61100: नित्यमाम्रेडिते डाचि =========================== **Padacheda:** नित्यम् | S | 0 | 0 | आम्रेडिते | S | 7 | 1 | डाचि | S | 6 | 1 | Sutrartha --------- **यदि अव्यक्तानुकरणवाचिशब्दस्य अन्ते विद्यमानात् तकारात् परः आम्रेडितसंज्ञकः शब्दः विद्यते, तथा च आम्रेडितसंज्ञकात् परः डाच्-प्रत्ययः विहितः अस्ति, तर्हि तस्य अव्यक्तानुकरणवाचिशब्दस्य अन्तिमः वर्णः तथा च आम्रेडितसंज्ञकस्य आदिवर्णः - एतयोः पररूप-एकादेशः भवति ।** अनेन सूत्रेण कृतद्वित्वस्य अव्यक्तानुकरणवाचिनः शब्दस्य डाच्-प्रत्यये परे पररूपैकादेशः उच्यते । **अव्यक्तानुकरणवाची शब्दः —** कस्यचन ध्वनेः अस्फुटरूपेण अनुकरणम् (Trying to imitate a sound by using syllables) अव्यक्तानुकरणम् नाम्ना ज्ञायते । यत्र ध्वनेः स्पष्टरूपेण वर्णनम् / अनुकरणम् कर्तुं न शक्यते, तत्र तम् ध्वनिं दर्शयितुम् तत्र केचन शब्दाः भाषायाम् प्रयुज्यन्ते; यथा - 'पटत्, घटत्, छमत्, डमत्' इत्यादयः, ते एव अव्यक्तानुकरणवाचिनः शब्दाः । अस्य शब्दस्य अधिकः विस्तरः **अव्यक्तानुकरणस्यात इतौ** (6.1.98) इति सूत्रार्थे दृश्यताम् । एतादृशाः अव्यक्तानुकरणवाचिनः शब्दाः 'कृ', 'भू' अथवा 'अस्' धातोः योगे प्रयुज्यन्ते चेत् **अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्** (5.4.67) इति सूत्रेण एतेभ्यः शब्देभ्यः 'डाच्' इति तद्धितसंज्ञकः प्रत्ययः विधीयते । अस्य प्रत्ययस्य विवक्षायाम् अव्यक्तानुकरणवाचिनः शब्दस्य **प्रकारे गुणवचनस्य** (8.1.12) इत्यत्र पाठितेन इति वार्त्तिकेन द्वित्वम् अपि भवति । अस्मिन् द्वित्वे कृते, तत्र निर्मिते ये द्वे आवृत्ती, ताभ्याम् द्वितीयस्य **तस्य परमाम्रेडितम्** (8.1.2) इति सूत्रेण आम्रेडितसंज्ञा भवति । अस्याम् स्थितौ **आम्रेडितसंज्ञकात् पूर्वं विद्यमानस्य शब्दस्य अन्ते उपस्थितः तकारः, तथा च आम्रेडितसंज्ञकस्य आदिवर्णः एतयोः मिलित्वा पररूप-एकादेशः भवति** — इति प्रकृतसूत्रस्य आशयः । यथा — .. code-block:: text पटत् करोति [अत्र 'पटत्' इति अव्यक्तानुकरणवाची शब्दः अस्ति, सः च 'कृ' धातोः योगेः प्रयुक्तः अस्ति ।] → पटत् पटत् डाच् करोति [**अव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच्** (5.4.67) इत्यनेन पटत्-शब्दात् डाच्-प्रत्ययः, तस्य च विवक्षायाम् पटत्-शब्दस्य द्वित्वम् अपि भवति । ] → पटत् पटत् आ करोति [डाच्-प्रत्ययस्य इत्संज्ञालोपः । अत्र विद्यमानस्य द्वितीय-पटत्-शब्दस्य **तस्य परमाम्रेडितम्** (8.1.2) इति आम्रेडितसंज्ञा भवति ।] → पटपटत् आ करोति [प्रथमशब्दस्य अन्तिमवर्णः तकारः, तथा च आम्रेडितसंज्ञकस्य आदिवर्णः पकारः, एतयोः पररूप-एकादेशः (पकारः) भवति । → पटपट् आ करोति [**टेः** (6.4.143) इति डित्-प्रत्यये परे अङ्गस्य टिलोपः । अतः 'अत' इति अंशः अत्र लुप्यते ।] → पटपटा करोति एवमेव अन्यानि अपि कानिचन उदाहरणानि — 1. घटत् भवति → घटत्+घटत्+डाच् भवति → घटघटा भवति । 2. छमत् अस्ति → छमत्+छमत्+डाच् अस्ति → छमच्छमा अस्ति । अत्र पररूपैकादेशे कृते 'छम + छमा' इति स्थिते **छे च** (6.1.73) इति मकारोत्तरस्य अकारस्य तुगागमे, ततश्च श्चुत्वे कृते चकारः सिद्ध्यति । 