61096: उस्यपदान्तात्
====================
**Padacheda:** उसि | S | 7 | 1 |
अपदान्तात् | S | 5 | 1 |
Sutrartha
---------
**अपदान्त-अवर्णात् 'उस्' शब्दे परे संहितायाम् पूर्वपरयोः एकः पररूप-एकादेशः भवति ।**
**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति सूत्रेण विहितस्य प्रथमपुरुष-बहुवचनस्य झि-प्रत्ययस्य स्थाने **झेर्जुस्** (3.4.108) इत्यतः **द्विषश्च** (3.4.112) इत्येतैः सूत्रैः 'जुस्' इति आदेशः भवति । जुस्-प्रत्ययस्य जकारस्य इत्संज्ञा, लोपः भवति, येन 'उस्' इति अवशिष्यते । अयम् **उस्-प्रत्ययः यदा अपदान्त-अवर्णात् (अकारात्/आकारात्) परः विद्यते, तदा अवर्ण-उकारयोः एकः पररूप-एकादेशः उकारः भवति** — इति प्रकृतसूत्रस्य आशयः ।
केवलम् **विधिलिङ्लकारस्य, लुङ्लकारस्य, तथा च लङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियासु इदम् सूत्रम् प्रयुक्तं दृश्यते** । क्रमेण उदाहरणानि एतानि —
1. विधिलिङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —
विधिलिङ्-लकारस्य प्रथमपुरुषबहुवचनस्य झि-प्रत्ययस्य **झेर्जुस्** (3.4.108) इत्यनेन जुस्-आदेशः भवति । जकारस्य अत्र **चुटू** (1.3.7) इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् **उस्** इति जायते । **अपदान्त-अवर्णात् अयम् उस्-प्रत्ययः विद्यते चेत् पूर्वपरयोः एक पररूपैकादेशः विधीयते** । यथा, रुधादिगणस्य भिद्-धातोः 'भिन्द्युः' इति रूपम् इत्थं सिद्ध्यति —
.. code-block:: text
भिदिँर् (अवदारणे, रुधादिः, (7.2))
→ भिद् [ इति वार्त्तिकेन 'इँर्' इति समुदायस्य इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः]
→ भिद् + लिङ् [**विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्** (3.3.161) इति विधिलिङ्लकारः]
→ भिद् + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति झि-प्रत्ययः]
→ भि श्नम् द् झि [**रुधादिभ्यः श्नम्** (3.1.78) इति श्नम्-प्रत्ययः ।**मिदचोऽन्त्यात्परः** (1.1.47) इति अयम् अन्त्यात् अचः परः विधीयते ।]
→ भि न द् झि [मकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, शकारस्य **लशक्वतद्धिते** (1.3.8) इति इत्संज्ञा । द्वयोः अपि **तस्य लोपः** (1.3.9) इति लोपः]
→ भि न् द् झि [**श्नसोरल्लोपः** (6.4.111) इति अकारलोपः]
→ भि न् द् उस् [**झेर्जुस्** (3.4.108) इति झि-इत्यस्य जुस्-आदेशः । जकारस्य **चुटू** (1.3.7) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः]
→ भि न् द् यास् उस् [**यासुट् परस्मैपदेषूदात्तो ङिच्च** (3.4.103) इत्यनेन यासुट्-आगमः]
→ भि न् द् या उस् [**लिङः सलोपोऽनन्त्यस्य** (7.2.79) इत्यनेन यास्-इत्यस्य सकारस्य लोपः]
→ भिन्द्युस् ['या' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे **उस्यपदान्तात्** (6.1.96) इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]
