61115: प्रकृत्याऽन्तःपादमव्यपरे =============================== **Padacheda:** प्रकृत्या | S | 3 | 1 | अन्तःपादम् | S | 0 | 0 | अव्यपरे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The final ए or ओ and the following अ when occurring in the middle half of a foot of a Vedic verse, retain their original forms, except when the अ is followed by ख् or य्। Vasu English Translation ------------------------ The final ए or ओ and the following अ when occurring in the middle half of a foot of a Vedic verse, retain their original forms, except when the अ is followed by ख् or य्। The word एङः is understood here, but it should be construed here in the nominative case and not in the Ablative. The word प्रकृति means 'original nature, cause'. The word अन्तर् is an Indeclinable, used in the Locative case here and means 'in the middle'. The word पादः 'the foot of a verse' refers to the verses of the Vedas, and not to the verses of secular poetry. The word अति is also understood here. Thus ते अग्ने अश्वमायुञ्जन्; ते अस्मिन् जवमादधुः, उपप्रयन्तो अध्वरम्; शिरो अपश्यम्; सुजाते अश्वसूनृते (*Rig*. *Veda*. V. 79.1); अध्वर्यो अद्रिभिः सुतम् (*Rig* IX. 51.1); शुक्रं ते अन्यत् (*Rig*. VI.58.1). Why do we say 'in the inner half of a foot of a verse?' Observe कया मती कुत एतास एतेऽर्चन्ति ॥ Why do we say "when व् or य् does not follow अ?" Observe तेऽवदन् (*Rig* X. 109.1), तेऽयस्मयम् ॥ Why do we say ए or ओ? Observe अन्वग्निरुषसामग्रमख्यत् ॥ Some read this *sutra* as नान्तः पादमप्यपरे ॥ According to them, this *sutra* supersedes the whole rule of juxtaposition or संहिता (6.1.72). Bhashya ------- नान्तः पादमव्यपरे (2552) (प्रकृतिभावाधिकरणम्) (प्रतिषेध्यबोधकभाष्यम्) कस्यायं प्रतिषेधः ? नान्तः पादमिति सर्वप्रतिषेधः । नान्तः पादमिति सर्वस्यायं प्रतिषेधः । कथम् ? अचीति वर्तते, अचि यत्प्राप्नोति तस्य प्रतिषेधः ॥ (6218 अतिप्रसङ्गापादकवार्तिकम् ॥ 1 ॥) - नान्तः पादमिति सर्वप्रतिषेधश्चेदतिप्रसङ्गः - नान्तः पदमिति सर्वप्रतिषेधश्चेदतिप्रसङ्गो भवति । इहापि प्राप्नोति - अन्वग्निरुषसामग्रमख्यत्, प्रत्यग्निरुषसामग्रमख्यात् ॥ (प्रतिषेध्यान्तरबोधकभाष्यम्) एवं तर्हि अतीति वर्तते । अकाराश्रयं यत्प्राप्नोति तस्य प्रतिषेधः ॥ (6219 द्वितीयस्मिन् प्रतिषेध्ये दोषवार्तिकम् ॥ 2 ॥) - अकाराश्रयमिति चेदुत्ववचनम् - अकाराश्रयमिति चेदुत्वं वक्तव्यम् । कालो अश्वः, शतधारो अयं मणिः ॥ (6220 द्वितीये दोषवार्तिकम् ॥ 3 ॥) - अयवोः प्रतिषेधश्च - अयवोश्च प्रतिषेधो वक्तव्यः । सुजाते अश्वसूनृते, अध्वर्यो अद्रिभिः सुतम्, शुक्रं ते अन्यत् ॥ (दोषद्वयनिराकरणभाष्यम्) एङ्प्रकरणात्सिद्धम् । एङः-अतीति वर्तते । एङोऽति यत्प्राप्नोति तस्य प्रतिषेधः ॥ (6221 एङ्ग्रहणानुवर्तने दोषवार्तिकम् ॥ 4 ॥) - एङ्प्रकरणात्सिद्धमिति चेदुत्वप्रतिषेधः - एङ्प्रकरणात्सिद्धमिति चेदुत्वस्य प्रतिषेधो वक्तव्यः । अग्नेरत्र, वायोरत्र । अतो रोरप्लुतादप्लुते (113) एङश्च - इत्युत्वं प्राप्नोति ॥ (6222 समाधानवार्तिकम् ॥ 5 ॥) - पुनरेङ्ग्रहणात्सिद्धम् - पुनरेङ्ग्रहणं कर्तव्यम् ॥ तत्तर्हि वक्तव्यम् ? न वक्तव्यम्, प्रकृतमनुवर्तते । ननु चोक्तम् - एङ्प्रकरणात्सिद्धमिति चेदुत्वप्रतिषेध इति । नैष दोषः । पदान्ताभिसंबद्धमेङ्ग्रहणमनुवर्तते, न चैङः पदान्तात्परोरुरस्ति ॥ Kashika ------- एङ ोऽति इत्येव। एङ इति यत् पञ्चम्यन्तमनुवर्तते, तदर्थादिह प्रथमान्तं भवति। प्रकृतिरिति स्वभावः कारणं वाभिधीयते। अन्तरित्यव्ययमधिकरणभूतं मध्यमाचष्टे। पादशब्देन च ऋक्पादस्यैव ग्रहणमिष्यते, न तु श्लोकपादस्य। अवकारयकारपरेऽति परत एङ् प्रकृत्या भवति। स्वभावेनावतिष्ठते, कारणात्मना वा भवति, न विकारमापद्यते। तौ चेद् निमित्तकार्यिणावन्तः पादमृक्पादमध्ये भवतः। ते अग्रे अश्व॑॑मायुञ्ज॒न् (मा० सं०९.७)। ते अ॑॑स्मिन् ज॒वमाद॑॑धुः (मा० सं० ९.७)। उ॒प॒प्॒रयन्ता॑े॑ अध्व॒रम्(ऋ०१.७४.१)। शिरो॑ अपश्यम्(ऋ०१.१६३.६)। सुजा॑ते॒ अश्व॑सूनृते(ऋ०५.७९.१)। अध्व॑र्यो॒ अदि्॑॑रभिः सु॒तम् (ऋ०९.५१.१)। अन्तः पादमिति किम् ? कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ (ऋ० १.१६५.१)। अव्यपर इति किम् ? त॑े॑ऽवदन् (ऋ०१०.१०९.१)। तेजोऽय॒स्मय॒म् (मा० सं०१२.६३)। एङिति किम् ? अन्व॒ग्निरु॒षसा॒मग्॑॑रमख्य॒त् (शौ० सं० ७.८२.४)। केचिदिदं सूत्रं नान्तःपादमव्यपर इति पठन्ति, ते संहितायामिह यदुच्यते तस्य सर्वस्य प्रतिषेधं वर्णयन्ति॥ Siddhanta Kaumudi ----------------- ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् (उ॒प॒प्र॒यन्तो॑ अध्व॒रम्) । सुजाते अश्वसूनृते (सुजा॑ते अश्व॑सूनृते) । अन्तःपादं किम् । एतास एतेऽर्चन्ति (ए॒तास॑ ए॒तेऽर्च॑न्ति) । अव्यपरे किम् । तेऽवदन् (ते॑ऽवदन्) ॥ Padamanjari ----------- अतीत्येवेति। न तु हशीति। अत्र हेतुः पूर्वमेवोक्तः। एङ् इति यत् पञ्चम्यन्तमित्यादि। ठेङःऽ इति तावद् व्यवहितमप्यनुवर्तते, न त्वनन्तरमपि रोरित, अत्र च व्याख्यानमेव शरणम्; तेनाव्यपरे हशि परतो रु प्रकृत्या भवतीत्यर्थो न भवति। तदर्थादिति। नहि पञ्चम्यन्तस्य'प्रकृत्या' इत्यनेन सम्बन्धः सम्भवति। प्रकृतिरित्यादि। उभत्रापि प्रकृतिशब्दो दृष्टः -दुस्त्यजा प्रकृतिः, दध्नः क्षीरं प्रकृतिरिति। अन्तरित्यव्ययमित्यादि। तेन मध्यवाचिनान्तः -शब्देनोपजनिते व्यतिरेके पादशब्दात्षष्ठी, तदन्तेन सहाव्ययीभावः। ऋक्पादस्यैव ग्रहणमिष्यत इति। इष्टिरेवैषा । अन्ये तु'वा च्छन्दसि' इत्यतो मण्डूअकप्लुत्या'च्छन्दसि' इत्यनुवर्तयन्ति। एवमवयवार्थं दर्शयित्वा समुदायार्थं दर्शयति -अवकारयकारपर