61077: इको यणचि =============== **Padacheda:** इकः | S | 6 | 1 | यण् | S | 1 | 1 | अचि | S | 7 | 1 | Sutrartha --------- **इक्-वर्णस्य स्थाने स्वरे परे संहितायाम् यण्-वर्णादेशः भवति ।** इक् = इ, ई, उ, ऊ, ऋ, ॠ, ऌ । यण् = य्, व्, र्, ल् । अच् = अ, आ, इ, ई, उ, ऊ, ऋ, ॠ, ऌ, ए, ऐ, ओ, औ । इक्-वर्णानाम् स्थाने स्वरे परे संहितायाम् यण्-वर्णादेशाः भवन्ति । तत्र **स्थानेऽन्तरतमः** (1.1.50) इत्यनेन यथोचितम् आदेशाः विधीयन्ते । तद्यथा — (1) **इकार-ईकारयोः स्थाने **इचुयशानां तालु** इति उच्चारणस्थानसाधर्म्यात् यकारादेशः भवति ।**
  • दधि + अत्र → दध् य् + अत्र → दध्यत्र ।
  • नदी + ऊर्ध्वम् → नद् य् + ऊर्ध्वम् → नद्यूर्ध्वम् ।
    (2) **उकार-ऊकारयोः स्थाने **उपूपध्मानीयानाम् ओष्ठौ** तथा च **वकारस्य दन्तोष्ठम्** इत्यनयोः 'ओष्ठम्' इति उच्चारणस्थानसाधर्म्यात् वकारादेशः भवति ।**
  • मधु + इति → मध् व् + इति → मध्विति ।
  • वधू + आदेशः → वध् व् + आदेशः → वध्वादेशः ।
    (3) **ऋकार-ॠकारयोः स्थाने **ऋटुरषाणां मूर्धा** इति उच्चारणस्थानसाधर्म्यात् रेफादेशः भवति ।**
  • पितृ + इच्छा → पित् र् + इच्छा → पित्रिच्छा ।
  • ॠ + अस्य → र् + अस्य → रस्य ।
    (4) **ऌकारस्य स्थाने **ऌतुलसानां दन्ताः** इति उच्चारणस्थानसाधर्म्यात् लकारादेशः भवति ।**
  • ऌ + आकृतिः → ऌ + आकृतिः → ल् आकृतिः → लाकृतिः । **बाध्यबाधकभावः** प्रकृतसूत्रस्य द्वे अपवादसूत्रे स्तः — 1. इक्-वर्णात् परः **सवर्णः अच्-वर्णः** विद्यते चेत् प्रकृतसूत्रेण उक्तं यणादेशं बाधित्वा **अकः सवर्णे दीर्घः** (6.1.101) इत्यनेन सवर्णदीर्घादेशः भवति । यथा, "नदी + इयम् → नदीयम्" इति । 2. यदिः (दीर्घः) ईकारः ऊकारः वा द्विवचनस्य रूपस्य अन्ते विद्यते, तर्हि प्रकृतसूत्रेण उक्तं यणादेशं बाधित्वा **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इत्यनेन प्रकृतिभावः भवति (इत्युक्ते, सन्धिः न भवति) । यथा, "धेनू + इमे → धेनू इमे" इति । **सवर्णग्रहणम्** अस्मिन् सूत्रे 'इक्' तथा 'अच्' एतौ अविधीयमानौ स्तः, अतः एतयोः प्रत्याहारयोः विद्यमानैः वर्णैः सवर्णस्यापि ग्रहणं भवति । इत्युक्ते —
  • 'इक्' इत्यत्र विद्यमानेन इकार-उकार-ऋकारैः दीर्घभेदस्यापि ग्रहणं सम्भवति । अत्र प्लुतस्य अपि ग्रहणं सम्भवति, परन्तु **प्लुतप्रगृह्या अचि नित्यम्** (6.1.125) इति सूत्रेण प्लुत-वर्णस्य अच्-वर्णे परे प्रकृतिभावः भवति, अतः तत्र सन्धिः नैव सम्भवति ।