→ भिन्द्युः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ।]
2. लुङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —
आकारान्त-धातोः लुङ्-लकारस्य प्रक्रियायाम् सिच्-विकरणस्य लुक् भवति चेत् **आतः** (3.4.110) इति सूत्रेण झि-प्रत्ययस्य जुस्-आदेशः भवति । जकारस्य अत्र **चुटू** (1.3.7) इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् **उस्** इति जायते । **अस्मिन् उस्-प्रत्यये परे धातोः अन्ते विद्यमानस्य आकारस्य प्रकृतसूत्रेण पररूपैकादेशः कृतः दृश्यते ** । यथा, भ्वादिगणस्य 'पा' धातोः 'अपुः' इति रूपम् इत्थं सिद्ध्यति —
.. code-block:: text
पा (पाने, भ्वादिः, (1.1074))
→ पा + लुङ् [**लुङ्** (3.2.110) ]
→ पा + च्लि + लुङ् [**च्लि लुङि** (3.1.43) ]
→ पा + सिच् + लुङ् [**च्लेः सिच्** (3.1.44) इति सिच्-आदेशः]
→ पा + लुङ् [**गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु** (2.4.77) इति सिच्-प्रत्ययस्य लुक्]
→ अ + पा + लुङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + पा + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति झि-प्रत्ययः]
→ अ + पा + जुस् [**आतः** (3.4.110) इत्यनेन आकारात् अङ्गात् परस्य (सिच्-प्रत्ययस्य लुकि कृते) झि-प्रत्ययस्य जुस्-आदेशः]
→ अ + पा + उस् [**चुटू** (1.3.7), **तस्य लोपः** (1.3.9)
→ अ + प् + उस् ['पा' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे **उस्यपदान्तात्** (6.1.96) इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]
→ अपुः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ।]
3. लङ्लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवचनस्य प्रक्रियायाम् अस्य सूत्रस्य प्रयोगः —
आकारान्तात् उत्तरस्य लङ्लकारस्य झि-प्रत्ययस्य **लङः शाकटायनस्यैव** (3.4.111) इत्यनेन विकल्पेन जुस्-आदेशः भवति । जकारस्य अत्र **चुटू** (1.3.7) इत्यनेन इत्संज्ञा भवति, तस्याः लोपे कृते प्रत्ययस्य दृश्यरूपम् **उस्** इति जायते । **अस्मिन् उस्-प्रत्यये परे धातोः अन्ते विद्यमानस्य आकारस्य प्रकृतसूत्रेण पररूपैकादेशः कृतः दृश्यते ** । यथा, अदादिगणस्य 'पा (रक्षणे)' धातोः 'अपुः' इति रूपम् इत्थं सिद्ध्यति —
.. code-block:: text
पा (रक्षणे, अदादिः, (2.51))
→ पा + लङ् [**अनद्यतने लङ्** (3.2.111) इति लङ्]
→ पा + झि [**तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति प्रथमपुरु
→ पा + च्लि + लुङ् [**च्लि लुङि** (3.1.43) ]
→ पा + सिच् + लुङ [**च्लेः सिच्** (3.1.44) इति सिच्-आदेशः]
→ पा + लुङ् [**गातिस्थाघुपाभूभ्यः सिचः परस्मैपदेषु** (2.4.77) इति सिच्-प्रत्ययस्य लुक्]
→ अ + पा + लुङ् [**लुङ्लङ्लृङ्क्ष्वडुदात्तः** (6.4.71) इति अडागमः]