इत्यादिना। स्वभावेनावतिष्ठत इति। यदा प्रकृतिशब्दः स्वभावे वर्तते तदायमर्थः -स्वभावपरित्यागेन न संहिताकार्यमापद्यत इत्यर्थः। यदा तु कारणे वर्तते तदायमर्थः -एङ्कारणात्मना भवतीति। कारणं परपूर्वत्वादेः कार्यस्यैङ्, तस्यात्माउ स्वरूपम्, तेनैव भवति। प्राक संहिताकार्यादेङे यद्रूपं तेनैवावतिष्ठत इत्यर्थः। अनन्तरोक्तमेवार्थद्वयं विस्पष्टीकरोति - इति। एवं हि स्वभावेन भवति, यदि स्वभावादन्यथालक्षणां प्राप्नोति; तथा एवङ्कारणात्मना भवति, यदि विकाररूपं नापद्यते, यदि कार्यात्मना न विपरिणमतीत्यर्थः। तौ चेदिति। निमितमुअकारः, कार्यमुएङ्। उदाहरणेषु ठेङः पदान्तादतिऽ इति पूर्वत्वस्यायवादेश्च यथायोगमभावः । एतेऽर्चयन्तीति। अत्रैतत्पदान्ते वर्तते, अर्चयन्तीत्यकारश्च परस्य पादस्यादौ। केचिदिति। यदि'नान्तः पादम्' इति पठन्ति, एवं सति पूर्वत्वस्यैवानन्तरस्य प्रतिषेधः प्राप्नोति, नायवोर्व्यवहितयोः ? इत्यत आह-संहितायामिति।'संहितायाम्' इत्येतावदेवात्रापेक्ष्यतचे, न तु पूर्वरूपत्वम्; तेनैङ्ः संहिताधिकारे यदुक्तं तन्न भवतीत्यर्थः। तेनैतदपि न चोदनीयम् -अनारब्धेऽस्मिन् प्रतिषेधेऽयवोः प्राप्तिर्नास्ति, पूर्वत्वेन बाधितत्वात्, अनेन तु प्रतिषेधेन पूर्वत्वे बाधिते तयोरुद्भवः स्यात्, तस्यां दशायामस्य व्यापारो नास्ति, आत्माश्रयदोषप्रसह्गादिति। कथमेतच्योद्यं परिहृतम् ? यदि पूर्वत्वस्यैवायं प्रतिषेधः स्याततस्तदेवापेक्ष्य प्रतिषेधयेत्, यतस्तु खलु संहितायामित्यपेक्ष्य सामान्येन प्रतिषेधति तस्यैतत्प्रयोजनम् -स्वप्रवृत्युतरकालमुद्भवतोरयवोरपि प्रतिषेधो यथा स्यादिति। अत्र च'पदान्ताद्' इत्यनुवर्त्यम्, अन्यथा अग्नेरहं सुहुवस्य प्रणीतौ, वायोरिव सूनृतानामुदर्क्क इत्यादौ'ङसिङ्सोश्च' इति यत्पूर्वरूपम्, तस्यापि प्रकृतिभावप्रतिषेधौ प्राप्नुतः ॥ Nyaas ----- `प्रकृत्या` इति। करणे तृतीया। `अन्तःपादम्` इति। सप्तम्यन्तमेतत्। विभक्त्यर्थेऽव्ययीभावं विधाय ततः सप्तमी, तस्याः `तृतीयासप्तम्योर्बहुलम्` (2.4.84) इत्यम्भावः कृतः। `एङः` इत्यादि। पञ्चम्यन्तस्यैङः प्रकृत्या भवतीत्यनेन सम्बन्धो नोपपद्यते। तस्मादिहार्थादेङ्ग्रहणं प्रथमान्तमुपजायते। `प्रकृतिः` इत्यादिना प्रकृतिशब्दस्यामाचष्टे। प्रकृतिशब्दो हि लोके स्वभावे प्रयुज्यते, यता -दुस्त्यजा प्रकृतिरिति, कारणेऽपि यथा -दध्नः क्षीरं प्रकृति रति, तदिहापि स एवार्थस्तस्य विज्ञायते। अन्तरित्यव्ययमधिकरणभूतमिति। अत एवान्तः-पादमित्यव्ययीभावो भवति। `पादशब्देन` इत्यादि। कथं पुनरृक्पादस्यैव ग्रहणं लभ्यते, यावता पादशब्दः सामान्यवाची? एवं मन्यते - **वा छन्दसि** (6.1.106) इत्यतः छन्दोग्रहणमिह मण्डूकप्लुतिन्यायेनानुवर्तते, तेन ऋक्पादस्यैव ग्रहणं विज्ञायते। अथ **सर्वत्र विभाषा गोः** (6.1.122) इत्यतः सूत्रात्? प्राक्छन्दस्येव कार्यं विज्ञायते। एवं हि तत्र सर्वत्रगरहणमर्थवद्भवति यदि च्छन्दसि पूर्वं विधानं