61101: अकः सवर्णे दीर्घः ======================== **Padacheda:** अकः | S | 5 | 1 | सवर्णे | S | 7 | 1 | दीर्घः | S | 1 | 1 | Sutrartha --------- **अक्-वर्णात् सवर्णे अच्-वर्णे परे संहितायाम् पूर्वपरयोः एकः दीर्घ-एकादेशः भवति ।** अक् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ । अच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ । अक्-वर्णात् संहितायाम् सवर्णः अच्-वर्णः विद्यते चेत् पूर्वपरयोः एकः सवर्णदीर्घः भवति । उदाहरणानि एतानि — 1. अवर्णात् परः अवर्णः — 1. दैत्यस्य अरिः → दैत्य + अरिः → दैत्यारिः । 2. गङ्गायाः अरिः → गङ्गा + अरिः → गङ्गारिः । 3. कृष्णस्य आतिथ्यम् → कृष्ण + आतिथ्यम् → कृष्णातिथ्यम् । 4. सीतायाः आतिथ्यम् → सीता + आतिथ्यम् → सीताथित्यम् । 2. इवर्णात् परः इवर्णः — 1. शचेः इन्द्रः → शचि + इन्द्रः → शचीन्द्रः । 2. नद्याः इन्द्रः → नदी + इन्द्रः → नदीन्द्रः । 3. मुनीनाम् ईशः → मुनि + ईशः → मुनीशः । 4. श्रियः ईशः → श्री + ईशः → श्रीशः । 3. उवर्णात् परः उवर्णः — 1. भानोः उदयः → भानु + उदयः → भानूदयः । 2. भुवाः उदयः → भू + उदयः → भूदयः । 3. शिशोः ऊतिः (रक्षणम्) → शिशु + ऊतिः → शिशूतिः । 4. वध्वाः ऊतिः → वधू + ऊतिः → वधूतिः । 4. ऋवर्णात् परः ऋवर्णः/ऌवर्णः — 1. पितुः ऋणम् → पितृ + ऋणम → पितॄणम् । 2. होतृ + ऌकारः → होतृ + ऌकारः → होतॄकारः । ऋकार-ऌकारयोः सवर्णदीर्घे दीर्घ-ॠकारः एकादेशरूपेण विधीयते । **वार्त्तिकद्वयम्** अस्मिन् सूत्रे काशिकायां कौमुद्यां च द्वे वार्त्तिके पाठिते स्तः । एते वार्त्तिके एतदृशे — ** —** **ह्रस्व-ऋकारात् परः ह्रस्व-ऋकारः विद्यते चेत्, पूर्वपरयोः विकल्पेन 'र्रृ' इति कश्चन पररूपैकादेशः भवति** — इति अस्य वार्त्तिकस्य अर्थः । अत्र पररूपैकादेशेन विहितः 'र्रृ' इति वर्णः द्विमात्रिकः अस्ति । द्वौ रेफौ तथा एकः ऋकारः एतेषाम् मेलनं कृत्वा अयं विशेषः वर्णः जायते (र्रृ = र् + र् + ऋ) । अस्य वर्णस्य **नरसिंह-ऋकारः** इति नाम दीयते । अतः "होतृ + ऋकार" इत्यत्र — 1. अनेन वार्त्तिकेन विकल्पेन द्वयोः सामान्य-ऋकारयोः एकादेशे (नरसिंह-ऋकारे) कृते "होत्र्रृकार" इति शब्दः सिद्ध्यति । 2. विकल्पाभावे **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घं कृत्वा "होतॄकार" इत्यपि सिद्ध्यति । 3. अपि च **ऋत्यकः** (6.1.128) अनेन सूत्रेण पाक्षिके प्रकृतिभावे कृते "होतृऋकार" इति अपि रूपं सिद्ध्यति । ** —** **ह्रस्व-ऋकारात् परः ह्रस्व-ऌकारः विद्यते चेत्, पूर्वपरयोः विकल्पेन 'ल्लॢ' इति कश्चन पररूपैकादेशः भवति** — इति अस्य वार्त्तिकस्य अर्थः । अत्र पररूपैकादेशेन विहितः 'ल्लॢ' इति वर्णः द्विमात्रिकः अस्ति । द्वौ लकारौ तथा एकः ऌकारः एतेषाम् मेलनं कृत्वा अयं विशेषः वर्णः जायते (ल्लॢ = ल् + ल् + ऌ) । अस्य **नरसिंह-ऌकारः** इति नाम दीयते । अतः "होतृ + ऌकार" इत्यत्र — 1. अनेन वार्त्तिकेन विकल्पेन द्वयोः सामान्य-ऋकारयोः एकादेशे (नरसिंह-ऌकारे) कृते "होत्ल्लॢकार" इति शब्दः सिद्ध्यति । 