61094: एङि पररूपम् ================== **Padacheda:** एङि | S | 7 | 1 | पररूपम् | S | 1 | 1 | Sutrartha --------- **अवर्णान्तात् उपसर्गात् एकारादि/ओकारादि-धातुरूपे परे पूर्वपरयोः एकः पररूपः आदेशः भवति ।** उपसर्गस्य अन्ते विद्यमानात् अवर्णात् परः विद्यमानस्य धातुरूपस्य आदौ एकारः / ओकारः विद्यते चेत् पूर्वपरयोः **वृद्धिरेचि** (6.1.88) इत्यनेन प्राप्तां वृद्धिं बाधित्वा पररूप-एकादेशः भवति । इत्युक्ते, अवर्ण-एकारयोः मिलित्वा एकारादेशः भवति; अवर्ण-ओकारयोः च मिलित्वा ओकारादेशः भवति । यथा — 1. प्र + एजते → प्रेजते । 'एजते' इति एजृ (दीप्तौ, (1.263)) धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । अत्र अकार-एकारयोः पररूपम् एकारः भवति । 2. परा + एजते → परेजते । 3. प्र + ओषति → प्रोषति । 'ओषति' इति उष् (दाहे, (1.792) धातोः लट्-लकारस्य प्रथमपुरुषैकवचनस्य रूपम् । अत्र अकार-ओकारयोः पररूपम् ओकारः भवति । 4. परा + ओषति → परोषति । अत्र निर्दिष्टः एकारः / ओकारः **धातुरूपस्य** आदौ भवेत् इति अत्र आवश्यकम् । धातोः आदौ तु कोऽपि वर्णः भवितुम् अर्हति । अतएव 'उष्' धातोः विषये अपि उपरि निर्दिष्टे उदाहरणे अस्य सूत्रस्य प्रयोगः कृतः दृश्यते । **'वा सुपि' इत्यस्य अनुवृत्तिः** केषाञ्चन वैयाकरणानां मतेन, अस्मिन् सूत्रे **वा सुप्यापिशलेः** (6.1.92) इत्यतः 'वा सुपि' इति अपि अनुवर्तते । इत्युक्ते, प्रकृतसूत्रेण उक्तम् पररूपम् सुब्धातूनां विषये विकल्पेन प्रवर्तते इति अत्र आशयः । यथा — 1. 'एडकम् आत्मनः इच्छति' इत्यस्मिन् अर्थे 'एडक' शब्दात् **सुप आत्मनः क्यच्** (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते 'एडकीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परं विद्यते चेत् विकल्पेन पररूप-एकादेशः विधीयते; पक्षे च **वृद्धिरेचि** (6.1.88) इत्यनेन वृद्ध्येकादेशः अपि भवति । "प्र + एडकीयति → प्रेडकीयति, प्रैडकीयति" । 2. 'ओदनम् आत्मनः इच्छति' इत्यस्मिन् अर्थे 'ओदन' शब्दात् **सुप आत्मनः क्यच्** (3.1.8) इत्यनेन क्यच्-प्रत्यये कृते 'ओदनीय' इति आतिदेशिकधातुः सिद्ध्यति । अस्य धातोः रूपम् अवर्णान्त-उपसर्गात् परं विद्यते चेत् विकल्पेन पररूप-एकादेशः विधीयते; पक्षे च **वृद्धिरेचि** (6.1.88) इत्यनेन वृद्ध्येकादेशः अपि भवति । "उप + ओदनीयति → उपोदनीयति, उपौदनीयति" । **वा** इत्यस्य अनुवृत्तिः केवलम् 'सुपि' इत्यस्य कृते (इत्युक्ते, आतिदेशिकधातूनां विषये) एव अस्ति । औपदेशिकधातूनां विषये तु इदं सूत्रम् नित्यमेव प्रवर्तते, न हि विकल्पेन । **बाध्यबाधकभावः** इण्-धातोः एध्-धातोः च एकारादौ रूपस्य विषये प्रकृतसूत्रं बाधित्वा **एत्येधत्यूठ्सु** (6.1.89) इत्यनेन वृद्ध्येकादेशः विधीयते । यथा, "उप + एति‌ → उपैति", "उप + एधते → उपैधते ।" **वार्त्तिकानि** काशिकायां सिद्धान्तकौमुद्यां च अस्मिन् सूत्रे कानिचन वार्तिकानि पाठ्यन्ते । तानि एतादृशानि — **** 'शकन्ध्वादिः' इत्यस्मिन् गणे विद्यमानानाम् शब्दानाम् सिद्धौ पूर्वपदस्य टि-संज्ञकस्य उत्तरपदस्य आदिस्वरेण सह पररूप-एकादेशः विधीयते — इति अस्य वार्त्तिकस्य अर्थः । शकन्ध्वादिगणे विद्यमानाः शब्दाः ससिद्धिम् अधः प्रदर्शिताः सन्ति — 1. **शकन्धुः** — अयं शब्दः 'शकस्य अन्धुः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'शक' इति कस्यचन देशस्य नाम । अन्धुः इत्युक्ते कूपः । 