61147: आश्चर्यमनित्ये ===================== **Padacheda:** आश्चर्यम् | S | 1 | 1 | अनित्ये | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The word आशचर्य is formed by सुट् when meaning something 'unusual'. Vasu English Translation ------------------------ The word आशचर्य is formed by सुट् when meaning something 'unusual'. The word आश्चर्य is formed by adding the affix यत् to the verb चर् with the preposition आ, and the augment सुट् ॥ Thus आश्चर्यं यदि स भुंजीत, आश्चर्यं यदि सोऽधीयीत ॥ When not having this sense, we have आश्चर्यं कर्म शोभनम् ॥ Bhashya ------- आश्चर्यमनित्ये (2584) (6256 उपसंख्यानवार्तिकम् ॥ 1 ॥) - आश्चर्यमद्भुते - आश्चर्यमद्भुत इति वक्तव्यम् । इहापि यथा स्यात् - आश्चर्यमुच्चता वृक्षस्य, आश्चर्यं नीला द्यौः, आश्चर्यमन्तरिक्षेऽबन्धनानि नक्षत्राणि न पतन्तीति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) तत्तर्हि वक्तव्यम् । न वक्तव्यम् । अनित्ये इत्येव सिद्धम् । इह तावत् - आश्चर्यमुच्चता वृक्षस्येति, आश्चर्यग्रहणेन वृक्षोऽभिसंबध्यते । किं तर्हि ? उच्चता । सा चानित्या ॥ आश्चर्यं नीला द्यौरिति, नाश्चर्यग्रहणेन द्यौरभिसम्बध्यते । किं तर्हि ? नीलता । सा चानित्या ॥ आश्चर्यमन्तरिक्षेऽबन्धनानि नक्षत्राणि न पतन्तीति, नाश्चर्यग्रहणेन नक्षत्राण्यभिसम्बध्यन्ते । किं तर्हि ? पतनक्रिया । सा चानित्या । तत्रानित्य इत्येव सिद्धम् ॥ Kashika ------- अनित्यतया विषयभूतया अद्भुतत्वमिह लक्ष्यते, तस्मिन्नाश्चर्यं निपात्यते। **चरेराङि चागुरौ** (३.१.१०० वा०) इति यत्प्रत्यये कृते निपातनात् सुट्। आश्चर्यं यदि स भुञ्जीत। आश्चर्यं यदि सोऽधीयीत। चित्रमद्भुतमित्यर्थः। अनित्य इति किम् ? आचर्यं कर्म शोभनम्॥ Siddhanta Kaumudi ----------------- अद्भुते सुट् । आश्चर्यं यदि स भुञ्जीत । अनित्ये किम् । आचर्यं कर्मं शोभनम् ॥ Balamanorama ------------ **आश्चर्यमनित्ये** - आश्चर्यमनित्ये । अद्भुते गम्ये आङ्पूर्वकस्य चरेः सुट् । 'चरेराङि चाऽगुरौ' इति यत् । अनित्यग्रहणमपनीय अद्भुते इति वक्तव्यमिति वार्तिकमभिप्रेत्याह — अद्भुते सुडिति । तेन आश्चर्य नीला द्यौः, आश्चर्यमन्तरिक्षे यदबन्धनानि नक्षत्राणि न पतन्तीत्यादिसंग्रहः । अनित्ये इत्यनेन कादाचित्कतया अद्भुतं लक्ष्यत इत्युक्ते तु एतन्न सिध्येत् । Tattvabodhini ------------- **आश्चर्यमनित्ये** - आश्चर्यमिति । आडः परस्य चरेः सुट् ।चरेराङि चाऽगुरौ॑इति यत् । Padamanjari ----------- यद्याश्चर्यमनित्ये निपात्यते, घटादावतिप्रसङ्गः ? इत्यत आह -अनित्यतयेत्यादि। लोके यदनुचितमदृष्टपूर्वमुपलभ्यते, तदनित्यातया व्याप्तं कादाचित्कत्वम्, अतोऽनित्यता विषयभूता भवति। तथा विषयभूतया अद्भूतत्वं पिस्मयहेतुत्वमुपलक्ष्यते। उदाहरणे ठनवकॢप्त्यमर्षयोरकिंवृतेऽपिऽ इत्यनवकॢप्तावसम्भावनायां लिङ्। रुग्णस्य मन्दकर्णस्य चाविशिष्टे कालादौ भोजनमध्ययनं चादृष्टपूर्वं दृश्यमानमद्भूतं भवतीति। आश्चर्यमिति।'चरेराङ् चागुरिउ' इति यन्। आचर्यमनुष्ठेयमित्यर्थः ॥ Nyaas ----- यद्यनित्येऽशाआतिक आश्चर्यमिति निपात्यते, ततो, घटादिष्वपि स्यादित्येतं दोषं परिजिहीर्षुराह -`अनित्यतया` इत्यादि। अद्भुतम्=चित्रमित्युच्यते। यल्लोकेऽद्भुतं तच्चित्रम्, तस्य भावोऽद्भुतत्वम्। तस्य चान्यत्राभावादनित्यता विषयभूता, न हि तत्र ततोऽन्यत्र सम्भवति। तस्मात्? तया विषयभूतयाऽद्भुतत्वमुपलक्ष्यते। `आशस्चर्यं यदि स भुञ्जीत` इति। `अनवकॢप्त्यमर्षयोरकिंवृत्तेऽपि` (3.3.145) इत्यनवकॢप्तावसम्भावनायां लिङ्। भोजनं कस्यचिद्विशिष्टकालादावदृष्टपूर्वम्। अतस्तत्र भवत्? तदद्भुतं भवति॥ Prakriyasarvasvam ----------------- अनित्यमित्यद्भुतं लक्ष्यते । तत्राश्चर्यमिति सुट् । अन्यत्राचर्यं कर्म ।