2. विकल्पाभावे **अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घं कृत्वा "होतॄकार" इत्यपि सिद्ध्यति । 3. अपि च **ऋत्यकः** (6.1.128) अनेन सूत्रेण पाक्षिके प्रकृतिभावे कृते "होतृऌकार" इति अपि रूपं सिद्ध्यति । **बाध्यबाधकभावः** प्रकृतसूत्रम् **आद्गुणः** (6.1.87) तथा च **इको यणचि** (6.177) इत्येतयोः अपवादरूपेण विधीयते । अवर्णात् सवर्णे अवर्णे परे **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे प्राप्ते तं बाधित्वा अनेन सूत्रेण सवर्णदीर्घैकादेशः भवति (यथा, "दैत्य + अरि → दैत्यारि" इति) । एवमेव इवर्णात् उवर्णात् ऋवर्णात् वा सवर्णे अच्-वर्णे परे **इको यणचि** (6.177) इत्यनेन यणादेशे प्राप्ते तं बाधित्वा अनेन सूत्रेण सवर्णदीर्घैकादेशः भवति (यथा, "मुनि + ईश → मुनीश" इति) । **ओमाङोश्च** (6.1.95) तथा च **अतो गुणे** (6.1.97) इति द्वे सूत्रे **अकः सवर्णे दीर्घः** (6.1.101) इत्यस्य सूत्रस्य अपवादरूपेण प्रवर्तेते । **सूत्रे 'अचि' पदस्य अनुवृत्तिः** अस्मिन् सूत्रे **इको यणचि** (6.1.77) सूत्रात् 'अचि' इति पदम् अनुवर्तते । **तुल्यास्यप्रयत्नं सवर्णम्** (1.1.9) तथा **नाज्झलौ** (1.1.10) इत्येताभ्याम् सूत्राभ्याम् दीर्घ-ईकार-शकारयोः तथा च दीर्घ-ऋकार-षकारयोः सावर्ण्यं न निवार्यते, अतः अस्मिन् सूत्रे 'अचि' ग्रहणं न क्रियते चेत् 'कुमारी शेते' एतादृशेषु वाक्येषु अपि अनिष्टं सवर्णदीर्घं प्रसज्येत । अस्य विषयस्य विस्तरः अस्मिन् लेखे द्रष्टव्यः । **अकोऽकि दीर्घः इत्येव सुवचम्** सिद्धान्तकौमुद्याम् अस्य सूत्रस्य व्याख्याने दीक्षितः **अकोऽकि दीर्घः** इत्येव सूत्रम् भवतु इति सूचयति । एतादृशम् सूत्रम् क्रियते चेत् लाघवम् अपि सम्भवति इति आशयः । तत्कथमिति चेत्, 'अकः अकि' इत्युच्यमाने 'अचि' इत्यस्य अनुवृत्तिः न हि आवश्यकी वर्तते । अपि च, सूत्रे 'सवर्ण' इति शब्दः अपि नैव आवश्यकः वर्तते, यतः **यथासंख्यमनुदेशः समानाम्** (1.3.10) इत्यनेन अक्-वर्णस्य यथासङ्ख्यम् अक्-वर्णेन सह एकादेशः यदा भवति तदा सः सवर्णेन सह एव भवितुम् शक्नोति । Sutrartha (English) ------------------- In the context of संहिता, when an अक् letter is followed by a सवर्ण अच् letter, both of them are replaced by a दीर्घ-एकादेश. Vasu English Summary -------------------- When a single vowel is followed by a homogenous vowel, the corresponding long vowel is the single substitute for both the precedent and the subsequent vowels. Vasu English Translation ------------------------ When a single vowel is followed by a homogenous vowel, the corresponding long vowel is the single substitute for both the precedent and the subsequent vowels. Thus दण्ड + अग्रम् = दण्डाग्रम्, दधि + इन्द्रः = दधीन्द्रः, मधु + उदके = मधूदके and होतृ + ऋश्य = होतृश्यः ॥ Why do we say 'an अक् or simple vowel ?' Observe अग्ने + ए = अग्नये ॥ Why do we say 'by a homogenous vowel?' Observe दधि + अत्र = दध्यत्र ॥ The word अचि is understood here also. The word सवर्णे, therefore, qualifies the word अचि understood. The rule will not apply if a homogenous consonant follows. As कुमारी शेते ॥ The ई and श are homogenous, in spite of (l. I.10): for that prohibition does not apply to the long ई and श, because the rule of classification and inclusion contained in अणुदित्सवर्णस्य चाप्रत्ययः (1.1.69) is not brought into operation at the time when नाज् झलौ (1.1.10) rule operates, because of its being a portion of सवर्ण rule. Therefore, so long as it does not come into operation it is not accomplished. Therefore first the rule of नाज् झलौ comes into play, then the rule of सवर्ण definition (1.1.9) and then comes the ग्रहणकवाक्यं (1.1.68). Therefore in नाज् झलौ those अच् only are taken which are not included in the class of homogenous vowels i. e. only the 9 vowels contained directly in अच्, and not the सवर्ण vowels which (1.1.68) would have denoted. Therefore though short इ and श are not सवर्ण by (1.1.10): the long ई and श would be *savarna*. Vart:- When ऋ short is followed by ऋ short, the long substitution is optional: so also with लृ ॥ This *vartika* is necessitated because (1) the two ऋ or लृ -- the precedent and the subsequent -- are not homogenous, because one is *samvrita* and the other *vivrita*, or (2) because their prosodial length is 1 ½ and so the word दीर्घ cannot be applied with consistency in their case (ऊकाल &c). Thus होतृऋकारः = होतृकारः or होतॄकारः, so also होतृ + लृकारः = होत्लृकारः or होत्लॄकारः॥ The दीर्घ of लृ is ॠ ॥ Bhashya ------- अकः सवर्णे दीर्घः (2538) (दीर्घाधिकरणम्) (6198 उपसंख्यानवार्तिकम् ॥ 1 ॥) - सवर्णदीर्घत्वे ऋति ऋ वावचनम् - सवर्णदीर्घत्वे ऋति ऋ वा भवतीति वक्तव्यम् । होतृ ऋकारः - होतृकारः ॥ (6199 उपसंख्यानवार्तिकम् ॥ 2 ॥) - लृति ल्लृ वा - लृति ल्लृ वा भवतीति वक्तव्यम् । होतृ ऌकारः - होत्ल्ऌकारः । इति श्रीमद्भगवत्पतञ्जलिविरचिते व्याकरणमहाभाष्ये षष्ठस्याध्यायस्य प्रथमे पादे चतुर्थमाह्निकम् ॥ Kashika ------- अकः सवर्णेऽचि परतः पूर्वपरयोः स्थाने दीर्घ एकादेशो भवति। दण्डाग्रम्। दधीन्द्रः। मधूदके। होतश्यः। अक इति किम् ? अग्नये। सवर्ण इति किम् ? दध्यत्र। अचीत्येव — कुमारी शेते। **नाज्झलौ** (१.१.१०) इत्यत्र यदजिति प्रत्याहारग्रहणं तत्र ग्रहणकशास्त्रस्यानभिनिर्वृत्तत्वात् सवर्णा न गृह्यन्त इति सवर्णत्वमीकारशकारयोरप्रतिषिद्धम्॥ सवर्णदीर्घत्व ऋति ऋ वा वचनम्॥ ऋति सवर्णे परभूते तत्र ऋ वा भवतीति वक्त व्यम्। होतृ ऋकारो होतृकारः। यदा न ऋ तदा दीर्घ एव होतकारः॥ ऌति ऌ वा वचनम्॥ ऌति सवर्णे परतो ऌ वा भवतीति वक्त व्यम्॥ होतृ ऌकारो होत्ऌकारः, होतकारः। ऋकारऌकारयोः सवर्णसंज्ञाविधिरुक्त ः (का० १.१.९)। दीर्घपक्षे तु समुदायान्तरतमस्य ऌवर्णस्य दीर्घस्याभावात् ॠकारः क्रियते॥ Siddhanta Kaumudi ----------------- अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । दैत्यारिः । श्रीशः । विष्णूदयः । अचि किम् । कुमारी शेते । नाज्झलाविति सावर्ण्यनिषेधस्तु न दीर्घशकारयोः । ग्रहणकशास्त्रस्य सावर्ण्यविधिनिषेधाभ्यां प्रागनिष्पत्तेः । अकः किम् । हरये ॥ अकोऽकि दीर्घ इत्येव सुवचम् । (वार्तिकम्) ॥ होतृकारः । होतॄकारः ॥ (वार्तिकम्) ॥ होत्ऌकारः । होतॄकारः । पक्षे ऋकारः सावर्ण्यात् । ऋति ऋ वा लृति लृ वा इत्युभयत्रापि विधेयं वर्णद्वयं द्विमात्रम् । आद्यस्य मध्ये द्वौ रेफौ तयोरेका मात्रा । अभितोऽज्भक्तेरपरा । द्वितीयस्य तु मध्ये द्वौ लकारौ । शेषं प्राग्वत् । इहोभयत्रापि ऋत्यकः (SK92) इति पाक्षिकः प्रकृतिभावो वक्ष्यते ॥ Laghu Siddhanta Kaumudi ----------------------- अकः सवर्णेऽचि परे पूर्वपरयोर्दीर्घ एकादेशः स्यात्। दैत्यारिः। श्रीशः। विष्णूदयः। होतॄकारः॥ Laghu Shabdendushekhar ---------------------- अज्झलो: सावर्ण्यनिषेधादाह - **अचि किमिति** । **अनिष्पत्तेरिति** । **नाज्झलौ** (१.१.१०) इति सूत्रविषयनिर्णयेऽपवादविषयपरिहारेण तत्तद्वर्णीयसवर्णपदवाच्यनिर्णयोत्तरं तावतां ग्रहणस्य ग्रहणकशास्त्रबोद्ध्यतयैतद्बोधकाले ग्रहणकशास्त्रस्य तावद्ग्रहणबोधक-त्वानिष्पत्तेरित्यर्थः । सूत्रस्थसवर्णपदानुवृत्तिमभिप्रेत्याह - **ऋति सवर्ण इति** । तत्फलं दध्यृकारादावेतदप्रवृत्तिः । एतद्विधेययोः **अइउण्** सूत्रानन्तरं पाठादच्त्वम् । तेन तयोः स्थाने प्लुतसिद्धिस्तयोश्च न रपरत्वम् । द्विमात्रमिति । अत एव **अकः सवर्णे दीर्घः** (६.१.१०१) इत्यनेनैव ऋकारद्वयस्य स्थाने रेफद्वयवत्तारूपगुणकृताऽऽन्तर्येण कदाचिद्रेफद्वयगर्भस्य विवृतत्वाऽऽन्तर्येण कदाचिद्विवृतस्य, ऌकारे लकारवत्तान्तर्येण कदाचिद् द्विलकारस्य, कदाचिद्विवृतत्वसाम्येन रेफवत्तासाम्येन च तादृशस्य ऋकारस्य सिद्ध्या विकल्पफलसिद्धिमाश्रित्यैतद्वचनद्वयं **तुल्यास्यप्रयत्नं सवर्णम्** (१.१.९) इति सूत्रे भाष्ये प्रत्याख्यातम् । **द्वौ रेफाविति** । अत्रापि तदेव भाष्यं मानम् । द्विरेफत्वे हि रेफद्वयवति स्थानिन्ययं, लकारवत्यपर इति व्यवस्था सिद्ध्यति । **अभित इति** । द्वौ रेफावित्यनुषज्यते । तच्च द्वितीयान्तम् । अभितः पदयोगात् । **एओङ्** सूत्रे भाष्ये "मातॄणाम्" इत्यादौ णत्वादिसिद्ध्यर्थमवश्यमङ्गीकर्त्तव्ये **वर्णैकदेशा वर्णग्रहणेन गृह्यन्ते** इति पक्षे "प्रलूय, खट्वाभिः, वाचा तरति" इत्यादौ तुगैस्द्व्यज्लक्षणानां शङ्कायाः, **दीर्घात्** (६.