'शक + अन्धुः' इत्यत्र पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । "शक + अन्धुः → शक् + (अ + अ) + न्धुः → शक् + अ + न्धुः →‌ शकन्धुः" । 2. **कर्कन्धुः** — अयं शब्दः 'कर्कस्य अन्धुः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'कर्क' इति कस्यचन देशस्य नाम । अन्धुः इत्युक्ते कूपः । 'कर्क + अन्धुः' इत्यत्र पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । "कर्क + अन्धुः → कर्क् + (अ + अ) + न्धुः → कर्क् + अ + न्धुः →‌ कर्कन्धुः" । 3. **कुलटा** — अयं शब्दः 'कुलान् अटति' इत्यस्मिन् अर्थे कुल-उपपदात् अट्-धातोः अच्-प्रत्ययं कृत्वा सिद्ध्यति । वेश्या इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'कुल + अटा' इति स्थिते, पूर्वपदस्य टिसंज्ञकस्य (अकारस्य) उत्तरपदस्य आदिस्वरेण (अकारेण) सह पररूपैकादेशं कृत्वा अकारः सिद्ध्यति । "कुल + अटा → कुल् + (अ + अ) + टा → कुल् + अ + टा →‌ कुलटा" । 4. **सीमन्त:** —‌ अयं शब्दः 'सीम्नः अन्तः' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'सीमन्' इत्युक्ते केशवेषः (केशानां मध्ये उपस्थिता रेषा इत्यर्थः) । अत्याः अन्तः (end point) सीमन्तः इति नाम्ना ज्ञायते । प्रक्रियायाम् 'सीमन्' शब्दस्य टिसंज्ञकस्य (अन् इत्यस्य) 'अन्त'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । "सीमन् + अन्तः → सीम् + (अन् + अ) + न्तः → सीम् + अ + न्तः →‌ सीमन्तः" । 5. **मनीषा** — अयं शब्दः 'मनसः ईषा (गमनम्)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'इच्छा / बुद्धिः / चिन्तनम्' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'मनस्' शब्दस्य टिसंज्ञकस्य (अस् इत्यस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । "मनस् + ईषा → मन् + (अस् + ई) + षा → मन् + ई + षा →‌ मनीषा" । 6. **हलीषा** — अयं शब्दः 'हलस्य ईषा (अग्रः)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'हलस्य अग्रः (The handle of a plough)' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'हल' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । "हल + ईषा → हल् + (अ + ई) + षा → हल् + ई + षा →‌ हलीषा" । 7. **लाङ्गलीषा** — अयं शब्दः 'लाङ्गलस्य ईषा (अग्रः)' इति षष्ठीसमासं कृत्वा सिद्ध्यति । 'लाङ्गलस्य अग्रः (The handle of a plough)' इति अस्य शब्दस्य अर्थः । प्रक्रियायाम् 'लाङ्गल' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'ईषा'शब्दस्य ईकारेण सह पररूपैकादेशं कृत्वा ईकारः जायते । "लाङ्गल + ईषा → लाङ्गल् + (अ + ई) + षा → लाङ्गल् + ई + षा →‌ लाङ्गलीषा" । 8. **पतञ्जलिः** —‌ अयं शब्दः 'पतन् अञ्जलिः नमस्यतया यस्मिन्' इति बहुव्रीहिसमासं कृत्वा सिद्ध्यति । महाभाष्यस्य रचयितुः इदं नाम । प्रक्रियायाम् 'पतत्' शब्दस्य टिसंज्ञकस्य (अत् इत्यस्य) 'अञ्जलिः'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । "पतत् + अञ्जलिः → पत् + (अत् + अ) + ञ्जलिः → पत् + अ + ञ्जलिः →‌ पतञ्जलिः" । 