61078: एचोऽयवायावः ================== **Padacheda:** एचः | S | 6 | 1 | अय्-अव्-आय्-आवः | S | 1 | 3 | Sutrartha --------- **एच्-वर्णानाम् स्थाने संहितायाम् स्वरे परे (क्रमेण) अय्-अव्-आय्-आव्- एते आदेशाः भवन्ति ।** एच् = ए, ओ, ऐ, औ । अच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ । एच्-वर्णानाम् स्थाने स्वरे परे संहितायाम् क्रमेण अय्/अव्/आय्/आव्-एते आदेशाः भवन्ति । **यथासंख्यमनुदेशः समानाम्** (1.3.10) इत्यनेन अत्र यथासङ्ख्यम् आदेशविधानम् क्रियते । तद्यथा — (1) एकारस्य स्थाने अय्-आदेशः भवति । .. code-block:: text चिञ् (चयने, स्वादिः, (5.5)) → चि [ञकारस्य **हलन्त्यम्** इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → चि + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः] → चे + अनीय [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः] → च् अय् + अनीय [**एचोऽयवायावः** (6.1.78) इति एकारस्य अयादेशः] → चयनीय अन्यद् उदाहरणम् — .. code-block:: text वने + इति → वन् अय् इति [**एचोऽयवायावः** (6.1.78) इति एकारस्य अयादेशः] → वनयिति, वन इति [ **लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन यकारलोप:] (2) ओकारस्य स्थाने अव्-आदेशः भवति । .. code-block:: text भू (सत्तायाम्, स्वादिः, (1.1)) → भू + अनीयर् [**तव्यत्तव्यानीयरः** (3.1.96) इति अनीयर्-प्रत्ययः] → भो + अनीय [**सार्वधातुकार्धधातुकयोः** (7.3.84) इति गुणः] → भ् अव् + अनीय [**एचोऽयवायावः** (6.1.78) इति ओकारस्य अवादेशः] → भवनीय अन्यद् उदाहरणम् — .. code-block:: text साधो + इति → साध् अव् इति [**एचोऽयवायावः** (6.1.78) इति ओकारस्य अवादेशः] → साधविति, साध इति [**लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन वकारलोप:] (3) ऐकारस्य स्थाने आय्-आदेशः भवति । .. code-block:: text चिञ् (चयने, स्वादिः, (5.5)) → चि [ञकारस्य **हलन्त्यम्** इति इत्संज्ञा । **तस्य लोपः** (1.3.9) इति लोपः] → चि + ण्वुल् [**ण्वुल्तृचौ** (3.1.133) इति ण्वुल्-प्रत्ययः] → चि + अक [**युवोरनाकौ** (7.1.1) इति अक-आदेशः] → चै + अक [**अचो ञ्णिति** (7.2.115) इति वृद्धिः → च् आय् + अक [**एचोऽयवायावः** (6.1.78) इति ऐकारस्य आयादेशः] → चायक अन्यद् उदाहरणम् — .. code-block:: text वन्दै + इति → वन्द् आय् + इति [**एचोऽयवायावः** (6.1.78) इति ऐकारस्य आयादेशः] → वन्दायिति, वन्दा इति [**लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन यकारलोप:] (4) औकारस्य स्थाने आव्-आदेशः भवति । .. code-block:: text भू (सत्तायाम्, स्वादिः, (1.1)) → भू + ण्वुल् [**ण्वुल्तृचौ** (3.1.133) इति