  • एवमेव अच्-प्रत्याहारे विद्यमानैः वर्णैः अपि दीर्घभेदस्य ग्रहणं क्रियते । अत्र सवर्णग्रहणेन प्लुतभेदस्यापि ग्रहणं सम्भवति, परन्तु प्लुतसंज्ञा त्रिपादीसूत्रैः एव सिद्ध्यति, अतः **इको यणचि** (6.1.77) सूत्रेण असिद्धत्वात् तत्र मूलः ह्रस्वस्वरः/दीर्घस्वरः एव दृश्यते । **यथासङ्ख्यत्वेन आदेशनिर्णयः** अत्र इक् तथा यण् इत्यत्र उभयत्र चत्वारः वर्णाः सन्ति, अतः अत्र **यथासंख्यमनुदेशः समानाम्** (1.3.10) इत्यनेन अपि आदेशनिर्णयः सम्भवति । अतएव न्यासे पदमञ्जर्यां च — *इकां यणां च साम्याद् यथासङ्ख्यं भवति* — इति निर्देशः कृतः अस्ति । Sutrartha (English) ------------------- An इक् letter which is followed by a स्वर is converted to a corresponding यण् letter in the context of संहिता. Vasu English Summary -------------------- The semi-vowels य् व् र् ल् are the substitutes of the corresponding vowels इ उ ऋ and ऌ (long and short), when followed by a vowel. Vasu English Translation ------------------------ The semi-vowels य् व् र् ल् are the substitutes of the corresponding vowels इ उ ऋ and ऌ (long and short), when followed by a vowel. This *sutra* is rather too wide. It must be restricted by (6.1.101), namely the following vowel must not be of the same class as the preceding for the application of this rule. Thus दधि + अत्र = दध्यत्र, मधु + अत्र = मध्वत्र, कर्तृ + अर्थम् = कर्त्रर्थम्, हर्तृ + अर्थम् = हर्त्रर्थम्, लृ आकृति = लाकृतिः ॥ Vart:- This semivowel substitution of vowels takes place, when preceded by a prolated vowel, even to the supersession of (6.1.1) requiring lengthening. Thus अग्ना ३ इ इन्द्रं = अग्ना ३ यिन्द्रम्, पटा ३ उ उदकम् = पटा ३ वुदकम् , अग्ना ३ इ आशा = अग्ना ३ याशा, पटा ३ उ आशा = पटा ३ वाशा ॥ भो ३ इ इन्द्रम् = भो ३ विन्द्रम् ॥ The phrase 'when a vowel follows' exerts its influence upto (6.1.108). Bhashya ------- इको यणचि (2514) (यणोऽधिकरणम्) (पदकृत्यभाष्यम्) इग्ग्रहणं किमर्थम् ? इह मा भूत् - अग्निचिदत्र, सोमसुदत्र । नैतदस्ति प्रयोजनम् । जश्त्वमत्र बाधकं भविष्यति ॥ (प्रत्याक्षेपकश्लोकभाष्यम्) जश्त्वं न सिद्धं यणमत्र पश्य असिद्धमत्र जश्त्वं तस्यासिद्धत्वाद्यणादेशः प्राप्नोति ॥ (अतिव्याप्तिदर्शकश्लोकभाष्यम्) यश्चापदान्तो हलचश्च पूर्वः । यश्चापदान्तो हल् अचश्च पूर्वस्तस्य प्राप्नोति । पचतीति ॥ एवं तर्हि - (अतिव्याप्तिवारकश्लोकभाष्यम्) दीर्घस्य यण् दीर्घस्य यणादेशं वक्ष्यामि । तद्दीर्घग्रहणं कर्तव्यम् । न कर्तव्यम् । प्रकृतमनुवर्तते । क्व प्रकृतम् ? दीर्घात् - पदान्ताद्वा (75;76) इति । तद्वै पञ्चमीनिर्दिष्टम्, षष्ठीनिर्दिष्टेन चेहार्थः । अचीत्येषा सप्तमी दीर्घादिति पञ्चम्याः षष्ठीं प्रकल्पयिष्यति तस्मिन्निति निर्दिष्टे पूर्वस्य (1.1.66) इति ॥ भवेत्सिद्धम् - कुमार्यत्र, ब्रह्मबन्ध्वर्थमिति । इदं तु न सिध्यति - दध्यत्र, मध्वत्रेति ॥ (अतिव्याप्तिवारकश्लोकभाष्यम्) ह्रस्व इति प्रवृत्तं ह्रस्वग्रहणमपि प्रकृतमनुवर्तते । क्व प्रकृतम् ? ह्रस्वस्य पिति कृति (71) इति । यदि तदनुवर्तते दीर्घात्पदान्ताद्वा ह्रस्वस्य - इति ह्रस्वादपि पदान्ताद्विकल्पेन प्राप्नोति ॥ (दोषवारकश्लोकभाष्यम्) संबन्धवृत्त्या संबन्धमनुवर्तिष्यते - ह्रस्वस्य पिति कृति तुक् (71) । संहितायाम् (72) ह्रस्वस्य पिति कृति तुक् । छे च (73) ह्रस्वस्य पिति कृति तुक् । आङ्माङोश्च (74) ह्रस्वस्य पिति कृति तुक् । दीर्घात्पदान्ताद्वा (75-76) ह्रस्वस्य पिति कृति तुक् । ततः इको यणचि ह्रस्वस्येति वर्तते, पिति कृति तुगिति निवृत्तम् ॥ इह तर्हि प्राप्नोति - चयनम्, चायकः, लवनम्, लावकः । अयादयोऽत्र बाधका भविष्यन्ति ॥ इह तर्हि प्राप्नोति - खट्वेन्द्रः, मालेन्द्रः, खट्वैलका, मालैलका । (अतिव्याप्तिवारकश्लोकभाष्यम्) गुणवृद्धिबाध्यम् ॥ गुणवृद्धी अत्र बाधिके भविष्यतः । इदं तर्हि प्रयोजनम् - इकोऽचि यणेव यथा स्यात्, यदन्यत् प्राप्नोति तन्मा भूदिति । किं चान्यत्प्राप्नोति ? शाकलम् । सिन्नित्यसमासयोः शाकलप्रतिषेधं चोदयिष्यति स न वक्तव्यो भवति ॥ (6107 एकदेशिन उपसंख्यानवार्तिकम् ॥ 1 ॥) - यणादेशः प्लुतपूर्वस्य च - यणादेशः प्लुतपूर्वस्य चेति वक्तव्यम् । अग्ना3इ इन्द्रम् - अग्ना3यिन्द्रम् । पटा3उ उदकम् -पटा3वुदकम् । अग्ना3इ आशा -अग्ना3याशा । पटा3उ आशा - पटा3वाशा ॥ किं पुनः कारणं न सिध्यति ? असिद्धः प्लुतः, प्लुतविकाराविमौ ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) सिद्धः प्लुतः स्वरसन्धिषु । कथं ज्ञायते ? यदयं प्लुतप्रगृह्या अचि - (6.1.125) इति प्लुतस्य प्रकृतिभावं शास्ति तज्ज्ञापयत्याचार्यः - सिद्धः प्लुतः स्वरसन्धिष्विति । कथं कृत्वा ज्ञापकम् ? सतो हि कार्यिणः कार्येण भवितव्यम् ॥ इदं तर्हि प्रयोजनम् - (6108 उपसंख्यानप्रयोजनवार्तिकम् ॥ 2 ॥) - दीर्घशाकलप्रतिषेधार्थम् - दीर्घत्वं शाकलं च मा भूदिति ॥ (उपसंख्यानानर्थक्यबोधकभाष्यम्) एतदपि नास्ति प्रयोजनम् । आरभ्यते प्लुतपूर्वस्य यणादेशः - तयोर्य्वावचि संहितायाम् (8.2.108) इति, तदेव दीर्घशाकलप्रतिषेधार्थं भविष्यति ॥ तन्न वक्तव्यं भवति ॥ ननु च च तस्मिन्नप्युच्यमाने इदं न वक्तव्यं भवति । अवश्यमिदं वक्तव्यं यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थम् । भो3 इ इन्द्रम् - भो3 यिन्द्रम् । भो3 इ इह - भो3 यिहेति ॥ यदि तर्ह्यस्य निबन्धनमस्ति, इदमेव वक्तव्यम् । तन्न वक्तव्यम् । तदप्यवश्यं स्वरार्थं वक्तव्यम् । अनेन हि सति उदात्तस्वरितयोर्यणः - (8.2.4) इत्येष स्वरः प्रसज्येत । ते पुनः सत्यसिद्धत्वान्न भविष्यति ॥ यदि तर्हि तस्य निबन्धनमस्ति तदेव वक्तव्यम्, इदं न वक्तव्यम् । ननु चोक्तम् - इदमप्यवश्यं वक्तव्यम्, यौ प्लुतपूर्वाविदुतावप्लुतविकारौ तदर्थम् - भो3 यिन्द्रम्, भो3 यिहेति । छान्दसमेतत् । दृष्टानुविधिश्छन्दसि भवति । यत्तर्हि न छान्दसम् - भो3यिन्द्र भो3यिहेति साम गायति । एषोऽपि छन्दसि दृष्टस्यानुप्रयोगः क्रियते ॥ जश्त्वं न सिद्धं यणमत्र पश्य यश्चापदान्तो हलचश्च पूर्वः । दीर्घस्य यण् ह्रस्व इति प्रवृत्तं संबन्धवृत्त्या गुणवृद्धिबाध्यम्॥ 1 ॥ नित्ये च यः शाकलभाक्समासे तदर्थमेतद्भगवांश्चकार । सार्मथ्ययोगान्नहि किंचिदस्मिन् पश्यामि शास्त्रे यदनर्थकं स्यात् ॥ 2 ॥ Kashika ------- अचि परत इको यणादेशो भवति। दध्यत्र। मध्वत्र। कर्त्रर्थम्। हर्त्रर्थम्। लाकृतिः॥ इकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थं यणादेशो वक्तव्यः॥ भो३ इ इन्द्रम्। भो३यिन्द्रम्। अचीति चायमधिकारः **संप्रसारणाच्च** (६.१.१०८) इति यावत्॥ Siddhanta Kaumudi ----------------- इकः स्थाने यण् स्यादचि संहितायां विषये । सुधी उपास्यः इति स्थिते । स्थानत आन्तर्यादीकारस्य यकारः । सुध्य् उपास्यः इति जाते ॥ Laghu Siddhanta Kaumudi ----------------------- इकः स्थाने यण् स्यादचि संहितायां विषये। सुधी उपास्य इति स्थिते॥ Laghu Shabdendushekhar ---------------------- **स्यादिति** । कार्यशब्दवादे इदम् । **संहितायां विषये इति** । कार्यिनिमित्तयोः संहितायां विषयभूतायामित्यर्थः । **स्थानत इति** । इदं यथासंख्यसूत्रे भाष्ये स्पष्टम् । **जातिपक्षे यथासंख्येनापि निर्वाह इति** **स्थानेऽन्तरतमः** (१.१.५०) सूत्रे भाष्ये स्पष्टम् । अनु नासिकस्थानेऽपि निरनुनासिक एव, विधीयमानत्वेन सवर्णाग्राहकत्वात् । गुणाभेदकत्वपक्षोऽपि न विधेयाण्विषये। दीर्घादीनामिगादिपदैरुपस्थितये प्रत्याहारेषु जातिपक्ष एव इति **अणुदित् सवर्णस्य चाप्रत्ययः** (१.१.