61145: गोष्पदं सेवितासेवितप्रमाणेषु =================================== **Padacheda:** गोष्पदम् | S | 1 | 1 | सेवित-असेवित-प्रमाणेषु | S | 7 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The word गोष्पद is formed by सुट् , when meaning a locality visited or not visited by cows, or when it means quantity. Vasu English Translation ------------------------ The word गोष्पद is formed by सुट् , when meaning a locality visited or not visited by cows, or when it means quantity. Thus गोष्पदो देशः = गावः पद्यन्ते यस्मिन् देशे स गोभिः सेवितो देशः ॥ So also अगोष्पदान्यरण्यानि ॥ The word गोष्पद by itself does not mean 'not visited by cows'. Therefore the negative particle is added to give that sense. So also गोष्पदमात्रं क्षेत्रं, गोष्पदपूरं वृष्टो देवः ॥ Here the word has no reference to cow, but to the quantity of land and rain. When it has not the above senses, the form is गोपदम् = गोः पदम् ॥ What is the use of the word असेवित in the *sutra*, the word गोष्पद will give अगोष्पद by adding the negative particle, न गोष्पद = अगोष्पद? The force of नञ् compound is that of सदृश "like that but not that". As अब्राह्मण means "a man who is a *Kshatriya* &c. not a *Brahmana*, but does not mean a stone &c". Therefore अगोष्पद with नञ् would mean "a place like a pasture land but in which cows do not graze, but in which there is a possibility of cows grazing". But it is intended that it should refer to a place where there is no such possibility, hence असेवित is used. Therefore, deep forests where cows can never enter, are called अगोष्पद ॥ Bhashya ------- गोष्पदं सेवितासेवितप्रमाणेषु (2581) (असेवितपदप्रयोजनभाष्यम्) इदमतिबहु क्रियते - सेविते - असेविते - प्रमाण इति, सेवितप्रमाणयोरित्येव सिद्धम् । केनेदानीमसेविते भविष्यति ? नञ्ञा सेवितप्रतिषेधं विज्ञास्यामः ॥ नैवं शक्यम् । सेवितप्रसङ्ग एव स्यात्, असेविते न स्यात् । असेवितग्रहणे पुनः क्रियमाणे बहुव्रीहिरयं विज्ञास्यते - अविद्यमानसेविते - असेवित इति । तस्मादसेवितग्रहणं कर्तव्यम् ॥ Kashika ------- गोष्पदमिति सुट् निपात्यते, तस्य च षत्वं सेवितेऽसेविते प्रमाणे च विषये। गोष्पदो देशः। गावः पद्यन्ते यस्मिन् देशे, स गोभिः सेवितो देशो गोष्पद इत्युच्यते। असेविते — अगोष्पदान्यरण्यानि। असेविते। गोष्पदशब्दो न संभवतीत्यगोष्पदशब्दार्थं निपातनम्। यद्येवं नार्थ एतेन, गोष्पदप्रतिषेधादगोष्पदं भविष्यति ? सत्यमेतत्, यत्र तु सेवितप्रसङ्गोऽस्ति तत्रैव स्यादगोष्पदमिति, यत्र त्वत्यन्तासंभव एव तत्र न स्याद् — अगोष्पदान्यरण्यानीति। असेवितग्रहणात् तत्रापि भवति। यानि हि महान्त्यरण्यानि येषु गवामत्यन्तासंभवस्तान्येवमुच्यन्ते। प्रमाणे — गोष्पदमात्रं क्षेत्रम्। गोष्पदपूरं वृष्टो देवः। नात्र गोष्पदं स्वार्थप्रतिपादनार्थमुपादीयते। किं तर्हि? क्षेत्रस्य वृष्टेश्च परिच्छेत्तुमियत्ताम्। सेवितासेवितप्रमाणेष्विति किम्? गोः पदं गोपदम्॥ Siddhanta Kaumudi ----------------- सुट् सस्य षत्वं च निपात्यते । गावः पद्यन्तेऽस्मिन्देशे स गोभिः सेवितो गोष्पदः । असेविते, अगोष्पदान्यरण्यानि । प्रमाणे, गोष्पदमात्रं क्षेत्रम् । सेवितेत्यादि किम् । गोः पदं गोपदम् ॥ Balamanorama ------------ **विष्किरः शकुनौ (विकरो) वा** - विष्किरः । विकिरतीति विकारः । 'कृ विक्षेपे'इगुपधज्ञे॑ति कः । शकुनौ गम्ये सुड्वा, 'परिनिविभ्यः' इति षत्वम् ।