ण्वुल्-प्रत्ययः] → भू + अक [**युवोरनाकौ** (7.1.1) इति अक-आदेशः] → भौ + अक [**अचो ञ्णिति** (7.2.115) इति वृद्धिः] → भ् आव् + अक [**एचोऽयवायावः** (6.1.78) इति औकारस्य आवादेशः] → भावक अन्यद् उदाहरणम् — .. code-block:: text बालौ + इति → बाल् आव् + इति, बाला इति [**लोपः शाकल्यस्य** (8.3.19) इत्यनेन विकल्पेन यकारलोपः] → बालाविति **बाध्यबाधकभावः** प्रकृतसूत्रस्य द्वे अपवादसूत्रे स्तः — 1. पदान्त-एकार-ओकारात् परः अकारः विद्यते चेत् अयादेशं बाधित्वा **एङः पदान्तादति** (6.1.109) इत्यनेन पूर्वरूप-एकादेशः भवति । यथा, "वने + अस्मिन् → वनेऽस्मिन्" इति । 2. यदिः एकारः वचनस्य रूपस्य अन्ते विद्यते, तर्हि **ईदूदेद्द्विवचनं प्रगृह्यम्** (1.1.11) इत्यनेन तस्य प्रगृह्यसंज्ञा भवति, ततः च प्रकृतसूत्रेण उक्तं अयादेशं बाधित्वा **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्रकृतिभावः भवति (इत्युक्ते, सन्धिः न भवति) । यथा, "पचेते + इमे → पचेते इमे" इति । ** **लोपः शाकल्यस्य** (8.3.19) इति सूत्रम् प्रकृतसूत्रस्य अपवादः नास्ति**। **लोपः शाकल्यस्य** (8.3.19) इत्यस्य प्रयोगः प्रकृतसूत्रस्य प्रयोगात् **अनन्तरम्** एव सम्भवति । यदि **लोपः शाकल्यस्य** (8.3.19) इति न प्रयुज्यते, तर्हि केवलम् वर्णमेलनं कृत्वा अन्तिमं रूपं सिद्ध्यति — .. code-block:: text वने + इति → वन् अय् + इति [**एचोऽयवायावः** (6.1.78) इति अयादेशः] → वन इति / वनयिति [**लोपः शाकल्यस्य** (8.3.19) इति पाक्षिकः यकारलोपः] **यकारवकारयोः इत्संज्ञा न** अस्मिन् सूत्रे दत्तेषु 'अय्', 'अव्', 'आय्', 'आव्' एतेषु आदेशेषु यद्यपि औपदेशिकस्वरूपे हल्-वर्णः (यकारः / वकारः) अन्ते विद्यते, तथापि एतयोः यकारवकारयोः प्रयोजनाभावात् इत्संज्ञा न भवति । ****इको यणचि**, **एचोऽयवायावः** च एतयोः एकत्रीकरणम्** **इको यणचि** (6.1.77) इति सूत्रम् **एचोऽयवायावः** (6.1.78) इति सूत्रेण सह एकत्रीकृत्य **इचोऽचि यणयवायावः** इति एकमेव सूत्रम् निर्मातुम् शक्यम्, इति अस्य सूत्रस्य बालमनोरमाव्याख्याने निर्दिष्टम् अस्ति । Sutrartha (English) ------------------- When followed by a स्वर, the letters of the एच् प्रत्याहार are respectively converted to अय्, अव्, आय् and आव् in the context of संहिता. Vasu English Summary -------------------- For the vowels ए ऐ ओ and औ are respectively substituted अय् आय् अव् and आव् when a vowel follows. Vasu English Translation ------------------------ For the vowels ए ऐ ओ and औ are respectively substituted अय् आय् अव् and आव् when a vowel follows. Thus चि+ ल्युट् = चे + अन = चयनम्, लो + अन् = लवनं; चै + अक = चायकः, लौ + अक =लावकः ॥ So also कयेते, व्ययेते, याववरुणद्धि, रु + युच् (3.2.148) = रो + अन = रवणः ॥ Kashika ------- एचः स्थानेऽचि परतोऽय् अव् आय् आव् इत्येत आदेशा यथासंख्यं भवन्ति। चयनम्। लवनम्। चायकः। लावकः। कयेते। ययेते। वायाववरुणद्धि॥ Siddhanta Kaumudi ----------------- एचः क्रमादय् अव् आय् आव् एते स्युरचि ॥ Laghu Siddhanta Kaumudi ----------------------- एचः क्रमादय् अव् आय् आव् एते स्युरचि॥ Laghu Shabdendushekhar ---------------------- **एचोऽय** । "इचोऽचि यणयवायावः" "अवावौ यि प्रत्यये" इति सूत्रयितुमुचितमित्याहुः । यथासंख्यसूत्रलब्धमर्थमाह - **क्रमादिति** । उदात्तादिगुणयुक्तानामन्य – गुणकव्यावृत्तिस्तु स्थानेऽन्तरतमपरिभाषया बोद्ध्या । एतदेवाभिप्रेत्य **यथासंख्यमनुदेशः समानाम्** (१.३.१०) सूत्रे भाष्ये प्रकृतसूत्रे **स्थानेऽन्तरतमः** (१.१.५०) सूत्रेण व्यवस्थोक्ता **संवृतावर्णस्य संवृतावर्णो विवृतावर्णस्य विवृतावर्ण** इति । एतद्भाष्यप्रामाण्येन "एओ" इत्यनयोरकारांशे संवृतत्वम् । इतरांशे विवृततरत्वम् । तदुपरागाच्च न संवृतत्वस्य पृथग् ग्रहणम् । "ऐऔ" इत्यनयोस्त्वकारांशेऽपि विवृतत्वमेवेति बोद्ध्यम् ॥ Balamanorama ------------ **एचोऽयवायावः** - एचोऽयवायावः । अय्च अव्च आय्च आव्चेति विग्रहः । इको यणचीत्यतोऽचीत्यनुवर्तते । यथासंख्यपरिभाषया एकारस्य अय्, ओकारस्य-अव्, ऐकारस्य-आय्, औकारस्य-आविति लभ्यते । तदाह — एचः क्रमादिति । यथासंख्यसूत्रभाष्यरीत्या त्वन्तरतमपरिभाषयैवात्र व्यवस्था ज्ञेया । इह 'इचोऽचि यणयवायाव' इत्येव सूत्रयितुमुचितम् । Tattvabodhini ------------- **एचोऽयवायावः** - एचः क्रमादिति । नन्वत्रैव यथासङ्ख्यसूत्रं वक्तुमुचितम् । प्रत्याहारग्रहणेषुतद्वाच्यवाच्ये निरूढलक्षाभ्युपगमेऽपि लक्ष्यार्थबोधात्पूर्वभाविशक्यार्थज्ञानमादाय यथासङ्खयत्वस्यावश्यं वक्तव्यत्वात् । अन्यथा एचां क्रमेणायवायावो न सिध्येरन् । मैवम् । अन्तरतमत्वेनापि तत्सिद्धेः । तथाहि एचः सन्ध्यक्षराणि । ततश्च संवृताकारतालव्यस्य एकारस्य संवृताकारतालव्योऽय्, संवृताकारोष्ठस्य ओकारस्य तादृश एव अव्, ऐचश्चोत्तरभूयस्त्वादैकारे इकारोऽध्यर्थमात्रः, अकारस्त्वर्धमात्र एव । एवमोकारेऽप्युकारोऽध्यद्र्धमात्रः, अकारस्त्वर्धमात्रः । एवंच विवृताकारतालव्यस्य ऐकारस्य विवृताकारतालव्य आय् । विवृताकारौष्ठ आव्॥ Padamanjari ----------- कस्य पुनरयं वान्तादेशः ? एचेति वर्तते। यद्येवमेदैतोरपि प्राप्नोति -चेयम्, जेयम्, रैयतीति? एवं तर्हि वान्तग्रहणं न करिष्यते, ठेचोऽयवायावःऽ इत्येव। इहापे तर्ह्यादेशः प्राप्नोति -चेयम्, जेयमिति?'