61097: अतो गुणे
===============
**Padacheda:** अतः | S | 5 | 1 |
गुणे | S | 7 | 1 |
Sutrartha
---------
**अपदान्त-अकारात् गुणे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।**
अपदान्त-अकारात् संहितायाम् गुणसंज्ञकः वर्णः (अकार-एकार-ओकारः एतेषु कश्चन वर्णः) विद्यते चेत् पूर्वपरयोः एकः **पररूप-एकादेशः** भवति । इत्युक्ते, **अकार-अकारयोः स्थाने अकारः, अकार-एकारयोः स्थाने एकारः, अकार-ओकारयोः स्थाने च ओकारः** विधीयते । उदाहरणानि एतानि —
1. अपदान्त-अकारात् अकारे परे पररूपैकादेशः अकारः —
पठ्-धातोः लट्-लकारस्य प्रथमपुरुषबहुवचनस्य "पठन्ति" इति रूपस्य सिद्धौ अस्य सूत्रस्य प्रयोगः दृश्यते —
.. code-block:: text
पठँ (व्यक्तायां वाचि, भ्वादिः, (1.381))
→ पठ् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ पठ् + झि [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति प्रथमपुरुषबहुवचनस्य विवक्षायाम् झि-प्रत्ययः]
→ पठ् + शप् + झि [**कर्तरि शप्** (3.1.68) इति शप्-प्रत्ययः]
→ पठ् + अ + अन्ति [**झोऽन्तः** (7.1.3) इति झकारस्य अन्तादेशः]
→ पठ् + अन्ति [अपदान्त-अकारात् अकारे परे **अतो गुणे** (6.1.97) इति उभयोः पररूपैकादेशः अकारः]
→ पठन्ति
2. अपदान्त-अकारात् एकारे परे पररूपैकादेशः एकारः —
लभ्-धातोः लट्-लकारस्य उत्तमपुरुषैकवचनस्य "लभे" इति रूपस्य सिद्धौ अस्य सूत्रस्य प्रयोगः दृश्यते —
.. code-block:: text
डुलभँष् (प्राप्तौ, भ्वादिः, (1.1130))
→ लभ् + लट् [**वर्तमाने लट्** (3.2.123) इति लट्]
→ लभ् + इट् [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति आत्मनेपदस्य उत्तमपुरुषैकवचनस्य विवक्षायाम् इट्-प्रत्ययः]
→ लभ् + शप् + इ [**कर्तरि शप्** (3.1.68) इति शप्-प्रत्ययः]
→ लभ् + अ + ए [**टित आत्मनेपदानां टेरे** (3.4.79) इति एकारः]
→ लभ् + ए [अपदान्त-अकारात् एकारे परे **अतो गुणे** (6.1.97) इति उभयोः पररूपैकादेशः एकारः]
→ लभे
3. अपदान्त-अकारात् ओकारे परे पररूपैकादेशः ओकारः — अस्य उदाहरणानि न विद्यन्ते ।
**बाध्यबाधकभावः**
प्रकृतसूत्रम् **वृद्धिरेचि** (6.1.88) , **अकः सवर्णे दीर्घः** (6.1.101) तथा च **प्रथमयोः पूर्वसवर्णः** (6.1.102) इति त्रयाणाम् सूत्राणाम् अपवादत्वेन प्रवर्तते । एतानि त्रीणि सूत्राणि **मिलित्वा** प्रकृतसूत्रस्य प्रयोजनम् घ्नन्ति इत्याशयः । तदित्थम् —
1. उपरिनिर्दिष्टायाम् "लभे" शब्दस्य निर्दिष्टायाम् प्रक्रियायाम् **वृद्धिरेचि** (6.1.88) इत्यनेन प्राप्तम् वृद्धेकादेशं बाधित्वा प्रकृतसूत्रेण पररूपैकादेशः विधीयते ।
2. उपरिनिर्दिष्टायाम् "पठन्ति" शब्दस्य प्रक्रियायाम् **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन प्राप्तम् सवर्णदीर्घं बाधित्वा प्रकृतसूत्रेण पररूपैकादेशः विधीयते ।