3. डमत् अस्ति → डमत्+डमत्+डाच् अस्ति → डमडमा अस्ति । **इदम् वस्तुतः वार्त्तिकम्, न हि सूत्रम्** भाष्ये **नित्यम् आम्रेडिते डाचि** (6.1.100) इति वार्त्तिकरूपेण पाठ्यते, न हि सूत्ररूपेण । अतः कौमुद्याम् अपि इदं वार्त्तिकरूपेण एव स्वीकृतम् अस्ति । काशिकाकारेण तु इदं सूत्ररूपेण पाठयित्वा तस्य पृथक् सूत्रसङ्ख्या अपि दीयते । Sutrartha (English) ------------------- When a word which is used to imitate some abstract sound and which ends is the phrase 'त्' is followed by an आम्रेडितसंज्ञक which is further followed by the pratyay डाच्, then the 'त्' of the first word and the first letter of the आम्रेडितसंज्ञक are combined to form a पररूप-एकादेश. Vasu English Summary -------------------- Of such a doubled sound-imitation word, to which the affix आ is added which causes elision of the final अत् , for the final त् of the first member and the initial consonant of the second member, such subsequent consonant is always the single substitute. Vasu English Translation ------------------------ Of such a doubled sound-imitation word, to which the affix आ is added which causes elision of the final अत् , for the final त् of the first member and the initial consonant of the second member, such subsequent consonant is always the single substitute. Thus पटपटा करोति (5.4.57), दमदमा करोति ॥ पटत्पटत् + डाच् (5.4.57) = पटत्पटा = पटपटा (त् + प् = प्) ॥ This *sutra* is really a *Vartika*. When the affix डाच् (5.4.57) is added to पटत्, there is doubling of the word by the *Vartika* under (8.1.12): this doubling takes place before the final अत् is elided. Kashika ------- अव्यक्त ानुकरणस्य, अतः, अन्त्यस्येति चानुवर्तते। डाच्परं यदाम्रेडितं तस्मिन् पूर्वस्याव्यक्त ानुकरणस्याच्छब्दस्य योऽन्त्यस्तकारस्तस्य पूर्वस्य परस्य चाद्यस्य वर्णस्य नित्यं पररूपमेकादेशो भवति। पटपटा करोति। दमदमा करोति। पटदित्यस्माद् **अव्यक्त ानुकरणाद्॰** (५.४.५७) इति डाचि विहिते **डाचि बहुलम्०** (८.१.१२ वा०) इति द्विर्वचनम्, तच्च टिलोपात् पूर्वमेवेष्यते॥ Padamanjari ----------- वार्तिकमेवेदम्। वृत्तिकृता सूत्ररूपेण पठितम्। डाचि विवक्षित इति। ठाशंसायां भूतवच्चऽ इति भविष्यति क्तः, विधित्सित इत्यर्थः। अन्यथा कडाजेव न स्यात्; द्व्यजवरार्धत्वाभावात्। तथा च डाज्विधावुक्तम् -ठ्यस्य च द्विर्वचने द्व्यजवरार्द्धता ततः प्रत्ययःऽ इति, अष्टमे च वक्ष्यतिडाचीति विषयसप्तमीति। डाचि विधित्सित एव द्विर्वचनं क्रियत इत्यत्र प्रयोजनान्तरमाह -तच्चेति। ह्यर्थे चः, तद्धि द्विर्वचनं टिलोपात्पूर्वमिष्यते। एवं च पूर्वं सिद्धयति, यदि डाचिविधित्सित एव द्विर्वचनं भवति, नान्यथा। यदि हि परभूते द्विर्वचनं स्यात्, ततोऽन्तरङ्गत्वात्पूर्वं टिलोपे कृते टकारान्तस्य द्विर्वचने पटपटेति न सिद्ध्येत्। यद्वा -डाचि विहिते उत्पन्ने इत्यर्थः। ननु चोक्तम् -डाजेव न स्यादिति? नैष दोषः;'द्व्यजवरार्द्धात्' इति भाविव्यपदेशोऽयम्। यस्य द्व्यजवरार्द्धता भविष्यति द्विर्वचने कृते तस्मादित्यर्थः। यदि डाचि विहितं द्विर्वचनं परत्वाट्टिलोपप्रसङ्ग इत्युक्तम् ? तत्राह -तच्चेत्यादि।'डाचि बहुलम्' इति बहुलग्रहणाद् द्विर्वचने कृते टिलोप इत्यर्थः ॥