9. **सारङ्गः** — अयं शब्दः 'साराणि (spotted) अङ्गानि (organs) यस्य सः' इति बहुव्रीहिसमासं कृत्वा सिद्ध्यति । कस्यचन पक्षिणः इदं नाम । प्रक्रियायाम् 'सार' शब्दस्य टिसंज्ञकस्य (अकारस्य) 'अङ्ग'शब्दस्य अकारेण सह पररूपैकादेशं कृत्वा अकारः जायते । "सार + अङ्ग → सार् + (अ + अ) + ङ्गः → सार् + अ + ङ्गः →‌ सारङ्गः" । शकन्ध्वादिगणः आकृतिगणः अस्ति । अतः शिष्टप्रयोगैः अन्ये शब्दाः अपि अस्मिन् गणे भवितुम् अर्हन्ति । यथा - 'मृतम् अण्डम् यस्य सः' इत्यत्र बहुव्रीजहिसमासे कृते "मृत + अण्ड → मृत् + (अ + अ) + ण्डः → मृत् + अ + ण्डः → मृतण्डः" इति साधितः **मृतण्ड**शब्दः अपि अस्मिन् गणे स्वीक्रियते । **** 'नियोगः' इत्युक्ते अवधारणम् (निश्चयः) । सामान्यरूपेण वाक्ये एवशब्दस्य प्रयोगः नियोगार्थे एव भवति । यथा, 'गणेशः मोदकम् एव खादति' इत्युक्ते 'मोदकं विना गणेशः किमपि न खादति, सः निश्चयेन (for sure) मोदकम् एव खादति' इति । परन्तु कुत्रचित् नियोगभिन्नार्थे अपि 'एव'शब्दस्य प्रयोगः कृतः दृश्यते । एतेषु स्थलेषु पूर्वपदस्य अन्तिमस्वरेण सह एवशब्दस्य एकारस्य पररूपैकादेशः एकारः भवति — इति अस्य वार्त्तिकस्य आशयः । यथा, "क्व + एव → क्वेव" । कुत्र इत्याशयः । नियोगार्थे प्रयुक्तस्य एवशब्दस्य तु **वृद्धिरेचि** (6.1.88) इति वृद्ध्येकादेशः एव भवति । यथा, "तव + एव → तवैव"। **** यदि समस्तपदस्य उत्तरपदम् 'ओतु' (= मार्जारः) अथवा 'ओष्ठ' एताभ्याम् कश्चन शब्दः अस्ति, तर्हि तस्य समस्तपदस्य निर्माणं विकल्पेन पररूप-एकादेशं कृत्वा भवति । यथा — 1. स्थूलश्च असौ ओतुश्च (कर्मधारयसमासः) → स्थूल + ओतु → स्थूलोतु, स्थूलौतु । अत्र अनेन विकल्पेन पररूप-एकादेशः भवति । पक्षे **वृद्धिरेचि** (6.1.88) इत्यनेन वृद्धि-एकादेशः भवति । 2. बिम्बः इव ओष्ठः यस्य सः (बहुव्रीहिसमासः) → बिम्ब + ओष्ठ → बिम्बोष्ठ, बिम्बौष्ठ । 3. दन्ताश्च ओष्ठौ च एतयोः समाहारः (द्वन्द्वसमासः) → दन्त + ओष्ठ → दन्तोष्ठ , दन्तौष्ठ । 4. कण्ठश्च ओष्ठौ च एतयोः समाहारः (द्वन्द्वसमासः) → कण्ठ + ओष्ठ →‌ कण्ठोष्ठ, कण्ठौष्ठ । समस्तपदं न विद्यते चेत् एतत् वार्त्तिकम् नैव प्रवर्तते । यथा - तव + ओष्ठ = तवौष्ठ । अत्र **वृद्धिरेचि** (6.1.88) इति वृद्ध्येकादेशः एव भवति । **** 'एमन्' , 'ओद्वन्', 'इष्टि' — एतेषाम् शब्दानाम् विषये वेदेषु पररूपं दृश्यते । यथा — 1. त्वा + एमन् = त्वेमन् । 2. त्वा + ओद्वन् = त्वोद्वन् । 3. अभि + इष्टि = अभिष्टि । 4. परि + इष्टि = परिष्टि । (ऋग्वेदस्य प्रथममण्डलस्य 65 तमे सूक्ते तृतीये मन्त्रे 'परिष्टि' इत्यस्य प्रयोगः दृश्यते ।) Sutrartha (English) ------------------- When an अवर्णान्त उपसर्ग is followed by a एकारादि or ओकारादि verb form, both the letters are replaced by a single पररूप. Vasu English Summary -------------------- For the अ or आ of the Preposition + ए or ओ of a verbal root, the second vowel is the single substitute. Vasu English Translation ------------------------ For the अ or आ of the Preposition + ए or ओ of a verbal root, the second vowel is the single substitute. The words आत्, उपसर्गाद्धातौ are understood here. In an *upasarga* ending in अ or आ followed by a root beginning with ए or ओ, the vowels coalesce and the single-substitute is the form of the second vowel (पररूप) ॥ This debars *Vriddhi* taught in (6.1.88). Thus उपेलयति, प्रेलयति, उपोषति, प्रोषति ॥ Some read into this *sutra* the option allowed by (6.1.92), according to them the *para*-*rupa* substitution is optional in the case of Denominative roots. Thus उपेडकीयति or उपैडकीयति, उपोदनीयति or उपौदनीयति ॥ Vart:- The *Para*-*rupa* substitution takes place in the case of शकन्धुः &c. As शक + अन्धुः = शकन्धुः, कुल + अटा = कुलटा, सीम + अन्तः = सीमन्तः 'hair'; when not referring to 'hair', the form is सीमान्तः ॥ Vart:- The *Para*-*rupa* substitution takes place when एव follows a word, and the sense is not that of 'appointment'. Thus ह + एव = इहेव; अद्य + एव = अद्येव ॥ When the sense is that of नियोग, the *Vriddhi* takes place: as इहैव भव, माऽन्यत्र गाः ॥ Vart:- The *Para*-*rupa* substitution takes place optionally when ओतु and ओष्ठ are compounded with another word: as स्थूल ओतुः = स्थूलौतुः or स्थूलोतुः, so also बिम्बौष्ठी or बिम्बोष्ठी ॥ When not a compound, the *Vriddhi* is compulsory: as तिष्ठ देवदत्तौष्ठं पश्य 'Stay *Devadatta*, see the lip'. Vart:- In the Vedas, the *para*-*rupa* substitution takes place when एमन् &c. follow. Thus अपां त्वा एमन् = अपां त्वेमन् ॥ So also अपां त्वा ओद्मन् = अपां त्वोद्मन् ॥ Bhashya ------- एङि पररूपम् (2531) (पररूपाधिकरणम्) (6188 एकदेशिन उपसंख्यानवार्तिकम् ॥ 1 ॥) - पररूपप्रकरणे तुन्वोर्वि निपात उपसंख्यानम् - पररूपप्रकरणे तु नु इत्येतयोर्वकारादौ निपात उपसंख्यानं कर्तव्यम् । तु वै-त्वै, वै-न्वै । वकारादाविति किमर्थम् ? त्वावत्, न्वावत् ॥ निपात इति किमर्थम् ? तु वानि, नु वानि ॥ (6189 उपसंख्यानानर्थक्यबोधकवार्तिकम् ॥ 2 ॥) - न वा निपातैकत्वात् - न वा कर्तव्यम् । किं कारणम् ? निपातैकत्वात् । एक एवायं निपातः - त्वै, न्वै ॥ (6190 उपसंख्यानवार्तिकम् ॥ 3 ॥) - एवे चानियोगे - पररूपं वक्तव्यम् । इह एव - इहेव, अद्येव । अनियोग इति किमर्थम् ? इहैव भव मा स्म गाः, अत्रैव त्वमिह वयं सुशेवाः ॥ (6191 उपसंख्यानवार्तिकम् ॥ 4 ॥) - शकन्ध्वादिषु च - शकन्ध्वादिषु पररूपं वक्तव्यम् । शक अन्धुः - शकन्धुः, कुल अटा - कुलटा, सीम अन्तः - सीमन्तः । केशेष्विति वक्तव्यम् । यो हि सीम्नोऽन्तः, सीमान्तः स भवति ॥ (6192 उपसंख्यानवार्तिकम् ॥ 5 ॥) - ओत्वोष्ठयोः समासे वा - ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् । स्थूलोतुः - स्थूलौतुः, बिम्बोष्ठी - बिम्बौष्ठी ॥ (6193 उपसंख्यानवार्तिकम् ॥ 6 ॥) - एमनादिषु च्छन्दसि - एमनादिषु च्छन्दसि पररूपं वक्तव्यम् । अपां त्वेमन्सादयाम्यपां त्वोद्मन्सादयामि ॥ Kashika ------- आदित्येव, उपसर्गाद् धाताविति च। अवर्णान्तादुपसर्गादेङादौ धातौ पूर्वपरयोः पररूपमेकादेशो भवति। **वृद्धिरेचि**(६.१.८८) इत्यस्यापवादः। उपेलयति। प्रेलयति। उपोषति। प्रोषति। केचिद् **वा सुप्यापिशलेः** (६.१.९२) इत्यनुवर्तयन्ति, तत् च वाक्यभेदेन सुब्धातौ विकल्पं करोति। उपेडकीयति, उपैडकीयति। उपोदनीयति, उपौदनीयति॥ शकन्ध्वादिषु पररूपं वक्तव्यम्॥ शक अन्धुः शकन्धुः। कुल अटा कुलटा ॥ सीमन्तः केशेषु॥ सीम्नोऽन्तः सीमन्तः। अन्यत्र सीमान्तः॥ एवे चानियोगे पररूपं वक्त व्यम्॥ इह एव इहेव । अद्य एव अद्येव । अनियोग इति किम् ? इहैव भव, मान्यत्र गाः ॥ ओत्वोष्ठयोः समासे वा पररूपं वक्तव्यम् ॥ स्थूल ओतुः स्थूलौतुः, स्थूलोतुः। बिम्बौष्ठी, बिम्बोष्ठी। समास इति किम् ? तिष्ठ देवदत्तौष्ठं पश्य॥ एमन्नादिषु छन्दसि पररूपं वक्त व्यम्॥ अपां त्वा एमन्, अपां॑ त्वेमन् (मै॰ सं॰ २.७.१८)। अपां त्वा ओद्मन्, अपां॑ त्वो॑द्म॒न् (मै॰ सं॰ २.७.१८)॥ Siddhanta Kaumudi ----------------- आदुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यात् । प्रेजते । उपोषति । इह वासुपीत्यनुवर्त्य वाक्यभेदेन व्याख्येयम् । तेन एङादौ सुब्धातौ वा । उपेडकीयति । उपैडकीयति । प्रोघीयति । प्रौघीयति ॥ (वार्तिकम्) ॥ नियोगोऽवधारणम् । क्वेव भोक्ष्यसे । अनवकॢप्तावेवशब्दः । अनियोगे किम् । तवैव ॥ Laghu Siddhanta Kaumudi ----------------------- आदुपसर्गादेङादौ धातौ पररूपमेकादेशः स्यात् । प्रेजते । उपोषति ॥ Laghu Shabdendushekhar ---------------------- **वाक्यभेदेनेति** । इदं वृत्तौ स्पष्टं, भाष्ये तु न दृश्यते । (वा० (६.१.९४)) इति वार्त्तिकं सूत्रे धातावित्यनुवृत्तेरारब्धम् । अवधारणं नियमः । एवशब्दस्य द्योत्यमर्थद्वयमवधारणमसम्भवरूपानवक्लृप्त्यादि च । तयोरन्त्योऽत्रैवशब्दार्थ इत्यभिप्रेत्याह – **अनवक्लृप्तावेवेति** । "क्वेव भोक्ष्यसे" इत्युक्तेः स्थलसङ्कीर्णत्वादिना नास्ति सम्भवस्तव भोजनस्येति गम्यते ॥ Balamanorama ------------ **एङि पररूपम्** - एङि पररूपम् । उपसर्गादीति धाताविति चानुवर्तते । आदित्यनुवृत्तमुपसर्गादित्यस्य विशेषणमिति तदन्तविधिः ।यस्मिन्विधि॑रिति परिभाषया तदादिग्रहणम् ।एकः पूर्वपरयो॑रिति चाधिकृतम् । तदाह — अवर्णान्तादित्या दिना । एकादेश इति । पूर्वपरयो॑रिति शेषः । प्रेजत इति । एजृ दीर्तौ । प्र-एजते इति स्थिते वृद्धिरेचीति वृदिंध बाधित्वाऽनेन पररूपमेकारः । एजृ कम्पने इति तु परस्मैपदी । उपोषतीति । उष दाहे । लट् तिप् शप् । लघूपधगुणः । उष ओषतीति स्थिते वृदिंध बाधित्वाऽनेन ओकारः । ननु एकडो मेषः, तमात्मन इच्छति एडकीयति , उप एडकीयतीति स्थितेऽनेन नित्यमेव पररूपं स्यात्, इष्यते तु वृद्धिरपि — उपैडकीयति उपैडकीयतीति । तत्राह — इहेति ।एङि पररूप॑मित्यत्र वा सुपीत्यनुवर्तते । तच्च नैकवाक्यतया संबध्यते । तथा सति अवर्णान्तादुपसर्गादेङादौ सुब्धातौ परे पररूपमेकादेशो वा स्यादित्येवार्थः स्यात् । एवं सति प्रेजते उपोषतीत्यत्र नित्यं पररूपं न स्यात् । अतो वाक्यभेदेन व्याख्येयम् ।एङि पररूप॑मिति प्रथमं वाक्यम् । अवर्णान्तादुपसर्गादेङादौ धातौ परे पररूपमेकादेशः स्यादिति तदर्थः ।