१.७५) इति तुग्विधानसामर्थ्यतपरकरणसामर्थ्यं **नौद्व्यचष्ठन्** (४.४.७) इति सूत्रस्थनौग्रहणसामर्थ्येर्भेदेनाप्रतिभासमानेषु वर्णावयवेषु अवयवसदृशस्वतन्त्रवर्णाश्रयकार्याभावज्ञापनरूपसमाधानस्य च करणवत् "प्रातर्ऋतम्" इत्यत्र **रो रि** (८.३.१४) इत्यस्य तद्लृकार इत्यादौ **तोर्लि** (८.४.६०) इत्यस्य च शङ्कासमाधानाकरणेन **यत्तद्रेफात्परं भक्तेः** इति **हयवरट्** सूत्रस्थभाष्येण च **ऋलृक्** - सूत्रस्थयोरर्धमात्राज्भागस्याभितः क्लृप्तत्वेन तथैवोचितत्वादिति भावः । **द्वौ लकाराविति** । हल्द्वयवत्पूर्वसाहचर्यादिति भावः। अत्र ह्रस्वऋकारद्वयस्थानिकैकादेशे एव पूर्वस्य साधुत्वं ह्रस्वऋकारऌकारस्थानिकैकादेशे एवोत्तरस्य साधुत्वम् । अत एव ऌति न ऋकारो नाप्यृति लृकारः । अत एव वार्त्तिके ऋतीति तपरकरणमुत्तरवार्त्तिके ऌतीति च चरितार्थम् । तुल्यास्यसूत्रे भाष्ये यदेतदृतीति एतदृत इति वक्ष्यामि इत्येतद्वचनाश्रयणेन ऋऌवर्णयोः सावर्ण्यं न कार्यमिति च सङ्गच्छते । उपस्थितरेफीयप्रयत्नत्यागे मानाभावादीषत्स्पृष्टाविमौ । विवृतत्वे हि विवृतऋकारऌकाराभ्यामनयोरपि ग्रहणे "अकः सवर्णे" इत्यनेनैव सिद्धे वार्त्तिकस्यैव वैयर्थ्यापत्तेः ॥ Balamanorama ------------ **अकः सवर्णे दीर्घः** - अकः सवर्णे । 'अक' इति पञ्चमी ।इको यणची॑त्यतोऽचीत्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । तदाह-अकः सवर्णेऽचीत्यादिना । दैत्यारिरिति । दैत्य-अरिरिति स्थिते द्वयोरकारयोरेको दीर्घ आकारः, स्थानसाम्यात् । श्री-ईश इति स्थिते ईकारयोरेक ईकारः । विष्णु-उदय इति स्थिते उकारयोरूकारः । त्राचीत्यनुवृत्तेः किं प्रयोजनमिति पृच्छति-अचि किमिति । कुमारी शेत इति ।अची॑त्यननुवृत्तावीकारस्य शकारस्य च तालुस्थानविवृतप्रयत्नसाम्येन सवर्णतया तयोर्दीर्घ ईकार एकादेशः स्यात् । तन्निवृत्त्यर्थमचीत्यनुवर्तनीयमिति भावः । ननु ईकारशकारयोः स्थानप्रयत्नसाम्येऽपि न सावण्र्यं,नाज्झला॑विति निषेर्थात् । अतः 'कुमारी शेते' इत्यत्र 'अकःसवर्ण' इत्यस्याऽप्रसक्तेरचीत्यनुवृत्तिव्र्यर्थैवेत्यत आह — नाज्झलावितीति । नाज्झलाविति सावण्र्यनिषेधो वार्णसमाम्नायिकानामेव, नतु दीर्घप्लुतानामपि,आदिरन्त्येन सहेते॑त्यनेन वार्णसमाम्नायिकानामेवाऽच्शब्दवाच्यत्वावगमात् । अत ईकारशकारयोः सावण्र्यसत्त्वात्कुमारी शेत इत्यत्रातिप्रसङ्गः स्यादित्यचीत्यनुवृत्तिरावश्यकीत्यर्थः । ननु वार्णसमाम्नायिकानामेव अच्शब्दवाच्यत्वेऽपि अच्शब्दोपस्थितैरकारादिभिह्र्यस्वदीर्घप्लुतानामपि ग्रहणं भवति, अणुदित्सूत्रबलात् । अत ईकारशकारयोर्न सावण्र्यप्रसक्तिरित्यजनुवृत्तिव्र्यर्थैवेत्यत आह — ग्रहणकेति । अणुदित्सवर्णस्येति ग्रहणकसूत्रं हि लब्धात्मकमेव सत् 'अस्य च्वौ' इत्यादौ प्रवृत्तिमर्हति । नाज्झलाविति प्रवृत्तिदशायां च ग्रहणकशास्त्रमिदं न लब्धात्मकं । तद्धि सवर्णपदघटितत्वात्सवर्णपदार्थावगमोत्तरमेव