्वधातुकानुदात्तप्रतिषेधाल्लिङि सिद्धम् - विदीन्धिखिदिभ्यश्च लसार्वधातुकानुदात्तत्वं लिङि नेति वक्तव्यम् ॥ लिङ्ग्रहणेन नार्थः, अविशेषेण विदीन्धिखिदिभ्यश्च लसार्वधातुकानुदात्तत्वं नेत्येव । इदमपि सिद्धं भवति - विन्दाते, खिन्दाते ॥ अयचि कथम् ? (6277 दोषवारकवार्तिकम् ॥ 6 ॥) - अयचि चित्करणात् - अयचि चित्करणसार्मथ्यादन्तोदात्तत्वं भविष्यति ॥े Kashika ------- उदात्त इति वर्तते। यस्मिन्ननुदात्ते परत उदात्तो लुप्यते तस्यानुदात्तस्यादिरुदात्तो भवति। कु॒मा॒र्र इ॒ कु॒मा॒री। कुमारशब्दोऽन्तोदात्तस्तस्य ङीप्यनुदात्त उदात्तो लुप्यते। अनुदात्तो ङीब् उदात्तः। **भस्य टेर्लोपः** (७.१.८८)। प॒थः प॒था। प॒थे। पथिन्शब्दोऽन्तोदात्तः। **कुमुदनडवेतसेभ्यो ड्मतुप्** (४.२.८७)। कु॒मु॒द्वान्। न॒ड्वान्। वे॒त॒स्वान्। कुमुदादयोऽन्तोदात्ताः। ड्मतुबनुदात्तः। अनुदात्तस्येति किम्? प्रासङ्गं वहति प्रा॒स॒ङ्ग्यः॑। प्रासङ्गशब्दस्थाथादिस्वरेणान्तोदात्तः (६.२.१४४)। तस्य यति **तित् स्वरितम्** (६.१.१८५) इति स्वरित उदात्तो लुप्यते। नैतदस्ति, स्वरिते हि विधीयमाने परिशिष्टमनुदात्तम् तत् कुत उदात्तलोपः? तदेतदनुदात्तग्रहणमादेरनुदात्तस्योदात्तार्थम्। अन्त इति हि प्रकृतत्वादन्तस्य स्यात्। मा हि धु॒क्षाता॑म्। मा हि धु॒क्षाथा॑म्। यत्रेति किम् ? भा॒र्ग॒वः, भा॒र्ग॒वौ, भृग॑वः। प्राक् सुबुत्पत्तेर्गोत्रप्रत्ययस्य लुक्। उदात्तग्रहणं किम् ? बैदी॑। और्वी॑॥ Siddhanta Kaumudi ----------------- यस्मिन्ननुदात्ते परे उदात्तो लुप्यते तस्योदात्तः स्यात् । देवीं वाचम् (दे॒वीं वाच॑म्) । अत्र ङीबुदात्तः ॥ Padamanjari ----------- कुमारशब्दोऽन्तोदात इति। फिषित्यनेन। अन्यत्रापि प्रातिपदिकस्यान्तोदातत्वमनेनैव द्रष्टव्यम्। पथिन्शब्दोऽन्तोदात इति।'पतेस्थ च' इतीन्प्रत्ययान्तत्वात्। कुमुदादयोऽन्तोदाता इति। कुमुदशब्दो मूलविभुजादित्वात्कप्रत्ययान्तः, नडशब्दोऽव्युत्पन्नः,'वि गत्यादिषु' अस्मादसच्, तुडागमश्च। वेतसश्चित्स्वरेणान्तोदातः। प्रासङ्ग्य इति। प्रासज्यत इति प्रासङ्गः, कर्मणि घञन्तः,'तद्वहति' इति'प्राग्घिताद्यत्' इति यत्। नैतदस्तीति। उदातो लुप्यत इति। यतस्य प्रतिषेधः। कथं नैतदस्ति ? इत्याह -स्वरिते हीति।'