61111: ऋत उत्
=============
**Padacheda:** ऋतः | S | 5 | 1 |
उत् | S | 1 | 1 |
Sutrartha
---------
**ऋवर्णात् /ऌवर्णात् ङसिँ/ङस्-प्रत्यययोः अकारे परे पूर्वपरयोः एकः उकारादेशः भवति ।**
ह्रस्व-ऋकारात् / ह्रस्व ऌकारात् परः पञ्चमी-एकवचनस्य ङसिँ-प्रत्ययस्य अकारः, षष्ठ्येकवचनस्य ङस्-प्रत्ययस्य अकारः वा विद्यते चेत्, **इको यणचि** (6.1.77) इत्यनेन प्राप्तम् रेफादेश/लकारादेशं बाधित्वा प्रकृतसूत्रेण उकारः एकादेशरूपेण विधीयते । अयम् उकारः **उरण् रपरः** (1.1.51) इत्यनेन नित्यम् रपरः / लपरः एव भवति ।
**अस्य सूत्रस्य प्रयोगः ऋकारान्त/ऌकारान्तप्रातिपदिकानाम् पञ्चमी/षष्ठी-एकवचनस्य प्रक्रियायाम् एव भवति ।**
उदाहरणे एते -
1. ऋकारान्तशब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य रुपसिद्धिः —
.. code-block:: text
पितृ + ङसिँ /ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
→ पितृ + अस् [इत्संज्ञालोपः]
→ पितुर् स् [**इको यणचि** (6.1.77) इत्यनेन यणादेशे प्राप्ते अपवादत्वेन **ऋत उत्** (6.1.111) इति उकारः । **उरण् रपर** (1.1.51) इत्यनेन सः रपरः]
→ पितुर् [**रात्सस्य** (8.2.24) इति रेफात् परस्य सकारस्य लोपः ]
→ पितुः [**खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गनिर्माणम्]
2. ऌकारान्तशब्दानाम् पञ्चमी/षष्ठी-एकवचनस्य रुपसिद्धिः —
गमॢँ (गतौ, (1,1137)) इत्यस्य धातोः अनुकरणरूपेण (imitation / copy) 'गमॢ' इति ऋकारान्तशब्दः सिद्धान्तकौमुद्यां पाठितः अस्ति । 'गमॢँ-धातुः' इति अस्य शब्दस्य अर्थः । अस्य पञ्चमी/षष्ठी-एकवचनस्य रूपसिद्धौ प्रकृतसूत्रं प्रयुक्तं दृश्यते —
.. code-block:: text
गमॢ + ङसिँ /ङस् [पञ्चमी/षष्ठी-एकवचनस्य प्रत्ययः]
→ गमॢ + अस् [इत्संज्ञालोपः,]
→ गमुल् स् [**इको यणचि** (6.1.77) इत्यनेन यणादेशे प्राप्ते अपवादत्वेन **ऋत उत्** (6.1.111) इति ऌकारस्य उकारः । **उरण् रपर** (1.1.51) इत्यनेन सः लपरः]
→ गमुल् [**संयोगान्तस्य लोपः** (8.2.23) इति सकारलोपः]
**दलकृत्यम्**
**1. ऋत् इत्यत्र तपरकरणम् किमर्थम् ?** केवलम् 'ऋ' इति निर्दिश्यते चेत् **अणुदित् सवर्णस्य चाप्रत्ययः** (1.1.69) इत्यनेन सवर्णग्रहणम् भवेत्, येन दीर्घ-ॠकारस्य विषये अपि अस्य सूत्रस्य अनिष्टा प्रसक्तिः स्यात् । अतः अस्मिन् सूत्रे तपरकरणम् कृत्वा ऋकारेण दीर्घ-ॠकारग्रहणम् निषिध्यते, येन दीर्घ-ॠकारस्य विषये इदं सूत्रं न प्रवर्तते । अतः "तॄ (दीर्घ-ॠकारान्तप्रातिपदकम्) + ङसिँ/ङस्" इत्यत्र **इको यणचि** (6.1.77) इत्यनेन यणादेशे कृते "त्रः" इत्येव रूपं सिद्ध्यति ।
**2. उत् इत्यत्र तकारस्य किं प्रयोजनम् ?**अस्मिन् सूत्रे 'उत्' इति शब्दः यद्यपि विधीयमानः अस्ति, तथापि विधीयमानेन उकारेण सवर्णग्रहणम् सम्भवति इति **भाव्यमानः अपि उकारः सवर्णान् गृह्णाति** (नागेशपरिभाषा 20) इत्यनया परिभाषया ज्ञाप्यते । एतादृशेन सवर्णग्रहणेन अत्र ह्रस्व-उकारेण दीर्घभेदस्य अपि ग्रहणं भवेत्; तत् निवारयितुम् अस्मिन् सूत्रे उकारस्य अपि तपरकरणम् क्रियते ।
Sutrartha (English)
-------------------
If a ऋकार or ऌकार is followed by the अकार of ङसिँ or ङस् प्रत्यय, then both of them combined to form an उकार.
