61125: प्लुतप्रगृह्या अचि नित्यम् ================================= **Padacheda:** प्लुत-प्रगृह्याः | S | 1 | 3 | अचि | S | 7 | 1 | नित्यम् | S | 1 | 1 | Sutrartha --------- **प्लुतवर्णेभ्यः प्रगृह्यसंज्ञकशब्देभ्यः अनन्तरम् संहितायाम् स्वरः विद्यते चेद् अपि तत्र सन्धिः न भवति ।** प्लुतसंज्ञकवर्णाः, प्रगृह्यसंज्ञकशब्दाः च तेभ्यः अनन्तरम् विद्यमानैः अच्-वर्णैः सह सन्धिकार्यम् न कुर्वन्ति, प्रकृत्या (मूलस्वरूपे) एव तिष्ठन्ति इति प्रकृतसूत्रस्य अर्थः । क्रमेण उदाहरणे एते - 1. प्लुतवर्णानाम् अचि प्रकृतिभावः — **ऊकालोऽज्झ्रस्वदीर्घप्लुतः** (1.2.27) इत्यनेन स्वराणाम् ह्रस्व-दीर्घ-प्लुतादयः भेदाः कृताः सन्ति । त्रिमात्रिकः स्वरः प्लुतसंज्ञकः भवति इति अस्य सूत्रस्य आशयः । शब्देषु मूलरूपेण प्लुतस्वरः कुत्रापि न दृश्यते, परन्तु **वाक्यस्य टेः प्लुतः उदात्तः** (8.2.82) इत्यस्मिन् अधिकारे विद्यमानैः 27-सूत्रैः भिन्नेषु सन्दर्भेषु स्वराणाम् प्लुतसंज्ञा दीयते । एतैः सूत्रैः सिद्धः प्लुतः स्वरः तस्मात् अग्रे विद्यमानेन अच्-वर्णेन सह सन्धिकार्यम् न करोति इति प्रकृतसूत्रस्य आशयः । यथा, "एहि कृष्ण3, अत्र गौश्चरति" अस्मिन् वाक्ये कृष्ण-शब्दस्य अन्तिम-अकारस्य **दूराद्धूते च** (8.2.84) इत्यनेन प्लुतसंज्ञायाम् कृतायाम् तस्य "अत्र"-शब्दस्य अकारेण सह संहितायाम् सवर्णदीर्घः न भवति । 2. प्रगृह्यशब्दानाम् अचि प्रकृतिभावः — **ईदूदेद् द्विवचनम् प्रगृह्यम्** (1.1.11) इत्यस्मात् सूत्रात् **ईदूतौ च सप्तम्यर्थे** (1.1.19) एतेषु नव सूत्रेषु प्रगृह्यसंज्ञा पाठिता अस्ति । एतैः सूत्रैः सिद्धः प्रगृह्यसंज्ञकः वर्णः / शब्दः तस्मात् अग्रे विद्यमानेन अच्-वर्णेन सह सन्धिकार्यम् न करोति इति प्रकृतसूत्रस्य आशयः । यथा, "मुनी एतौ" इत्यत्र "मुनी"-शब्दस्य **ईदूदेद् द्विवचनम् प्रगृह्यम्** (1.1.11) इति सूत्रेण प्रगृह्यसंज्ञायाम् कृतायाम् तस्य "एतौ"-शब्दे परे संहितायाम् यणादेशः न भवति । **बाध्यबाधकभावः** प्रकृतसूत्रम् सर्वेषाम् अपि अच्-सन्धि-विधायकसूत्राणाम् बाधकरूपेण प्रवर्तते । इत्युक्ते, प्लुतस्वरात् प्रगृह्यस्वरात् च संहितायाम् अच्-वर्णः विद्यते चेत् कोऽपि अच्-सन्धिः कदाऽपि नैव सम्भवति । अपि च, प्रकृतसूत्रे 'नित्यम्' इति ग्रहणसामर्थ्यात् इदं सूत्रम् **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (6.1.127) इति सूत्रस्य बाधकरूपेण प्रवर्तते । इत्युक्ते, यत्र **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (6.1.127) तथा च **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इति द्वयोः अपि सूत्रयोः प्रसक्तिः अस्ति, तत्र **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (6.1.127) इत्यनेन विकल्पेन प्रकृतिभावे उक्ते, तद्बाधित्वा प्रकृतसूत्रेण नित्यम् एव प्रकृतिभावः विधीयते । अतएव, "मुनी इतौ" इत्यत्र यद्यपि **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** इत्यस्य प्राप्तिः अस्ति, तथापि तद्बाधित्वा "मुनी"-शब्दस्य प्रगृह्यसंज्ञां