61085: अन्तादिवच्च ================== **Padacheda:** अन्त-आदिवत् | S | 0 | 0 | च | S | 0 | 0 | Sutrartha --------- **'एकः पूर्वपरयोः' अस्मिन् अधिकारे उक्तः एकादेशः पूर्वशब्दस्य अन्तिमवर्णवत्, तथा परशब्दस्य आदिवर्णवत् भवति ।** **एकः पूर्वपरयोः** (6.1.84) अस्मिन् अधिकारे विद्यमानैः सूत्रैः उक्ताः आदेशाः पूर्व-पर-शब्दयोः स्थाने एकादेशरूपेण विधीयन्ते । **एते आदेशाः पूर्वशब्दस्य अन्तिमवर्णरूपेण गृह्यन्ते, परशब्दस्य च आदिरूपेण अपि गृह्यन्ते ** — इति प्रकृतसूत्रस्य आशयः । कानिचन उदाहरणानि एतादृशानि — 1. 'ब्रह्मबन्धु' इति शब्दात् **ऊङुतः** (4.1.66) इत्यनेन ऊङ्-इति स्त्रीप्रत्ययं प्रयुज्य 'ब्रह्मबन्धू' इति शब्दः सिद्ध्यति । अत्र प्रक्रियायाम् 'ब्रह्मबन्धु' शब्दस्य अन्तिमः उकारः, तथा च 'ऊङ्' प्रत्ययस्य आदिस्थः ऊकारः - एतयोः **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्णैकादेशे कृते 'ऊ' इति सिद्ध्यति । **अकः सवर्णे दीर्घः** (6.1.101) इति सूत्रम् **एकः पूर्वपरयोः** (6.1.84) अस्मिन् अधिकारे पाठितम् अस्ति; अतः अयम् **'ऊ' इति एकादेशः पूर्वशब्दस्य अन्तिमवर्णवर्णवत् भवति**; इत्युक्ते 'ब्रह्मबन्धु' शब्देन 'ब्रह्मबन्धू' इत्यस्यापि ग्रहणं सम्भवति । अस्य किं प्रयोजनम् इति चेत्, ब्रह्मबन्धू-शब्दः वस्तुतः प्रातिपदिकसंज्ञकः नास्ति, तथा च आबन्तः / ङ्यन्तः अपि नास्ति, अतः **ङ्याप्प्रातिपदिकात्** (4.1.1) इत्यस्मिन् अधिकारे उक्ताः सुबादयः प्रत्ययाः अस्मात् शब्दात् नैव भवितुम् शक्नुवन्ति; परन्तु 'ब्रह्मबन्धु'शब्देनैव 'ब्रह्मबन्धू'शब्दस्यापि ग्रहणे कृते 'ब्रह्मबन्धु'शब्दस्य प्रातिपदिकसंज्ञा 'ब्रह्मबन्धू' इत्यत्रापि अतिदिश्यते, येन ब्रह्मबन्धूशब्दात् सुबादयः प्रत्ययाः भवितुम् अर्हन्ति । 2. बाल-शब्दस्य प्रथमाद्विवचनस्य रूपे 'बाल + औ' इत्यत्र **वृद्धिरेचि** (6.1.88) इति वृद्धि-एकादेशे कृते 'बालौ' इति सिद्ध्यति । अत्र अकार-औकारयोः एकादेशः कृतः दृश्यते । **अयम् एकादेशः अत्र परशब्दस्य ('औ' इत्यस्य) आदिवर्णवत् भवति**, अतः 'औ' इति परशब्दस्य सुप्-प्रत्ययत्वम् 'औ' इति एकादेशे अपि अतिदिश्यते, येन 'बालौ' इति शब्दः सुबन्तत्वं स्वीकरोति, अतश्च पदसंज्ञां अपि प्राप्नोति । **अयम् कार्यातिदेशः** एतत् अतिदेशसूत्रम् अस्ति, यतः अनेन सूत्रेण एकादेशस्य पूर्वशब्दवत्, परशब्दवत् वा प्रयोगः अनुमन्यते ।अयम् अतिदेशः **कार्यातिदेशः** अस्ति । इत्युक्ते, **अनेन सूत्रेण केवलम् कार्यस्य एव अतिदेशः क्रियते; रूपस्य उत अर्थस्य न** । यथा, 'ब्रह्मबन्धु' इत्यस्य शब्दस्य उकारान्तत्वम् (रूपम्) उत अर्थः (पुंलिङ्गवाचिनि अर्थः) ब्रह्मबन्धू-शब्दे नातिदिश्यते, केवलम् सुबादीनां विधानार्थम् (कार्यार्थम्) आवश्यकी प्रातिपदिकसंज्ञा एव 'ब्रह्मबन्धु' इत्यस्मात् ब्रह्मबन्धू-शब्दे अतिदिश्यते । अन्तादिवद्भावेन केचन अनिष्टप्रयोगाः अपि सिद्ध्यन्ति इति उक्त्वा तेषाम् निवारणार्थम् काशिकायाम् इति वार्त्तिकम् पाठितम् अस्ति । अस्य वार्त्तिकस्य निर्देशः भाष्ये अपि कृतः दृश्यते । परन्तु भाष्यकारेण अन्ते — **न वा ताद्रूप्यातिदेशात्** — इति निर्दिश्य इदं वार्त्तिकम् प्रत्याख्यातम् अस्ति । इत्युक्ते — प्रकृतसूत्रेण उक्तः अतिदेशः रूपातिदेशः नास्ति अपितु कार्यातिदेशः अस्ति — इति स्वीक्रियते चेत् एते दोषाः नैव भवन्ति इति अत्र भाष्यकारस्य आशयः अस्ति । अस्मिन् विषये अधिकं पिपठिषवः अस्य सूत्रस्य भाष्यम्, काशिकां वा पश्येयुः । **अन्तवद्भावः / आदिवद्भावः विवक्षाम् न अनुसरति** **प्रकृतसूत्रेण उक्तः आदिवद्भावः तथा च अन्तवद्भावः कार्यातिदेशार्थम् यत्र यत्र सम्भवति तत्र तत्र सर्वत्र अवश्यं भवति** । अयं न हि वैयाकरणस्य विवक्षाम् अनुसरति । इत्युक्ते, यदि आदिवद्भावम् / अन्तवद्भावम् उपयुज्य अनिष्टं रूपं सम्भवति, तर्हि तस्य निवारणार्थम् विशेषः यत्नः आवश्यकः एव वर्तते । न हि एतादृशेषु स्थलेषु तस्य आदिवद्भावस्य अन्तवद्भावस्य वा अविवक्षां कर्तुं शक्यते । अस्य द्वे उदाहरणे एतादृशे — 1) 'ब्रह्मा + ऋषिः' इत्यत्र **आद्गुणः** (6.1.87) इत्यनेन गुणैकादेशे कृते 'ब्रह्मर्षिः' इति शब्दः सिद्ध्यति । अत्र 'अर्' इति एकादेशः पूर्वस्य अन्तवत् स्वीकृत्य 'ब्रह्मर्-षिः' इति विभाजनं क्रियते चेत् पदान्तरेफस्य **खरवसानयोर्विसर्जनीयः** (8.3.15) इत्यनेन अनिष्टः विसर्गादेशः सम्भवति । एतादृशस्य अनिष्टस्य विसर्गादेशस्य निवारणं कर्तुम् — *अत्र अन्तवद्भावस्य स्थाने आदिवद्भावम् एव स्वीकुर्मः*‌ — इति विवक्षां न कर्तुं शक्यते । अत्र प्राप्तस्य अनिष्टविसर्गस्य यथोचितम् निवारणम् कर्तव्यमेव । अतएव सिद्धान्तकौमुद्यां दीक्षितः **खरवसानयोर्विसर्जनीयः** (8.3.15) इत्यत्र '*उभयथर्क्षु, कर्तरि चर्षिदेवतयोः इति निर्देशात्* ' — इति चख्यौ । पाणिनिना स्वयमेव **उभयथर्क्षु** (8.3.8) अस्मिन् सूत्रे, उत **कर्तरि चर्षिदेवतयोः** (3.2.186) अस्मिन् सूत्रे 'अर्' इति एकादेशं कृत्वा ततः रेफस्य विसर्गादेशः न क्रियते, अतः एकादेशे कृते रेफस्य विसर्गाभावः पाणिनिसम्मतः एव अस्ति, इति मत्त्वा अत्र रेफस्य विसर्गादेशस्य अनिष्टापत्तिः निवारयितुम् शक्यते — इति अत्र दीक्षितस्य आशयः अस्ति । 