लब्धात्मकम् । सवर्णसंज्ञाविधायकं च तुल्यास्यसूत्रं सामान्यतः स्वार्थं बोधयदपि नाज्झलावित्यपवादविषयं परिह्मत्य तदन्यत्रैव पर्यवसानं लब्ध्वा स्वकार्यक्षमतामश्नुते । उक्तं च — ॒प्रकल्प्यापवादविषयमुत्सर्गोऽभिनिविशते॑ इति । एवं चाऽणुदित्सूत्रस्य नाज्झलाविति निषेधसहिततुल्यास्यसूत्रप्रवृत्तेः प्रागलब्धात्मकतया नाज्झलावित्यत्राऽज्ग्रहणेन दीर्घप्लुतानां ग्रहणाऽभावेन ईकारशकारयोः सावण्र्यनिषेधाऽभावेन सावण्र्यसत्त्वात्कुमारी शेत इत्यत्राऽकः सवर्ण इति प्राप्तौ तन्निवृत्त्यर्थमचीत्यनुवृत्तिराश्रयणीयेत्यर्थः । तदेतन्नाज्झलाविति सावण्र्यनिषेधो यद्यपीति ग्रन्थव्याख्यावसरे प्रपञ्चितम् । अकोऽकि दीर्घ इत्येव सुवचमिति । एवंच सवर्णग्रहणं न कर्तव्यमिति लाघवम् । दध्युकार इत्यत्र तु यथासंख्याश्रयणान्नातिप्रसङ्गः । ततश्च अचीत्यनुवृत्तिरपि नाश्रयणीयेति भावः ।॒ऋति ऋ वा॑ इति वार्तिकमकः सवर्ण इत्यतोऽनुवृत्तसवर्णपदेन योजयित्वा पठति — ऋति सवर्णे ऋ वा । अक इत्यनुवर्तते । एकः पूर्वपरयोरिति च । अकः सवर्णे ऋति परे पूर्वपरयोरृइत्येकादेशः स्यादित्यर्थः । होतृकार इति । होतृ-ऋकार इति स्थितेऽनेन द्वयोरृकारयोः स्थाने ऋकारविलक्षणो नृसिंहवद्द्व्यन्तरात्मा ऋकारो रेफद्वयवान् कश्चिद्वर्णो भवति । एतदभावपक्षे रूपं दर्शयति — होतृकार इति । 'अकः सवर्ण' इति दीर्घः ।लृति सवर्णे लृ वा । अकः सवर्णे लृति परे पूर्वपरयोर्लृ इत्येकादेशो वा स्यादित्यर्थः । होत्ऌकार इति । होतृ-ऌकार इति स्थिते ऋकारस्य ऌकारस्य च स्थाने नृसिंहपद्द्व्यन्तरात्मा ऌकारो द्विलकारवान् कश्चिद्वर्णो भवति । पक्ष इति । उक्तद्व्यन्तरात्मकवर्णाऽभावपक्षे ऋकारस् ऌकारस्य च स्थानेऽकः सवर्ण इति दीर्घो भवन्नृऌवर्णयोरिति सावण्र्यादृकार एव भवति, ऌकारस्य दीर्घाऽभावादिति भावः । अत एव होतृ-ऌकार इत्यत्र सवर्णदीर्घपक्षे होतृकार इत्येवोदाहृतं भाष्ये । अथ 'ऋति ऋ वा'लृति लृ वे॑त्यत्र विधेयवर्णस्वरूपं विविनक्ति — उभयत्रापि विधेयं वर्णद्वयं द्विमात्रमिति । तदेवोपपादयति — आद्यस्य मध्य इति । एका मात्रेति । व्यञ्जनानामर्धमात्रतया एकैकस्य रेफस्य अर्धमात्रत्वादिति भावः । अभितोऽज्भक्तेरिति । 'अभित' इत्यनन्तरंरेफा॑विति शेषः ।अज्भक्ते॑रिति सामान्याभिप्रायमेकवचनम् । रेफद्वयस्य पुरस्तादुपरिष्टाच्च विद्यमानयोह्र्यस्वऋकारांशयोरन्या मात्रेत्यर्थः । द्वितीयस्य इति ।विधेयस्ये॑ति शेषः । शेषं प्राग्वदिति । लकारयोरेका मात्रा, तावभितो विद्यमानयोर्ऌकारांशयोरन्या मात्रेत्यर्थः । एतच्च तुल्यास्यसूत्रे भाष्यकैयटयोः स्पष्टम् । एतेन दीर्घे प्राप्ते ह्रस्व ऋकारो ऌकारश्चात्र विधीयत इति प्राचीनग्रन्थः परास्तः । पाक्षिक इति । वैकल्पिक इत्यर्थः । प्रकृतिभाव इति । निर्विकारस्वरूपेणावस्थानमित्यर्थः । सन्ध्यभाव इति यावत् । Tattvabodhini ------------- **अकः सवर्णे दीर्घः** - नाज्झलावित्यादि । अयं भावः — विधेयभेदे वाक्यभेदात्संभवन्त्यामेंकवाक्यतायां तदयोगात्तुल्यास्यप्रयत्न॑मित्यस्यनाज्झलौ॑ इत्यस्य च एकवाक्यत्वलाभायअज्झल्भिन्नं सवर्ण॑मित्यर्थोऽभ्युपेयते ।