दृष्ट्वा **प्लुतप्रगृह्याः अचि नित्यम्** (6.1.125) इत्येव सूत्रम् प्रवर्तते, येन अत्र नित्यम् प्रकृतिभावः भवति । **पूर्वम् विद्यमानस्य अच्-वर्णस्य विषये प्रकृतिभावः न भवति** प्रकृतसूत्रे 'अचि' इति सप्तम्यन्तपदेन परनिमित्तस्यैव निर्देशः भवति । इत्युक्ते, यत्र सन्धिकार्ये प्लुतसंज्ञकात् / प्रगृह्यसंज्ञकात् वा **अनन्तरम्** अच्-वर्णः विद्यते, तत्रैव अनेन सूत्रेण प्रकृतिभावः भवति । यदि प्लुतसंज्ञकात् / प्रगृह्यसंज्ञकात् पूर्वम् अच्-वर्णः अस्ति, तर्हि तत्र सन्धिकार्यम् अवश्यम् भवति । यथा — .. code-block:: text जानु उ अत्र ['उ' इति अव्ययस्य **निपात एकाजनाङ्** (1.1.14) इत्यनेन प्रगृह्यसंज्ञा ] → जानू अत्र [जानु-शब्दस्य उकारस्य 'उ' इति प्रगृह्यसंज्ञकेन सह **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घैकादेशः भवति । अत्र प्रगृह्यसंज्ञकस्य पूर्ववर्णेन सह सन्धिः कृता अस्ति अतः **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इति सूत्रम् अत्र न प्रवर्तते ।] → जानू अत्र, जान्वत्र [दीर्घ-ऊकारः आदिवद्भावेन प्रगृह्यसंज्ञां प्राप्नोति, अतः अकारे परे **इको यणचि** (6.1.77) इत्यनेन तस्य यणादेशे प्राप्ते **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्रकृतिभावः अवश्यम् भवति । परन्तु **मय उञो वो वा** (8.3.33) इति सूत्रेण 'उ' इति निपातस्य अचि परे विकल्पेन वकारादेशः अपि भवति । इदम् सूत्रम् 'उ' इति निपातविशिष्टम् अस्ति, अतः **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन अस्य बाधः न भवति । अतः उकारस्य पाक्षिके वकारादेशे कृते 'जान्वत्र' इत्यपि रूपं सिद्ध्यति ।] Sutrartha (English) ------------------- प्लुत letters and प्रगृह्य words do not undergo a सन्धि when followed by an अच्-letter, even when there is संहिता. Vasu English Summary -------------------- The प्लुत ((8.2.82) etc.) and प्रगृह्य ((1.1.11) etc.) vowels remain unaltered when followed by a vowel (so far as the operation of that vowel is concerned). Vasu English Translation ------------------------ The प्लुत ((8.2.82) etc.) and प्रगृह्य ((1.1.11) etc.) vowels remain unaltered when followed by a vowel (so far as the operation of that vowel is concerned). Thus देवदत्ता ३ अत्र न्वसि, यज्ञदत्ता ३ इदम् आनय ॥ These are examples of prolated vowels. The prolation of vowels is taught in the *tripadi* or the last three chapters of *Ashtadhyayi*; and the *tripadi* are considered *asiddha* for the purposes of previous *sutras* (8.2.1). This is not the case here, otherwise the mention of *pluta* would be redundant. Of the Excepted or *Pragrihya* vowels the following are the examples : अग्नी इति, वायू इति, खट्वे इति, माले इति ॥ Though the *anuvritti* of अचि was current in this *sutra* from (6.1.77): its repetition here is for the sake of ordaining प्रकृतिभाव ॥ That is, the *pluta* and the *pragrihya* retain their original forms when such a vowel follows which would have caused a substitution. Thus जानु उ अस्य, रुजति here in combining जानु + उ into जानू, the अ is no cause of lengthening, therefore, the lengthening will take place. Now since उ is a *pragrihya*, it follows that जानू which ends in उ is also a *pragrihya*, and therefore it should not be changed before अ of अस्य ॥ Hence we have the form जानू + अस्य = जानू अस्य ॥ There may also be the form जान्वस्य, not by इकोयणचि, but by मय उञो वो वा (8.3.33). In fact, the repetition of अचि in this *sutra* is necessary, in order to enable us to give this peculiar meaning to the *sutra*. Otherwise, had the *sutra* been simply प्लुतप्रगृह्याः, it would have been translated ordinarily thus: "The *Pluta* and *Pragrihya* retain their form, when ever a vowel follows". Therefore in जानु उ अस्य, since उ is followed by a vowel, it will retain its form, and will not coalesce with the उ of जानु ॥ But this is not intended. Hence the repetition of the word अचि, and the peculiar explanation given above, namely, *Pluta* and *Pragrihya* vowels retain their form before a vowel which would otherwise have caused a substitution, but it would not prevent the operation of any other rule. Therefore in जानु उ अस्य रुजति, the उ + उ will become lengthened, because अ is not the cause of lengthening; it causes the change of उ to व्, which of course is prevented. The word नित्य of the last *sutra* is understood here also. These *pluta* and *pragrihya* always retain their form and are not influenced by the rule of shortening given in (6.1.127). Bhashya ------- प्लुतप्रगृह्या अचि नित्यम् (2562) (नित्यग्रहणप्रयोजनभाष्यम्) नित्यग्रहणं किमर्थम् ? विभाषा मा भूदिति । नैतदस्ति प्रयोजनम् । पूर्वस्मिन्नेव योगे विभाषाग्रहणं निवृत्तम् । इदं तर्हि प्रयोजनम् - प्लुतप्रगृह्याणामचि प्रकृतिभाव एव यथा स्यात्, यदन्यत्प्राप्नोति तन्मा भूदिति । किं चान्यत्प्राप्नोति ? शाकलम् । (सिन्नित्यसमासयोः शाकलप्रतिषेधं वक्ष्यति स न वक्तव्यो भवति) ॥ (अज्ग्रहणप्रयोजनभाष्यम्) अथाज्ग्रहणं किमर्थम् ? अचि प्रकृतिभावो यथा स्यात् ॥ (6225 अज्ग्रहणाक्षेपवार्तिकम् ॥ 1 ॥) - प्लुतप्रगृह्येष्वज्ग्रहणमनर्थकमधिकारात्सिद्धम् - प्लुतप्रगृह्येषु अच्ग्रहणमनर्थकम् । किं कारणम् ? अधिकारादेव सिद्धम् । अचि इति प्रकृतमनुवर्तते । क्व प्रकृतम् ? इको यणचि (6.1.77) इति ॥ (6226 समाधानवार्तिकम् ॥ 2 ॥) - तत्तु तस्मिन् प्रकृतिभावार्थम् - तत्तु द्वितीयमज्ग्रहणं कर्तव्यम्, प्रकृतिभावार्थम् । तस्मिन्नचि पूर्वस्य प्रकृतिभावो यथा स्यात् । इह मा भूत् -जानु उ अस्य रुजति, जानू अस्य रुजति, जान्वस्य रुजतीति ॥ (प्लुतस्य प्रकृतिभावाक्षेपभाष्यम्) अथ किमर्थं प्लुतस्य प्रकृतिभाव उच्यते ? स्वरसन्धिर्मा भूदिति । उच्यमानेऽप्येतस्मिन् स्वरसन्धिः प्राप्नोति । प्लुते कृते न भविष्यति । असिद्धः प्लुतस्तस्यासिद्धत्वात्प्राप्नोति ॥ (6227 समाधानवार्तिकम् ॥ 3 ॥) - प्लुतप्रकृति भाववचनं तु ज्ञापकमेकादेशात् प्लुतो विप्रतिषेधेनेति - यदयं प्लुतः प्रकृत्येति प्रकृतिभावं शास्ति तज्ज्ञापयत्याचार्यः - एकादेशात्प्लुतो भवति विप्रतिषेधेनेति ॥ (6228 समाधानाक्षेपवार्तिकम् ॥ 4 ॥) - एकादेशात् प्लुतो विप्रतिषेधेनेति चेच्छालेन्द्रेऽतिप्रसङ्गः - एकादेशात्प्लुतो विप्रतिषेधेनेति चेत् शालेन्द्रेऽतिप्रसङ्गो भवति । शालायामिन्द्र -शालेन्द्रः ॥ (6229 समाधानवार्तिकम् ॥ 5 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वाऽतिप्रसङ्गः । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गः प्लुतः, अन्तरङ्ग एकादेशः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ Kashika ------- प्लुताश्च प्रगृह्याश्चाचि प्रकृत्या भवन्ति। देवदत्त३ अत्र न्वसि। यज्ञदत्त३ इदमानय। आश्रयादत्र प्लुतः सिद्धः। प्रगृह्याः — अग्नी इति। वायू इति। खट्वे इति। माले इति। अचीत्यनुवर्तमाने पुनरज्ग्रहणमादेशनिमित्तस्याचः परिग्रहार्थम्। तेनेह न भवति — जानु उ अस्य रुजति, जान्वस्य रुजति। प्रगृह्यादुकारात् परस्याकारस्य सवर्णदीर्घत्वं प्रत्यनिमित्तत्वादत्र प्रकृतिभावो न भवति। नित्यग्रहणमिहानुवर्तते। प्लुतप्रगृह्याणां नित्यमयमेव प्रकृतिभावो यथा स्याद् **इकोऽसवर्णे शाकल्यस्य ह्रस्वश्च** (६.१.१२७) इत्येतन् मा भूदिति॥ Siddhanta Kaumudi ----------------- प्लुताः प्रगृह्याश्च वक्ष्यन्ते तेऽचि परे नित्यं प्रकृत्या स्युः । एहि कृष्ण 3 अत्र गौश्चरति । हरी एतौ । नित्यम् इति किम् । हरी एतावित्यादावयमेव प्रकृतिभावो यथा स्यात् इकोऽसवर्णे (SK91) इति ह्रस्वसमुच्चितो माभूत् ॥ Laghu Siddhanta Kaumudi ----------------------- एतेऽचि प्रकृत्या स्युः। आगच्छ कृष्ण ३ अत्र गौश्चरति॥ Balamanorama ------------ **प्लुतप्रगृह्या अचि नित्यम्** - अथ प्रकृतिभाव इति । 'निरूप्यते' इति शेषः । प्लतुप्रगृह्राः । वक्ष्यन्त इति ।दूराद्धूते चे॑त्यादिना, ईदूदेदित्यादिना चेत्यर्थः । प्रकृत्येति । 'प्रकृत्यान्तः पाद' मित्यतदस्तदनुवृत्तेरिति भावः । प्रकृत्या स्वभावेनाऽवस्थिताः स्युरित्यर्थः । सन्धयो न भवन्तीति यावत् । एहि कृष्णा३ अत्रेति ।दूराद्धूते चे॑ति णकारादकारः प्लुतः । तस्य अकारे न सवर्णदीर्घः । हरी एताविति ।ईदूदे॑दिति रेफादीकारः प्रगृह्रः । तस्य यणादेशो न भवति । ननु सर्वत्र विभाषेति पूर्वसूत्रे विभाषेत्यस्याऽस्वरितत्वादेव निवृत्तिसिद्धेरिह नित्यग्रहणं किमर्थमिति पृच्छति-नित्यमिति किमिति । उत्तरमाह-हरी एताविति । नित्यग्रहणे सत्येव हरी एतावित्यादौप्लुतप्रगृह्रा अची॑ त्ययमेव केवलः प्रकृतिभावः स्यादित्यर्थः ।यथा॑शब्दो योग्यतायाम् । अयमेव प्रकृतिभावः प्राप्तुं योग्यः । स च नित्यग्रहणे सति प्राप्नुयादित्यर्थः । एवमग्रेऽप्येवंजातीयकेषु ।