61076: पदान्ताद्वा
==================
**Padacheda:** पदान्तात् | S | 5 | 1 |
वा | S | 0 | 0 |
Sutrartha
---------
**पदान्ते विद्यमानस्य दीर्घ-स्वरस्य छकारे परे संहितायाम् विकल्पेन तुगागमः भवति ।**
पदान्ते विद्यमानात् दीर्घस्वरात् परः संहितायाम् छकारः विद्यते चेत् तस्य दीर्घस्वरस्य विकल्पेन तुक्-आगमः भवति । अयम् कित्-आगमः, अतः **आद्यन्तौ टकितौ** (1.1.46) इत्यनेन अयम् आगमः आगमिनः अनन्तरम् विधीयते । उदाहरणम् इदम् —
.. code-block:: text
लक्ष्म्याः छाया [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषसमासः]
→ लक्ष्मी छाया [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति सुप्-प्रत्यययोः लोपः]
→ लक्ष्मीत् छाया [**पदान्ताद्वा** (6.1.76) इति वैकल्पिकः तुगागमः]
→ लक्ष्मीद् छाया [**झलां जशोऽन्ते** (8.2.39) इति जश्त्वम्]
→ लक्ष्मीज् छाया [**स्तोः श्चुना श्चुः** (8.4.40) इति श्चुत्वम् ]
→ लक्ष्मीच् छाया [**खरि च** (8.4.55) इति चर्त्वम् । अग्रे **चोः कुः** (8.2.30) इति कुत्वम् असिद्धत्वात् न प्रवर्तते ।]
→ लक्ष्मीच्छाया
पक्षे तुगागमं विना 'लक्ष्मीछाया' इत्यपि सिद्ध्यति ।
इतोऽपि कानिचन उदाहरणानि -
1) प्रिया छात्रा → प्रियाच्छात्रा, प्रियाछात्रा । अत्र समासस्य अभावे वाक्ये विद्यमानां संहितां स्वीकृत्य तुगागमः क्रियते । समासे कृते तु पुंवद्भावे जाते, 'प्रिय' इति स्थिते **छे च** (6.1.73) इत्यनेन नित्यमेव तुगागमः भवेत् ।
2) सा छिनत्ति → साच्छिनत्ति, सा छिनत्ति ।
3) मालिनी छन्दः → मालिनीच्छन्दः, मालिनीछन्दः ।
**वार्त्तिकम् — **
'विश्वजन' तथा केषाञ्चन अन्येषां शब्दानां विषये वेदेषु अयं तुगागमः विकल्पेन भवति — इति अस्य वार्त्तिकस्य आशयः । यथा - 'विश्वजनछत्रम्' , 'नछाया' इति तुगागमरहितप्रयोगाः अपि वेदेषु दृश्यन्ते । एतेषाम् साधुत्वज्ञापनार्थम् इदं वार्त्तिकम् निर्मितम् अस्ति ।
**बाध्यबाधकभावः**
वस्तुतः दीर्घस्वरस्य विषये **दीर्घात्** (6.1.75) इत्येनेन नित्यम् तुगागमः उच्यते । परन्तु अयं दीर्घस्वरः यदि पदान्ते विद्यते, तर्हि तं सूत्रं बाधित्वा प्रकृतसूत्रेण विकल्पेन एव तुगागमः विधीयते । अतएव अस्मिन् सूत्रे 'पदान्तात्' तथा 'वा' इति द्वौ शब्दौ प्रयुक्तौ स्तः ।
**सूत्ररचना**
अस्मिन् सूत्रे स्थानिवाचकम् षष्ठ्यन्तं पदम् नास्ति । "दीर्घात्" तथा "पदान्तात्" इति द्वे पञ्चम्यन्ते पदे, तथा च "छे" इति सप्तम्यन्तपदम् - इत्येव अत्र उपस्थितानि सन्ति । अस्याम् स्थितौ वस्तुतः ** उभयनिर्देशे पञ्चमीनिर्देशः बलीयान् ** इत्यनया परिभाषया सप्तम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणं भवेत् । परन्तु अत्र तथा न इष्यते । अत्र पञ्चम्यन्तेन निर्दिष्टस्य पदस्य स्थानिरूपेण ग्रहणम् कृत्वा तस्य तुगागमः क्रियते चेदेव इष्टरूपं सिद्ध्यति । अतः अत्र "दीर्घात्" तथा "पदान्तात्" इत्येव पदे षष्ठ्या विपरिणमय्य तयोः स्थानिरूपेण ग्रहणं भवति ।
Sutrartha (English)
-------------------
A दीर्घ स्वर at end of a पद gets optional तुक्-आगमः when followed by a छकार, in the context of संहिता.
