61140: किरतौ लवने ================= **Padacheda:** किरतौ | S | 7 | 1 | लवने | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The augment सुट् is placed before क , when the verb कृ comes after उप , and the sense is that of 'to cut or to split'. Vasu English Translation ------------------------ The augment सुट् is placed before क , when the verb कृ comes after उप , and the sense is that of 'to cut or to split'. Thus उपस्कारं मद्रका लुनन्ति, उपस्कारं काश्नीरका लुनन्ति = विक्षिप्य लुनन्ति ॥ Vart:- The above augment takes place when णमुल् is added to the verb उप-कृ, as shown in the above examples. When the meaning is not that of 'to cut', the form is उपकिरति ॥ Kashika ------- उपादित्येव। उपादुत्तरस्मिन् किरतौ धातौ लवनविषये सुट् कात् पूर्वो भवति। उपस्कारं मद्रका लुनन्ति। उपस्कारं काश्मीरका लुनन्ति। विक्षिप्य लुनन्तीत्यर्थः। णमुलत्र वक्तव्यः। लवन इति किम्? उपकिरति देवदत्तः॥ Siddhanta Kaumudi ----------------- उपात्किरतेः सुडागमः स्याच्छेदेऽर्थे । उपस्किरति ॥ (वार्तिकम्) ॥ उपास्किरत् । उपचस्कार ॥ Laghu Siddhanta Kaumudi ----------------------- उपात्किरतेः सुट् छेदने । उपस्किरति । **अडभ्यासव्यवायेऽपि सुट् कात् पूर्व इति वक्तव्यम्** (वार्त्तिकम्) । उपास्किरत् । उपचस्कार ॥ Balamanorama ------------ **किरतौ लवने** - किरतौ लवने । उपादिति । 'उपात्प्रतियत्ने' इत्यतस्तदनुवृत्तेरिति भावः । सुडागम इति । 'सुट कात्पूर्व' इत्यस्तदनुवृत्तेरिति भाव- । अडभ्यासव्यवायेऽपीति वार्तिकम् । 'सुट् कात्पूर्वः' इत्यनुवृत्तिलभ्यम् । Tattvabodhini ------------- **किरतौ लवने** - किरतौ लवने ।उपात्प्रतियत्ने॑ति सूतरादुपादिति वर्तते । लवने किम् । उपकिरति । Padamanjari ----------- किरतौ लवनविषय इति। अर्थद्वारकं किरतेर्लवनविषयत्वम्, लवनविषये विक्षेपे यः किरतिर्वर्तते तत्रेत्यर्थः। तदाह - विक्षिप्य लुनन्तीत्यर्थ इति। साक्षातु विषये किरतेर्लवनमेवार्थः स्यात्। णमुलत्र वक्तव्य इति। आभीक्षण्यादेर्णमुलर्थस्याभावात् ॥ हिसायां प्रतेश्च ॥ हिसायां विषय इति। न त्वभिधेयायाम्। विक्षेप एव त्वभिधेयः, तदेव दर्शयति - तथेति। उदाहरणे नपुंसके भावे क्तः, हंशब्द कोपे। परिनिविभ्य एव सुटः षत्वम्, न प्रतेः ॥ Nyaas ----- `लवनविषये` इत्यादि। अनेन लवनं किरतेर्नाभिधेयतया विशेषणम्, अपि तु तदर्थस्य विषयभावनेति दर्शयति। केन पुनरत्र णमुल्, यावता `आभीक्ष्ण्ये णमुल्? च` (3.4.22) इत्यादिना शास्त्रेण स आभीक्ष्ण्यादावप्यर्थे विधीयते। न चात्र सोऽर्तो विवक्षितः, नापि प्रतीयत इत्याह - `णमुलत्र` इत्यादि। `वक्तव्यः` इति। व्याख्येय इत्यर्थः। तत्रेव व्याख्यानम् - `कृत्यल्युटो बहुलम्? (3.3.113) इत्यतो बहुलवचनात्? भविष्यति॥