अज्झल्भिन्न॑मित्यत्र परस्परनिरूपिततुस्यत्वविशिष्टास्यप्रयत्नकौ यावज्झलौ, तदुभयभिन्नत्वं विवक्षितम् । तथाचयो ह्रस्वदीर्घात्मको वर्णो येन वर्णेन तादृशेन तुल्यास्यप्रयत्नस्तदुभयं मिथः सवर्णं भवति॑, तथायेन हला तुस्यास्यप्रयत्नकं यद्धल्, तदुभयंमिथः सवर्णं स्यात्,यश्च दीर्घप्लुतात्मको वर्णो येन हला तुल्यास्यप्रयत्नस्तदुभयमपि मिथः सवर्ण॑मित्यर्थः फलितः । ततश्चानेन सूत्रद्वयेन सवर्णसंज्ञायां सिद्धायाम्अणुदित्सवर्णस्ये॑ति ग्राहकशास्त्रं प्रवर्तते, ननु ततः प्राक् । अतोनाज्झलौ॑ इत्यनेन आक्षरसमाम्नायिकानामेव सावण्र्यं व्युदस्यते, नतु सर्वेषाम् । तेनात्र दीर्घशकारयोः सावण्र्यमस्त्येवेति तद्वारणायअकः सवर्णे॑ इत्यात्राऽचीत्यनुवर्तनं युक्तमिदम् । यदा तूष्मणामीषद्विधृतत्वं परिकल्प्यनाज्झलौ॑ इति सूत्रं प्रत्याख्यायते, तदेह सवर्णसूत्रेअची॑ति नानुवर्तनीयम् ।हे पिषासो इत्यादौ गुरोरनृतः-॒इत्याकारस्य प्लुते कृते ततः परस्य सस्य इणः परत्वेन षत्वं स्यात्,नाज्झलौ॑ इत्यत्राकारप्रश्लेषेण दीर्घहकारयोः सावण्र्याऽभावेऽपि प्लुताकारस्य हकारसवर्णत्वेनेण्त्वादित्याशङ्क्य तत्समाधानार्थमाश्च आश्चेति द्वन्द्वं कृत्वा सवर्णदीर्घेण दीर्घात्परत्र प्लुतोऽपि प्रश्लिष्यत इति क्लिष्टव्याख्यानमपि नाश्रयणीयम् । विआपाभिरित्यादौ ढत्वादेरप्यप्रसक्तिः । स्वराणामूष्माणां च प्रयत्नभेदेन सावण्र्याऽभावादिति सुगमोऽयं पन्थाः । अकोऽकीत्येवेति ।अकोऽकि दीर्घः॑ इत्येवेत्यर्थः । सुवचमिति । यथासङ्ख्यसंबन्धेनदध्यत्रे॑त्यादावतिप्रसङ्गाऽभावात् ,ऋ॑इति तिंरशतः संज्ञेत्युक्तत्वात्होतृ-ऌकार॑ इत्यत्र ऋकारस्य ऋकारपरत्वमस्त्येवेत्यप्रसङ्गाभावादीकारशकारयोः सावण्र्ये सत्यप्यचीत्यनुवर्तनं विनैव समीहीतिरूपसिद्धेश्चेति भावः ।ऋति ऋ वा॑ लृति लृ वे॑ति वार्तिकं सूत्रस्थेन सवर्णपदेन योजयित्वा पठति ।ऋति सवर्ण इत्यादि । नन्वेवम्अकः सवर्णे-॑ इति सवर्णपदाऽकरणे वार्तिकयोः सवर्णग्रहणं कर्तव्यम्, सूत्रे तुअकोऽकी॑ति कर्तव्यमिति विपरीतगौरवात्कथम्अकोऽकीत्येव सुवच॑मित्युक्तमिति चेदत्राहुः — भाष्यकारैरेतद्वार्तिकद्वयस्य प्रत्याख्यानान्नास्त्येव गौरवमिति । प्रत्याश्याने तूपपर्त्तिर्ऌकारान्तेषु विचारयिष्यते ।वर्णद्वयं द्विमात्रमिति । एतेनदीर्घे प्राप्ते ह्रस्वऌकारश्च विधीयते॑ इति प्राचो व्याख्यानमाकरविरुद्धमिति ध्वनितम् । Padamanjari ----------- अग्नय इति।'