भवति। एवमवयवानापर्थमाख्याय `अवकारयकार` इत्यादिना समुदायस्यार्थमाचष्टे। अविद्यमानौ वकारयकारौ यस्य स तथोक्तः। `स्वभावेन` इत्यादि। यदा प्रकृतिशब्दः स्वबावे वर्तमानो गृह्रते, तदायमर्थः -एङ्? स्वभावेन भवति। स्वभावपरत्यागेन संहिताकार्यं नोपपद्यत इति। यदा तु कारणे वर्तमानस्य प्रकृतिशब्दस्य परिग्रहस्तदायमर्थः -एङ्? कारणात्मना भवतीति। कारणं परपूर्वत्वादेः कार्यस्यैङ, तस्य य आत्मा स्वरूपं तेनैवात्मनैङ्? भवतीत्येतदुक्तं भवति -प्राक्? संहिताकार्याद्यदेङो रूपं तेनैव तदवतिष्ठत इति। अनन्तरोक्तमेवार्थद्वयं स्पष्टीकर्त्तुमाह -न `विकारमापद्यते` इति। एवं हि स्वभावेन भवति, यदि स्वभावादन्दथालक्षणा विकारावस्था नोत्पद्येत। तदैवं कारणात्मनापि भवति, यदि विकारभावं नोत्पद्यते। यदि कार्यात्मना न विपरिणमतीत्यर्थः। `नो चेन्निमित्तकायणौ` इति। निमित्तं परत्वविशिष्टोऽकारः। तत्र हि परतः प्रकृतिभावो विधीयते। कार्यी त्वेङ्, तस्य हि कार्यं प्रकृतिभावोऽस्ति। `ते अग्रे अश्चमायुञ्जन्` इति। अस्य ऋक्पादस्य मध्ये य एङ् एकारस्तेशब्देऽग्रेशब्दे च तसय तदनन्तरे प्रकृतिभावत्? **एङः पदान्तादति** (6.1.109) इति पूर्वरूपं न भवति, अयादेशश्च। `उपप्रयन्तो अध्वरम्` इति। अत्रापि प्रयन्त इति शब्दौकारस्यैङोऽध्वरशब्दस्यानन्तरे प्रकृतभावात्? पूर्वरूपं न भवति, अवादेशश्च। एवं `सुजाते अआ` इत्यादावपि प्रकृतिभावात्? पूर्वरूपा दकार्यस्याभावो वेदितव्यः। `एतेऽर्चयन्ति` इति। अत्रेते शब्दे य एङ् एकारः स पदान्ते वर्तते। तदनन्तरस्त्वकारः पादादौ, न पादमध्ये। `तेऽवदन्` इति। अत्र तेशब्दे य एङ् तस्य प्रकृतिभावो न भवति; तदनन्तरस्यातो वकारपरत्वात्। `अवदन्` इति। वदतेर्लङि प्रथमपुरुषबहुवचनान्तम्। `तेऽयजान्` इति। अत्रापि तेशब्दे य एङ् तस्य प्रकृतिभावो न भवति। तदनन्तरस्यातो यकारपरत्वात्। `अन्वग्नि` इत्यादि। सर्वमत्रास्ति, न त्वनुशब्द उकार एङ् भवति, नास्य प्रकृतिभावः। `केचित्` इत्यादि। यदि तर्हि `नान्तःपादमव्यपरे` इति सूत्रं पठन्ति, एवं सति परपूर्वस्यैव प्रतिषेधः कृतः स्यात्, नायवोः; तथा हि -परपूर्वत्वमेङोऽनन्तरविहितम्? इत्यत्? आह -`ते संहितायाम्` इत्यादि। यदि परपूर्वत्वं संहिताकार्यं विशेषणमपेक्ष्यायं प्रतिषेधः क्रियते, तदायं दोषः स्यात्। यदा तु संहिताधिकारविहितं कार्यंमात्रमपेक्ष्य प्रतिषेधो विधीयते, तदा सर्वस्यैव संहिताधिकारविहितस्य कार्यस्य प्रतिषेधो युक्त इति तेषां भावः॥ Prakriyasarvasvam ----------------- ऋक्पादान्तर्गत एङ् अवकारयकारपरेऽतिपरे प्रकृत्या स्यात् । ये अग्नयो न । इन्द्रो अग्निर्श्विना । अन्तः पादमित्युक्तेः पदान्ते सन्धिरेव । कयामती कृत एतास एतेऽर्चन्ति । अकारस्य व्यपरत्वेऽपि सन्धिः । ते अवदन प्रथमाः । केचिदिदं सूत्रं सूत्रं प्रकृत्येत्येतावत् पठित्वा 'पदान्ते सन्धिकार्याणां सर्वेषां निषेधमाहुः । अर्यो मनीषा अग्निः । इयं मनीषा इत्यमित्यादि सिद्धम् ।