61135: सुट् कात् पूर्वः ======================= **Padacheda:** सुट् | S | 1 | 1 | कात् | S | 5 | 1 | पूर्वः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- Up to (6.1.157) inclusive, the following sentence is to be supplied in every aphorism - 'before क is added स्'. Vasu English Translation ------------------------ Up to (6.1.157) inclusive, the following sentence is to be supplied in every aphorism - 'before क is added स्'. This is an *adhikara* *sutra* and extends upto (6.1.157). Whatever we shall teach hereafter, in all those, the phrase 'the augment सुट् is placed before the letter क्' should be supplied to complete the sense. Thus (6.1.137) teaches "After सम्, परि and उप when followed by the verb कृ, the sense being that of adorning". Here the above phrase should be read into the *sutra* to complete the sense, i. e. "the augment स् is added before the क् of कृ when it is preceded by सम्, परि and उप, and the sense is that of adorning". Thus सम् + स् + कृ + तृ = संस्कर्ता, संस्कर्तुम्, संस्कर्तव्यम् ॥ In the succeeding aphorisms it will be seen that the augment सुट् comes only before those roots which begin with क ॥ What is then the necessity of using the phrase कात्पूर्वः in this *sutra*? It is used to indicate that the स् remains unattached to क्, though it stands before it. Thus though कृ becomes स्कृ, yet the latter should not be considered to be a verb beginning with a conjunct (*sanyoga*) consonant:and therefore the *guna* taught in (7.4.10) (the root ending in ऋ and preceded by a conjunct letter, takes *guna* before लिट्) does not apply, nor do the rules like (7.4.29), nor the rules ordaining the addition of intermediate इट् (7.2.43) by which the इट् would come in लिङ् and सिच् (Imperfect and Aorist); as, संस्कृषीष्ट and समस्कृत; and so also (7.4.29), does not apply as संस्क्रियते the Passive Imperfect (यकि लिङि) of संस्कृ ॥ If so, then the *anudatta* accent taught in (8.1.28) would not take place, since the augment सुट् would intervene between the non-तिङ्-word सं and the तिङन्त word करोति, thus संस्करोति would have accent on the verb. It is a maxim स्वरविधौ व्यञ्जनमविद्यमानवत् 'in applying a rule relating to accent the intervening consonants are considered as if non-existent'; and therefore सुट् does not offer any