प्रागेव पदसंज्ञायाः स्वरविधिसमकालमेव शेषनिघातो भविष्यति' इत्युक्तं पुरस्तात्। तत् कुत उदातलोप इति। न कुत'सिचिदित्यर्थः। तदेतदित्यादि। यस्मादेवमनुदातग्रहणस्य व्यावर्त्य न सम्भवति, तस्मादेतदनुदातग्रहणमादेरनुदातार्थम् । अथासत्यनुदातग्रहणे कस्य स्यात्? इत्यत आह -अन्त इति। मा हि धुक्षातामिति। दुहेर्माङ् लुङित्मनेपदम्, आतामाथामौ, च्लेः क्सः। ठदुपदेशात्ऽ इति लसार्वधातुकानुदातत्वम्, क्सः प्रत्ययस्वरेणान्तोदातः,'क्सस्याचि' इत्यकारलोपः। माङ्ः प्रयोगोऽडागमनिवृत्यर्थः, अटि हि सति पदमाद्यौदातं भवति, हिशब्दप्रयोगः'हि च' इति निघातप्रतिषेधार्थः। अत्रासत्यनुदातग्रहणे आतामाथामोर्द्वितीयस्याच उदातः स्यात्, अन्ताधिकारात्; सति त्वस्मिन्नादेर्भवति। इदं दु वक्तव्यम्,'यत्रोदातलोपः' इत्युच्यमाने कथमन्त्यस्य प्रसङ्गः, न हि तदुदातलोपस्य निमितमिति ? उच्यते; आदेरपि तर्हि न प्राप्नोति, तस्यानुदातलोपं प्रत्यनिमितत्वात्,'क्सस्याचि' इत्यजादौ प्रत्यये विधानात्। तस्माद्यत्र प्रत्यय उदातलोपस्तत्सम्बन्धिनोऽनुदातस्योदातो भवतीति सूत्रार्थेऽन्ताधिकारादन्त्यस्य प्रसङ्ग। यदि तु निमितत्वानादरेण यत्रानुदाते परतः उदातलोपः, तस्योदातो भवतीति सूत्रार्थः, तदा नान्त्यस्य प्रसङ्गः। भृगव इति। ठत्रिभृगुकुत्सऽ इत्यादिना बहुषु लुक्। तत्र बहुष्वित्यर्थग्रहणम्, न बहुवचनस्य। वैदीति। विदाद्यञन्तात्'शार्ङ्गरवाद्यञो ङीन्' ॥ Nyaas ----- `कुमारौ` इति। **वयसि प्रथमे** (4.1.20) इति ङीप्, **यस्येति च** (6.4.148) इत्यकारलोपः। `कुमारशब्दोऽन्तोदात्तः` इति। प्रातपदिकस्वरेण। एवमुत्तरत्राप्यन्तोदाततता वेदितव्या। `ङीप्` इति। `अनुदात्तः` इति। पित्त्वात्। `प्रासङ्ग्यः` इति। `तद्वहति` (4.4.76) इत्यादिना प्राग्घितीयो यत्। `प्रसङ्गशब्दः` इत्यादि। `षन्ज सङ्गे` (धातुपाठः-987) इत्यस्माद्घञमुत्पाद्य प्रासङ्गशब्दो व्युत्पाद्यते, तस्य **गतिकारकोपपदात् कृत्** (6.2.139) इति `तत्पुरुषे` (6.2.122) इति वरत्तमाने **थाथघञ्क्ताजबित्रकाणाम्** (6.2.144) इत्यन्तोदात्तत्वं विहितम्, अतो।