वा सुपी॑ति द्वितीयं वाक्यम् । तत्र एङि पररूपमित्यनुवर्तते । धातौ उपसर्गादित्यादि च । ततश्च उक्तपररूपविषये सुब्धातौ परे पररूपं वा स्यादिति लभ्यते । तदाह — तेनेति । उक्तरीत्या वाक्यभेदाश्रयणेन एङादौ सुब्धातौ पररूपं पाक्षिकं भवति, तदितरधातौ तु नित्यमित्यर्थः । एवे चानियोगे । नियोगशब्दं व्याचष्टे — नियोगोऽवधारणमिति । अवधारणम्न्ययोगव्यवच्छेदः । तदन्यस्मिन्नर्थे य एवशब्दस्तस्मिन्नकारात्परे पूर्वपरयोः पररूपमेकादेशः स्यादित्यर्थः । क्वेव भोक्ष्यस इति । अत्रेति न निश्चिनुम इत्यर्थः । क्व-एव इति स्थिते वृदिंध बाधित्वाऽनेन वार्तिकेन पररूपमेकारः । अनवकॢप्ताविति । अनवधारण इत्यर्थः । तवैवेति । नान्यस्येत्यर्थः । अत्रैवशब्दस्याऽवधारणार्थत्वान्न तस्मिन् परे पररूपम् । अथ क्वचिट्टेः पररूपं विधातुं टिसंज्ञामाह-अचोऽन्त्यादि टि । 'अच' इति निर्धारणे षष्ठी । जातावकवचनम् । अन्ते भवेऽन्त्यः, अन्त्य आदिर्यस्य तत्-अन्त्यादीति विग्रहः । फलितमाह-अचां मध्य इति । शकन्ध्वादिष्विति । शकन्ध्वादिषु विषये तत्सिद्ध्यर्थं पूर्वपरयोः पररूपं वक्तव्यमित्यर्थः । ततश्च शकादिशब्दानां टेरचि परे टेश्च परस्याचश्च स्थाने पररूपमेकादेश इत्यर्थाल्लभ्यते । आदित्यनुवृत्त#औ शकन्ध्वादिगणे सीमन्त इत्यादिकतिपयरूपाणामसिद्धेः । तदाह-तच्च टेरिति । शकन्ध्वादिगणं पठति — शकन्धुरित्यादिना । शकानां-देशविशेषाणाम्, अन्धुः=कूप इति विग्रहः । कर्क-अन्धुरिति स्थिते पररूपम् । कुलटेति । अट गतौ । पचाद्यच् । टाप् कुलानामटेति विग्रहः । भिक्षार्थं व्यभिचारार्थं वा या गृहानटति सा कुलटा । कुलान्यटतीति विग्रहे तु कर्मण्यणि टिड्ढाणञिति ङीप्स्यात् । कुल-अटेति स्थिते पररूपम् । सीमन्तः केशवेशे इति । गणान्तर्गतवार्तिकमेतत् । केशानां वेशः=सन्निवेशविशेषः । तस्मिन् गम्येसीमन्शब्दस्य टेः-॒अ॑नित्यस्य अन्तशब्दस्थावर्णस्य च स्थाने पररूपमित्यर्थः । आदित्यनुवृत्तौ तु इदं न सिध्येत् ।सीमान्तोऽन्य इति । ग्रामान्तप्रदेश इत्यर्थः । मनीषेति । मनस-ईषेति विग्रहः, । अत्रअ॑सिति टेरीकारस्य च स्थाने पररूपमीकारः । ईष गतौ । 'गुरोश्च हलः' इत्यप्रत्ययः । टाप् । बुद्धिर्मनीषा॑इत्यमरः । हलीषेति ।ईषा लाङ्गलदण्डः स्यादि॑त्यमरः । हलस्य ईषेति विग्रहः । 'करिकलभ' इतिवत्पुनरुक्तिः समाधेया । अत्र गुणे प्राप्ते पररूपम् । एवं लाङ्गलीषेत्यत्रापि । पतञ्जलिरिति । पतन् अञ्जलिर्यस्मिन्नमस्कार्यत्वादिति विग्रहः । अत्रअ॑दिति टेरकारस्य च स्थाने पररूपमकारः । केचित्तु गोनर्दाख्यदेशे कस्यचिदृषेः सन्ध्योपालनसमयेऽञ्जलेर्निर्गत इत्यैतिह्रा दञ्जलेः पतन्निति विगृह्णन्तिव । मयूरव्यंसकादित्वात्समासः । सारङ्गः पशुपक्षिणोरिति । इदमपि गणान्तर्गतं वार्तिकम् । भाष्ये तु न दृश्यते ।सार॑शब्द उत्कृष्टे ।सारो बले स्थिरांशे च न्याय्ये क्लीबेऽम्बरे त्रिषु॑ इत्यमरः । साराणि अङ्गानि यस्येति विग्रहः । सार-अङ्ग इति स्थिते सवर्णदीर्घे प्राप्तेऽनेन पररूपम् ।चातके हरिणे पुंसि सारङ्गः शबले त्रिषु॑ इत्यनरः । आकृतिगणोऽयमिति । आकृत्या= एवञ्जातीयकतया निर्णेतव्योऽयं गण इत्यर्थः । लोकप्रयोगानुसारेणैवंजातीयकाः शब्द#आ अस्मिन् गणे निवेशनीय इति यावत् । तत्फलमाह — मार्तण्ड इति । मृतमण्डं यस्य स मृतण्डः कश्चिदृषिः । मृत-अण्ड इति स्थिते सवर्णदीर्घं बाधित्वाऽनेन पररूपम् । ततेऽपत्येऽणि मार्तण्डः ।