intervention to the application of the rule (8.1.28). If स् is not to be taken as attached to क, how do you explain the *guna* in the Perfect 3rd Person Dual and Plural in संचस्करतुः and संचस्करुः which apparently is done by applying (7.4.10). Though that rule strictly applies to roots beginning with a conjunct consonant, it will apply also to roots like संस्कृ which have a conjunct consonant for their penultimate; and the *guna* is done also on the maxim तन्मध्यपतितस्तद् ग्रहणेन गृह्यते (See (6.1.132)). The indicatory ट् in सुट् is for the purpose of differentiating it from सु in the *Sutra* (8.3.70). Bhashya ------- सुट् कात्पूर्वः (2572) (सुटोऽधिकरणम्) (कात्पूर्वप्रयोजनभाष्यम्) कात्पूर्वग्रहणं किमर्थम् ? कात्पूर्वो यथा स्यात् - संस्कर्ता, संस्कर्तुम् । नैतदस्ति प्रयोजनम् । सुडिति आदिलिङ्गोऽयं क्रियते, करोतिश्च ककारादिः, तत्रान्तरेण कात्पूर्वग्रहणं कात्पूर्व एव भविष्यति । अत उत्तरं पठति - सुटि कात्पूर्वग्रहणमककारादौ कात्पूर्वार्थम् । सुटि कात्पूर्ववचनं क्रियते, अककारादौ करोतौ कात्पूर्वो यथा स्यात् । संचस्करतुः, संचस्करुः ॥ (6239 कात्पूर्वप्रयोजनाक्षेपवार्तिकम् ॥ 1 ॥) - सुटि कात्पूर्ववचनमककारादौ कात्पूर्वार्थमिति चेदन्तरेणापि तत्सिद्धम् - सुटि कात्पूर्ववचनमककारादौ कात्पूर्वार्थमिति चेदन्तरेणापि कात्पूर्वग्रहणं सिद्धम् । कथम् ? द्विर्वचनात्सुडि्वप्रतिषेधेन । द्विर्वचनं क्रियतां सुडिति, सुड् भविष्यति विप्रतिषेधेन । तत्र द्विर्वचनं भवतीत्यस्यावकाशः - बिभिदतुः, बिभिदुः । सुटोऽवकाशः - संस्कर्ता, संस्कर्तुम् । इहोभयं प्राप्नोति - संचस्करतुः, संचस्करुरिति । सुट् भवति विप्रतिषेधेन ॥ (6240 एकदेशिनो विप्रतिषेधस्वीकारे दोषवार्तिकम् ॥ 2 ॥) - द्विर्वचनात्सुडि्वप्रतिषेधेनेति चेत् द्विर्भूते शब्दान्तरभावात्पुनः प्रसङ्गः - द्विर्वचनात्सुडि्वप्रतिषेधेनेति चेदि्द्वर्भूते शब्दान्तरस्याकृतः सुडिति पुनः सुट् स्यात् ॥ (6241 शब्दान्तरत्वे दोषवार्तिकम् ॥ 3 ॥) - द्विर्भूते शब्दान्तरभावात्पुनः प्रसङ्ग इति चेत् द्विर्वचनम् - सुटि कृते शब्दान्तरस्याकृतं द्विर्वचनमिति पुनर्व्दिर्वचनं प्राप्नोति ॥ (6242 विप्रतिषेधस्वीकारेऽनवस्थाख्यापकवार्तिकम् ॥ 4 ॥) - तथा चानवस्था - पुनः सुट् पुनद्विर्वचनमिति चक्रकमव्यवस्था प्रसज्येत ॥ (चक्रकदोषनिवारकभाष्यम्) नास्ति चक्रकप्रसङ्गः । न ह्यव्यवस्थाकारिणा शास्त्रेण भवितव्यम् । शास्त्रतो हि नाम व्यवस्था । तत्र सुटि कृते द्विर्वचनम्, द्विर्वचनेनावस्थानं भविष्यति ॥ (6243 उपसंख्यानवार्तिकम् ॥ 5 ॥) - अड्व्यवाय उपसंख्यानम् - अड्व्यवाये उपसंख्यानं कर्तव्यम् । समस्करोत्, समस्कार्षीत् ॥ (6244 उपसंख्यानवार्तिकम् ॥ 6 ॥) - अभ्यासव्यवाये च - अभ्यासव्यवाये चोपसंख्यानं कर्तव्यम् । संचस्करतुः, संचस्करुः ॥ (उपसंख्यानाक्षेपभाष्यम्) किमुच्यते अभ्यासव्यवाय इति, यदिदानीमेवोक्तम् - द्विर्वचनात्सुडि्वप्रतिषेधेनेति ॥ (6245 विप्रतिषेधाक्षेपवार्तिकम् ॥ 7 ॥) - अविप्रतिषेधो वा बहिरङ्गलक्षणत्वात् सुटः - अविप्रतिषेधो वा पुनः सुटः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गलक्षणः सुट्, अन्तरङ्गं द्विर्वचनम् । असिद्धं बहिरङ्गमन्तरङ्गे ॥ (कात्पूर्वप्रयोजनभाष्यम्) एवमर्थमेव तर्हि कात्पूर्वग्रहणं कर्तव्यम् - कात्पूर्वो यथा स्यात् ॥ (कात्पूर्वग्रहणेऽप्याक्षेपभाष्यम्) क्रियमाणेऽपि वै कात्पूर्वग्रहणेऽत्र न सिध्यति । किं कारणम् ? न ह्ययं कात्पूर्वग्रहणेन शक्यो मध्ये प्रवेशयितुम् । किं कारणम् ? आदिलिङ्गोऽयं क्रियते, करोतिश्च ककारादिः, दृष्टश्च पुनरातिदेशिकः करोतिरककारादिः ॥ (दोषस्थलदर्शकभाष्यम्) पाक्षिक एष दोषः । कतरस्मिन् पक्षे ? सुडि्वधौ द्वैतं भवति - अविशेषेण वा विहितस्य सुटः कात्पूर्वग्रहणं ककारादिदेशप्रकॢप्त्यर्थं स्यात्, विशेषेण वा विधिरिति । द्विर्वचनविधौ चापि द्वैतं भवति - स्थाने वा द्विर्वचनं स्यात्, द्विः प्रयोगो वा द्विर्वचनमिति । तद्यदा द्विः प्रयोगो द्विर्वचनम्, अविशेषेण विहितस्य च सुटः कात्पूर्वग्रहणं देशप्रकॢप्त्यर्थं तदैष दोषः । यदा हि स्थाने द्विर्वचनं तदा यद्येवाविशेषेण विहितस्य सुटः कात्पूर्वग्रहणं देशप्रकॢप्त्यर्थम् - अथापि विशेषविधिः, न तदा दोषो भवति ॥ (आक्षेपनिरासभाष्यम्) द्विः प्रयोगे चापि द्विर्वचने न दोषः । संपरिभ्यामिति नैषा पञ्चमी । का तर्हि ? तृतीया । संपरिभ्यामुपसृष्टस्येति । व्यवहितश्चाप्युपसृष्टो भवति ॥ (6246 उपसंख्यानवार्तिकम् ॥ 8 ॥) - उपदेशिवद्वचनं च - उपदेशिवद्भावश्च वक्तव्यः । किं प्रयोजनम् ? (6247 उपसंख्यानप्रयोजनवार्तिकम् ॥ 9 ॥) - लिटिगुणचङिदीर्घप्रतिषेधार्थम् - लिटि गुणार्थं चङि दीर्घप्रतिषेधार्थम् । लिटिगुणार्थं तावत् - संचस्करतुः, संचस्करुः । चङि दीर्घप्रतिषेधार्थं च - समचिस्करत् ॥ (उपसंख्यानप्रयोजनान्यथासिद्धिसाधकभाष्यम्) लिटि गुणार्थेन तावन्नार्थः । वक्ष्यत्येतत् - संयोगादेर्गुणविधाने संयोगोपधग्रहणं कृञ्ञर्थम् इति ॥ चङि दीर्घप्रतिषेधार्थेनापि नार्थः । पदमितीयं भगवतः कृत्रिमा संज्ञा । युक्तमिह द्रष्टव्यम् - किमन्तरङ्गं किं बहिरङ्गमिति । धातूपसर्गयोः कार्यं यत्तदन्तरङ्गम् । कुत एतत् ? पूर्वं हि धातुरुपसर्गेण युज्यते, पश्चात्साधनेनेति । नैतत्सारम् । पूर्वं धातुः साधनेन युज्यते, पश्चादुपसर्गेण । साधनं हि क्रियां निर्वर्तयति, तामुपसर्गो विशिनष्टि । अभिनिर्वृत्तस्य