६९) सूत्रे भाष्ये स्पष्टम् । अत एव सर्वतकारादीनां झल्त्वादिसिद्धिः "ल्वादय" इत्यादिनिर्देशादयश्च जात्याश्रयणे मानमिति दिक् । व्याकरणस्य साध्वनुशासनत्वन्तु शब्दनित्यतापक्षे शब्दानां सिद्धत्वेन शास्त्रवैयर्थ्यापत्त्या **मृजिप्रसङ्गे मार्जिः साधुर्भवति** इत्यादिवृद्धिसञ्ज्ञासूत्रस्थभाष्यप्रामाण्येन **यदिह परिनिष्ठितत्वेन ज्ञाप्यन्तत्साधु** इत्यर्थापत्तिकल्प्यवाक्येन बोद्ध्यम् । कार्यशब्दवादे तु पूर्वभाष्योन्नीतानादितात्पर्यवशात् तत्कल्पनं बोध्यम् । एतेन स्थानत आन्तर्यादितिकथनेन स्थानप्रमाणोभयान्तरतमे ह्रस्वेकारे चरितार्थो यण् दीर्घे कथं स्यादित्यपास्तम् । स्थानत आन्तर्यस्य सर्वतो बलवत्त्वात् **स्थानेऽन्तरतमे** इति सप्तम्यन्तपाठस्य चैतद्दूषणेनैव भाष्ये दूषितत्वादिति भावः ॥ Balamanorama ------------ **इको यणचि** - इको यणचि । 'इक' इति षष्ठी । अतःषष्ठी स्थानेयोगे॑ति परिभाषया स्थान इति लभ्यते । स्थानं प्रसङ्ग इत्युक्तम् । वर्णानां वर्णान्तराधिकरणत्वाऽसम्भवात्, अचीति सतिसप्तमी ।तस्मिन्निति निर्दिष्टे पूर्वस्ये॑ति परिभाषाया वर्णान्तराव्यवहितोच्चारितेऽचि सति पूर्वस्येति लभ्यते । एवं चाऽचि परत इत्यर्थलभ्यम् । संहितायामित्यधिकृतम् । ततश्चार्धमात्राधिककालव्यवधानाऽभावो लभ्यते । एवं च फलितमाह-इकः स्थान इत्यादिना । इदं च सूत्राक्षरानुसारिप्राचीनमतानसारेण ।संहिताया॑मिति सूत्रभाष्ये तु सामीपिकात्मकौपश्लेषिकाधिकरणे अचीति सप्तमीं तस्मिन्नित्यनेनाश्रित्य संहिताधिकारः प्रत्याख्यातः । इत्थं हि तत्र भाष्यम् -अयं योगः शक्योऽवक्तुम् । कथम् । अधिकरणं नाम त्रिप्रकारं व्यापकमौपश्लेषिकं वैषयिकमिति । शब्दस्य तु शब्देन कोऽन्योऽभिसंबन्धो भवितुमर्हत्यन्यदत उपश्लेषात् । इको यणचि अच्युपश्लिष्टस्येति । तत्रान्तरेण संहिताग्रहणं संहितायामेव भविष्यती॑ति । उप=समीपे श्लेषः=संबन्धः-उपश्लेषः, तत्कृतमधिकरणमौवश्लेषिकं सामीपिकमिति यावत् । एवं चाऽच्समीपवर्तिन इक इति फलति । सामीप्यं च कालतो वर्णतश्च व्यवधानाऽभावः । एवं चाऽसंहितायामुक्तसामीप्याऽभावादेव यणभावसिद्धेः संहिताधिकारो न कर्तव्य इति भाष्यार्थः । एवं च तुल्यन्यायात्तस्मिन्निति निर्दिष्टे पूर्वस्येत्यत्राप्यौपश्लेषिकाधिकरणे सप्तमी । ततश्चाऽचीत्यादिसप्तम्यन्तार्थेऽकारादावुच्चारिते सामीप्यसम्बन्धेन विद्यमानस्य पूर्वस्य कार्यं स्यादित्यर्थः । फलति । नत्वव्यवहितोच्चारिते इत्यव्यवहितत्वविशेषणमुच्चारिते देयम्, सामीपिकाधिकरणसप्तम्यैव तल्लाभात् । सामीप्यस्य च तत्र कालतो वर्णतश्च