Vasu English Summary
--------------------
In the room of ऋ + अ of the case-affix अस् of the Ablative and Genitive singular, the single substitute is the letter short उ।
Vasu English Translation
------------------------
In the room of ऋ + अ of the case-affix अस् of the Ablative and Genitive singular, the single substitute is the letter short उ।
Thus होतृ + अस् = होतुर्स् (The उ must always be followed by र् (1.1.51) though this उ is not the substitute of ऋ only, but of ऋ + अ conjointly: on the maxim that a substitute which replaces two, both shown in the genitive case, as ऋतः and अकारस्य in this *sutra*, gets the attributes of every one of these separately as the son C of a father A and mother B (though both conjointly produce him) may be called indifferently the son of A or the son of B. So the उ may be called the substitute of ऋ or अ) II The final स् is then elided by (8.2.24) and we have होतुर् = होतुः ॥ Thus होतुरागच्छति, होतुः स्वम् ॥
Kashika
-------
ङसिङसोरित्येव। ऋकारान्तादुत्तरयोर्ङसिङसोरति परतः पूर्वपरयोरुकार एकादेशो भवति। होतुरागच्छति। होतुः स्वम्। द्वयोः षष्ठीनिर्दिष्टयोः स्थाने यः स लभतेऽन्यतरव्यपदेशमिति **उरण् रपरः** (१.१.५१) इति रपरत्वमत्र कृत्वा **रात् सस्य** (८.२.२४) इति सलोपः कर्तव्यः॥
Siddhanta Kaumudi
-----------------
ऋदन्तान्ङसिङसोरति परे उकार एकादेशः स्यात् । रपरत्वम् ॥
Laghu Siddhanta Kaumudi
-----------------------
ऋतो ङसिङसोरति उदेकादेशः। रपरः॥
Balamanorama
------------
**ऋत उत्** - ङसिङसोस्तृज्वत्त्वे क्रोष्टृ अस् इति स्थिते — ऋत उत् । 'एङः पदान्तादति'ङसि ङसोश्चे॑त्यतः-॒अती॑तिङसिङसो॑रिति चानुवर्तते ।ङसिङसो॑रित्यवयवषष्ठी,-॒अती॑त्यत्रान्वेति ।अङ्गस्ये॑त्यधिकृतम् 'ऋत' #इत्यनेन विशेष्यते, ततस्तदन्तविधिसत्दाह — ऋदन्तादित्यादिना । रपरत्वमिति । ऋकारस्य अकारस्य च स्थाने प्राप्नुवत उकारस्य ऋकारस्थानिकत्वानपायादिति भावः । उदिति तपरकरणं द्विमात्रनिवृत्त्यर्थम् । न चभाव्यमानोऽसवर्णान्न गृह्णाती॑त्येव तन्निवृत्तिः सिध्यतीति वाच्यं, तस्याऽनित्यत्वादिह द्विमात्रप्राप्तौ तन्निवृत्त्यर्थत्वात् । तदनित्यत्वं त्वनेनैव तपरकरणेन ज्ञाप्यते । ततश्चयवलपरे यवला वेति मकारस्याऽनुनासिका एव भवन्ती॑तिच्छ्वो॑रिति सूत्रे कैयटः । यत्तुतपरत्वं ढ्रलोपे इति दीर्घनिवृत्त्यर्थ॑मिति, तन्न । 'उरण्रपरः' इति सूत्रे 'ऊ,-रपरः' इति भाष्यप्रयोग विराधाता । सुपत्रवाहिता बाणा ज्वलिता इव पन्नगाः । नैरृतोरस्यभाव्यन्त सवितू रश्मयो यथा॑ इति रामायणप्रयोगविरोधाच्चेत्यलम् ।
Tattvabodhini
-------------
**ऋत उत्** - ऋत उत् । ऋकाराकारयोरेकादेशे सति ह्रस्व एव उकारः स्यान्न तु दीर्घ इत्येतदर्थकेन तपरकरणेन भाव्यमानोऽण्क्वचित्सवर्णान्गृह्णातीति ज्ञाप्यते, तेन यवलपरे हकारे मस्य विधीयमाना यवला अनुनासिका भवन्ति ।
Padamanjari
-----------