3. " राम + जस्" इत्यत्र **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन प्राप्तम् सवर्णदीर्घं परत्वात् बाधित्वा **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घः प्राप्नोति । अस्य पूर्वसवर्णदीर्घस्य अपि अपवादत्वेन अत्र **अतो गुणे** (6.1.97) इति प्रकृतसूत्रं प्रवर्तते; परन्तु **पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्** इति परिभाषया अयम् अपवादः **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यस्य बाधकः न भवति । इत्युक्ते, " राम + जस्" इत्यत्र **अतो गुणे** (6.1.97) तथा च **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्येतयोः द्वयोः अपि प्राप्तौ सत्याम् परत्वात् **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यस्यैव प्रयोगः भवति । प्रक्रिया इयम् —
.. code-block:: text
राम + जस् [**स्वौजस्..** (4.1.2) इति प्रथमाबहुवचनस्य जस्-प्रत्ययः]
→ राम + अस् [**चुटू** (1.3.7), **तस्य लोपः** (1.3.9)]
→ रामास् [**अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्णदीर्घैकादेशे (आकारे) प्राप्ते; परत्वात् तद्बाधित्वा **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यनेन पूर्वसवर्णदीर्घे प्राप्ते; अपवादत्वात् तद्बाधित्वा **अतो गुणे** (6.1.97) इत्यनेन पररूप-एकादेशे (अकारे) प्राप्ते, **पुरस्तादपवादाः अनन्तरान् विधीन् बाधन्ते नोत्तरान्** इति न्यायेन **प्रथमयोः पूर्वसवर्णः** (6.1.102) इत्यस्यैव प्रयोगं कृत्वा पूर्वसवर्णदीर्घादेशः भवति ।]
→ रामाः [**ससजुषो रुः** (8.2.66),**खरवसानयोर्विसर्जनीयः** (8.3.15) ]
**दलकृत्यम्**
**1. अपदान्तात् इति किम् ?** पदान्त-अकारस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, "दण्डस्य अग्रम्" इत्यत्र "दण्ड + अग्रम्" इति स्थिते पूर्वपदस्य अन्ते विद्यमानस्य अकारस्य पदान्तत्वं दृष्ट्वा अत्र प्रकृतसूत्रं नैव प्रवर्तते, अतः अत्र **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्णदीर्घे कृते रूपसिद्धिः भवति ।
**2. अत् इति तपरकरणम् किमर्थम् ?** अकारेण जायमानस्य सवर्णग्रहणस्य नियमनार्थम् प्रकृतसूत्रे "अत्" इति अकारस्य तपरकरणम् कृतम् अस्ति । इत्युक्ते, **तपरस्तत्कालस्य** (1.1.70) इति सूत्रम् उपयुज्य "अत्" इत्यनेन अकारस्य केवलम् तत्कालवाचिभेदानाम् (ह्रस्वभेदानाम्) एव ग्रहणं भवति, दीर्घभेदानाम् न । अतः अपदान्त-आकारस्य विषये इदं सूत्रं नैव प्रवर्तते । अतएव "या" धातोः लट्लकारस्य प्रथमपुरुषबहुवचनस्य 'अन्ति' प्रत्यये परे प्रकृतसूत्रम् नैव विधीयते, अपितु केवलम् सवर्णदीर्घं कृत्वा 'यान्ति' इति रूपं सिद्ध्यति ।
Sutrartha (English)
-------------------
In the context of संहिता, when an अपदान्त अकार is followed by a गुण letter, both of them are replaced by a single पररूप.