चार्थस्योपसर्गेण विशेषः शक्यो वक्तुम् । सत्यमेवमेतत् । यस्त्वसौ धातूपसर्गयोरभिसंबन्धस्तमभ्यन्तरं कृत्वा धातुः साधनेन युज्यते । अवश्यं चैतदेवं विज्ञेयम्, यो हि मन्यते पूर्वं धातुः साधनेन युज्यते पश्चादुपसर्गेणेति तस्य आस्यते गुरुणा इत्यकर्मकः उपास्यते गुरुः इति केन सकर्मकः स्यात् । एवं च कृत्वा सुट् सर्वतोऽन्तरङ्गतरको भवति । कात्पूर्वग्रहणं चापि शक्यमकर्तुम् ॥ (वार्तिकावतरणभाष्यम्) यदि पुनरयं सुट् कात्पूर्वान्तः क्रियते । (6248 पूर्वान्तत्वाक्षेपवार्तिकम् ॥ 10 ॥) - कात्पूर्वान्त इति चेद्रुविधिप्रतिषेधः - कात्पूर्वान्त इति चेत् रुः कश्चिद्विधेयः, कश्चित्प्रतिषेध्यः । संस्कर्ता । समो विधेयः, सुटः प्रतिषेध्यः ॥ (समाधानभाष्यम्) समस्तावन्न विधेयः । वक्ष्यत्येतत् - संपुंकानां सत्वम् रुत्वविधौ ह्यनिष्टप्रसङ्गः इति ॥ सुटश्चापि न प्रतिषेध्यः । समः सुटि (8.3.5) इति द्विसकारको निर्देशः । सुटि सकारादाविति ॥ (वार्तिकावतरणभाष्यम्) अथवा परादिः करिष्यते । (6249 परादित्वाक्षेपवार्तिकम् ॥ 11 ॥) - परादाविड्गुणप्रसङ्गः - यदि परादिः, इड्गुणौ प्राप्नुतः । संस्कृषीष्ट, ऋतश्च संयोगादेः (7.2.43) इतीट् प्राप्नोति । संस्क्रियते, गुणोर्तिसंयोगाद्योः (7.4.29) इति गुणः प्राप्नोति ॥ (वार्तिकावतरणभाष्यम्) एवं तर्ह्यभक्तः करिष्यते । (6250 अभक्तत्वाक्षेपवार्तिकम् ॥ 12 ॥) - अभक्ते स्वरे दोषः - यद्यभक्तः स्वरो न सिध्यति । संस्करोति, तिङ्ङतिङः (8.1.28) इति निघातो न प्राप्नोति । ननु चात्र सुडेवातिङ् । न सुटः परस्य निघातेन भवितव्यम् । किं कारणम् ? नञ्ञिवयुक्तमन्यसदृशाधिकरणे तथा ह्यर्थगतिः । नञ्ञ्युक्तमिव युक्तं चान्यस्मिन् सदृशे कार्यं विज्ञायते, तथा ह्यर्थो गम्यते । तद्यथा - अब्राह्मणमानयेत्युक्ते ब्राह्मणसदृशं क्षत्रियमानयति, नासौ लोष्टमानीय कृती भवति । एवमिहापि अतिङ् इति प्रतिषेधादन्यस्मादतिङस्तिङ्सदृशात्कार्यं विज्ञास्यते । किं चान्यदतिङ् तिङसदृशम् ? पदम् ॥ Kashika ------- अधिकारोऽयम्, **पारस्करप्रभृतीनि च संज्ञायाम्** (६.१.१५७) इति यावत्। इत उत्तरं यद् वक्ष्यामस्तत्र सुडिति कात् पूर्व इति चैतदधिकृतं वेदितव्यम्। वक्ष्यति — **संपर्युपेभ्यः करोतौ भूषणे** (६.१.१३७)। संस्कर्ता। संस्कर्तुम्। संस्क र्तव्यम्। कात् पूर्वग्रहणं सुटोऽभक्त त्वज्ञापनार्थम्। तथाहि संस्कृषीष्ट संस्क्रियत इति संयोगादिलक्षणाविड्गुणौ न भवतः। **तिङ्ङतिङः** (८.१.२८) इति निघातोऽपि तर्हि न प्राप्नोति, सुटा व्यवहितत्वात् ? **स्वरविधौ व्यञ्जनमविद्यमानवद्॰** इति वचनाद् नास्ति व्यवधानम्। संचस्करतुः, संचस्करुरिति गुणः कथम् ? **तन्मध्यपतितस्तद्ग्रहणेन गृह्यते** इति। संयोगोपधग्रहणं च **ऋतश्च संयोगादेर्गुणः** (७.४.