एव॑शब्दव्यवच्छेद्यं दर्शयति-इक इति ।इकोऽसवर्णे शाकल्यस्य ह्रस्वश्चे॑ति वक्ष्यमाणः ह्रस्वसमुच्चितः प्रकृतिभावो माभूत्=न भवेत् । माङि लुङ् । सर्वलकारापवादः । अकृते सति नित्यग्रहणे परत्वाच्छाकलह्रस्वसहितप्रकृतिभावः प्रसज्येत । नित्यग्रहणे कृते तु तत्सामर्थ्यादेव परमपि शाकलं ह्रस्वसमुच्चितप्रक-तिभावं 'प्लुतप्रगृह्रा' इति केवलः प्रकृतिभावो बाधत इत्यर्थः । Tattvabodhini ------------- **प्लुतप्रगृह्या अचि नित्यम्** - प्लुतप्रगृह्राः । प्रकृति भावं प्रति प्लुतो नाऽसिद्धः, प्लुतमनूद्य प्रकृतिभावविधानसामर्थ्यात् । अचि किम् ,जानु उ जानू॑ । उञः प्रगृह्रत्वेऽपीह सवर्णदीर्घः ।अची॑त्यनुवर्तमाने पुनरचिग्रहणमादेशनिमित्ते एवाऽचि प्रकृतिभावः । तेन इहाप्येकादेशः स्यादेव-॒जानु उ अस्य रुजति॑,जानू अस्य रुजति॑ । इहमय उञः॑ इति पाक्षिके वकारे तुजान्वस्य रुजति॑ । एहि कृष्णेति ।दूराद्धूते चे॑ति प्लुतः । प्राचा तु-॒कृष्णा एही॑ति उदाहृतम् । तदसत् ।वाक्यस्य टेः॑-इत्यधिकारात् । ह्रस्वसमुच्चितो मा भूदिति । अयं भावः-॒हरी ईशा॑वित्यादौप्लुतप्रगृह्राः॑इत्येतत्सावकाशम्,चक्री अत्रे॑त्यत्र तुइकोऽसवर्णे-॑ इति । ततश्चहरी एता॑वित्यत्र परत्वाद्ध्रस्वसमुच्चित एव स्यात् । नित्यग्रहणे तु कृते तत्सामर्थ्यात्परमपि बाधत इति ।चक्रयत्रेति । इहस्कोः॑ इति कलोपो न, यणः कार्यकालपक्षे बहिरङ्गपरिभाषया असिद्धत्वात्, स्थानिवद्भावाच्च ।पूर्वत्रासिद्धे न स्थानिव॑दिति तु नास्ति,तस्य दोषः संयोगादिलोपलत्वणत्वेषु॑ इति वक्ष्यमाणत्वात् । पार्ामिति । पर्शूनां समूहः ।पर्ाआ णस् वक्तव्यः॑ इति णस् । ओर्गुणस्तु न,सिति चे॑ति पदत्वस्य भत्वापवादत्वात् । Padamanjari ----------- ननु यस्य विकारः प्राप्तस्तस्य प्रकृतिभावो विधेयः, न च प्लुतस्य विकारः प्राप्तः, स्वरसन्धिषु तस्यासिद्धत्वात्? इत्यत आश्रयात्प्लुतः सिद्धः इति। यदिदं प्लुतस्य प्रकृतिभावं प्रति कायित्वेनाश्रयणम्, आह -अस्मादेव ज्ञापकात्'स्वरसन्धिषु प्लुतः सिद्धः' इति कल्प्यत इत्यर्थः। आदेशनिमितस्याचः परिग्रहार्थमिति। यस्मिन्नादेशो विधीयते स एव प्रकृतिभावस्यापि निमितत्वेन परिगृहीतो यथा स्यादित्येवमर्थमित्यर्थः। जानु उ अस्येति। उञ् निपातः, तस्य पूर्वेण सहैकादेशस्य यन्निमितं न सप्रगृह्यादुतरः, यश्च ततः परो न स एकादेशस्य निमितमिति प्रकृतिभावाभावादेकादेशो भवत्येव। असति पुनरज्ग्रहणे'प्रगृह्यए' चि परतः प्रकृत्या भवतिऽ इत्युच्यमाने पूर्वेणसह यो विकारः प्राप्तस्तस्यापि प्रकृतिभावः स्यात्। पुनरज्ग्रहणे तु न भवति, तत्रैकादेशे कृते तस्यादिवद्भावात्प्रगृह्यग्रहणेन ग्रहणात्। ठिको यणचिऽ इति यणादेशः प्रकृतिवद्भावान्न भवति,'मय उञो वो वा' इति पक्षे वकारः। नित्यग्रहणमनुवर्तत इति। पूर्वसूत्रे नित्यग्रहणमेतदर्खमेव कृतम्, तत्र त्वारन्भसामर्थ्यादेव नित्यो विधिः सिद्धः। नित्यमेव प्रकृतिभावो यथा स्यादिति। अयमेव प्रकृतिभावो नित्यं यथा स्यात्, शास्त्रान्तरेण कार्यान्तरसहितो मा भूदित्यर्थः ॥ Nyaas ----- `देवदत्ता 3 अत्र त्वसि` इति। **दूराद्धूते च** (8.2.84) इति प्लुतः। ननु च **पूर्वत्रासिद्धम्** (8.2.1) इत्यसिद्धः प्लुतः, तदसतसतसय कथं शक्यते परकृतिभावो विधातुम्? इत्यत आह -`आश्रयात्` इत्यादि। आश्रयणमाश्रयः। तदेतत्? प्रकृतिभावकार्यं विधातुं प्लुतस्य कार्यिण आश्रयणम्। अस्मादेवात्र प्रकृतिभावे कर्तव्ये सिद्धः प्लुतः, अन्यथा तस्य कार्यित्वेनाश्रयणमनर्थकं स्यात्। `अग्नी` इत्यादि। `ईदूदेद्द्विवचनम्` (1.1.11) इत्यादिना अत्र प्रगृह्रसंज्ञा। अथाचीति किमर्थम्, यावताऽचीत्यनुवर्तत एव? इत्यत आह -`अचीत्यनुवर्तमाने` इत्यादि। आदेशस्य निमित्तं योऽच्? तस्य परकृतिभावनिमित्तत्वेन परिग्रहो यथा स्यादित्येवमर्थं पुनरज्ग्रहणम्। आदेशस्त्वत्र यत्राचि प्रकृतिभावः -जानु+उ अस्य रुजति जानू अत्य रुजतीति। न हि ज नुशब्दे य उकारो यश्च तदनन्तरः प्रगृह्रसंज्ञकस्तयोः सवर्णदीर्घत्वं प्रति प्रगृह्रसंज्ञकादुकारात परस्याकारस्य निमित्तभावः। इह च न भवति -जान्वस्य रुजतीति। तेन पूर्वपरयोरुकारयोर्य एकादेशः, स यद्यपि **अन्तादिवच्च** (6.1.85) इत्यादिवद्भावात्? प्रगृह्रसंज्ञकोकारग्रहणेन गृह्रते, तथापि यणादेशोऽकारे परतो भवत्येव। न ह्यत्राप्यकार एकादेशनिमित्तम्। यदि तु विशिष्टाच्परिग्रहार्थं पुनरज्ग्रहणं न क्रियते, तदाऽञ्मात्रे प्रकृतिभावो विधीयमान इहापि स्यादेव। प्रगृह्रसंज्ञा पुनरकारपूरवस्योकारस्य **निपात एकाजनाङ्** (1.1.14) इत्यनेन। `नित्यगरहणम्` इत्यादि। यदि नित्यग्रहणमिहानुवर्तते, तदाग्नी+इतीत्यादौ अस्य विधेः कृतार्थत्वात्त वायू+अत्रेत्यादौ परत्वाच्छाकलौ विधिः प्रसज्येत। तस्मात्? प्रकृतिभाव एव यथा स्यात् -इत्येवमर्थं नित्यग्रहणमिहानुवर्तते॥ Praudhamanorama --------------- **एहि कृष्णेति।** **दूराद्धूते च** (8.2.84) इति प्लुतः। यत्तु कृष्णा3 एहीति प्राचोक्तं, तन्न, **दूराद्धूते च** (8.2.84) इत्यादौ **वाक्यस्य टेः—** (8.2.82) इत्यधिकारात्। Prakriyasarvasvam ----------------- प्लुताश्च प्रगृह्याश्चाचि परे प्रकृत्या स्युः । इति न सन्धिः । एहि कृष्ण३ इदं पयः । सर्व एव प्लुतो वा वाच्य इति प्लुताभावे सन्धिरपि । एहि कृष्णेदं पयः । हूतिवाक्ये प्रधानत्वान्नाम्न एव प्लुतो मतः । वाक्यान्त्ये नाम्न्यनेन स्यात् प्लुतोऽनन्त्ये तु कथ्यते ॥ ३६ ॥ वृष्णिवीर इह । Sarala ------ **प्लुतेति** । अत्र नित्यपदं प्रायिकं, नित्यप्रहसित इत्यादाविव । तेन "मणीवोष्ट्रस्ये"त्यत्र न प्रकृतिभावः । **प्रकृत्याऽन्तः पादम्** (६.१.११५) - इत्यतः "प्रकृत्या" इत्यनुवर्तते ॥ Sudha ----- **आगच्छ कृष्णेति । ** "आगच्छ कृष्ण 3 अत्र गौश्चरति" इति वाक्ये "कृष्ण-अत्र" इत्यत्र **दूराद्धूते च** (8.2.84) इत्यनेन सूत्रेण टिसंज्ञकस्य णकारोत्तवर्त्यकारस्य प्लुतत्वं विधाय **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्रकृतिभावे "आगच्छ कृष्ण 3 अत्र गौश्चरति" इति सिद्ध्यति ॥ Sutra Prayogas -------------- * **प्रगृह्य-पद-वत्साध्वीं** (भट्टिकाव्यम्): `लुतप्रगृह्या अचि` इति प्रकृतिभावेन स्वरसन्ध्यभावादित्यर्थः।