द्वयोः षष्टीनिर्द्दिष्टयोरित्यादि। न्यायप्राप्तिप्रदर्शनमेतत्, न पुनापरत्वेऽक्रियमाणे किञ्चिदनिष्टम् ठृतःऽ इति तपरकरणं दीर्घनिवृत्यर्थम्, ठुन्न्योर्ग्रहःऽ'प्रेस्त्रो' यज्ञेऽ इत्यादौ न भवति। ठुच्ऽ इत्यपि तपरकरणं दीर्घनिवृत्यर्थमेव, आन्तर्यतो हि द्विमात्रस्य द्विमात्र एव प्राप्नोति। ननु'भाव्यमानो' ण्सवर्णान्न गृह्णातिऽ इति ? एवं तर्ह्येज्ज्ञापयति-ठ्भाव्यमानोऽप्युकारः सवर्णान् गृह्णातिऽ इति, तेनामूभ्यामित्यत्र ठदसोसेर्दादु दो मःऽ इति दीर्घस्य दीर्घ ऊकारो भवति। इह गम्लृप्रभृतिभ्यो ङसिङ्सोः कृतयोः ऋकरलुकारयोः सवर्णसंज्ञाविदानादस्मिन्नुत्वे लपरत्वे च कृते संयोगान्तलोपे गमुलिति रूपं भवति ॥
Nyaas
-----
`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने` इत्यादि। किं पुनर्होतुरित्यादावनिष्टं स्याद्यदि रपरत्वं न क्रियेत? न किञ्चित्; न्यायतस्तु प्राप्नोति रपरत्वमपि, तदवश्यं कर्तव्यम्। तमेव न्यायं न्यां दर्शयितुम् -`द्वयोः षष्ठीनिर्दिष्टयोः स्थाने` इत्युक्तम्। ऋत इति तपकरणं दिर्घनिवृत्त्यर्थम्। तेन `उन्योर्ग्रः` (3.3.29) **प्रे स्त्रोऽयज्ञे** (3.3.32) इत्यादौ न भवति। उदित्येतदपि तपरकरणं दीर्घनिवृत्त्यर्थमेव, आन्तरतम्याद्द्विमात्रस्य स्थाने द्विमात्र एव प्राप्नोति। ननु च `भाव्यमनोऽण्? सवर्णान्? न गृह्णाति`(व्या।प।35) इति सवर्णानां ग्रहणं न भविष्यतीति तत्? किमेतन्निवृत्यर्थेन तपरकरणेन? एवं तह्र्रेतज्ज्ञापयति -भवत्यत्र ह्रुकरेम भाव्यमानेन सवर्णस्य ग्रहणमिति। तेनामू, अमूभ्यामित्यत्र **अदसोऽसेर्दादु दो मः** (8.2.80) इति दीर्घस्य स्थाने दीर्घ ऊकारो भवति॥
Praudhamanorama
---------------
**परत्वादिति।** न च नुण्नित्य इति वाच्यम्, तृज्वद्भावे कृते सन्निपातपरिभाषया नुटो दुर्लभत्वादिति भावः।
Prakriyasarvasvam
-----------------
ऋतो ङसिङसोरति परे उदेकादेशः स्यात् । रपरत्वात् क्रोष्टुर् स् । संयोगान्तलोपः । रस्य विसर्गः । क्रोष्टुः । आमि तृज्वद्भावात्पूर्वं नुडिष्टः । तेनाजादित्वाक्षयान्न तृज्वत्त्वम् । क्रोष्टूनाम् । ङौ ‘ऋतो ङि—’ (७-४-११०) इति गुणे क्रोष्टरि । क्रोष्ट्रोः । तृज्वत्त्वाभावे हलादौ च विष्णुवत् । क्रोष्टृन् क्रोष्टूणाम् इति च कौमुदी । तत् तृजन्तादेव ॥ हूहूः हूह्वौ हूह्व इत्यादि देवयजीवत् । ङौ हूह्वि । हाहाहूहूशब्दावव्यया- वित्यन्ये । अतिचमूरतिवधूरित्यादिस्तु अतिलक्ष्मीवत् । कंसलूः । उवङि प्राप्ते—
Sarala
------
**एङः पदान्तादति** (६.१.१०९) इत्यतः - "अती"ति **ङसिङसोश्च** (६.१.११०) इत्यतो "ङसिङसो"रिति **एकः पूर्वपरयोः** (६.१.८४) इति चानुवर्त्त्याह - **ऋत इति** । **रपरः** = **उरण्रपरः** (१.१.५१) इत्यनेन रपरत्वमिति भावः ॥
Sudha
-----
**ऋत उदिति ।** **एङः पदान्तादति**(6.1.109) इत्यतः अतीति **ङसिङसोश्च**(6.1.110) इत्यतो ङसिङसोरिति चानुवर्तते । ङसिङसोरित्यवयवषष्ठी अतीत्यत्रान्वेति । अङ्गस्येत्यधिकृतम् ऋत इत्यनेन विशिष्यते, तदन्तविधिस्तदाह - **ऋतो ङसिङसोरित्यादिना । रपर इति ।** ऋकारस्य अकारस्य च स्थाने प्राप्नुवतः उकारस्य ऋकारस्थानिकत्वानपायादिति भावः ।