परामार्ताण्डमास्थ॑दिति सवर्णदीर्घस्तु च्छान्दसः । ओत्वोष्ठयोः । अवर्णादोतुशब्दे ओष्ठशब्दे च परे पूर्वपरयो रचोः स्थाने पररूपं वक्तव्यमित्यर्थः । स्थूलोतुरिति ।ओतुर्बिडालो मार्जारः॑ इत्यमरः । स्थूल — ओतुरिति स्थिते वृदिंध बाधित्वा पाक्षिकं पररूपम् । बिम्बोष्ठ इति । बिम्बफलवद्रक्तवर्णावोष्ठौ यस्येति विग्रहः । Tattvabodhini ------------- **एङि पररूपम्** - एङि पररूपम् ।एङ्ये॑ङित्येव सिद्धेपर॑-ग्रहणमुत्तरार्थम् ।रूप॑ ग्रहणं तु स्पष्टार्थम्,अमि पूर्व॑वदेङि पर इत्येव सिद्धेः । प्रेजत इति ।एजृ दीप्तौ॑ । कम्पनार्थस्तु परस्मैपदी । प्रेजति ।एवे चाऽनियोगे । नियोगोऽवधारणमिति । निर्धारणमित्यर्थः । तदुक्तम्-॒अनवकॢप्तौ यदा दृष्टः पररूपस्य गोचरः । एवस्तु विषयो वृद्धेर्नियमेऽयं यदा भवेत् ।॑ इति । अस्यार्थः-अनवकॢप्तौ अनिश्चये यदा एवकारो दृष्टः स पररूपस्य विषयः । यस्तु नियमे निर्धारणे यदा दृष्टः स वृद्धेर्विषय इति । ये तुनियोगे त्वद्यैव गच्छे॑ति प्राचोग्रन्थे स्थितस्य प्रत्युदाहरणस्यानुगुणतयानियोजनं नियोगो व्यापार॑ इति व्याचक्षते, तेषांयदैव पूर्वं ज्वलने शरीरं॑ममैव जन्मान्तरपातकाना॑मिति लौकिकप्रयोगाः,तपस्तपःकर्मकस्यैव॑लङः शाकटायनस्यैवे॑त्यादिसौत्रप्रयोगाश्चन सिद्धयेयुः । उदाहृतवृत्तिश्लोकविरोधश्च स्यात् ।अवधारण॑मिति व्याकुर्वतां तु सर्वेष्टसिद्धिः ।(६६) अचोऽन्त्यादि टि.१.१.६४ ।अचोऽन्त्यादि टि ।अच॑ इति निर्धारणे षष्ठी । जातावेकवचनं, तदाह-अचां मध्य इति ।शकन्ध्वादिषु पररूपं वाच्यम् । शकन्ध्वादिष्विति । शकन्ध्वादिविषये तत्सिद्धयनुगुणं पररूपं वाच्यमित्यर्थः । अतएवाह-तच्च टेरिति । यदि तुआ॑दित्यधिकारादकारस्यैवेष्येत तर्हि मनीषा पतञ्जलिरिति न सिध्येत् । केचित्तु मनःपतच्छब्दयोः पृषोदरादित्वादन्त्यलोपे अकारस्यैव पररूपमाहुः । शकानां देशविशेषाणामन्धुः कूपः । कर्काणां राजविशेषाणामन्धुः कर्कन्धुः अटतीत्यटा । पचाद्यचि टाप् । कृलस्य अटा कुलटा । यदि तु कुलमटतीति विगृह्रते तदा कर्मण्यणि ङीपिकुलाटी॑ति त्यात् ।ईष उञ्छे॑ ।ईष गत्यादिषु॑ । आभ्यांगुरोश्च हलः॑ इत्यप्रत्यये ईषा । मनस ईषा मनीषा । हलस्य ईषा हलीषा । ईषा-लाङ्गलदण्डः । पतन्तोऽञ्जलयो यस्मिन्नमस्कार्यत्वादिति पतञ्जलिः । मार्तण्ड इति । पररूपेणानेनमृतण्ड॑ इति सिद्धे तत अण्यादिवृद्धिः ।परा मार्ताण्डमास्यत्पुनर्मार्ताण्डमाभरत् इत्यादिषु तु दीर्घश्छान्दस इति भावः । केचिदत्र सवर्णदीर्घमेवाहुः । पूर्वोक्तवैदिकप्रयोगास्तेषामनुकूलः ।ओत्वोष्ठयोरिति । अकारस्य ओत्वोष्ठयोश्च एकत्र समासे स्थितौ सत्यामिदं प्रवर्तते । तेनेह न,-॒वृषलसुतौष्ठव्रणस्ते॑ इति । Nyaas ----- `उपेलयति` इति। `इल प्रेरणे` (धातुपाठः-1660) चुरादिणिच्। `प्रोखतीति। `उख नख` (धा। पा। 