Vasu English Summary
--------------------
The augment त् is added optionally to a long vowel final in a full word (पद) when followed by छ।
Vasu English Translation
------------------------
The augment त् is added optionally to a long vowel final in a full word (पद) when followed by छ।
This allows option where by the last it would have been compulsory to add it. The augment is of the long vowel and not of the word ending in long vowel. Thus कूटीच्छाया or कुटीछाया, कूवलीच्छाया or कुवलीछाया ॥ The तुक् augment here is added to the end of a *pada*, and this is therefore a *padanta* rule and not a *pada*-*vidhi*. Therefore the two words need not be in construction for the application of this rule; (समर्थ पदविधि) not applying. Thus तिष्ठतु कुमारीच्छत्रं हर देवदत्तस्य, "let the girl stay. Take the umbrella of *Devadatta*". Here कुमारी and छत्रं are not in construction, but तुक् is still added optionally.
Vart:- The augment त is optional in the *Chhandas*, after the words विश्वजन &c. As, विश्वजनच्छत्रम् or विश्वजनछत्रम्, नच्छायां कुरवोपराम् or नछायां कुरवोपराम् ॥
Bhashya
-------
पदान्ताद्वा (2513) (6106 उपसंख्यानवार्तिकम् ॥ 1 ॥) - दीर्घात्पदान्ताद्वा विश्वजनादीनां छन्दसि - दीर्घात्पदान्ताद्वेत्यत्र विश्वजनादीनां छन्दस्युपसंख्यानं कर्तव्यम् । विश्वजनस्य छत्रम्, विश्वजनस्य च्छत्रम्, न छायां कुरवोऽपराम्, न च्छायां कुरवोऽपराम् ॥
Kashika
-------
दीर्घात् छे तुगिति वर्तते। पदान्ताद् दीर्घात् परो यश्छकारस्तस्मिन् पूर्वस्य तस्यैव दीर्घस्य पूर्वेण नित्यं प्राप्तो वा तुगागमो भवति। कुटीच्छाया, कुटीछाया। कुवलीच्छाया, कुवलीछाया॥ विश्वजनादीनां छन्दसि वा तुगागमो भवतीति वक्त व्यम्॥ विश्वजनच्छत्रम्। विश्वजनछत्रम्। न च्छायां करवोऽपरम् (शौ० सं० १३.१.५६)। न छायां करवोऽपरम्॥
Siddhanta Kaumudi
-----------------
दीर्घात्पदान्ताच्छे परे तुग्वा स्यात् । लक्ष्मीच्छाया । लक्ष्मीछाया ॥
Laghu Siddhanta Kaumudi
-----------------------
दीर्घात्पदान्ताच्छे तुग् वा । लक्ष्मीच्छाया, लक्ष्मीछाया ॥
Tattvabodhini
-------------