Vasu English Summary
--------------------
Also when the short अ , not being final in a पद , is followed by a गुण letter, then in the room of both the precedent and the subsequent - the single substitute is the form of the subsequent i.e. the गुण।
Vasu English Translation
------------------------
Also when the short अ , not being final in a पद , is followed by a गुण letter, then in the room of both the precedent and the subsequent - the single substitute is the form of the subsequent i.e. the गुण।
Thus पच् + शप् + अन्ति = पच + अन्ति = पचन्ति so also यजन्ति ॥ This debars lengthening of (6.1.101). पच + ए = पचे, यज + ए = यजे, here the *Vriddhi* is debarred (6.1.88). Why do we say "after the short vowel अ?" Observe या + अन्ति = यान्ति, वान्ति ॥ Why do we say when followed by 'a *Guna* letter ?' Observe अपच + इ = अपचे, अयजे ॥ When final in a *Pada*, this rule does not apply : as दण्ड + अग्रं = दण्डाग्रम्, यूपाग्रम्, क्षुद्राग्रम् ॥
Kashika
-------
अपदान्तादिति वर्तते। अकारादपदान्ताद् गुणे परतः पूर्वपरयोः स्थाने पररूपमेकादेशो भवति। पचन्ति। यजन्ति। अकः सवर्णे दीर्घस्य (६.१.१०१) अपवादः। पचे,यज इत्यत्र **वृद्धिरेचि** (६.१.८८) इति वृद्धिः प्राप्नोति। अत इति किम् ? यान्ति। वान्ति। गुण इति किम् ? अपचे। अयजे। अपदान्तादित्येव — दण्डाग्रम्। यूपाग्रम्॥
Siddhanta Kaumudi
-----------------
अपदान्तादकाराद्गुणे परतः पररूपमेकादेशः स्यादिति प्राप्ते । परत्वात्पूर्वसवर्णदीर्घः । अतो गुणे (SK191) इति हि [(परिभाषा - ) पुरस्तादपवादा अनन्तरान्विधीन्बाधन्ते नोत्तरान्] इति न्यायेन अकः सवर्णे (SK85) इत्यस्यैवापवादो नतु प्रथमयो (SK154)रित्यस्यापि । रामाः ॥
Laghu Siddhanta Kaumudi
-----------------------
अपदान्तादतो गुणे पररूपमेकादेशः॥
Balamanorama
------------
**अतो गुणे** - अथ राम असिति स्थिते 'अकः सवर्णे दीर्घ' इति सवर्णदीर्घस्यापवादं पररूपमाशह्कितुमाह-अतो गुणे । 'एङि पररूप' मित्यतः पररूपमित्यनुवर्तते ।उस्यपदान्ता॑दित्यतोऽपदान्तादित्यनुवर्तते ।एकः पूर्वपरयो॑रित्यधिकृतम् । 'अत' इति पञ्चमी । तदाह — अपदान्तादित्यादिना । इति प्राप्त इति । नच परत्वादत्वात्, परादपवादस्य बलीयस्त्वादिति भावः । परत्वादिति । अतो गुणे॑ इत्यपेक्षयाप्रथमयोः पूर्वसवर्ण॑ इत्यस्य परत्वादित्यर्थः । ननु पररूपमिदमपवादत्वात् सवर्णदीर्घमिव पूर्वसवर्णदीर्घमपि कुतो न बाधत इत्यत आह-अतो गुण इतीत्यादि । अनन्तरान् । अव्यवहितानित्यर्थः । उत्तरानिति । व्यवहितानित्यर्थः । 