व्यवधानाऽभावात्मकत्वात् । एवं च तत्र नैरन्तर्यार्थं निग्र्रहणं न कर्तव्यम् । इदं चस्नुक्रमो॑रिति सूत्रे, 'तत्र च दीयते' इति सूत्रे च कैयटे सपष्टम् । अधिकरणत्रैविध्यं तु कारकाधिकारेआधारोऽधिकरण॑मित्यत्र स्पष्टीकरिष्यते । सुधी इति । ध्यै चिन्तायामिति धातोध्र्यायतेः सम्प्रसारणं चेति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे हलश्चेति दीर्घे च धीशब्दः । सुष्ठु ध्यायन्तीति सुधियः । सु=शोभना धीर्येषामिति वा सुधियः । सुधीभि रूपास्य इति विग्रहः ।कर्तृकरणे कृता बहुल॑मिति समासः ।सुपो धातुप्रातिपदिकयो॑रिति भिसो लुक् ।सुधी उपास्य इति स्थिते ईकारस्य यकार इत्यन्वयः । प्रत्याह#आरेषु तद्वाच्यवाच्येषु लक्षणा नाज्झलाविति सूत्रे प्रपञ्चिता । तत्स्फोरणाय ईकार उदाहृतः । ननु ईकारस्य वरलाः कुतो न स्युः, यण्त्वाऽविशेषांदित्यत आह-स्थानत आन्तर्यादिति । तालुस्थानकत्वसाम्यादीकारस्य स्थाने स्थानेऽन्तरतम इति यकार एव भवति; न तु वरलाः, भिन्नस्थानकत्वादित्यर्थः । अत एवयथासंख्यमनुदेशः समाना॑मिति सूत्रे भाष्यं-किमिहोदाहरणम् । इको यणचि । दध्यत्र । मध्वत्र । नैतदस्ति । स्थानेऽन्तरतमेनाप्येतत्सिद्ध॑मिति । 'स्थानेऽन्तरतम' इति सूत्रभाष्ये तुकिमिहोदाहरणम् । इको यणचि । दध्यत्र नैतदस्ति । संख्यातानुदेशेनाप्येतत्सिद्ध॑मित्युक्तम् । यथासंख्यसूत्रेणेत्यर्थः । नन्विह यण्शब्देन निरनुनासिका यवला रेफश्चेति चत्वारो गृह्यन्ते, यणो भाव्यमानतया तेन सवर्णानां ग्रहणाऽभावात् । गुणानामभेदकत्वेऽपि यवलाः षट् रेफश्चेति सप्त गृह्यन्ते । इक्शब्देन तु षट्षष्टिर्गृह्रत इति विषमसंख्याकत्वात्कथमिह यथासंख्यसूत्रप्रवृत्तिरिति चेन्न, इक्त्वयण्त्वादिनाऽनुगतीकृतानां समत्वात् । ननु ऋलवर्णाभ्यां प्रत्येकं तिंरशदुपस्थितौ ऌवर्णानां रेफादेशस्य ऋवर्णानां लादेशस्य च प्रसङ्ग इति न यथासंख्यसूत्रेण निर्वाह इति चेत्, शृणु-ऋत्वावच्छिन्नस्य रेफो भवति, लृत्त्वावच्छिन्नस्य लकारो भवतीति यथासंख्यसूत्राल्लभ्यते । ऋत्वजातिश्च न ऌवर्णेषु । लृत्वजातिश्च न ऋवर्णेषु । ऋऌवर्णयोः सावण्र्यविधिबलात्तु ऋत्वम् ऌकारे, लृत्वमृकारे च आरोप्यते कार्यार्थम् । एवं च वास्तवमृत्वं लृत्वं च आदायात्र यथासंख्यप्रवृत्तिर्निर्बाधेत्यास्तां तावत् । Tattvabodhini ------------- **इको यणचि** - इकोयणचि । प्रत्याहारग्रहणेषु तद्वाच्यवाच्ये निरूढा लक्षणा,यूस्त्र्याख्यौ॑ल्वादिभ्यः॑ इति च निर्देशात् । तेन इक्शब्देन षट्षष्टिर्गृह्यन्ते, यण्शब्देन चत्वारः, भाव्यमानस्याऽणः सवर्णाग्राहकत्वात् । एवं