पदान्ताद्वा। प्रकृतेन दीर्घेण पदविशेषणात्तदन्तविधिलाभेनेष्टसिद्धावप्यन्तग्रहणं पदान्तस्यैव तुग्यथा स्यात्पदस्य मा भूदित्येतदर्थम्। अन्यथा पदविधित्वात्समर्थपरिभाषोपस्थितौ समर्थेषु `लक्ष्मीच्छाये`त्यादिष्वेव स्यात्, `तिष्ठतु कुमारी, छत्रं हर देवदत्ते`त्यत्र न स्यात्, असामर्थ्यात्। एवं `न पदान्ताट्टो`रिति सूत्रे `पदाट्टो`रिति वक्तव्येऽन्तग्रहणं `दुष्टाः षट्`, `सन्तस्त्रय` इत्यत्रापि ष्टुत्वनिषेधार्थमित्याहुः।
Padamanjari
-----------
प्रकृतेन दीर्घण पदविशेषणादेव तदन्तविधौ सिद्धेऽन्तग्रहणम्पदान्तविधिरयं तुग् यथा स्यात्, पदविधिर्मा भूदिति। तेन समर्थपरिभाषानुपस्थानात् -तिष्ठतु कुमारीच्छत्रं हर देवदतस्येत्यत्रापि विकल्पो भवति ॥
Prakriyasarvasvam
-----------------
पदान्ताद् दीर्घात् छे परे दीर्घस्य तुग्वा स्यात्१ । भू तुक् छाया । तुक् शोधना प्राग्वत् । भूच्छाया भूछाया । समर्थत्वात् पदविधेर्विकल्पोऽयं पदाश्रयः । अनन्वितार्थयोर्न स्याद् रमा सेव्याच्छलं त्यज ॥ ३२ ॥ अत्र 'दीर्घात्' (६-१-७५) इति नित्यं तुगेव । आङ् छादयति माङ् छिदत् इति स्थिते । 'हलन्त्यम्' (१-३-३) इति ङलोपः । आ छादयति मा छिदत् । अव्ययानामपि पदत्वात् 'पदान्ताद्वा' (६-१-७६) इति वा तुकि प्राप्ते,
Sarala
------
**ह्रस्वस्य पिति कृति तुक्** (६.१.७१) इत्यतः "तुक्" इति **छे च** (६.१.७३) इत्यतः "छे" इति "दीर्घात्" इति सूत्रं चानुवर्ततेऽत आह - **दीर्घादित्यादि** । दीर्घस्यैवायं तुक् न तु छस्य, **विभाषा सेनासुराच्छायाशालानिशानाम्** (२.४.२५) इत्यतः "सेनासुराच्छाया"इति निर्देशात् । तत्फलं "लक्ष्मीच्छाया" चेच्छिद्यते इत्यादौ छकारश्रवणम् ॥
Sudha
-----
**पदान्ताद्वेति ।** तुक्, छे, दीर्घात् इत्यनुवर्तते । तदाह — **दीर्घात्पदान्तादित्यादिना ।** अत्र दीर्घस्यैवायं तुक् बोध्यः । न च इति परिभाषया छकारस्यान्तावयवस्तुक् स्यादिति वाच्यम्, **विभाषा सेनासुराच्छायाशालानिशानाम् ** (2.4.25) इति पाणिनीयसूत्रेण तस्याः प्रबाधनात् । **लक्ष्मीच्छायेति । ** "लक्ष्मी छाया" इत्यवस्थायाम् **पदान्ताद्वा** (6.1.76) इत्यनेन तुकि उको लोपे **स्तोः श्चुना श्चुः** (8.4.40) इत्यनेन तस्य चत्वे "लक्ष्मीच्छाया" इति निष्पन्नम् । तुगभावे च "लक्ष्मीछाया" इति ॥ इति हल्सन्धिप्रकरणम् ॥
Vartika
-------
विश्वजनादीनां छन्दसि वा तुगागमो भवतीति वक्तव्यम् ।
Sutra Prayogas
--------------
* **युव-जानिर्** (भट्टिकाव्यम्): `जायाया निङ्` इति वलि लोपः।