क्षय्यजय्यौ शक्यार्थे' , र्ठ्क्य्यस्तदर्थेऽ इत्येतन्नियमार्थं भविष्यति -एचौ यदि भवति क्षिज्योरेवेति। एवमपि रैयतीत्यत्रायादेशः प्राप्नोति? रैशब्दश्छान्दसः,'दृश्टानुविधिश्च्छन्दसि' । भाषायां तु रैशब्दप्रयोगो भाष्यविरोधादसाधुः। यद्वैवं नियम आश्रयिष्यते -अनौष्ठस्य यदि भवति क्षिज्योरेवेति; ततः'शक्यार्थे' इति द्वितीयो योगः, क्षिज्योरपि शक्यार्थ एवेति ? सिध्यति; सूत्रस्य तु को निर्वहः ? उच्यते; वान्तशब्दोऽयं सन्निहिते वान्ते वर्तते, न यत्र कुत्रचित्; सन्निहितश्चौदौत्स्थानिकः पूर्वत्र, यथासंख्यासम्बन्धात्। तत्र यथा यः कश्चन वान्तादेशो न भवति, तथान्यस्थानिको न भविष्यति; विशिष्टस्यैव सन्निधानात्। तदिदमुक्तम् -योऽयमेचः स्थाने इति। बाभ्रव्य इति।'मधुबभ्रवोर्ब्राह्मणकौशिकयोः' इति यञ्। मण्कडुशब्दो गर्गादि। शङ्कुपिचुशब्दाभ्याम्'तदर्थं विकृतेः प्रकृतौ' इत्यत्रार्थे ठुगवादिभ्यो यत्ऽ । नावा तार्यं नाव्यम्, नौवयोधर्मऽ इत्यादिना यत्। अध्वपरिमाणे चेति। भाषार्थमिदम्। गव्यूतिःउक्रोशयुगम् ॥ धातौस्तन्निमितस्यैव॥ धातोरिति किमिति। न तावदविशेषेण नियमप्रसङ्गः - यि प्रत्यये यदि भवति तन्निमितस्यैवेति; एवं हि'वान्तो यि प्रत्यये तन्निमितस्य' इति विशिष्टविधिराश्रयणीयः, योगविभाग एवकारो नियम इति सर्वमेतदनर्थकमापद्येत। तस्मादसत्यपि धातुग्रहणे विशिष्टविषयो नियमो भविष्यतीति प्रश्नः। स तु विशिष्टो विषयः प्रातिपदकमपि सम्भाव्येतेत्युतरम्। वाभ्रव्य इत्यत्रैव स्यादिति। एचस्तन्निमितत्वात्। अत्र न स्यादिति। विपर्ययात्। उपोयत इति। वेञःकर्मणि लट, आत्मनेपदम्, यक्, यज्ञादित्वात्संप्रसारणम्, ठकृत्सार्वधातुकयोःऽ इति दीर्घः, ठाद्गुणःऽ, तस्य परं प्रत्यादिवद्भावाद्धातुग्रहणेन ग्रहणम्। ओयते इति। कर्मण्येव लङ्। लौयमानिरिति। ठत इञ्ऽ आदिवृद्धिः। ननु चात्र गुणः पदद्वयापेक्षत्वाद्बहिरङ्गः, वृद्धिरपि बाह्यतद्धितापेक्षत्वाद्बहिरङ्गैव ? सत्यम्; औयतेत्यत्रैतदुभयं नास्ति, तदर्थमवश्यं योग आरब्धव्यः, आरब्धेनैव सिद्धत्वादुपोयते इत्यादिकं प्रत्युदाहृतम्। एवकारकरणं किमिति। सिद्धे सत्यारम्भो नियमार्थत्वे हेतुः, न त्वेवकारकरणमपीति प्रश्नः। इष्टतोऽवधारणार्थ इत्युतरम् ॥ Nyaas ----- `कयेते, ययेते` इति। के+एते, ये+एत इति स्थितेऽयादेशः। `वायाववरुणद्धि` इति। वायौ+अवरुणद्धीति स्थित आवादेशः॥ Prakriyasarvasvam ----------------- अचि परे एचः स्थाने क्रमाद् अय्, अव्, आय्, आव् इत्यादेशाः स्युः । श्रद्धया । विष्णवे । गायति । स्तावकः । Sarala ------ **एचः** - षष्ठ्यन्तम्, **अयवायावः** - प्रथमान्तम् । **इको यणचि** (६.१.७७) इत्यतोऽचीत्यनुवर्त्तते । **क्रमादिति** यथासङ्ख्यसूत्रबललब्धं, तदाह एच - इति ॥