चेह यणि तद्वाच्यवाच्ये लक्षणा तु न शङ्क्यैव, भाव्यमानस्याऽणः सवर्णग्राहकत्वाऽभावेन यण्वाच्ययकारादिवाच्यानामभावात् । अतो नास्ति यथासङ्ख्यम् । न च लक्ष्यार्थबोधात्पूर्वभाविनं शक्यार्थज्ञानमादाय यथासङ्ख्यमस्त्विति वाच्यम्; एवमपि तृतीयचतुर्थाभ्युमृकारऌकाराभ्यां प्रत्येकं त्रिंशदुपस्थितौ ऌवर्णानां रेफादेशस्य, ॠवर्णानां लादेशस्य च प्रसङ्गात् । तस्मादिहस्थानेऽन्तरतमः॑ इति सूत्रेणैवेष्टसिद्धिरित्यनुपदं वक्ष्यति-॒स्थानत आन्तर्या॑दिति । अचीति ।कस्मादचि परे॑ इत्याकाङ्क्षायामर्थादिक इति संबध्यते । संहितायां विषय इति ।दध्यत्रे॑-त्यादौ कार्यिनिमित्तयोर्यदाऽतिशयितसंनिधिर्विवक्ष्यते तदैव यण्भवतीति भावः । Padamanjari ----------- इको यणादेशो भवतीति। इकां यणां च साम्याद्यथासंख्यं भवति, आन्तर्यतो वा व्यवस्था। इक इति किम्? व्यञ्जनस्य मा भूत् -वाग्रत्र। कुत्वजश्तवयोरसिद्धत्वाच्छकारस्य यकारः प्राप्नोति। यत्र च कुत्वादेरप्रसङ्गोऽपदान्ते पचतीति, तत्रापि प्रसङ्गः? नैष दोषः;'दीर्घात्' इति वर्तेते, तच्च तत्रैव पञ्चमीनिर्द्देशेऽपि स्थानिबूतमिहापि तथैवानुवर्तते। यदि दीर्घस्य यण् भवति, कथं दध्यत्र मध्वत्रेति,'ह्रस्वस्य' इत्येतदप्यनुवर्तते, तदेवं ह्रस्वदीर्घयोर्यण्विधानान्न व्यञ्जनस्य प्रसङ्ग ? प्लुतस्य च प्रकृतिभावेन भवितव्यम्, चयनम्, चायक इत्यादावेचामयादयोऽपवादाः, नाप्राप्ते तस्मिंस्तदारम्भात् ? देवेन्द्रः, खट्वौदनमित्यादौ गुणवृद्धी बाधिके भविष्यतः, यथा -सत्यपीग्ग्रहणे दधीन्द्रादौ सवर्ण दीर्घत्वम्, अतो नार्थ हग्ग्रहणेन ? इदं तर्हि प्रयोजनम् -इको यणेवाचि यथा स्याद्, यद्यदन्यत्प्राप्नोति तन्मा भूदिति। किञ्चान्यत् प्राप्नोति ? शाकलम्। न च तस्याप्यत्यन्तबाधः; आरम्भसामर्थ्यात्। एवं सति सिन्नित्यसमासयोः शाकलप्रतिषेध इति यत्पूर्वाचार्यैः स्मर्यते तदनेनेग्ग्रहणेन सम्पाद्यते। इकः प्लुतपूर्वस्येति। प्लुतः पूर्वो यस्मात्स तथोक्तः, प्लुतात्परस्येत्यर्थः। भो 3 इ इन्द्रेति। भो अ इ अ इन्द्र इति स्थिते भोशब्दस्य गीतिवशात् प्लुतः, इकारः स्वरादिपाठान्निपात प्रगृह्यसंज्ञकः, तस्य प्रकृतिभावे प्राप्ते यण्विधीयते, सवर्णदीर्घबाधनार्थमित्येतत्वाद्यप्राप्त्यभिप्रायेणोक्तम्। प्लुतपूर्वस्येति। प्लुतग्रहणमपि मात्रिकद्विमात्रिकव्यतिरिक्ताच्परिग्रहार्थम्, तेन चतुर्मात्रादावपि भवति, तथा च च्छन्दोगा गायन्ति, सामन्येव चायमिष्यते, भोयिन्द्रं गायतीत्येतदपि सामगस्यानुकरणम्। एवं तावद्भाष्ये स्थितम्, वृतावप्येवमेव द्रष्टव्यम् ॥ Nyaas ----- `इको यणादेशो भवति` इति। इकां यणां च साम्यात्? यथासंख्यं भवतीति वेदितव्यम्। यश्च सवर्णोऽच्? तत्र दीर्घविधानसामर्थ्यात्? असवर्णेऽचि यणादेशो विज्ञायत इति। इक इति किम्? वागत्रेत्यत्र कुत्वादेव सिद्धत्वाद्यणादेशो मा भूदिति। अचीति किम्? दधि करोति। `प्लुतपूर्वस्य` इति। प्लुतः पूर्वो यस्मात्? स प्लुतपूर्वः। वक्तव्यः=व्याख्येयः। तत्रेदं व्याख्यानम् -`इको यणचि` इत्यत्र तन्त्रेण द्वौ योगावृच्चारितौ; तत्रैको यणादेशार्थः, अपरस्त्विकः प्लुतपूर्वस्य सवर्णदीर्घबाधनार्थो भविष्यतीति। भो यिदम् -भो+इ+इदमिति स्थिते `गुरोरनृतोऽनन्तस्याप्येकैकस्य प्राचाम्` (8.2.86) इत्यनेन दूराद्धूतेऽर्थे भोशब्दस्य प्लुतः कृतः, ततः सवर्णदीर्घत्वे प्राप्ते यणादेशः॥ Praudhamanorama --------------- प्रत्याहारेग्रहणेषु तद्वाच्यवाच्ये निरूढा लक्षणा, **दीर्घाज्जसि च** (6.1.105) इति ज्ञापकात् **ल्वादिभ्यः** (8.2.44) इति निर्देशाच्च। तेनेक्शब्देन षट्षष्टिर्गृह्रन्ते, यण्शब्देन सप्त। भाव्यमानत्वेन सवर्णाग्राहकत्वेऽपि गुणानामभेदकत्वेनानुनासिकानामपि यवलानां ग्रहणात्। अतो नास्ति यथासङ्ख्यम्। न च लक्ष्यार्थबोधात्पूर्वभाविनं शक्यार्थबोधमादाय यथासङ्ख्यमस्त्विति वाच्यम्। एवमपि तृतीयचतुर्थाभ्याम् ऋकारऌकाराभ्यां प्रत्येकं त्रिंशदुपस्थितौ ऌवर्णानां रेफादेशस्य, ऋवर्णानां लादेशस्य च प्रसङ्गात्। तस्मादिह **स्थानेन्तरतमः** (1.1.50) सूत्रेणैवेष्टसिद्धिरित्यभिप्रेत्याह— Prakriyasarvasvam ----------------- संहितायामचि परे इकः स्थाने क्रमाद् यवरलाः स्युः । सुध् य् अर्च्यः, मध् व् अरिः, पित् र् उक्त्या, गम् ल् आह । 'अनचि च' (८-४-४७) इति धकारादीनां द्वित्वम् । सुध् ध् य् अर्च्यः । मध् ध् व् अरिः । पित् त् र् उक्त्या । गम् म् ल् आह । Sarala ------ **इकः** - षष्ठ्यन्तम्, **यण्** - प्रथमान्तम्, **अचि** - सप्तम्यन्तम् । **संहितायाम्** (६.१.७२) इत्यधिक्रियते । विषयसप्तमीयं, तदाह - **विषये इति** । इति स्थिते - इत्यस्य - "यत्सूत्रं प्रवर्त्तते तदाहे"ति शेषः ॥ Sudha ----- ** इकः स्थान इति ।** इकः इति षष्ठी । **षष्ठी स्थानेयोगा** (1.1.49) इति सूत्रेण स्थान इति लभ्यते । स्थानञ्च प्रसङ्गः । तथाहि — इकामुच्चारणप्रसङ्गे यणामुच्चारणं कर्तव्यमित्यर्थः । **सुधी इति ।** ध्यै चिन्तायामिति धातोः (वार्त्तिकम् (3.2.178)) इति क्विपि यकारस्य सम्प्रसारणे इकारे पूर्वरूपे **हलः** (6.4.2) च इति दीर्घे धीशब्दो निष्पन्नः । शोभना धीः येषान्ते सुधयः । सुधीभिः उपास्यः सुध्युपास्यः ।