2) 'कोऽस्य' इत्यत्र **एङः पदान्तादति** (6.1.109) इत्यनेन ओकार-अकारयोः एकादेशे कृते ओकारः सिद्ध्यति । अयम् ओकारः आदिवद्भावेन परशब्दस्य अवयवं स्वीकृत्य, 'ओस्य' इति परशब्दं मत्त्वा, तत्र विद्यमानस्य षष्ठी-एकवचनस्य सकारस्य **इण्कोः** (8.3.57) इत्यधिकारे विद्यमानेन **आदेशप्रत्यययोः** (8.3.59) इति सूत्रेण अनिष्टं षत्वम् आपतति । अस्य षत्वस्य निवारणम् कर्तुम् — *अत्र आदिवद्भावस्य स्थाने अन्तवद्भावम् एव स्वीकुर्मः*‌ — इति विवक्षां न कर्तुं शक्यते । अत्र प्राप्तस्य अनिष्टषत्वस्य यथोचितम् निवारणम् कर्तव्यमेव । तदर्थमेव च पाणिनिना **षत्वतुकोरसिद्धः** (6.1.86) इति सूत्रम् निर्मितम् अस्ति । षत्वे कर्तव्ये एकादेशः असिद्धः ज्ञेयः —‌ इति अस्य सूत्रस्य अर्थः । अस्य सूत्रस्य प्रयोगेण 'ओ' इति एकादेशः षत्वस्य कृते असिद्धः भवति, अतश्च अत्र अनिष्टं षत्वम् सरलरूपेण निवार्यते । **उभयथा आश्रये नान्तादिवत् भवति (सीरदेवपरिभाषा 61)** सीरदेवस्य बृहत्परिभाषावृत्तौ **उभयथा आश्रये नान्तादिवत्** इति परिभाषा पाठिता लभ्यते । तत्र इत्थम् उच्यते — यत्र तु एकादेश उभयम् आश्रयति पूर्वं परं च, तत्र उभयतः आश्रये न अन्तवत्त्वं न अपि आदिवत्त्वम् इति वाक्यार्थः। तेन वृक्षम् इत्यत्र एकादेशस्य पूर्वग्रहणेन अग्रहणात् न अङ्गस्य अकारान्तत्वम् ; परग्रहणेन अग्रहणात् मकारस्य न सुप्त्वम्, इति दीर्घत्व-अभावः। ... अत्रेदं न वक्तव्यम् — एकादेशस्य पूर्वग्रहणेन ग्रहणे कृते एकदेशविकृतद्वारेण मकारमात्रस्य सुप्त्वम् आश्रित्य दीर्घत्वेन भवितव्यम् — इति। यदि अत्र एकदेशपरिभाषा स्याद्, उभयताश्रयपरिभाषा निर्विषया स्यात् । इयं च परिभाषा अन्तादिवच्च इत्यत्र भाष्यकारेण पठिता ॥ — सीरदेवकृतात् बृहत्परिभाषावृत्तेः परिभाषा - 61 **अन्तादिवच्च** (6.1.85) इत्यनेन उक्तः एकादेशः इष्टप्रयोगसिद्ध्यर्थम् — (i) पूर्वस्य अन्तवत्, **अथवा** (ii) परस्य आदिवत् स्वीकरणीयः — इति अस्याः परिभाषायाः आशयः । इत्युक्ते, **एकस्याम् एव प्रक्रियायाम् अयम् एकादेशः उभयथा कार्यं कर्तुं न शक्नोति**। At any given time, the current sutra enables the एकादेश to act **either** as an ending particle of the पूर्वशब्द, **or** as a leading particle of the परशब्द, but it **does not ** allow the एकादेश to **simultaneously**act like the ending particle of the पूर्वशब्द and the leading particle of the परशब्द. । यथा, 'बाल'शब्दात् प्रथमाद्विवचनस्य 'अम्'-प्रत्यये कृते **अमि पूर्वः** (6.1.107) इति सूत्रेण पूर्वपरयोः एकादेशे अकारे कृते 'बालम्' इति सिद्ध्यति । अत्र 'बालम्' शब्दे विद्यमानः लकारोत्तरः अकारः एकादेशः अस्ति । यदि अयम् एकादेशः पूर्वस्य अन्तवत् स्वीक्रियते (बालम् = बाल + म्) तर्हि अङ्गम् अकारान्तं भवति, परन्तु अग्रे सुप्-प्रत्ययः न वर्तते (यतः म् इति प्रत्ययः नास्ति - **एकदेशविकृतमनन्यवत्** इति परिभाषा अत्र न स्वीक्रियते ) । यदि च अयम् एकादेशः परस्य आदिवत् स्वीक्रियते (बालम् = बाल् + अम्) तर्हि अग्रे सुप्-प्रत्ययः भवति परन्तु अङ्गम् अकारान्तम् न भवति । इदानीम् यदि अयम् आदेशः **युगपत्** परस्य आदिवत्, पूर्वस्य च अन्तवत् स्वीक्रियेत (i.e we treat it simultaneously as पूर्वस्य अन्तवत् and परस्य आदिवत्, purely to take the good things from both the sides), तर्हि 'अकारान्तम् अङ्गम्, मकारः सुप्-प्रत्ययः' इति मत्वा **सुपि च** (7.3.102) इति अनिष्टः दीर्घादेशः सम्भवेत् । एतादृशम् मा भूत् अतः इयं परिभाषा निर्मिता अस्ति । Sutrartha (English) ------------------- The एकादेश told in the एकः पूर्वपरयोः अधिकार acts like the last letter of the पूर्वशब्द as well as the first letter of the परशब्द. Vasu English Summary -------------------- And this single substitute is considered as the final of the preceding (form) and the initial of the succeeding (form). Vasu English Translation ------------------------ And this single substitute is considered as the final of the preceding (form) and the initial of the succeeding (form). The single substitute taught in the last, is considered in the light of the final of the preceding form and the initial of the succeeding. An *adesa* is like the *sthani*, but in an *ekadesa*, the *sthani* is indeterminate, or rather the *sthani* is the collection or the sum of the preceding and the succeeding. Hence the necessity of this *sutra*. The sense of this *atidesa* *sutra* is this: as the beginning and the end of a thing are both included in the thing itself, and therefore when the thing is mentioned, the beginning and the end are both taken; so is the case with this single substitute. Thus to the stem ब्रह्मबन्धु we add ऊ the feminine affix (4.1.66); and now उ + ऊ = ऊ (6.1.101) i. e. ब्रह्मबन्धु + ऊ = ब्रह्मबन्धू ॥ Here ब्रह्मबन्धु is a Nominal-stem (प्रातिपदिक) and the affix ऊ is a non-*pratipadika*, and the single-substitute ऊ is considered as the final of the *pratipadika*. So that we can apply to the form ब्रह्मबन्धु the term *pratipadika* and by virtue of this designation we can add the case-endings to it by (4.1.1). But for this rule, we could not have added the case-endings to it, because by virtue of the feminine affix ऊ the word would have rather ceased to be a *pratipadika* (1.1.46), because this feminine affix ऊ is not included in (4.1.1). Similarly for the final non-case-ending अ of वृक्ष and the case-ending औ, there comes a single substitute औ by (6.1.88), this *ekadesa* औ is considered both as a non-case affix and a case affix, that is, as the initial of the affix औ, and the final of वृक्ष and thus the word वृक्षौ gets the designation of *Pada* (1.4.14) as it ends in the सुप् affix औ ॥ This अन्तादिवद्भाव does not apply in rules relating to letters i. e. to rules depending for their application on letters. Thus खट्व + आ = खट्वा ॥ Here the *ekadesa* आ is as the final अ of खट्व, but not for the purposes of the application of the rule which says that the भिस् is changed to ऐस् after a nominal-stem ending in अ, so the Instrumental plural of खट्वा will not end in ऐः, but will be खट्वाभिः ॥ So also in जुहाव ॥ It is the Perfect 3rd person singular of ह्वे or ह्वा ( VI.1.45). By (6.1.53), the व् is changed to उ, and we have जुह्व्आ = जुह्उआ which by (6.1.108) becomes जुहु, the उ being the single substitute of उ and आ ॥ This single-substitute उ should not be considered as आ for the application of the rule (7.1.34) by which the Perfect affix णल् (अ) is changed in औ after roots ending in आ ॥ Similarly in अस्यै + अश्वः = अस्या अश्वः (the य् being elided by (8.3.19)). अस्यै is the Dative singular of इदम् in the Feminine with आ ॥ By (7.3.114) स्या is added in the Dative with the shortening of the preceding आ; as अ + स्या + ए = अस्यै (Here ऐ is the single substitute for आ and ए ॥ Here for the application of (6.1.109) the single substitute ऐ should not be considered like ए ॥ The *sthani* of the single-substitute (*ekadesa*) is the sum of the preceding and the succeeding, both taken collectively is replaced by one, and not any one of them separately. For that which is replaced by another is called *sthani*: as when भू replaces अस् the whole form अस् is called *sthani*, and not अ or स् separately. The parts, may be called *sthani* only inferentially, because the whole is made up of parts. The parts not being considered as *sthani*, the rule of *sthanivad* *bhava* will not apply to an *ekadesa* with regards to the parts, and no operations dependant on such parts will be effected by such *ekadesa*. But it is intended that such operations should take place. Hence this *sutra*. Bhashya ------- अन्तादिवच्च (2522) (अतिदेशाधिकरणम्) (वार्तिकावतरणभाष्यम्) किमर्थमिदमुच्यते ? (6126 प्रयोजनवार्तिकम् ॥ 1 ॥) - अन्तादिवद्वचनमामिश्रस्यादेशवचनात् - अन्तादिवद्वचनं क्रियते, आमिश्रस्यादेशवचनात् । आमिश्रस्यायमादेश उच्यते स नैव पूर्वग्रहणेन गृह्यते, नापि परग्रहणेन । तद्यथा - क्षीरोदके संपृक्ते आमिश्रत्वान्नैव क्षीरग्रहणेन गृह्येते नाप्युदकग्रहणेन, इष्यते च ग्रहणं स्यादिति । तच्चान्तरेण यत्नं न सिध्यतीत्यन्तादिवद्वचनम् । एवमर्थमिदमुच्यते ॥ (वार्तिकावतरणभाष्यम्) अस्ति प्रयोजनमेतत् । किं तर्हीति ? (6127 पूर्वपक्षिवार्तिकम् ॥ 2 ॥) - तत्र यस्यान्तादिवत्तन्निर्देशः - तत्र यस्यान्तादिवद्भाव इष्यते तन्निर्देशः कर्तव्यः । अस्यान्तवद्भवति, अस्यादिवद्भवतीति वक्तव्यम् ॥ (6128 समाधानवार्तिकम् ॥ 3 ॥) - सिद्धं तु पूर्वपराधिकारात् - सिद्धमेतत् । कथम् ? पूर्वपराधिकारात् । पूर्वपरयोरिति वर्तते । पूर्वस्य कार्यं प्रत्यन्तवद्भवति । परस्य कार्यं प्रत्यादिवद्भवति ॥ (सूत्रस्याप्रवृत्तिस्थलबोधकभाष्यम्) अथ यत्रोभयमाश्रीयते, किं तत्र पूर्वस्यान्तवद्भवति - आहोस्वित्परस्यादिवद्भवति ? उभयत आश्रये नान्तादिवत् । किं वक्तव्यमेतत् ? न हि । कथमनुच्यमानं गंस्यते ? लौकिकोऽयं दृष्टान्तः । तद्यथा - लोके द्वयोस्तुल्यबलयोरेकः प्रेष्यो भवति, स तयोः पर्यायेण कार्यं करोति । यदा तु तमुभौ युगपत् प्रेषयतः, नानादिक्षु च कार्ये भवतः, तत्र यद्यसावविरोधार्थी भवति उभयोर्न करोति । किं पुनः कारणमुभयोर्न करोति ? यौगपद्यासंभवात् । नास्ति यौगपद्येन संभवः ॥ (वार्तिकावतरणभाष्यम्) अथान्तवत्त्वे कानि प्रयोजनानि ? (6129 अन्तवत्त्वप्रयोजनवार्तिकम् ॥ 4 ॥) - अन्तवत्त्वे प्रयोजनं बह्वच्पूर्वपदाट्ठज्विधाने - अन्तवत्त्वे बह्वच्पूर्वपदाट्ठज्विधाने प्रयोजनम् । द्वादशान्यिकः । पूर्वपदोत्तरपदयोरेकादेशः पूर्वस्यान्तवद्भवति, यथा शक्यते कर्तुं - बह्वच्पूर्वपदाट्ठज्भवतीति । क्व तर्हि स्यात् ? यत्र कृतेऽप्येकादेशे बह्वच्पूर्वपदं भवति - त्रयोदशान्यिकः ॥ (6130 अन्तवत्त्वप्रयोजनवार्तिकम् ॥ 5 ॥) - प्रत्ययैकादेशः पूर्वविधौ - प्रत्ययैकादेशः पूर्वविधौ प्रयोजनम् । मधु पिबन्ति । शिदशितोरेकादेशः शितोऽन्तवद्भवति, यथा शक्येत कर्तुं - शितीति पिबादेशः । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति - पिबति ॥ (6131 अन्तवत्त्वप्रयोजनवार्तिकम् ॥ 