घेर्ङिति' इति गुणे कृते दीर्घत्वप्रसङ्गः। दध्यत्रेति। असति सवर्णग्रहणे यणादेशस्य दीर्घस्य च विषयविभागो न ज्ञायेत, ततश्च पर्यायः स्यात्। कुमारी शेत इति। ननु च तुल्यास्यप्रयत्नत्वेऽपि सावर्ण्यमत्र नास्ति,'नाज्ज्ञलौ' इति प्रतिषेधात्? इत्यत आह -नाज्झलावित्यर्त्रति। ठाणुदित्सवर्णस्य चाप्रत्ययःऽ इति ग्रहणकवाक्यम्, तच्च'नाज्झलौ' इत्यस्य प्रवृत्तिसमये नाभिनिर्वृतम्, तस्य हि सवर्णसंज्ञाङ्गम्, तेन यावत्सा न प्रवर्तते तावदनभिनिर्वृतम्। सवर्णसंझाऽपि स्वापवादे'नाज्झलौ' इत्यस्मिन्नप्रवृते न प्रवर्तते, ततश्च पूर्वं'नाज्झलौ' इत्यस्य प्रवृत्तिः, पश्चात्सवणसंज्ञायाः प्रवृत्तिः, पश्चाद् ग्रहणकवाक्यस्येति एष क्रमः। तेन'नाज्झलौ' इत्यत्रागृहीतसवर्णानामचां ग्रहणमिति इकारशकारयोः सावर्ण्यमपतिषिद्धम्, तस्मादचीत्यनुवर्त्यमिति। ऋति र्ःअ व वचनमिति। मध्ये रेफभक्ती द्वे, आदितोऽज्भक्तेरर्द्धमात्रा, एवमन्ततः। एवम् लृतीत्यत्रापि मध्ये द्वे लकारभक्ती, अभितः पूर्ववत्। एवं द्विमात्रयौरप्येतयोरीषत्स्पृष्टत्वाद्विवृताभ्यामृकारऌकाराभ्यामसावर्ण्यादग्रहणाद्दीर्घसंज्ञाया अभावाद्वचनम्। अर्द्धतृतीयमात्रत्वातत्कालत्वाभावादित्यन्ये। एतच्च सवर्णसंज्ञाया प्रपञ्चितम्। दीर्घपक्षे त्विति। ऋकारलुकारयोः समुदायः स्थानी, न च तस्यान्तरतमो दीर्घः सम्भवति, अतोऽवयवस्य योऽन्तरतमः स एव भवति। तत्रापि ऌवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स एव भवति। तत्रापि ऌवर्णस्य दीर्घासम्भवादृकारस्य योऽन्तरतमः स ऋकार एव भवति ॥ Praudhamanorama --------------- **अचि पर इति** । यदा तूष्मणामीषद्विवृतत्वमाश्रित्य **नाज्झलौ** (1.1.10) इति सूत्रं प्रत्याख्यायते तदा इहाचीति नानुवर्तनीयम्। अकोऽकि दीर्घ इति सुवचम्। **वर्णद्वयं द्विमात्रमिति।** यत्तु प्राचा व्याख्यातं दीर्घे प्राप्ते ह्यस्व ऋकार ऌकारश्च विधीयत इति तद्भाष्यकैयटादिविरोधादुपेक्ष्यम्॥ Prakriyasarvasvam ----------------- अकः सवर्णेऽचि परे दीर्घ एकादेशः स्यात् । इहास्ते । महीशः । यदूत्तमः । दातृषभः । होतृ लृकार इत्यत्र लृवर्णस्य दीर्घाभावाद् ऋकारः । होतॄकारः । अत्र ऋलृवर्णयोः परयोः सार्धद्विमात्र ऋ लॄ च वा वाच्यः । दातॄषभः होल्लॄकारः । गङ्गाह्रद इत्यादावाकारहकारयोर्दीर्घाभावार्थमचीत्युक्तम् । प्रत्याहारपठिताना- मेवाचां 'नाज्झलौ' (१-१-१०) इति सावर्ण्य निषिद्धमिति दीर्घहलोः सावर्ण्य- सम्भवात् प्रसज्येतैव दीर्घ इति । हरे अव विष्णो अव । Sarala ------ **इको यणचि** (६.१.७७) इत्यतः "अचि" इति, **एकः पूर्वपरयोः** (६.१.८४) इति सम्पूर्णमधिकारसूत्रं चानुवर्तते । अत आह - **अचि पर इत्यादि** ॥ Sudha ----- **दैत्यारिरिति ।** दैत्यानामसुराणाम् अरिः शत्रुरिति विग्रहः । सिद्धिप्रकारस्तु — "दैत्य-अरिः" इति स्थिते अत्र **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सूत्रेणे सवर्णेऽचि (अकारे) परे पूर्वपरयोः स्थाने सवर्णदीर्घादेशे कृते सति "दैत्यारिः" इति भवति । "श्री-ईशः" अत्रापि **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन पूर्वपरयोः ई-ई इति स्थाने सवर्णदीर्घादेशे "श्रीशः" इति भवति । एवमेव "विष्णु-उदयः" इति स्थिते प्रकृतसूत्रेण सवर्णदीर्घादेशे "विष्णूदयः" इति रूपम् ॥ Vartika ------- ऋति सवर्णे ऋ वा ।