१०) इत्यत्र कर्तव्यम्। टित्करणं सुट्स्तुस्वञ्जाम् (८.३.७०) इत्यत्र विशेषणार्थम्॥ Siddhanta Kaumudi ----------------- अडभ्यासव्यवायेऽपीत्युक्तम् । संचस्कार । कात्पूर्व इत्यादि भाष्ये प्रत्याख्यातम् । तथाहि । पूर्वं धातुरूपसर्गेण युज्यते । अन्तरङ्गत्वात्सुट् । ततो द्वित्वम् । एवं च ऋतश्च संयोगादेर्गुणः (SK2389) संचस्करतुः । कृसृभृ - (SK2293) इति सूत्रे ऋतो भारद्वाजस्य (SK2296) इति सूत्रे च । (वार्तिकम्) ॥ तेन ससुट्कात्परस्येट् । संचस्करिथ । संचस्करिव । गुणोर्ति - (SK2380) इति सूत्रे नित्यं छन्दसि (SK3587) इति सूत्रान्नित्यमत्यनुवर्तते । नित्यं यः संयोगादिस्तस्येत्यर्थात्सुटि गुणो न । संस्क्रियात् । ऋतश्च संयोगादेः - (SK2526) इति लिङ्सिचोर्नेट् । एकाच उपदेशे (SK2276) इति सूत्रादुपदेश इत्यनुवर्त्य उपदेशे यः संयोगादिरिति व्याख्यानात् । संस्कृषीष्ट । समस्कृत । समस्कृषाताम् ॥ Padamanjari ----------- संस्कर्तति। संम्पुंकानां सो वक्तव्यःऽ इति वचनात्'समस्सुटि' इति द्विसकारकत्वाद्वा निर्देशस्य समो मकारसक्य सकारः, ठत्रानुनासिकः पूर्वस्य तु वाऽ इति पूर्वस्यानुनासिकः। इह'सम्पर्युपेभ्यः करोतौ भूषणे' ,'किरतौ लवने' इत्यादौ ककारादावागमिनि टित्वादेव सुट् कात्पूर्वो लभ्यते।'ह्रस्वाच्चन्द्रोतरपदे' इत्यादौ कात्पूर्वत्वसम्भवादनुपयोग एवेत्यनर्थकं कात्पूर्वग्रहण्। स्यादेतत् - संचस्कारेत्यादावभ्यासे सञ्जाते साभ्यासस्य करोतित्वाच्चात्पूर्वः सुट स्यात्, मा भूच्चात्पूर्वः, कात्पव एव यथा स्यादित्येवमर्थं कात्पूर्वग्रहणमिति ? तन्न; अत्र हि लिटि द्विर्वचनं च प्राप्नोति, सुट् च; तत्र द्विर्वचनमकृते सुटि कृशब्दस्य प्राप्नोति, कृते तु स्कृशब्दस्य। सुडपि कृते द्विर्वचने चकृशब्दस्य प्राप्नोति, अकृते तु कृशब्दस्येत्युभयोरनित्ययोः परत्वात् सुटि कृते तस्य धातुग्रहणेन ग्रहणात् सहैव तेन द्विर्वचने'सर्पूर्वाः खयः' इति खयः शेषे संचस्कारेति सिद्धम्। न च साभ्यासस्याकृतः सुकडिति पुनः सुट्प्रसङ्गः; अस्मिन्नेव प्रयोगे लक्षणस्य प्रवृतत्वात् । ननु'पूर्वं धातुः साधनेन युज्यते' इति दर्शने पूर्वं साधनवाचिनि लकारे तदाश्रये च द्विर्वचने एकपदाश्रयत्वादन्तरङ्गे कृते पदद्वयाश्रयत्वाद्बहिरङ्गः सुट् पश्चाद्भावन् चात्पूर्वः स्यात्, समस्कारोदित्यादौ चान्तरङ्गत्वात् परत्वाच्चाटि कृते तेन व्यवधानान्नैव सुट् स्यात्, विकरणान्ताङ्गभक्तो ह्यडागमस्तमेव न व्यवदध्यात्, करोतिं तु व्यवदधात्येव; इह च समस्कृत, संस्कृथा इति यत्र करोतिरेवारङ्गं तत्राटः कृग्रहणेन ग्रहणादट एव पूर्वः सुट् स्यात्, अतोऽडभ्यासयोरपि कृतयोः कात् पूर्वः सुड।