सावन्तोदात्तः। `नैतदस्ति` इति। `उदात्तो लुप्तते` इति यदुक्तं तस्य प्रतिषेधः। कस्मान्नैतदस्तीत्याह -`स्वरिते हि` इत्यादि। स्वरविधिसमकालमेव शिष्टस्यानुदात्तत्त्वं भवतीति प्रातिपदिकमेतत्। तस्मात्? स्वरिते विधीयमाने परिशिष्टस्यानुदात्तत्वेन भवितव्यम्। तत्? कुत उदात्तलोपः? न कुतश्चिदित्यर्थः। `तदेतत्` इत्यादि। यस्मादेवमनुदात्तग्रहणस्य प्रत्युदाहरणं न सम्भवति, तस्मादनुदात्तग्रहणमेतदादेरनुदात्तस्योदात्तत्वं यथा स्यादित्येवमर्थम्; अन्यथा ह्रस्यानर्थक्यमेव स्यात्। किं पुनः कारणमादेरनुदात्तस्योदात्तो न सिध्यति, यतस्तदर्थमनुदात्तग्रहणं क्रियते? इत्यत आह -`अन्त इति हि` इत्यादि। अवधारणमात्रं द्रष्टष्यम्। अन्तस्यैव स्यात्, नादेरित्यर्थः। क्व पुनरादेरुदात्तार्थमनुदात्तग्रहणं क्रियते? इत्याह -`मा हि धुक्षाताम्` इत्यादि। दुहेर्लुङ्, आत्मनेपदमातामाथाम्, ततश्च **शल इगुपधादनिटः क्सः** (3.1.45) इति च्लेः क्सादेशः, `तास्यानुदात्त` (6.1.180) इत्यादिना लसार्वधातुकस्यानुदात्तत्वम्, **क्सस्याचि** (7.3.72) इत्यकारलोपः, क्सस्याकारः प्रत्ययस्वरेणोदात्तः, **दादेर्धातोर्घः** (8.2.32) `खरि च` (8.4.54) इति चर्त्वम्, घकारस्य ककारः, षत्वम्। अत्रासत्यनुदात्तग्रहण आतामाथामाकारस्यादिभूतस्यानुदात्तत्वं न स्यात्, सति त्वस्मिन्नाकारस्यादिभूतस्योदात्तत्वं स्यात्। हिशब्दस्य प्रयोगे `हि च` (8.1.34) इति निघातप्रतिषेधो न स्यात्। निघाते हि तिङ्न्तस्यासत्युदात्तलोपो न स्यात्। माङ्प्रयोगोऽप्यटः **न माङ्योगे** (6.4.74) इति प्रतिषेधो यथा स्यात्। अटि हि तस्योदात्तत्वाच्छेषस्यानुदात्तत्वं स्यात्, तथा च सत्यनुदात्तस्थाकारलोपः स्यात्, नोदात्तस्य। `भृगवः` इति। भृगोरपत्यानि `ऋष्यन्धकवृष्णि` (4.1.114) इत्यादिना ऋष्यण, तस्य `अत्रिभृगुकुत्स` (2.4.65) इत्यादिना बहुषु लुक्। ननु चात्रापि विभक्तावुत्पन्नायामुदात्तस्य लोपः, तस्मादिहापि भवितव्यमेव? इत्यत आह -`प्राक्? सुबुत्पत्तेः` इत्यादि। न हि गोत्रप्रत्ययस्य लुग्विधौ विभक्तिर्निमित्तत्वेनाश्रीयते। तस्मात्? प्रागेव गोत्रप्रत्ययस्य लुक्, ततो नात्रानुवात्तत्वम्। `बैदी, और्वी` इति। विदस्यापत्यम्, उर्वस्यापत्यमिति `अनृष्यानन्तर्य्ये बिदादिभ्योऽञ्` (4.1.104) इत्यञ्, ञित्स्वरेणाद्युदात्तः `टिढ्ढाणञ्` (4.1.15) इति ङीप्॥ Prakriyasarvasvam ----------------- यस्मिन्ननुदात्ते परे उदात्तलोपः तस्योदात्तः स्यात् इति ड्मतुप उदात्तत्वम् । कुमुद्वान् ॥