→ अ + पा + झि [प्रथमपुरुषबहुवचनस्य विवक्षायाम् **तिप्तस्झिसिप्थस्थमिब्वस्मस् तातांझथासाथांध्वमिड्वहिमहिङ्** (3.4.78) इति झि-प्रत्ययः]
→ अ + पा + शप् + झि [**कर्तरि शप्** (3.1.68) इति शप्-प्रत्ययः]
→ अ + पा + झि [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्]
→ अ + पा + जुस् [**लङः शाकटायनस्यैव** (3.4.111) इति झि-प्रत्ययस्य पाक्षिकः जुस्-आदेशः]
→ अ + पा + उस् [**चुटू** (1.3.7), **तस्य लोपः** (1.3.9)
→ अ + प् + उस् ['पा' इत्यस्य अपदान्त-आकारात् 'उस्' प्रत्यये परे **उस्यपदान्तात्** (6.1.96) इत्यनेन पररूप-एकादेशः उकारः विधीयते ।]
→ अपुः [**ससजुषोः रुँः** (8.2.66) इति रुँत्वम्, **खरवसानयोर्विसर्जनीयः** (8.3.15) इति विसर्गः ।]
**दलकृत्यम्**
**अपदान्तात् इति किमर्थम् ?** पदान्त-अवर्णात् परस्य 'उस्' इत्यस्य विषये इदं सूत्रं नैव प्रवर्तते । यथा, 'का + उस्रा (धेनुः इत्यर्थः)' इत्यत्र अस्य सूत्रस्य प्रसक्तिः नास्ति यतः अत्र आकारः पदान्ते विद्यमानः अस्ति । अतः अत्र **आद्गुणः** (6.1.87) इति गुणैकादेशे कृते 'कोस्रा' इत्येव सिद्ध्यति ।
एवमेव, आङ्-उपसर्गपूर्वकात् वस्-धातोः क्त-प्रत्यये कृते "आ + उषिता" इत्यत्र **शासिवसिघसीनां च** (8.3.60) इति त्रिपादीसूत्रेण प्राप्तस्य षत्वस्य असिद्धत्वात् "आ + उसिता" इत्येव दृष्ट्वा प्रकृतसूत्रम् नैव प्रवर्तते, यतः 'आ' इति उपसर्गः पदसंज्ञकः अपि अस्ति, अतः अत्र अपदान्तः अवर्णः न हि विद्यते ।
**लिट्-लकारस्य उस्-प्रत्ययः**
लिट्-लकारस्य परस्मैपदस्य प्रथमपुरुषबहुवनस्य झि-प्रत्ययस्य **परस्मैपदानां णलतुसुस्थलथुसणल्वमाः** (3.4.82) इति सूत्रेण उस्-आदेशः सम्भवति । परन्तु अस्य उस्-आदेशस्य विषये प्रकृतसूत्रं नैव प्रवर्तते, यतः अयम् उस्-प्रत्ययः **लिट् च** (3.4.115) इत्यनेन आर्धधातुकः अस्ति; अपि च अकारान्तात् / आकारान्तात् धातोः विहितः अयं प्रत्ययः **असंयोगाल्लिट् कित्** (1.2.5) इत्यनेन च किद्वत् अपि भवति, अतः अस्मात् प्रत्ययात् पूर्वम् विद्यमानस्य अकारस्य **अतो लोपः** (6.4.48) इत्यनेन, तथा च आकारस्य **आतो लोप इटि च** (6.4.64) इत्यनेनैव अङ्गकार्यस्य सोपानेषु एव लोपः क्रियते, तदर्थम् प्रकृतसूत्रम् नैव आवश्यकम् ।
Sutrartha (English)
-------------------
In the context of संहिता, ऌhen a अवर्ण not occurring at end of a पद is followed by the word 'उस्', both of them are replaced by a single पररूप.
Vasu English Summary
--------------------
For the अ or आ (not standing at the end of a पद or full word) + उ of उस the Tense-affix, the second vowel is the single substitute.
Vasu English Translation
------------------------
For the अ or आ (not standing at the end of a पद or full word) + उ of उस the Tense-affix, the second vowel is the single substitute.