128,134) इत्युखिर्गत्यर्थो भ्यादौ पठते। यदि `वा सुपि` (6.1.89) इत्यनुवर्तयन्ति, एवं सति तेन सहास्यैकवाक्यतायां सुबधातोरेवानेन विकल्पेन पररूपं क्रियते, असुपि तु पररूपं न स्यादेवेत्याह - `तच्च` इत्यादि। एकवाक्यत्वे हि सत्येष दोषः स्यात्। न चात्रैकवाक्यता, किं तर्हि? वाक्यभेदः। तेन तदिहानुवर्तमानं सुब्धातावेव विकल्पं करोति, इतरतर तु नित्यमेव पररूपं प्रवर्तते। तत्रावर्णान्तादुपसर्गादसुबन्तावयवे धातावेङादौ पूर्वपरयोः पररूपमेकादेशो भवतीत्येकं वाक्यम्, अवर्णान्तादुपसर्गात्? सुबन्तावयवे धातावेङादौ पूर्वपरमोर्वा पररूपमेकादेशो भवतीति द्वितीयम्। तत्र पूर्वेण वाक्येनासुबन्तावयवे धातावुपेलयतत्यादौ नित्यं पररूपं दिधीयते। द्वितीयेन तु सुबन्तावयवे धातावुपेङकीयतीत्येवमादौ विकल्पेन पररूपं विधीयते। वाक्यभेदस्तु `एङि पररूपम्` इति तन्त्रेण सूत्रद्वयोच्चारणाल्लभ्यते। सूत्रद्वये तूच्चार्यमाणे सत्येक एव **वा सुप्यापिशलेः** (6.1.92) इत्येदनुवर्तमानमपि लभ्यानुरोधान्नाभिसम्बध्यते, द्वितीये तु सम्बध्यत एव। तेन वाक्यद्वयं पूर्वोक्तं सम्पद्यते। `वक्तव्यम्` इति। व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानाम् - उत्तरसूत्रे चकारोऽधिकविधानार्थः, तेन शकन्ध्वादिषु पररूपं भविष्यतीति। उत्तरत्राप वक्तव्यशब्दस्यायमर्थो व्याख्यानं चैतददेव वेदितव्यम्। `एवे चानियोगे` इति। नियोगः=नियोजनम्, व्यापारणमित्यर्थः। न नियोगोऽनियोगः=अनवकॢप्तिः। तत्रैवशब्दे पररूपं वेदितव्यम्। एवशब्दोऽनियमे वर्तते। यदा तमेव केवलं नियमं व्यापारेणाविशिष्टं ब्रूते तदा पररूपं भवति। यदा तु व्यापारेम विशिष्टं तदा वृद्धिरेव। `बिम्बोष्ठी` इति। `नासिकोदरौष्ठ` (4.1.55) इति ङीष्। `तिष्ठ देवदत्तौष्ठं पश्य` इति वाक्यमेतत्? न तु समासः। देवदत्तशब्दात्? **एङ्ह्रस्वात् सम्बुद्धेः** (6.1.69) इति सोर्लोपः॥ Praudhamanorama --------------- **प्रेजते इति।** एजृ दीप्तौ। कम्पनार्थस्तु परस्मैपदी। एजते कम्पते इति तु प्राचां व्याख्यानं प्रामादिकमेव। एङ्येङित्येव सिद्धे परग्रहणमुत्तरार्थं रूपग्रहणं तु चिन्त्यप्रयोजनम्, 'एङि परः' इत्येव सिद्धेः। यथा **अमि पूर्वः** (6.1.107) इति। **नियोगोऽवधारणमिति।** यदाहुः- 'अनवक्लृप्तौ यदा दृष्टः पररूपस्य गोचरः। एवस्तु विषयो वृद्धेर्नियमेऽयं यदा भवेत्'॥ इति। एतेन 'नियोजनं नियोगो व्यापारः' इति व्याख्यानं परास्तम्, 'यदैव पूर्वं ज्वलने शरीरं' 'ममैव जन्मान्तरपातकानाम्' इत्यादिप्रयोगविरोधात्, उदाहृतवृत्तिस्थश्लोकविरोधात्, **लङः शाकटायनस्यैव** (3.4.111) **तपस्तपःकर्मकस्यैव** (3.1.88)इत्यादिसौत्रप्रयोगविरोधाच्च। यत्तु श्लोकवार्तिकमिदमित्याहुः, तद्रभसात्। Prakriyasarvasvam ----------------- आदुपसर्गादेङादौ धातौ परे पूर्वपरयोः सह पररूपं स्यात् । उप एजति उपेजति । उपोषति । 'एङादौ सुब्धातौ वा वाच्यम्' । उपोदनीयति उपौदनीयति । Sarala ------ **प्रेजते** = प्रकर्षेण कम्पते । **उपोषति** = उप-दहति ॥ Sudha ----- **प्रेजत इति ।** "प्र-एजते" इति स्थिते अत्र **वृद्धिरादैच्** (1.1.1) इत्यनेन वृद्धौ प्राप्तायां तां प्रबाध्य **एङि पररूपम्** (6.1.94) इत्यनेन पूर्वपरयोः स्थाने पररूपैकादेशे ए इत्याजारे कृते "प्रेजते" इति रूपम् । एवम् "उप-ओषति" इत्यत्रापि पूर्वपरयोः स्थाने पररूपे सति "उपोषति" इति सिद्धम्भवति ॥ Vartika ------- शकन्ध्वादिषु पररूपं वक्तव्यम् । Sutra Prayogas -------------- * **श्वसनचलितपल्लवाधरोष्ठे** (किरातार्जुनीयम्): `ओत्वोष्ठयोः समासे वा` इति पररूपम्।