61109: एङः पदान्तादति ===================== **Padacheda:** एङः | S | 5 | 1 | पदान्तात् | S | 5 | 1 | अति | S | 7 | 1 | Sutrartha --------- **पदान्त-एङ्-वर्णात् ह्रस्व-अकारे परे पूर्वपरयोः एकः पूर्वरूप-एकादेशः भवति ।** एच्-वर्णात् संहितायाम् स्वरः विद्यते चेत् **एचोऽयवायावः** (6.1.78) इति सूत्रेण एच्-वर्णस्य यथासङ्ख्यम् अयादिषु कश्चन आदेशः भवति । परन्तु **अयम् एच्-वर्णः यदि पदान्त-एकारः, पदान्त-ओकारः वा अस्ति, तथा च तस्माद् अग्रे ह्रस्वः अकारः विद्यते, तर्हि **एचोऽयवायावः** (6.1.78) इति सूत्रेण प्राप्तस्य अय्/अव्-आदेशस्य प्रकृतसूत्रेण बाधं कृत्वा तत्स्थाने प्रकृतसूत्रेण पूर्वरूप-एकादेशः विधीयते** । यथा - 1. वने + अस्मिन् → वनेस्मिन् । अत्र पदान्त-एकारस्य अकारेण सह पूर्वरूप-एकादेशः भवति । 2. विष्णो + अव → विष्णोव । अत्र पदान्त-ओकारस्य अकारेण सह पूर्वरूप-एकादेशः भवति । सामान्यरूपेण **एङः पदान्तादति** (6.1.109) इति सूत्रेण प्राप्तः एकादेशः अवग्रहचिह्नेन सह निर्दिश्यते । यथा — "वनेऽस्मिन्", "विष्णोऽव" इति । अत्र विद्यमानम् अवग्रहचिह्नम् केवलम् लेखनशैली इत्येव ज्ञेयम्, न हि कश्चन वर्णविशेषः उच्चारणविशेषः वा । अवग्रहचिह्नम् विना "वनेस्मिन्", "विष्णोव" इति लिख्यते चेदपि नैव दोषाय । इत्युक्ते, "वनेऽस्मिन्" तथा "वनेस्मिन्" इति द्वौ भिन्नौ शब्दौ न स्तः; एकस्यैव शब्दस्य द्वे लेखनपद्धती स्तः । **दलकृत्यम्** **1. पदान्तात् इति किमर्थम् ?** अपदान्त-एकार-ओकारयोः विषये इदं सूत्रं न प्रवर्तते । यथा, चि-धातोः ल्युट्-प्रत्यये कृते "चि + अन" इति स्थिते, **सार्वधातुकार्धधातुकयोः** (7.3.84) इत्यनेन गुणे कृते "चे + अन" इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति, यतः "चे" इति पदम् नास्ति । अतः अत्र **एचोऽयवायावः** (6.1.78) इत्यनेन अयादेशे कृते "चयन" इत्येव रूपं सिद्ध्यति । **2. अति इत्यत्र तपरकरणम् किमर्थम् ?** केवलम् 'अ' इति निर्दिश्यते चेत् **अणुदित् सवर्णस्य चाप्रत्ययः** (1.1.69) इत्यनेन सवर्णग्रहणम् भवेत्, येन आकारस्य विषये अपि अस्य सूत्रस्य अनिष्टा प्रसक्तिः स्यात् । अतः अस्मिन् सूत्रे तपरकरणम् कृत्वा अकारेण आकारग्रहणम् निषिध्यते, येन आकारस्य विषये इदं सूत्रं न प्रवर्तते । अतः "वने आसीत्" इत्यत्र **एचोऽयवायावः** (6.1.78) इत्यनेन अयादेशे कृते "वनयासीत्" इत्येव रूपं सिद्ध्यति । **प्रकृतिभावः** द्विवचनस्य एकारान्तपदस्य विषये **ईदूदेद्द्विवचनं प्रगृह्यम्** (1.1.11) इत्यनेन प्रगृह्यसंज्ञायां जातायाम् **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन अच्सन्धौ प्रकृतिभावः विधीयते । अतः अस्मिन् स्थले **एङः पदान्तादति** (6.1.109) इत्यनेन पूर्वरूप-एकादेशः न भवति । यथा, "पचेते + अत्र → पचेते अत्र ।" Sutrartha (English) ------------------- If a पदान्त ए / ओ letter is followed by a ह्रस्व अकार, then both of them combine to form a पूर्वरूप एकादेश. Vasu English Summary -------------------- In the room of ए or ओ final in a पद , and the short अ , which follows it, is substituted the single vowel of the form of the first (ए or ओ)। Vasu English Translation ------------------------ In the room of ए or ओ final in a पद , and the short अ , which follows it, is substituted the single vowel of the form of the first (ए or ओ)। Thus अग्ने + अत्र = अग्नेऽत्र, वायो + अत्र = वायोऽत्र ॥ This supersedes the substitutes अय् and अव् ॥ Why do we say 'of ए or ओ'? Observe दध्यत्र, मध्यत्र ॥ Why do we say 'final in a *Pada*'? Observe चे + अन = चयनम्, लो + अन = लवनम् ॥ Here the ए or ओ are in the body of the word, and not at the end of a word. Why do we say "when followed by a short अ"? Observe वायो + इति = वायविति, भानो + इति = भानविति ॥ Why do we say 'short'? Observe वायो आयाहि = वायवायाहि ॥ Kashika ------- एङ् यः पदान्तस्तस्मादति परतः पूर्वपरयोः स्थाने पूर्वरूपमेकादेशो भवति। अग्नेऽत्र। वायोऽत्र। अयवादेशयोरयमपवादः। एङ इति किम् ? दध्यत्र। मध्वत्र। पदान्तादिति किम् ? चयनम्। लवनम्। अतीति किम् ? वायो इति। भानो इति। वायविति। भानविति। तपरकरणं किम् ? वायवायाहि॥ Siddhanta Kaumudi ----------------- पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात् । हरेऽव । विष्णोऽव ॥ Laghu Siddhanta Kaumudi ----------------------- पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यात्। हरेऽव। विष्णोऽव॥ Laghu Shabdendushekhar ---------------------- **एडः** । पदान्तात् किम् ? "भवति" ॥ Balamanorama ------------ **एङः पदान्तादति** - एङः पदान्तादति । 'अमि पूर्व' इत्यतः पूर्व इत्यनुवर्तते । एकः पूर्वपरयोरित्यधिकृतं । तदाह — पदान्तादित्यादिना । हरे-अवेति स्थितेऽयादेशं बाधित्वा पूर्वरूपमेकारः । विष्णो-अवेत्यत्राऽवादेशं बाधित्वा पूर्वरूपमोकारः । Tattvabodhini ------------- **एङः पदान्तादति** - एङः पदान्तादति । अयवोरपवादः ।ङसिङसोश्चे॑त्यस्यारम्भादस्य पदान्तविषयत्वे लब्धे उत्तरार्थं पदान्तादिति स्पष्टप्रतिपत्तये इहैव कृतमिति मनोरमायां स्थितम् । केचित्तुपदान्ता॑दित्येतदिहाप्यावश्यकमेव, अन्यथाऽपदान्तादपि स्यात् ।ङसिङसोश्चे॑ति सूत्रं तुसुप्सम्बन्धिन्यति परतः पूर्वरूपं चेन्ङसिङसोरेवाऽति परे॑ इति नियमार्तं स्यात् । तत्फलं तु हरयः, गुरवः, इः स्मृतो यैस्ते स्मृतय इत्यादौ पूर्वरूपाऽप्रवृत्तिरित्याहुः । एङः किम् । दध्यत्र । पदान्तात्किम् , चयनम् । लवणम् । अचिनवम् । अति किम् , हरयिह । विष्णविह । तपरः किम् , वायवायाहि । Nyaas ----- `अग्नेऽत्र` इति। **सम्बुद्धौ च** (7.3.106) इति गुणः॥ Praudhamanorama --------------- **ङसिङसोश्च** (6.1.110) इत्यस्यारम्भादस्य पदान्तविषयत्वे लब्धे उत्तरार्थं पदान्तादिति स्पष्टार्थमिहैव कृतम्॥ Prakriyasarvasvam ----------------- पदान्तादेङोऽति परे पूर्वरूपं स्यात् । हरेऽव । विष्णोऽव । Sarala ------ **अमि पूर्वः** (६.१.१०७) इत्यतः "पूर्व"इति **एङि पररूपम्** (६.१.९४) इत्यतो "रूपम्" इति चानुवर्तते अत आह - **पूर्वरूपमिति** । **एङः पदान्तादति** (६.१.१०९) इति सूत्रादेङ इति, **प्रकृत्याऽन्तः पादम्** (६.१.११५) इति सूत्रात् "प्रकृत्या" इति चानुवर्तते, अत आह - एङन्तस्येत्यादि ॥ Sudha ----- **हरेऽवेति । ** "हरे-अव" इति स्थिते, अत्र **एङः पदान्तादति** (6.1.109) — को वात्र पदान्ते एङ् ? रेफान्तःपात्येकारः पदान्ते एङ्, ततः परः को वा अकराः ? अवेत्यस्याकारः, अत्र पूर्वपरयोः स्थाने पूर्वरूपादेशः प्राप्तः । को वा पूर्वः ? एकारः, तस्मिन् जाते सति "हरेऽव" इति रूपम्भवति । एवमेव, "विष्णो-अव" इति स्थिते अत्र **एङः पदान्तादति** (6.1.109) इत्यनेन सूत्रेण पूर्वपरयोः स्थाने पूर्वरूपैकादेशे सति "विष्णोऽव" इति रूपम् ॥