The आत् is understood here. This debars the *guna* substitution taught in (6.1.87). Thus भिन्द्या + उस् = भिन्द्युः, छिन्द्या + उस् = छिन्द्युः ॥ अदा + उस् = अयुः, (लुङ् of दा) अया + उस् = अयुः ॥ All these are examples of लिङ् (Potential) and लङ् (Imperfect). Thus भिन्द् + यासुट् + झि (the यासुट् is added by (3.4.103)) = भिन्द् + य + उस् (जुस् replaced झि (3.4.108)) = भिन्द्युस् ॥ अदा + सिच् + झि = अदा + o (2.4.77) + जुस् (3.4.10) = अदा + उस् = अदुः ॥ अ + या + झि = अ + या + उस् (6.4.111) = अयुः ॥ The उस् is also the substitute of झि in लिट् (Perfect) see (3.4.82). When the preceding vowel is not अ or आ, this rule does not apply. Thus the 3rd person plural of the Perfect of कृ is:- चकृ + उस् = चक्रुः ॥ So also from भी we have अबिभे + उस् = अबिभयुः ॥ The word अपदान्तात् 'not being final in a *pada*' does strictly speaking, serve no good purpose in this *sutra*. For the affix उस् can never be added to a *Pada*, it must always be added to a stem, that has not yet risen to the rank of a *Pada*. If उस्, however, be taken as the syllable उस् (whether an affix or part of an affix or not), then the limitation of अपदान्तात् becomes valid. Thus का + उस्रा = कोस्रा, का + उषिता = कोषिता ॥ Most likely this word has been read here for the sake of the subsequent *sutra* or because उस् syllable is taken here and not merely the affix उस् ॥
Bhashya
-------
उस्यपदान्तात्( 2533) (अपदान्तात्पदप्रयोजनभाष्यम्) अपदान्तादिति किमर्थम् ? का उस्रा - कोस्रा । अपदान्तादिति शक्यमकर्तुम् । कस्मान्न भवति - का उस्रा - कोस्रा ? अर्थवद्ग्रहणे नानर्थकस्येति । नैषा परिभाषेह शक्या विज्ञातुम्, इह हि दोषः स्यात् - भिन्द्या उस् - भिन्द्युः, छिन्द्या उस् - छिन्द्युः ॥ एवं तर्हि लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्येवं न भविष्यति ॥ उत्तरार्थं तर्ह्यपदान्तग्रहणं कर्तव्यम् । अतो गुणे (97) अपदान्ताद्यथा स्यादिति । इह मा भूत् - दण्डाग्रम्, क्षुपाग्रमिति ॥
Kashika
-------
आदित्येव। अवर्णादपदान्तादुसि पूर्वपरयोराद्गुणापवादः पररूपमेकादेशो भवति। भिन्द्या उस् भिन्द्युः। छिन्द्या उस् छिन्द्युः। अदा उस् अदुः। अया उस् अयुः। अपदान्तादिति किम् ? का उस्रा कोस्रा। का उषिता कोषिता। आदित्येव — चक्रुः। अबिभयुः॥
Siddhanta Kaumudi
-----------------
अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । इति प्राप्ते । परत्वान्नित्यत्वाच्चअतो येयः (SK2212) इति प्राञ्चः । यद्यप्यन्तरङ्गत्वात्पररूपं न्याय्यं तथापि यास् इत्येतस्य इय् इति व्याख्येयम् । एवं तु सन्धिरार्षः । भवेयुः । भवेः । भवेतम् । भवेत । भवेयम् । भवेव । भवेम ॥