'अतो गुण' इत्युत्तरमव्यक्तानुकरणस्येत्यादि पठित्वा, 'अकःसवर्णे दीर्घः'प्रथमयोः पूर्वसवर्णः॑ इति पठितम् । ततश्च पररूपमिदं सवर्णदीर्घमेव बाधते, नतु तद्व्यवहितं पूर्वसवर्णदीर्घमपीति भावः । वस्तुतस्तु पुरस्तादपवादन्यायस्य नायं विषयः । नहि पररूपमिदं पूर्वसवर्णदीर्घस्यापवादः । भवन्तीत्यादावप्राप्ते ।ञपि पूर्वसवर्णदीर्घे एतस्य पररूपस्यारम्भादित्यलम् । रुत्वविसर्गौ सिद्धवत्कृत्याह — रामा इति ।
Padamanjari
-----------
अकः सवर्णे दीर्घस्यापवाद इति। ननु च मध्येऽपवादन्यायेन वृद्धेरेवायमपवादो युक्तः, न दीर्घस्य? गुणग्रहणाद्दीर्घस्यापि बाधको भविष्यति, अन्यथा - ठतोऽपदान्तात्ऽ इत्येव वक्तव्यम्। एङीत्येव, ततो जुसि च, अपदान्तादित्येव। एवं सिद्धं गुणग्रहणाद् गुणमात्रेऽयं विधैः प्रवर्तमानो दीर्घमपि बाधिष्यते। अत इति किमिति अदिति वर्तत एवेति प्रश्नः। तपरकरणे तात्पर्यमित्युतरम् ॥
Nyaas
-----
`पचे, यजे`- इत्यत्र **वृद्धिरेचि** (6.1.88) इति वृद्धिः प्राप्नोति, तेन तस्या एव पररूपत्वमपबाद इत्यभिप्रायः। `आद्गुमः` (6.1.84) इत्यत आदित्यनुवर्तत एवेति मन्यमान आह - `अत इति किम्` इति। दीर्घनिवृत्यर्थ इह तपरस्याकारस्य निर्देशः क्रियत इति दर्शयितुमाह - `यान्ति, वान्ति` इति। `अपचे` इति। लङ्यात्मनेपदोत्तमपुरुषैकवचन इट्, अतर **आद्गुणः** (6.1.87) । पररूपे तु सति स गुणो न लभ्यते॥
Prakriyasarvasvam
-----------------
अपदान्तादकाराद् गुणाख्ये वर्णे परे पररूपं स्यात् पचन्ति ।
Sudha
-----
अतो गुणे इति । **एङि पररूपम्**(6.1.94) इत्यतः पररूपमित्यनुवर्तते । **उस्यपदान्तात्**(6.1.96) इत्यतः अपदान्तादित्यनुवर्तते । **एकः पूर्वपरयोः**(6.1.84) इत्यधिकृतम् । अत इति पञ्चमी । तदाह - अपदान्तादित्यादिना । दश्चेति । **इदमो मः**(7.2.108) इत्यनुवर्तते । **अष्टन आ विभक्तौ**(7.2.84) इत्यतो मण्डूकप्लुत्या विभक्कावित्यनुवर्तते । द इति पष्ठी । इदमो दकारस्येति लभ्यते, तदाह - इदमो दस्येत्यादिना । इमौ । इदम् + औ इति स्थिते अत्र **त्यदादीनामः**(7.2.102) इति मस्य अत्वे 'इद अ औ' इति जाते **अतो गुणे**(6.1.97) इत्यनेन पररूपे 'इद औ' इति भूते **दश्च**(7.2.109) इत्यनेन दकारस्य मकारे विहिते वृद्धौ कृतायाम् 'इमौ' इति रूपं सिद्धम् । इमे । इदम् + जस् इत्यत्र **त्यदादीनामः**(7.2.102) इत्यकारान्तादेशे 'इद अ जस्' इति स्थिते **अतो गुणे**(6.1.97) इति पररूपे **जसः शी**(7.1.17) इति शीत्वे शस्येत्संज्ञायां लोपे च **आद्गुणः**(6.1.87) इति गुणे **दश्च**(7.2.109) इति दकारस्य मकारे 'इमे' इति रूपम् । त्यदादेः सम्बोधनं नास्तीति । प्रचुरप्रयोगादर्शनादिति भावः ।