6 ॥) - वैभक्तस्य णत्वे - वैभक्तस्य णत्वे प्रयोजनम् । क्षीरपेण, सुरापेण । उत्तरपदविभक्त्योरेकादेश उत्तरपदस्यान्तवद्भवति, यथा शक्येत कर्तुम् - एकाजुत्तरपदे णो भवतीति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति - क्षीरपाणाम्, सुरापाणाम् ॥ (6132 अन्तवत्त्वप्रयोजनवार्तिकम् ॥ 7 ॥) - अदस इर्त्वोत्वे - अदस इर्त्वोत्वे प्रयोजनम् । अमी अत्र, अमी आसते । अमू अत्र, अमू आसाते । अदस्विभक्त्योरेकादेशोऽदसोऽन्तवद्भवति, यथा शक्येत कर्तुं - अदसोसेर्दादुदोमः एत इर्द्बहुवचने (8-2-80;81) इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति - अमीभिः, अमूभ्याम् ॥ (वार्तिकावतरणे प्रयोजनभाष्यम्) स्वरितत्वे प्रयोजनम् - कार्या, हार्या । तिदतितोरेकादेशस्तितोऽन्तवद्भवति, यथा शक्येत कर्तुं - तित्स्वरितम् (6.1.185) इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति - कार्यः, हार्यः ॥ (6133 भाष्योक्तप्रयोजनखण्डनवार्तिकम् ॥ 8 ॥) - स्वरितत्वं विप्रतिषेधात् - स्वरितत्वं क्रियताम् - एकादेश इति, किमत्र कर्तव्यम् ? परत्वात्स्वरितत्वं भविष्यति विप्रतिषेधेन ॥ (विप्रतिषेधाक्षेपनिरासभाष्यम्) नैष युक्तो विप्रतिषेधः, नित्य एकादेशः, कृतेऽपि स्वरितत्वे प्राप्नोत्यकृतेऽपि । अनित्य एकादेशः । अन्यथास्वरस्य कृते स्वरितत्वे प्राप्नोति, अन्यथास्वरस्याकृते स्वरितत्वे प्राप्नोति । स्वरभिन्नस्य च प्राप्नुवन्विधिरनित्यो भवति ॥ अन्तरङ्गस्तर्ह्येकादेशः । काऽन्तरङ्गता ? वर्णावाश्रित्यैकादेशः, पदस्य स्वरितत्वम् । स्वरितत्वमप्यन्तरङ्गम् । कथम् ? उक्तमेतत् - पदग्रहणं परिमाणार्थमिति । उभयोरन्तरङ्गयोः परत्वात्स्वरितत्वम्, स्वरितत्वे कृते आर्न्तय्यतः स्वरितानुदात्तयोरेकादेशः स्वरितो भविष्यति ॥ (6134 खण्डनोपष्टम्भकवार्तिकम् ॥ 9 ॥) - लिङ्गविशिष्टग्रहणाद्वा - अथवा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवतीत्येवमत्र स्वरितत्वं भविष्यति ॥ (वार्तिकावतरणे प्रयोजनभाष्यम्) पूर्वपदान्तोदात्तत्वं च प्रयोजनम् - गुडोदकम्, मथितोदकम् । पूर्वपदोत्तरपदयोरेकादेशः पूर्वपदस्यान्तवद्भवति, यथा शक्येत कर्तुम् - उदकेऽकेवले पूर्वपदस्यान्त उदात्तो भवतीति । क्व तर्हि स्यात् ? यत्रैकादेशो नास्ति - उदश्विदुदकम् ॥ (6135 अवतरणोक्तप्रयोजनखण्डनवार्तिकम् ॥ 10 ॥) - पूर्वपदान्तोदात्तत्वं च - पूर्वपदान्तोदात्तत्वं च विप्रतिषेधात् । पूर्वपदान्तोदात्तत्वं क्रियतामेकादेश इति, किमत्र कर्तव्यम् ? परत्वात्पूर्वपदान्तोदात्तत्वम् । पूर्वपदान्तोदात्तस्यावकाशः - उदश्विदुदकम् । एकादेशस्यावकाशः - दण्डाग्रम्, क्षुपाग्रम् । इहोभयं प्राप्नोति - मथितोदकम्, गुडोदकम् । पूर्वपदान्तोदात्तत्वं भवति विप्रतिषेधेन ॥ स चावश्यं विप्रतिषेध आश्रयितव्यः । (6136 विप्रतिषेधप्रयोजनवार्तिकम् ॥ 11 ॥) - एकादेशे हि स्वरिताप्रसिद्धिः - एकादेशे हि स्वरितस्याप्रसिद्धिः स्यात् । यो हि मन्यते - अस्त्वत्रैकादेशः, एकादेशे कृते पूर्वपदान्तोदात्तत्वं भविष्यति - इति, स्वरितत्वं तस्य न सिध्यति - स्वरितो वाऽनुदात्ते पदादौ (8.2.6) इति । गुडोदकम्, मथितोदकम् ॥ (वार्तिकावतरणेऽन्तवत्त्वप्रयोजनभाष्यम्) कृदन्तप्रकृतिस्वरत्वं च प्रयोजनम् । प्राटिता प्राशिता । कृद्गत्योरेकादेशो गतेरन्तवद्भवति । यथा शक्यते कर्तुम् - गतिकारकोपपदात्कृदन्तमुत्तरपदं प्रकृतिस्वरं भवति - इति । क्व तर्हि स्यात् ? यत्र नैकादेशः - प्रकारकः, प्रकरणम् ॥ (6137 भाष्योक्तप्रयोजनान्यथासिद्धिवार्तिकम् ॥ 12 ॥) - कृदन्तप्रकृतिस्वरत्वं च - कृदन्तप्रकृतिस्वरत्वं विप्रतिषेधात् । कृदन्तप्रकृतिस्वरत्वं क्रियतामेकादेश इति, किमत्र कर्तव्यम् ? कृदन्तप्रकृतिस्वरस्यावकाशः - प्रकारकः, प्रकरणम् । एकादेशस्यावकाशः - दण्डाग्रम्, क्षुपाग्रम् । इहोभयं प्राप्नोति - प्राटिता, प्राशिता । कृदन्तप्रकृतिस्वरत्वं भवति विप्रतिषेधेन ॥ स चावश्यं विप्रतिषेध आश्रयितव्यः । (6138 अन्तवत्त्वेनासिद्धिबोधकवार्तिकम् ॥ 13 ॥) - एकादेशे ह्यप्रसिद्धिरुत्तरपदस्यापरत्वात् - यो हि मन्यते - अस्त्वत्रैकादेशः, एकादेशे कृते कृदन्तप्रकृतिस्वरत्वं भविष्यतीति, कृदन्तप्रकृतिस्वरत्वं तस्य न सिध्यति । किं कारणम् ? उत्तरपदस्यापरत्वात् । न हीदानीमेकादेशे कृत उत्तरपदं परं भवति । ननु चान्तादिवद्भावेन परम् । उभयत आश्रये नान्तादिवत् ॥ (6139 विप्रतिषेधबोधकवार्तिकम् ॥ 14 ॥) - उत्तरपदवृद्धिश्चैकादेशात् - उत्तरपदवृद्धःइश्चैकादेशाद्भवति विप्रतिषेधेन । उत्तरपदवृद्धेरवकाशः - पूर्वत्रैगर्तकः, अपरत्रैगर्तकः । एकादेशस्यावकाशः - दण्डाग्रम्, क्षुपाग्रम् । इहोभयं प्राप्नोति - पूर्वैषुकामशमः, अपरैषुकामशमः । उत्तरपदवृद्धिर्भवति विप्रतिषेधेन ॥ (6140 एकादेशस्यान्तरङ्गत्वबोधकवार्तिकम् ॥ 15 ॥) - एकादेशप्रसङ्गस्त्वन्तरङ्गबलीयस्त्वात् - एकादेशस्तु प्राप्नोति । किं कारणम् ? अन्तरङ्गबलीयस्त्वात् । अन्तरङ्गं बलीयो भवति । तत्र को दोषः ? (6141 एकादेशस्यान्तरङ्गत्वे दोषवार्तिकम् ॥ 16 ॥) - तत्र वृद्धिविधानम् - तत्र वृद्धिर्विधेया ॥ (एकादेशसाधकभाष्यम्) नैष दोषः । आचार्यप्रवृत्तिर्ज्ञापयति - पूर्वोत्तरपदयोस्तावत्कार्यं भवति, नैकादेशः - इति, यदयम् नेन्द्रस्य परस्य (7.3.22) इति प्रतिषेधं शास्ति । कथं कृत्वा ज्ञापकम् ? इन्द्रे द्वावचौ । तत्रैकः यस्य - इति लोपेन ह्रियते, अपर एकादेशेन । अनच्क इन्द्रः संपन्नः । तत्र को वृद्धेः प्रसङ्गः ? पश्यति त्वाचार्यः - पूर्वपदोत्तरपदयोस्तावत्कार्यं भवति नैकादेश इति, ततो नेन्द्रस्य परस्य इति प्रतिषेधं शास्ति ॥ (वार्तिकावतरणभाष्यम्) अथादिवत्त्वे कानि प्रयोजनानि ? (6142 आदिवत्त्वे प्रयोजनवार्तिकम् ॥ 17 ॥) - आदिवत्त्वे प्रयोजनं प्रगृह्यसंज्ञायाम् - आदिवत्त्वे प्रगृह्यसंज्ञायां प्रयोजनम् । अग्नी इति, वायू इति । द्विवचनाद्विवचनयोरेकादेशो द्विवचनस्यादिवद्भवति । यथा शक्येत कर्तुम् - इर्दूदेदि्द्ववचनं प्रगृह्यम् (1.1.11) इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति - त्रपुणी इति, जतुनी इति ॥ (6143 आदिवत्वे प्रयोजनवार्तिकम् ॥ 18 ॥) - सुप्तिङाब्विधिषु - सुप्तिङाब्विधिषु प्रयोजनम् । सुप् - वृक्षे तिष्ठति, प्लक्षे तिष्ठति । सुब्सुपोरेकादेशः सुप आदिवद्भवति । यथा शक्यते कर्तुम्-सुबन्तं पदम् - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति - वृक्षस्तिष्ठति, प्लक्षस्तिष्ठति । सुप् ॥ तिङ् - पचे, यजे - इति । तिङतिङोरेकादेशस्तिङ आदिवद्भवति । यथा शक्यते कर्तुम् - तिङन्तं पदम् - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न भवति - पचति, यजति । तिङ् ॥ आप् - खट्वा, माला । आबनापोरेकादेश आप आदिवद्भवति । यथा शक्यते कर्तुम् - आबन्तात्सोर्लोपो भवति - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न - कुञ्ञ्चा, उष्णिहा, देवविशा ॥ (6144 आदिवत्त्वे प्रयोजनवार्तिकम् ॥ 19 ॥) आङ्ग्रहणे पदविधौ प्रयोजनम् । अद्याहते, कदाहते । आङनाङोरेकादेश आङ आदिवद्भवति । यथा शक्येत कर्तुम् - आङो यमहनः (1.3.28) इत्यात्मनेपदं भवति - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न - आहते ॥ (6145 आदिवत्वे प्रयोजनवार्तिकम् ॥ 20 ॥) - आटश्च वृद्धिविधौ - आटश्च वृद्धिविधौ प्रयोजनम् । अद्यैहिष्ट, कदैहिष्ट । आटोऽद्यशब्दस्य चैकादेश आट आदिवद्भवति । यथा शक्येत कर्तुम् - आटश्च अचि वृद्धिर्भवति - इति । क्व तर्हि स्यात् ? यत्रैकादेशो न - ऐहिष्ट, ऐक्षिष्ट ॥ (6146 आदिवत्त्वे प्रयोजनवार्तिकम् ॥ 21 ॥) - कृदन्तप्रातिपदिकत्वे च - कृदन्तप्रातिपदिकत्वे च प्रयोजनम् । धारयः, पारयः । कृदकृतोरेकादेशः कृत आदिवद्भवति । यथा शक्येत कर्तुम् - कृदन्तं प्रातिपदिकमिति । क्व तर्हि स्यात् ? यत्रैकादेशो न - कारकः, हारकः ॥ (6147 अन्तादिवद्भावनिषेधवार्तिकम् ॥ 22 ॥) - नाभ्यासादीनां ह्रस्वत्वे - अभ्यासादीनां ह्रस्वत्वे नान्तादिवद्भवतीति वक्तव्यम् । के पुनरभ्यासादयः ? अभ्यासोहाम्बार्थनदीनपुंसकोपर्जनह्रस्वत्वानि । अभ्यासह्रस्वत्वम् - उपेयाज, उपोवाप ।ऊहेर्ह्रस्वत्वम् - उपोह्यते, प्रोह्यते, परोह्यते । अम्बार्थ - नदी - नपुंसक - उपसर्जनह्रस्वत्वानि - अम्बात्र, अक्कात्र । कुमारीदम्, किशोरीदम् । आराशस्त्रीदम्, धानाशष्कुलीदम् । निष्कौशाम्बीदम्, निर्वाराणसीदम् । अभ्यासोहाम्बार्थनदीनपुंसकोपसर्जनग्रहणेन ग्रहणाद्ह्रस्वत्वं प्राप्नोति ॥ (6148 निषेधानर्थक्यबोधकवार्तिकम् ॥ 23 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा एतद्वक्तव्यम् । किं कारणम् ? बहिरङ्गलक्षणत्वात् । अन्तरङ्गं ह्रस्वत्वम्, बहिरङ्गा एते विधयः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ (6149 अन्तादिवद्भावनिषेधवार्तिकम् ॥ 24 ॥) - वर्णाश्रयविधौ च - वर्णाश्रयविधौ च नान्तादिवद्भवतीति वक्तव्यम् । किं प्रयोजनम् ? (6150 अन्तादिवद्भावनिषेधप्रयोजनवार्तिकम् ॥ 25 ॥) - प्रयोजनं खट्वाभिर्जुहावास्या अश्व इति - इह - खट्वाभिः, मालाभिः - अतो भिस ऐस्भवतीत्यैस्भावः प्राप्नोति । नैष दोषः । तपरकरणसार्मथ्यान्न भविष्यति । अस्त्यन्यत् तपरकरणे प्रयोजनम् । किम् ? कीलालपाभिः, शुभंयाभिः ॥ जुहाव - आत औ णलः (7.1.34) इत्यौत्वं प्राप्नोति ॥ अस्या अश्व इति - एङः पदान्तादति (6.1.109) इति पूर्वत्वं प्राप्नोति ॥ (6151 निषेधप्रत्याख्यानवार्तिकम् ॥ 26 ॥) - न वाऽताद्रूप्यातिदेशात् - न वा वक्तव्यम् । किं कारणम् ? अताद्रूप्यातिदेशात् । न हि ताद्रूप्यमतिदिश्यते । रूपाश्रया वा एते विधयः, अताद्रूप्यान्न भविष्यन्ति ॥ Kashika ------- एक इति वर्तते, पूर्वपरयोरिति च। एकः पूर्वपरयोरिति योऽयमेकादेशो विधीयते, स पूर्वस्यान्तवद् भवति, परस्यादिवद् भवति। यथा तस्यान्त आदिर्वा तदन्तर्भूतस्तद्ग्रहणेन गृह्यते, तद्वदेकादेशोऽपि तद्ग्रहणेन गृह्यत इत्येषोऽतिदेशार्थः। ब्रह्मबन्धूरित्यत्र ब्रह्मबन्धु इति प्रातिपदिकम्, ऊङित्यप्रातिपदिकम्, तयोः प्रातिपदिकाप्रातिपदिकयोर्य एकादेशः स प्रातिपदिकस्यान्तवद् भवति। यथा शक्यते कर्तुं **ङ्याप्प्रातिपदिकात्** (४.१.१) इति स्वादिविधिः। वृक्षावित्यत्र सुबौकारोऽसुबकारः, तयोः सुबसुपोरेकादेशः सुप आदिवद् भवति। यथा शक्यते वक्तुं सुबन्तं पदम् (१.४.१४) इति। वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते। तथाहि खट्वाभिरित्यत्रान्तवद्भावाभावाद् **अतो भिस ऐस्** (७.१.९) इति न भवति। ह्वयतेर्जुहावेति संप्रसारणपूर्वत्वस्यादिवद्भावाद् **आत औ णलः** (७.१.३४) इति न भवति। अस्यै अश्वः, अस्या अश्व इति **वृद्धिरेचि** (६.१.८८) इति वृद्धिः, **एङ ः पदान्तादति** (६.१.१०९) इत्यत्र विधावादिवद् न भवति। पूर्वपरसमुदाय एकादेशस्य स्थानी, स हि तेन निवर्त्यते। तत्रावयवयोरानुमानिकं स्थानित्वमिति तदाश्रयं कार्यं स्थानिवद्भावादप्राप्त — मित्यन्तादिवद्भावो विधीयते॥ Siddhanta Kaumudi ----------------- योऽयमेकादेशः सः पूर्वस्यान्तवत्परस्यादिवत्स्यात् । इति रेफस्य पदान्तत्वे ॥ Laghu Siddhanta Kaumudi ----------------------- योऽयमेकादेशः स पूर्वस्यान्तवत्परस्यादिवत्। शिवेहि॥ Laghu Shabdendushekhar ---------------------- **अन्तादि** । इह पूर्वपरयोरिति वर्त्तते यथासङ्ख्यञ्च । अन्तादिशब्दावुपस्थितैकादेशस्थानिपरौ । पूर्वपरशब्दौ च तद्घटितसमुदायपरौ । एवञ्च पूर्वस्य परस्य समुदायस्यान्तादिभ्यां वर्णाभ्यां पृथगवस्थिताभ्यां ये व्यवहाराः प्रातिपदिकत्वसुबन्तत्वप्रत्ययत्वादयस्ते कृतैकादेशस्य भवन्ति, न तु तद्वर्णमात्रवृत्तयोऽत्वह्रस्वत्वादय इत्यर्थस्तत्फलितमाह - **योऽयमित्यादि** । तेन "रामौ" इत्यादौ परादिवत्त्वेन "औ" इत्यस्य सुप्त्वे पूर्वमान्तस्यैकदेशविकृतन्यायेन (**एकदेशविकृतमनन्यवत्** (PB३७)) प्रकृतित्वे यस्मद्विहितस्तदादितदन्तत्वमार्थसमाजग्रस्तमिति पदत्वसिद्धिः । तद्वर्णमात्रवृत्तिधर्मानतिदेशात् "खट्वाभिः" इत्यत्रात्वनिबन्धन ऐस् न । "अयजे इन्द्रम्" इत्यादौ सवर्णदीर्घश्च न । अत एव तुक्यसिद्धिवचनं चरितार्थम् । "अन्यथा अधीत्य" इत्यादावादिवत्त्वेन ह्रस्व त्वप्रयक्ततुक्सिद्धौ तद्वैयर्थ्यं स्पष्टमेव । तदुक्तं **वर्णाश्रये चान्तादिवत्त्वप्रतिषेधो वक्तव्यो न वाऽताद्रूप्यातिदेशात्** इति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादिति तदर्थः । "क्षीरपेण" इत्यादावेकारविशिष्टे एकाजुरपदत्वं भवत्येव । स्थानिवद्भावेन तु नैतल्लभ्यम् । अप्राधान्येनालाश्रयणात् । किञ्च एकादेशे वर्णयोरेव स्थानित्वं न समुदायस्येति भी ई "भिय" इत्यादावेकादेशविशिष्टे धातु त्वानापत्तिः । धातुत्वस्यैकादेशस्थानिधर्मत्वाभावात् । आनुमानिकादेशकल्पकवाक्यम् **अन्तादिघटितसमुदायस्यैकादेशघटित आदेश** इत्येव, न तु प्रत्येकं तयोः स्थानित्वबोधकं, तथा सति स्वाश्वशब्दस्य स्थानिवत्त्वेन स्वशब्दतया तत ईरिन् शब्दे वृद्ध्यापत्तेः । किञ्च भवत्सम्मतस्य **उभयत आश्रयणे नान्तादिवत्** इत्यस्यासङ्गतौ भवत्सम्मत "अभीयात्" इत्याद्यसिद्धिः । स्थानिवत्त्वं तूभयत आश्रयणे इष्यत एव। अन्यथा **अचः परस्मिन् पूर्वविधौ** (१.१.५७) इत्यस्याप्युभयत आश्रयणेऽप्रवृत्त्यापत्तौ "प्लायते" इत्याद्यसिद्धिरिति दिक् ॥ Balamanorama ------------ **अन्तादिवच्च** - अथ तस्य रेफस्य पदान्ते विहितं विसर्गमाशङ्कितुं तस्य पदान्तत्वसाधनायाह-अन्तादिवच्च । एकः पूर्वपरयोरिति सूत्रमनुवर्तते । यथासंख्यपरिभाषया अन्तादिवदित्यस्य क्रमेणान्वयः । ततश्च पूर्वपरयोर्भवन्नेक आदेशः पूर्वस्यान्तवत्परस्यादिवदिति लभ्यते । यद्यपि एकादेशस्य द्वौ वर्णौ स्थानिनौ-पूर्वः परश्च, तयोश्च वर्णयोः प्रत्येकमेकत्वादखण्डत्वात्तदपेक्षया एकादेशस्य अन्तादिवत्त्वकथनमसङ्गतम्, तथापि पूर्वपरवर्णयोर्भवन्नेकादेशः प्रथमस्थानिघटितसमुदायस्य पूर्वस्य योऽन्तः । प्रथमस्थानी तत्कार्यकारी भवति । द्वितीयस्थानिघटितसमुदायस्य उत्तरस्य य आदिर्द्वितीयस्थानी तत्कार्यकारी भवतीत्यर्थो विवक्षितः । तत्र पूर्वान्तवत्त्वे यताक्षीरपेण । क्षीरप-इनेति स्थिते 'आद्गुण' इत्येकादेश एकारः । तत्र पूर्वान्तवत्त्वेन पे इत्युत्तरपदस्य एकाच्त्वादेकाजुत्तरपदेण इति णत्वं भवति । अत्र एकादेशे स्थानिवत्सूत्रं तु न प्रवर्तते, एकदेशस्थानीभूतं पकारादकारमालम्ब्य पे इत्यस्य एकाजुत्तरपदत्वाश्रयेम प्रवर्तमानस्य णत्वस्य स्थान्यलाश्रयत्वात् । यद्यपि एकाजुत्तरपदत्वमेव प्राधान्येन णत्वविधिराश्रयति, पकारादकारं स्थान्यलं तु तद्विशेषणीभूताऽच्वेनाश्रयति, तथाप्यनल्विधाविति निषेधोऽत्र भवत्येव, यथाकथञ्चित्स्थान्यलाश्रयणस्यैव तत्र विवक्षितत्वात् । अन्यता प्रतिदीव्येत्यत्र क्त्वादेशं ल्यपं स्थानिगतवलाद्यर्थधातुकत्वेनाश्रित्येडागमेकर्तव्येऽनल्विधाविति निषेधानुपपत्तिः, तत्र वलः प्राधान्येनाश्रयणाऽभावात् । एतेन स्थानिवत्सूत्रेण गतार्थमिदं सूत्रमिति निरस्तम् । परादिवत्त्वे यथा-खट्वा । अत्र खट्वाशब्दादजाद्यतष्टाप् । सवर्णदीर्घः आकारः । तस्य परादिवत्त्वेन टाप्त्वात्ततः परस्य सोर्हल्ङ्यादिलोपः । इदमपि स्तानिवद्भावेन अनिर्वाह्रम् । हल्ङ्यादिलोपस्यात्र स्थान्यलाश्रयताया मूलकृतैव वक्ष्यमाणत्वात् । नचैवं सति यजेर्लङि उत्तमपुरुषैकवचने इटि शपि आद्गुणे अडागमे अयजे इन्द्रमित्यत्र गुणस्य एकादेशस्य परादिवत्त्वेन इकारत्वात्तत्रेकारे परे सवर्णदीर्घः स्यादिति वाच्यम, इह हि अल्समुदायधर्मास एव प्रातिपदिकत्व-सुबन्तत्व-प्रत्ययत्वादयोऽतिदिश्यन्ते, नतु वर्णमात्रधर्मा अत्वह्रस्वत्वादयः । उक्तञ्च भाष्ये-॒न वा अताद्रूप्यातिदेशा॑दिति । अन्तादिवर्णमात्रवृत्तिधर्मानतिदेशादयज इन्द्रमित्येवंजातीयकेषु सवर्णदीर्घादिकं न भवतीत्यर्थ इत्यलमतिविस्तरेण । Tattvabodhini ------------- **अन्तादिवच्च** - अन्तादिवच्च । इहएकः पूर्वपरयोः॑ इत्यनुवर्तते, यथासङ्ख्यं चाश्रीयत इत्यभिप्रेत्याह-पूर्वस्यान्तवदिति । स्थानिवत्सूत्रेणैव गतार्थमिदम् । न चाल्विध्यर्थमिदमस्त्विति शङ्क्यम् ; अस्याऽप्यल्विधावनिष्टत्वात् । अन्यथाअयजे इन्द्र॑मित्यत्र सवर्णदीर्घापत्तेः । Padamanjari ----------- अन्तादिशब्दयोरवयवविशेषवाचित्वादवयविशेषापेक्षायां पवपरयोरित्यनुवृतेस्तस्य च वक्ष्यमाणगुणाद्यादेशविशेषणत्वादेकादेस इति लभ्यते, तदिदमुक्तम् - एकः पूर्वपरयोरिति वर्तत इत्यादि। कः