Laghu Siddhanta Kaumudi
-----------------------
अपदान्तादकारादुसि पररूपमेकादेशः। अपुः। अपास्यत्॥ {$ {! 17 ग्लै !} हर्षक्षये $} (धातुपाठे (01.1051)) ॥ ग्लायति॥
Balamanorama
------------
**नाम्रेडितस्यान्त्यस्य तु वा (नित्यमाम्रेडिते डाचि)** - तत्राह-नाम्रेडितस्य ।अव्यक्तानुकरणस्यात #इता॑वितिपररूप॑मितिएकः पूर्वपरयो॑रिति चानुवर्तते । आम्रेडितस्याव्यक्तानुकरणस्यावयवो योऽच्छब्दस्तस्येतिशब्दे परे पररूपं न स्यात् । अन्त्यस्य तु वा । तुरवधारणे । अच्छब्दान्त्यस्य तकारस्यैव इकारस्य च पररूपं वा स्यान्नत्वकारस्यापीत्यर्थः । तदाह — आम्रेडीतस्य प्रागुक्तमित्यादिना । ननु पटत् पटदित्यत्र कथं द्वित्वमित्यत आह — डाचीति ।डाचि बहुलं द्वे भवत इति द्वित्व॑मित्यन्वयः । नन्वव्यक्तानुकरणाद्द्व्यजवरार्धादनितौ डाच् इति डाचः कथमिह संभवः, इतिशब्दे परतस्तत्पर्युदासः स्यादित्यत आह — बहुलग्रहणादिति । वेत्यनुक्त्वा बहुलग्रहणमदिकविधानार्थं, बहूनर्थान् लाति गृह्णातीति तद्व्युत्पत्तेरिति भावः ।
Tattvabodhini
-------------
**उस्यपदान्तात्** - अन्तरङ्गत्वादिति । प्रत्ययमात्रापेक्षत्वात् ।अतो येयः॑ इत्यस्य त्वाङ्गत्वात्प्रकृतिप्रत्ययोभयसापेक्षत्वेन बहिरङ्गत्वादिति भावः । नचाऽपदान्ताऽकारस्य जुसश्चाश्रयणात्पररूपस्याप्युभयसापेक्षत्वमस्त्येवेति चेन्मैवम्, अनेकाश्रयणेऽपि प्रत्ययमात्राश्रयतया प्रकृतेरनाश्रयणात् । व्याख्येयमिति । एतच्च विप्रतिषेधसूत्रे भाष्ये स्पष्टम्॥
Padamanjari
-----------
भिन्द्यौरिति। भिदेर्लिङ्, यासुट्, झेर्जुस्, श्नसोरल्लोपः,'लिङ्ः सलोपो' नन्त्यस्यऽ इति सलोपः, भिन्द्याऔस् -अनेन पररूपम्। अदुरिति। दाञो लुङ्,'गातिस्था' इत्यादिना सिचो लुक्, ठातःऽ इति झेर्जुस्, अदाऔस् -अनेन पररूपम् । कोस्रेति। ननु चानर्थकत्वादेवास्योसो ग्रहणं न भविष्यति ? एवं तर्ह्येतज्ज्ञापयति -अनर्थस्याप्युसो ग्रहणमिति, तेन भिद्यौरित्यादावप्युसि पररूपं भवति। अत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। कोषितेति। वसेः क्तः,'वसतिक्षुदोरिट्' , यजादित्वात्सम्प्रसारणम्,'शासिवसिघसीनां च' इति षत्वम्, तस्यासिद्धत्वादुसि न पररूपं भवति। अस्य तु लाक्षणिकत्वादेवाग्रहणं सिद्धम्। अबिभयुरिति। भियो लङ्, शपः श्लुः,'सिजभ्यस्त' इत्यादिना झेर्जुस्,'जुसि च' इति गुणः ॥
Nyaas
-----