ल्था स्यादिति कर्तव्यं कात्पूर्वग्रहणम्? न कर्तव्यम्; ठडभ्यासव्यवायेऽपिऽ त्येतिस्मादेव निर्देशादेतत्सिद्धम्। न च तत्र करिष्यामीति कात्पूर्वग्रहणम्, कृतेऽप्यस्मिन्नसिद्धेः। तथा हि-क्रियमाणमप्येतत्कालावधारणार्थं वा स्यात् - करोतेस्तस्यामवस्थायां सुड् भवति यस्यामवस्थायां भवन् कात्पूर्वो भवतीति। करोत्यवधारणारथं वा - तस्य करोतेः सुड् भवति यस्य भवन् कात्पूर्वो भवतीति। तत्र पूर्वस्मिन्पक्षे यद्यप्यन्तरङ्गे अप्यडद्विर्वचने बाधित्वा कात्पूर्वग्रहणसामर्थ्यात् पूर्वं सुड् भवति, पश्चातयोः कृतयोरिष्ट्ंअ सिद्ध्यति। द्वितीये तु प्रत्युताभ्यासवतोर्निर्वृत्यर्थमेव कात्पूर्वग्रहणं स्यात्, न हि तद्वतोर्भवन् कात्पूर्वः कृतः स्यात्। स्यादेतत् - न करोत्यवधारणार्थं कात्पूर्वग्रहणम्, किं तहि ? अपकृष्य विधिः, करोतेः सर्वत्र सुड भवति, स तु प्रदेशान्तरे प्राप्तः कात्पूर्वः कर्तव्य इति ? एवमपि समस्कृत, समस्कृथा इति सिद्ध्यति, अटऋः प्राक्प्राप्नुवन् कात्पूर्वो नीयत इति, समास्करोदित्यादौ त्वसिद्धिरेव, कथम् ? प्रदेसान्तरे प्राप्तस्य विधिरपकृष्य भवति,न चात्र सुट् प्राप्तोऽचा व्यवदानादिति कथमपकृष्य विधिर्भवेत्। कथं च संचस्कारेत्यादावपि द्धिःप्रयोगे द्विर्वचने उच्चारणभेदाच्छब्दभेद इति द्वौ करोती, तत्र यः समोऽनन्तरो न तस्य ककारः, यस्य च ककारो नासौ समोऽनन्तरः - इति अप्राप्तत्वान् न कात्पूर्वं विधीयेत ? स्थाने द्विर्वचने च स्थानिवद्भावादेक एव करोतिः, स चाव्यवहित इति कातु पूर्वः प्राप्तः कात् पूर्वः कृत इति न कश्चिद्दोषः। तदेवं धातुः पूर्वं साधनेन युज्यते, ततश्च क्रियमाणेऽपि कात्पूर्वग्रहणे नैवेष्ट्ंअ सिध्यतीति ठड्भ्यासव्यवायेऽपिऽ इत्येतदेव कर्तव्यम्। कात्पूर्वग्रहणं तु शक्यमकर्तुमति वातिंककारस्य पक्षः। यदि तु'सम्पर्युपैः करोतौ' इति तृतीयानिर्द्दशेन समादिभिरुपसृष्टस्य सुड्विधीयते, तदा व्यवहितस्याप्युपसृष्टत्वात्कात्पूर्वग्रहणेनाप्ययमर्थः शक्यते सम्पादयितम्। कथम्? समस्करोदित्यादौ तावदन्तरेणापि कात्पूर्वग्रहणमटो न भविष्यति; तस्य करोतिं प्रत्यनवयवत्वात्। करोतेस्तु भविष्यति; व्यवहितस्याप्युपसृष्टत्वात्। समस्कृतेत्यादौ त्वटः पूर्व प्रापर्तः कात्पूर्वं चेष्यते। संचस्कारेत्यादौ च स्थाने द्विर्वचने कात्पूर्वं चेष्यते। संचस्कारेत्यादौ च स्थाने द्विर्वचने कात्पूर्वं प्राप्तः कात्पूर्वं करिष्यते। द्विःप्रयोगे तु द्वयोरपि करोत्योः प्राप्तः पूर्वस्मादेव करिष्यते, न हि तस्य कृतः कात्पूर्वः कृतः स्यादिति सिद्धमिष्टम्ग। भाष्यकारस्तु मेने - उभयं न कर्तव्यम्। पूर्वं धातुरुपसर्गेण युज्यते, ततश्चानु त्पन्न एव प्रत्यये संकृ इति स्थिते सुटि कृते लकारः, ततस्तन्निबन्धनावडभ्यासौ ससुट्कस्यैव भविष्यतः। ननु च लब्धस्वरूपा क्रिया विशेषणमाकाङ्क्षति, तल्लाभश्च साधनान्तर इति पूर्वं धातुः