नगौकोवाजिविकिरविविष्करपतत्रयः॑ इत्यमरः । वावचनेनैवेति । वृत्तिग्रन्थेविष्किरः शकुनौ विकिरो वे॑ति सूत्रपाठः । तत्र वाग्रहणादेव सुड्विकल्पे सिद्धे विकिरग्रहणं विष्किरो विकिर इति शकुनावेवेति नियमार्थम् । अतः शकुनेरन्यत्र उभयोरपि शब्दयोः प्रयोगो नास्तीति लभ्यत इत्यर्थः । भाष्ये हिविष्किरः शकुनौ वे॑ति सूत्रं पठित्वा वाग्रहणेन सुड्विकल्पः, नतु शकुनेरन्यत्र विकिरशब्दस्य प्रयोगो नेति स्थितम्, अन्यत्रापिविकिपरं वैआदेविक॑मित्यत्र दर्शनादिति भावः । Tattvabodhini ------------- **विष्किरः शकुनौ (विकरो) वा** - विष्किरः ।कृ विक्षेपे॑इत्यस्मात्इगुपधे॑त्यादिना कप्रत्यये सुडागमोऽनेन निपात्यते । षत्वं तुपरिनिविभ्यः॑ इत्यनेन । विकिरग्रहणमिति ।विष्किरः शकुनौ विकिरो वा॑इति वृत्तिग्रन्थे पाठः, सूत्रपाठे तु विकिरग्रहणं नास्त्येवेति बोध्यम् । तस्यापीति । विकिरशब्दस्यापीत्यर्थः । Nyaas ----- `तस्य च षत्वम्` इति। अनादेशप्रत्ययसकारत्वात्? सुटः षत्वं न प्राप्नोतीत्यतस्तदपि निपात्यते। `गावः पद्यन्ते` इत्यादिना देशस्य सेवितत्वं दर्शयति। `असेविते` इत्यादि। ननु च गोष्पदशब्दः सूत्र उपात्तः, तत्? कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्यियते? इत्याह -`असेविते` इत्यादि। ननु च गोष्पदशब्दः सूत्र उपातः, तत्? कस्मादसेवितेऽगोष्पदादीनीत्याद्युदाह्यियते? इत्याह -`असेविते` इत्यादि। क्रियते चेदमसेवितग्रहणम्, न च तत्र गोष्पदशब्दः सम्भवति; तस्मादसेवितेऽगोष्पदार्थं निपातनं विज्ञायते। `यद्येवम्` इति। यद्यसेवितेऽगोष्पदार्थं निपातनमित्यर्थः। `नार्थ एतेन` इति। असेवितग्रहणेन। कथं तेन विना सिध्यति? इत्याह -`गोष्पदप्रतिषेधात्`त्यादि। `सत्यमेवैतत्` इति। गोष्पदपरतिषेधादित्यादि यदुक्तं तस्य सत्यतामाह, न तु `नार्थं एतेन` इत्यस्यार्थः। यदि तर्हि सत्यमेवैतत्` तत्? किमर्थं सेवितग्रहणमिह क्रियते? इत्याह -`यत्र तु` इत्यादि। नञ्समासेऽगोष्पद इत्येष तत्पुरुषः स्वभावादुत्तरपदर्थसदृशमर्थमाचष्टे` अब्राआहृणवत्। ततश्च न गोष्पदमगोष्पदमिति तत्पुरुषे कृते यत्र सेवितसय सेवनस्य प्रसङ्गोऽस्ति तत्रैवागोष्पदमित्येतत्? तथापि भवति` इति। अपिशब्दो न केवलं यत्र सेवतप्रसङ्गोऽस्ति तत्रैवागोष्पदमित्यमुमर्थं द्योतयति। कस्मात्? पुनरत्रासेवितग्रहणात्। तत्राऽपि भवतीत्यत आह -`यानि हि` इति। `एवम्` इति। असेवितग्रहणार्थकः प्रकारः प्रत्यवमृश्यते। असेवितग्रहणे हि सति मा भूत्? तस्य वैयथ्र्यमित बहुव्रीहिरयं भावसाधनेनासेवितशब्देन विज्ञास्यते। अविद्यमानं सेवितमस्मिन्निति बहुव्रीहिश्चात्यन्ताभावेऽपि भवतीति येषु गवामत्यन्तासम्भवस्तान्यरण्यान्यासेवितशब्देनोच्यन्ते। ततश्च तत्राप्यगोष्पदमिति भवति। `गोष्पदपूरम्` इति। **वर्षप्रमाण ऊलोपश्चास्यान्यतरस्याम्** (3.4.32) इति णमुल्। ननु च गोष्पदमिति षष्ठीसमासोऽयम्, तस्य च गोसम्बन्धि पदमर्थः, न तु प्रमाणम्, तत्? कथं गोष्पदमात्रं क्षेत्रमित्यादि उदाहरणं प्रमाणे युज्यतदे? इत्यत आह -`नात्र` इत्यादि। न ह्यत्र स्वार्थप्रतिपादनार्थमेव गोष्पदमित्युपादीयते। किं तर्हि? क्षेत्रादेरियत्तां परिच्छेत्तुम्। तस्मात्? क्षेत्रादेरियत्ता तेन परिच्छिद्यते= प्रमीयत इति भवति प्रमाणम्। न चात्र प्रमाणशब्देनायाम उच्यते, किं तर्हि? परिच्छेदमात्रम्। कुत एतत्? निपातनसामर्थ्यात्। निपातनं हि वस्त्वप्रसिद्धमप्युपादत्ते॥ Prakriyasarvasvam ----------------- एष्वर्थेषु गोष्पदमिति सुट् षत्वं च । गोभिः सेवितो गोष्पदो देशः । गवामत्यन्तासम्भावितमसेवितम् । तत्र नञ्योग इष्टः । अगोष्पदान्यरण्यानि । सेवितान्यत्वमात्रे तु सुडभावादगोपदम् । तत्राप्यगोष्पदं केचिद् वदन्तीति हरोऽब्रवीत् ॥ ३४ ॥ प्रमाणे—गोष्पदप्रमितं जलम् । एभ्योऽन्यत्र गोपदमेव ।