`भिन्द्युः` इति। भिदेर्लिङ्, झि, यासुट्? **झेर्जुस्** (3.4.108) इति जुस्, श्नम्, **श्नसोरल्लोपः** (6.4.111) इत्यकारलोपः, `लिङः सलोपोऽनन्तयस्य` (7.2.79) इति सकारलोपः, भिन्द्या+उसिति स्थितेऽनेन पररूपत्वम्। `अदुः` इति। ददातेर्लुङ्, झि, `आतः` (3.4.110) इति झेर्जस्, `गातिस्थाट (2.4.77) इति सिचो लुक्, अदा+उसिति स्थितेऽनेन पररूपत्वम्। `कोरुआआ, कोषिता` इति। ननु चात्रैकस्मिन्? प्रत्युदाहरणे `अर्थवद्ग्रहणे नानर्थकस्य` (व्या।प।1) इत्यनया परिभाषयैव न भविष्यति, उरुआआशब्दो हि समुदायोऽर्थवान्, न तूसित्येष तदवयवः। द्वितीये तु `लक्षणप्रतपदोक्तयोः प्रतपदोकतस्यैव ग्रहणं न तु लाक्षणिकस्य` (व्या।प।3) इत्यनया परिभाषयाऽपि न भविष्यति, लाक्षणिको हि तत्रोस्? तथा हि वसेर्निष्ठायां **वसतिक्षुधोरिट्** (7.2.52) यजादित्वात्? सम्प्रसारणे कृते -उषितेति, तत्र पररूपं न सम्पद्यते, तत्? किमपदान्तादित्यनेन? एवं तह्र्रेतदतिरिच्यमानमपदान्तग्रहममर्थवदनर्थवत्त्वादिकं विशेषमनपेक्ष्योस्मात्रे पररूपं भवतीत्यमुमर्थं द्योतयति। तेन नानर्थके `उस्यपदान्तात्` इत्येतद्भवति। भिन्द्युरित्यत्र हि यासुडादिः समुदायोऽर्थवान्, न तु तदवयव उस्। लाक्षणिकेऽपि भवतीति -बभुषः पश्येति। `भा दीप्तौ`, (धातुपाठः-1051) लिटः क्वसुः; शस्, **वसोः सम्प्रसारणम्** (6.4.131) इति सम्प्रसारणम्; **सम्प्रसारणाच्च** (6.1.108) इति पूर्वरूपम्, बभा उस अस्? इति स्थितेऽनेन पररूपत्वम्। एतत्? सार्वधातुकपक्ष उदाहरणं वेदितव्यम्। अर्धधातुकपक्षे ह्रकारलोपेनैव सिद्धम्। सानुबन्धकेऽपि भवति -अधुर#इति। क्व तर्हि स्यात्? बभूरिति। ननु चानर्थक्ये सत्यपदान्तग्रहणस्यायमर्थः परिकल्प्येत, अस्ति चास्योक्तसूत्रे प्रयोजनम्, किं तत्? अपदान्ताद्यथा स्यादिह मा भूदिति -दण्डाग्रमिति? नैतदस्ति; यद्येतदेव प्रयोजनमभिमतं स्यात्, तदोत्तरसूत्र एवेदं कुर्यात्। इह करणात्तु यथोक्तार्थप्रतिपादनपरतैव तस्यावगम्यते। अधिकाराच्चोत्तरार्थतापि भवत्येव। कोषितेत्यत्र `वसतिक्षूधोः` (7.2.52) इतीट्, `शासवसिघसीनां च` (8.3.60) इति षत्वम्, तस्य चासिद्धत्वात्? पररूपत्वप्राप्तिर्वेदितव्या। `चऋः` इति। कृत्रो लिटउसि रूपम्। `अबिभयुः` इति। `ञिभी भये` (धा।प।1084) लङ्, शप्, **जुहोत्यादिभ्यः श्लुः** (2.4.75) इति श्लुः, द्विर्वचनम्, `सिजभ्यस्तविदिभ्यश्च` (3.4.109) इति झेर्जुस्? `जुसि च` (7.3.83) इति गुणः॥
Prakriyasarvasvam
-----------------
अपदान्तादवर्णादुसि परे पररूपमेकादेशः स्यात् । अधुः । अपदान्तादित्युक्तेः का उस्त्रा कोस्त्रेत्यत्र न । अधाः अधातम् अधात । अधाम् अधाव१ । लुगभावे- 'यमरम-' इत्यातः सगिटौ । अघासीत् अघासिष्टाम् । एवं अघ्रात्, अघ्रासीत् । शो अशान्, अशासीत् । छो अच्छात्, अच्छासीत् । षो असात्, असासीत् ॥ कर्मणि चिणि अधायि । कर्तरि चङुक्तेरिह सिजेव । तस्य चिण्वदिटि अधायिषाताम् । अधायिष्ठाः । यात् परत्वाद् 'विभाषेटः' । अघायिद्ध्वम्, अघायिध्वम्, अन्यत्र धा स् आताम् ।
Sutra Prayogas
--------------
* **प्रतीषुर्विनयादुपास्थुर्जगुः** (भट्टिकाव्यम्): `उस्यपदान्तात्` इति पररूपम्।
* **सस्नुः** (भट्टिकाव्यम्): `उस्यपदान्तात्` इति पररूपम्।