साधनेन युज्यते, लब्ध्वस्वरुपेति, कोऽरथ ? किं प्रतिपन्नस्वरूपा, उत निष्पन्नस्वरूपा? निष्पतिस्तावद्विशेषणसम्बन्धेनोपयुज्यते, प्रतिपतिस्तु विशेषणसम्बन्धात्प्रागपि क्रियायाः सम्भवति। विशिष्टा च क्रिया साधनेन युज्यते, तता हि - तिष्ठतीति गतिनिवृतेः साधनसम्बन्धः प्रतीयते, प्रतिष्ठत इति गतेः, गच्छतीति गमनस्य, आगच्छतीत्यागमनस्य, करोतीति व्यापारमात्रस्य, संस्करोतीति भूषणस्य। विशिष्टा च क्रियोपसर्गसम्बन्धे सत्येव प्रतीयत इति द्योतकत्वेन वाचकत्वेन वा पूर्वमुपर्स्गसम्बन्धोऽपेक्षणीयः। अवश्यं चैतदेवं विज्ञेयम्; अन्यथा भवतेरकर्मत्वाद्भावे लकार उत्पन्ने पश्चादनुशब्देन सम्बन्दे अनुभूयते कम्बलो देवदतेनेति कथं कर्मणि लकारःस्यात्? अतः'पूर्वं धातुरूपसर्गेण युज्यते' इत्येतदेव सम्प्रतिपन्नम्। एवं च पूर्वोक्तन्यासेन सिद्धमिष्टमिति नार्थः कात्पूर्वग्रहणेन, नापि ठडभ्यासव्यवायेऽपिऽ इत्यनेन। यदि पूर्वं धातुरुपसर्गेण युज्यते; अध्येता, प्रत्येता, प्रत्यायक इत्यादौ पूर्वं धातूपसर्गयोरेकादेशे तस्य धातुं प्रत्यादिवत्वातत एव प्रत्ययोत्पतावनिष्ट्ंअ प्राप्नोति ? नैष दोषः,'नेन्द्रस्य परस्य' इत्यत्र ज्ञापितमेतत् - पूर्वोतरपदयोस्तावत्कार्यं भवति, पश्चात् स्वरसन्धिरति। प्रत्यय इति वा निर्देशोऽस्यार्थस्य ज्ञापकः। वृत्तिकारस्तु - उभयं वक्तव्यमिति मन्यमानः कात्पूर्वग्रहणस्य तावत्प्रयोजनमाह - कात्पूर्वग्रहणमित्यादि। किं पुनरभक्तत्वे प्रयोजनम् ? अत आह - तथा हीति। संस्कृषीष्टेति। आशिषि लिङ्, आत्मनेपदम्, ठुश्चऽ इति कित्वम्, सुट्,तयोः कात्पूर्वः सुट्, तस्य करोतिभक्तत्वात् करोतिग्रहणेण ग्रहणात् कृञः संयोगादिता ज्ञायेतेति ठृतश्च संयोगादेःऽ इतीट् प्रसज्येत। संस्क्रियत इति। कर्मणि लट् रिङ् शयग्लिङ्क्षुऽ। अत्रापि भक्तत्वे सुटः कृञः संयोगादित्वात्'गुणो' र्तिसंयोगाद्योःऽ इति गुणः स्यात्, अतस्यौ मा भूतामिति अभक्तः सुडेषितव्य इति भावः। निघातोऽपि तर्हि न प्राप्नोति? समः पदस्य सुटा व्यवहितत्वात्, सुटश्चापदत्वात्। गुणः कथमिति। सुटोऽभक्तत्वेनाङ्गस्य संयोगादित्वाभावात्प्रशनः।'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इति स्थानेद्विर्वचनपक्षे द्विःप्रयोगे च समुदायस्यैवाङ्गसंज्ञेत्युक्त्, ततश्च तदङ्गमध्यपतितः तदङ्गग्रहणेन गृह्यते। नन्वेवमपि असंयोगादित्वं तदवस्थम् ? अत आह - संयोगोपधग्रहणं चेति। अन्त्यादचः पूर्वस्य वर्णस्योपधासंज्ञाविधानात्'तन्मध्यपतितस्तद्ग्रहणेन गृह्यते' इत्येतदुक्तं भवति, यदि न सम्भक्तः सुट् टित्करणं किमर्थम् ? इत्यत आह - टित्करणममिति।'सुटस्तुस्वञ्जाम्' इत्युच्यमाने सुरेत्यादौ यः सुशब्दौ यश्चोपसर्गस्तस्यापि ग्रहणं स्यात्, ततश्च सुरां परिचष्टे परिसुरयतीत्यादावपि प्राप्नोति ॥