61138: समवाये च =============== **Padacheda:** समवाये | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The augment सुट् is placed before क even when सम् , परि , and उप are followed by the verb कृ and the sense being that of combining. Vasu English Translation ------------------------ The augment सुट् is placed before क even when सम् , परि , and उप are followed by the verb कृ and the sense being that of combining. The word समवाय means aggregation. Thus तत्र नः संष्कृतम् तत्र नः परिष्कृतम्, तत्र नः उपष्कृतम् = समुदितम् that is 'we assembled there'. Kashika ------- समवायः समुदायः, तस्मिंश्चार्थे करोतौ संपर्युपेभ्यः कात् पूर्वः सुडागमो भवति। तत्र नः संस्कृतम्। तत्र नः परिष्कृतम्। तत्र न उपस्कृतम्। समुदितमित्यर्थः॥ Siddhanta Kaumudi ----------------- संपरिपूर्वस्यकरोतेः सुट् स्याद्भूषणे संघाते चार्थे । संस्करोति । अलंकरोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । संपूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षाः (SK1217) इति ज्ञापकात् । परिनिविभ्यः (SK2275) इति षः । परिष्करोति ॥ सिवादीनां वा - ॥ पर्यष्कार्षीत् । पर्यस्कार्षीत् ॥ Laghu Siddhanta Kaumudi ----------------------- सम्परिपूर्वस्य करोतेः सुट् स्याद् भूषणे संघाते चार्थे । संस्करोति । अलङ्करोतीत्यर्थः । संस्कुर्वन्ति । सङ्घीभवन्तीत्यर्थः । सम्पूर्वस्य क्वचिदभूषणेऽपि सुट् । संस्कृतं भक्षा इति ज्ञापकात् ॥ Balamanorama ------------ **समवाये च** - समवाये च । कोरतेः सुट् स्यादिति । 'सुट् कात्पूर्वः' इत्यतो,नित्यं करोते॑रित्यतश्च तदनुवृत्तेरिति भावः । Padamanjari ----------- उदाहरणेषु भावे निष्ठा। एवं समुदितमित्यत्रापि ॥ Nyaas ----- `समवायः समुदायः` इति। समवपूर्वादिमो भावे `एरच्` (3.3.56) इत्यच्। समवाय इति सङ्घात्? इत्यर्थः। `समुदित इत्यर्थः` इति। भावे निष्ठा॥ Prakriyasarvasvam ----------------- सम्पर्युपेभ्यः कृञि परे सङ्घेडर्थे सुट् स्यात् । सर्वं प्राग्वत् । सँस्कुर्वन्ति । संस्कुर्वन्ति । परिष्कुर्वन्ति । उपस्कुर्वन्ति सङ्घातीभवन्तीत्यर्थः ।