पुनरत्रातिदेशार्थः, किं यावेकादेशस्य स्थानिनौ पूर्वपरौ तयोरन्तादिवद्भवति? किं वा - अकृत एकादेशे तमेवैकादेशमपेक्ष्य यौ पूर्वपरौ समुदायौ तयोरन्तादिवद्भवतीति ? यदि वा - एकादेशस्य स्थानिनौ पूर्वपरौ वर्णै, तयोः समुदाययोरन्तादी, यतोरेकादेशोऽप्यन्तादिवद्भवतीति ? तत्राद्यपक्षस्तावन्न सम्भवति, एकादेशेन पूपरयोस्तत्स्थानिनोर्निवर्तितत्वात्! कथमसतोः पूर्व परयोरन्तादिवत्स्यात्! द्वितीये पक्षे वृक्षावित्यत्र वृक्षाऔ इति स्थिते सुबसुपोरेकादेशः सुबपेक्षस्य कस्यचित्परस्याभावात्परादिवन्न स्यात् ? अतः तृतीयः पक्ष अश्रीयते। नन्वयमपि पक्षो न सम्भवत्येव। तथा हि - ब्रह्मबन्धूरित्यत्र ब्रह्मबन्धुऔउ इति स्थिते पूर्वो वर्ण उकारो यस्यान्तो ब्रह्मबन्धुशब्दस्य स एकादेशे नास्त्येव, उकारस्य निवर्तितत्वात्; यश्चास्ति धकारान्तो न तस्यान्त एकादेशस्य स्थानी उकारः, अनारम्भकत्वात्? एवं तर्हि यद्व्यपदेशयुक्तस्य स्थानिनौ पूर्वपरावन्तादी तद्व्यपदेशयुक्तस्यैकादेशोऽप्यन्तादिवदित्यर्थः। एददुक्तं भवति - एकादेशात्प्राक् पूर्वपरयोः पृथगवस्थितयोस्ताभ्यां सह यो व्यपदेशः पूर्वपरसमुदायविषयो दृष्टः - प्रातिपदिकमिति वा, सुबन्तमिति वा, स व्यपदेश एकादेशे कृतेऽपि भवतीति। तदिदमुक्तम् - यथा तस्यान्त आदिर्वा तदन्तर्भूत इत्यादि। तस्येत्यनेन एकादेशात्प्रागवस्थितः पूर्वः परश्च समुदायो निर्द्दिश्यते, अन्तादिशब्दाभायां च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणीन गृह्यत इत्यनेनापि ठेतदुक्तं भवतिऽ इत्यारम्भायन्तरं च एकादेशस्य स्थानिनौ पूर्वपरौ। तद्ग्रहणेन गृह्यत इत्यनेनापि ठेतदुक्तं भवतिऽ इत्यारभ्यानन्तरं यदुक्तमस्माभिस्तद्दर्शितम्। एषोऽतिदेशार्थ इति। अतिदिश्यत इत्यतिदेशः, अतिदेशश्चासावर्थश्चेत्यतिदेसार्थः कर्मधारयोऽयमर्थोऽत्रातिदिश्यत इत्यर्थः। वर्णाश्रयविदावित्यादि। वर्णस्वरूपमाश्रित्य यद्विधीयते न तदन्तादिवद्भावेनातिदिश्यत इत्यर्थः। तत्कथम्? नात्र ताद्रूप्यनिबन्धनं कार्यमतिदिश्यते, योऽयमान्त आदिर्वा प्रागेकादेशादवस्थितः पूर्वः परश्च तद्वदयमेकादेशो भवति। तत्प्रयुक्तं कार्यं लभत इति। एवं च तद्वच्चेत्येव वक्त्व्य स्तात्, तच्छब्देन पूर्वापरौ परामृश्यते। एवं हि सिद्धेऽन्तादिवदिति वचनादन्तादित्वप्रयुक्तं कार्यमेकादेशस्य भवतु, पूर्वपरस्वरूपप्रयुक्तं तु कार्यं केन भवेत् ! लिङ्गं चात्र भवति तुक्यसिद्धवचनम्; अन्यथा अधीत्येत्यादावेकादेशस्यादिवद्भावादेव तुकः सिद्धत्वादनर्थकं तत्स्यात्। खट्वाभिरिति। तपरकरणं तु यत्रैकादेशो नास्ति तदर्थं स्यात् - शुभंयाभिरिति। जुहावेति। ठभ्यस्तस्य चऽ इति ह्वयतेः सम्प्रसारणे कृते जुहुआअ इति यत्पूर्वरूपत्वमाकारस्य तन्नादिवद्भावति, योऽयमादिराकारस्तद्वन्न भवति, तेन ठात औ णलःऽ इति न भवति। अस्यै अश्व इति। स्याटो विभक्त्येकारस्य योऽयं'वृद्धिरेचि' इति वृद्धिरेकादेशः स परस्यादिवन्न भवति, तेन ठेङः पदान्तादतिऽ इति न भवति। यत्र च युगपदुभयमाश्रीयते - अन्तश्चादिश्च, तत्राप्यन्तादिवद्भावो न भवति, यथा ठेतेलिङ्ऽ ईति ह्रस्वत्वमुपसर्गात्परस्येणो विधीयमानम्-अभीयात्परीयादित्यादौ न भवति। यदि ह्ययमेकादेशः पूर्वं प्रत्यन्तवद् बुद्ध्या गृह्यएत, स तदानीमेव कथं परं प्रत्यादिवत्स्यात्! एवं परं प्रत्यादिवत्वे तदानीमेव पूर्वं प्रत्यन्तवद्बावोऽप्यनुपपन्नः; एकस्योभयापेक्षया युगपत्पारतन्त्र्यस्य विरोधात् । पूर्वापरेति। यो येन निवर्त्यते स तस्य स्तानी, यथा - भुवोऽस्तिः। समुदायश्चात्र निवर्त्यते, ततश्च तत्प्रयुक्तमेव कार्थं स्थानिवद्बावात्स्याद् यदि किञ्चिदस्ति, न तु प्रत्येकं पूर्वपरयुक्त्म्। स्यादेतद् - अवययोरपि निवर्त्यमानत्वातयोरपि स्थानित्वम्? इत्यत आह - तत्रेति। इतिकरणद्वयमपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्स्थानित्वं तदानुमानिकमवयवनिवृत्तिमन्तरेणावयविनो निवर्तयितुमशक्यत्वादवयवयोर्निवृत्तिः, न त्वादिष्टत्वादित्यर्थः। ततश्च तदाश्रयं कार्यं स्थानिवद्भावान्न प्राप्नोति; साक्षाच्छ्4%अतस्यैव च स्थानिनस्तत्राश्रयणात्। इष्यते च तदर्थमन्तादिवद्भावो विधीयते। ननु विपरीतमिदम् - अवयवयोरानुमानिकं स्थानित्वमिति ?'पूर्वपरयोः' इति द्विर्वचननिर्द्देशात् तयोरेव स्थानित्वं श्रुतं न समुदायस्य शब्दोऽस्ति, द्वयोस्तु निवर्तमानयोरर्थात्समुदायो निवर्तत इत्येतावत्। तथा च पूर्वसूत्रे'स्थानिबेदाद्भिन्नादिषु नत्ववत्' इत्युक्तम्। तच्चान्यत्रापि उक्तम् - यो ह्युभयस्थाने भवति लभते सोऽन्यतरव्यपदेशम्, तेन खट्वर्श्य इत्यत्र पररत्वं भवत्यृकारस्यापि स्थानिवद्भावः, कथम?'स्थानिवदादेशः' इत्यत्र स्थानिशब्दस्य सम्बन्धिशब्दत्वादेवादेशपरिग्रहे सिद्धे आदेशग्रहणमानुमानिकस्याप्यादेशस्य स्थानिवद्भावार्थम्, ततश्च स्थान्यप्यानुमानिक आश्रितः, यथा ठेरुःऽ पचत्वित्यत्र । अत्र हि इकारेणेकारान्तः स्तान्यनुमीयते, उकारेणाप्युकारान्त आदेशः, तस्य स्थानिवद्भावात्'तिङ्न्तं पदम्' इति पदसंज्ञा भवति। एवमप्यत्रावयवयोरानुमानिके स्थानित्वे सिद्धः स्थानिवद्भावः ? एवं तर्ह्यनल्विधौ स्थानिवद्बाव उक्तः अल्विध्यर्थमिदम्, यथा - क्षीरपेण, सुरापेणोतरपदविभक्त्योरेकादेशस्यान्तवद्भावात् ठेकाजुतरपदे णःऽ इति णत्वमल्विधिरपि भवति। ननु च ठनल्विधौऽ इति प्रतिषेधः स्थान्यलाश्रयेष्वेव कार्येषु, असय त्वेकादेशस्योतरपदं प्रत्यवयवत्वमेव स्थानिवत्वेन प्रार्थनीयम्; अच्त्वं तु स्वत एव सिद्दम्, ततश्च यथा - अरुदितामित्यत्र स्वाश्रयं वलादित्वं स्थानिवद्बावकृतं च सार्वदातुकत्वमाश्रित्य रुदादिभ्यः सार्वधातुकेऽइतीङ् भवति, तद्वदिहापि स्थानिवद्धावकृतमुतरपदावलयवत्वं स्वाश्रयं चाच्त्वमाश्रित्य णत्वं भवति। ततु स्थान्यल्खरूपनिबन्धनम्, तत्रेष्यत एव, यथा खट्वाभिरित्यादावैस्भावादि। तस्मात् चिन्त्यभस्य प्रयोजनम् ॥ Nyaas ----- अन्तादिवदित्युक्ते न ज्ञायते - कोऽस्यातिदेशस्यार्थ इत्यतस्तत्परिज्ञानायाह - `यथा` इत्यादि। `इत्येषोऽतिदेशस्यार्थः` इति। इतिशब्द्वोऽतिक्रान्तप्रत्यवमर्शी-अतिदिश्येऽनेनेत्यतिदेशः, स पुनः `अन्तदिवच्च` इत्येष एव योग इत्येषोऽनन्तरोक्तोऽस्यातिदेशस्यार्थ इत्यर्थः। `वर्णाश्रयविधावयमन्तादिवद्भावो नेष्यते` इति। कथमेतज्ज्ञायते? इत्याह - `तथाहि` इत्यादि। `ओभिस ऐस्? (7.1.9) इत्यकारवर्णाश्रयो विधिः; तत्र कर्तव्ये खट्वाभिरित्यत्र सवर्णदीर्घत्वं पूर्वस्यानतवन्न भवति। **आत औ णलः** (7.1.34) इत्याकारवर्णाश्रयोऽयं विधिः। तत्र कर्तव्ये वर्णाश्रये जुहावेत्यत्र **अभ्यस्तस्य च** (6.1.33) इति ह्वयतेः सम्प्रसारणे कृते यत्? पूर्वरूपत्वमाकारस्य तन्नादिवद्भवकति। एङः पदान्तादति` (6.1.105) इत्येष विधिरेङ्वर्णाश्रयः। तत्र कर्तव्ये - अस्यै अआ इत्यत्र `आटश्च` (6.1.87) इति वृद्धिः परस्यादिवन्न भवति, तदभावादायादेशः, **लोपः शाकल्यस्य** (8.3.19) इति यकारलोपः, तत्? किमेतद्वक्तव्यम् - वर्णाश्रये नान्तादिवदिति? न वक्तवयम्। कथम्? अताद्रूप्यातिदेशात्। नेह ताद्रूप्यमतिदिश्यते, रूपाश्रयाश्चैते विषयः, तेनाताद्रूप्यान्न भविष्यन्ति। किमर्थं पुनरयमन्तादिवद्भावो विधीयते, यावता पूर्वपरावुक्तावेकादेशस्य स्थानिनौ, अत्र स्थानिवद्भावादेव तदाश्रयं कार्यं भविष्यति? इत्यत आह - `पूर्वपरसमुदाय एकादेशस्य स्थानी` इति। कथं ज्ञायते? इत्याह - `स हि` इत्यादि। येन हि यो निवर्त्त्यत आदेशेन स तस्य स्थानीति, तद्यथा - **अस्तेर्भूः** (2.4.52) इति। अत्र भूवोऽस्तिः, समुदायश्चेहैकादेशेन निर्वर्त्त्यत इति स एव तस्य स्थानी, न पूर्वपरौ समुदायिनौ। स्यादेतत् - अवयवस्य समुदायाभ्यान्तरत्वात्? समुदाय आदेशेन निवर्त्त्यमानेऽवयवावपि निवर्त्त्येते, तस्मात्? तयोरपि स्थानित्वम्? इत्यत आह - `तत्र` इत्यादि। इतिकरणौ द्वावपि हेतौ। तत्र समुदाये स्थानिन्यवयवयोर्यत्? स्थानित्वं तदानुमानिकम्, समुदाय एकादेशस्य आदेशेन निवर्त्त्यमाने तयोरपि निवर्तनं नान्तरीयकमिति कृत्वा। न हि विनावयवनिवर्तनेन समुदायः शक्यते निवर्तयितुम्, तस्य तदात्मकत्वात्। समुदायस्य तु प्रत्यक्षंस्थानित्वम्। `पूर्वपरयोः` इति स्थानषष्ठन्तस्य साक्षाच्? श्रवणात्? `श्रुतानुमितयोः श्रौतः सम्बन्धो गरीयान्` (चां।प।पा।49) इति **स्थानिवदादेशोऽनल्विधौ** (1.1.56) इत्यनेन यस्य प्रत्यक्षं साक्षात्? श्रुतम्, स्थानित्वं तदाश्रयमेव कार्यमादेशे विधीयते। अवयवयोश्चानुमानिकं स्थानित्वं न प्रत्यक्षम्, अतस्तदाश्रयं कार्यं नातिदिश्यते। तेन तदाश्रयं कार्यं स्थानिवद्भावादेशे न प्राप्नोति, इष्यते च। तदर्थमयमन्ताविवद्बावो विधीयते॥ Praudhamanorama --------------- इहैकः पूर्वपरयोरित्यनुवर्तते यथासंख्यं चेत्यभिप्रेत्याह- **पूर्वस्यान्तवदिति।** स्थानिवत्सूत्रेणैव गतार्थमिदं सूत्रम्। न चाल्विध्यर्थमिदमिति भ्रमितव्यम्, अस्याप्यनल्विधावनिष्टत्वात्। अन्यथा अयजे इन्द्रमित्यत्र सवर्णदीर्घापत्तेः। तथा च वार्तिकम्- 'न वा अताद्रूप्यातिदेशात्' इति। Prakriyasarvasvam ----------------- एकादेशः पूर्वस्यान्तवत् परस्यादिवच्च स्यात् । इति कुरुशब्दस्य प्रातिपदिक- स्यान्तवद्भूत ऊङित्यूङन्तस्यापि प्रातिपदिकत्वे स्वाद्युत्पत्तिः कुरूः । अत्राप्ययो- पधादेव । व्याधस्त्री मृगयुः । अप्राणिजातेश्वारज्वादेरिति वाच्यम् । वेति भोजः । चञ्चूः चञ्चुः ।। ऊदन्तादप्यसावूङ् स्यात् कर्कन्ध्वादौ स्वराय तत् । गोस्त्रियोर्ह्रस्वतार्थं च निरलाबुः पयःकणः ।। ४९२ ।। एवं भ्रूशब्दादप्राणित्वादूङि उपसर्जनह्रस्वे सुभ्रूशब्दस्य स्त्रीवाचिनो मनुष्यजात्यूङि सुभ्रूरिति शङ्करः । तत्र ‘हे सुभ्रु’ इति सम्बुद्धौ ह्रस्वः फलम् । ‘हरितायत्तरूमशोकवनिकामित्यप्राणिविशेषणत्वमात्रेऽपि भट्युक्तिश्चिन्त्या । प्राणि- जातेस्तु न । धेनुः । रज्वादेश्च न । रज्जुः । हनुः । हनूमत’स्त्वन्येषामपि दृश्यत’ (६-१-१३७) इति वा दीर्घ इति शङ्करः ।। Sarala ------ **शिवेहीति** । "शिव-आ-इहि" इत्यवस्थायां "अ+आ" इत्यत्र सवर्णदीर्घोऽपि प्राप्नोति, "आ+इ" इत्यत्र गुणोऽपि प्राप्नोति । तत्र **धातूपसर्गयोः कार्यमन्तरङ्गम्, अन्यद्बहिरङ्गम्** इति परिभाषया धातूपसर्गकार्यस्य गुणस्यान्तरङ्गत्वादादौ प्रवृत्त्या "शिव+एहि" इति जाते वृद्धौ प्राप्तायाम् **ओमाङोश्च** (६.१.९५) इत्यनेन ("अन्तादिवच्चे"ति शास्त्रप्रवृत्त्या "ए" इत्यस्याऽऽङ्त्वात्) पररूपे "शिवेहि" इति सिद्धम् । हे शिव ! आगच्छेति तदर्थः ॥ Sudha ----- **शिवेहि इति ।** "शिव-आ-इहि" इति स्थिते अत्र इति परिभाषया पूर्वम् "आ-इहि" इत्यत्र **आद्गुणः** (6.1.87) इत्यनेन गुणे "एहि" इति जाते तत्र **अन्तादिवच्च** (6.1.85) इत्यनेन सूत्रेण अन्तवद्भावमादाय **ओमाङोश्च** (6.1.95) इत्यनेन पररूपे कृते सति "शिवेहि" इति रूपसिद्धिर्बोध्या ॥ Sutra Prayogas -------------- * **सु-भ्रु** (भट्टिकाव्यम्): `अन्तादिवच्च` इति पूर्वं प्रत्यन्तवत्त्वात् प्रातिपदिकत्वम्।