61066: लोपो व्योर्वलि
=====================
**Padacheda:** लोपः | S | 1 | 1 |
व्योः | S | 6 | 2 |
वलि | S | 7 | 1 |
Sutrartha
---------
**वल्-प्रत्याहारस्य वर्णे परे वकार-यकारयोः लोपः भवति ।**
**वल्** = यकारम् विहाय सर्वाणि व्यञ्जनानि ।
वकारात् / यकारात् परं यकारं विहाय अन्यं व्यञ्जनम् विद्यते चेत् वकारस्य / यकारस्य लोपः भवति । उदाहरणे एतादृशे —
1. वकारस्य लोपः
दिव्-धातोः क्वसु-प्रत्यये कृते "दिदिवस्" इति प्रातिपदिकम् सिद्ध्यति । अस्य प्रक्रियायाम् प्रकृतसूत्रेण वकारस्य लोपः क्रियते —
.. code-block:: text
दिवुँ (क्रीडादिषु, दिवादिः, (4.1))
→ दिव् + लिट् [**परोक्षे लिट्** (3.2.115) इति लिट्]
→ दिव् + क्वसुँ [**क्वसुश्च** (3.2.107) इति लिट्-इत्यस्य क्वसुँ-आदेशः]
→ दिव् + वस् [ककार-उकारयोः इत्संज्ञा, लोपः]
→ दिव् दिव् + वस् [**लिटि धातोरनभ्यासस्य** (6.1.8) इति द्वित्वम्]
→ दि दिव् + वस् [**हलादि शेषः** (7.4.60) इति 'दि' इत्येव अवशिष्यते ।]
→ दिदिवस् [**लोपो व्योर्वलि** (6.1.66) इति वकारे परे वकारलोपः]
2. यकारस्य लोपः
पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य प्रक्रियायाम् प्रकृतसूत्रेण यकारलोपः कृतः दृश्यते —
.. code-block:: text
पठँ (व्यक्तायां वाचि, भ्वादिः (1.381))
→ पठ् + लिङ् [**विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ्** (3.3.161) इति लिङ्]
→ पठ् + तिप् [**तिप्तस्..** (3.4.78) इत्यनेन प्रथमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ पठ् + शप् + ति [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकम् विकरणम् शप्]
→ पठ् + अ + यासुट् + ति [**यासुट् परस्मैपदेषूदात्तो ङिच्च** (3.4.103) इति यासुट्-आगमः]
→ पठ् + अ + यास् + ति [टकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । सकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ पठ् + अ + यास् + सुट् + ति [**सुट् तिथोः** (3.4.107) इति सुट्-आगमः]
→ पठ् + अ + यास् + स् + ति [टकारस्य **हलन्त्यम्** (1.3.3) इति इत्संज्ञा, **तस्य लोपः** (1.3.9) इति लोपः । सकारोत्तरः उकारः उच्चारणार्थः, अतः सोऽपि लुप्यते ।]
→ पठ् + अ + या + ति [**लिङः सलोपोऽनन्त्यस्य** (7.2.79) इति उभयोः सकारयोः लोपः]
→ पठ् + अ + इय् + ति [**अतो येयः** (7.2.80) इति 'या'-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इ + ति [**लोपो व्योर्वलि** (6.1.66) इति तकारे परे यकारलोपः]
→ पठ् + अ + इ + त् [**इतश्च** (3.4.100) इति इकारलोपः]
→ पठ् + ए + त् [**आद्गुणः** (6.1.87) इति गुणः]
→ पठेत्
**"वाय्वोः" इत्यत्र बहिरङ्गासिद्धत्वेन, स्थानिवद्भावेन वा यकारलोपस्य निषेधः**
"वाय्वोः" (वायु-शब्दस्य षष्ठी-सप्तमी-द्विवचनम् ) इत्यस्मिन् शब्दे यकारात् परः वल्-वर्णः अस्ति; अतः तत्र प्रकृतसूत्रेण अनिष्टः यकारलोपः प्रसज्यते । प्रक्रिया इयम् —
.. code-block:: text
वायु + ओस् [षष्ठीद्विवचनस्य प्रत्ययः]
→ वाय् व् + ओस् [**इको यणचि** (6.1.77) इति यणादेशः । एतादृशे यणादेशे कृते **लोपो व्योर्वलि** (6.1.66) इति वकारस्य अनिष्टः लोपः प्राप्नोति ।]
अस्य लोपस्य निवारणार्थम् द्वे पद्धती वैयाकरणैः दीयेते —
**१. यणादेशस्य बहिरङ्गत्वात् यलोपः न**
"वाय्वोः" इत्यत्र उकारस्य कृतः यणादेशः ओस्-इति बहिर्भूतं प्रत्ययं निमित्तरूपेण स्वीकृत्य भवति । यकारलोपः तु शब्दे एव विद्यमानम् वकारम् निमित्तरूपेण स्वीकृत्य भवति । अतः यकारलोपस्य अपेक्षया यणादेशः बहिरङ्गः अस्ति । अस्यां स्थितौ पूर्वं जातं बहिरङ्गं कार्यम् **असिद्धं बहिरङ्गमन्तरङ्गे** इत्यनया परिभाषया अन्तरङ्गकार्यस्य कृते असिद्धं भवति । इत्युक्ते, "वाय्वोः" इत्यत्र जायमानः यणादेशः यलोपस्य कृते असिद्धः अस्ति । अतः **लोपो व्योर्वलि** (6.1.66) इति सूत्रेण अत्र "वायु" इत्येव दृश्यते, न हि "वाय्वोः" इत्यत्र । एवं स्थिते अत्र वल्-वर्णस्य अभावात यलोपः अपि न प्रवर्तते ।
**२. यणादेशस्य स्थानिवद्भावात् यलोपः न**
"वाय्वोः" इत्यत्र उकारस्य कृतः यणादेशः **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन स्थानिवद् भवति; अतः तत्र उकारसदृशम् एव कार्यं भवति; इत्युक्ते वल्-वर्णस्य अभावात् यलोपः अपि न प्रवर्तते ।
वस्तुतस्तु, यकारलोपस्य विषये **अचः परस्मिन् पूर्वविधौ** (1.1.57) इत्यनेन प्राप्तस्य स्थानिवद्भावस्य **न पदान्तद्विर्वचनवरेयलोपस्वरसवर्णानुस्वारदीर्घजश्चर्विधिषु** (1.1.58) इत्यनेन निषेधः उक्तः अस्ति । परन्तु तत्रैव विद्यमानेन इति वार्त्तिकेन अयं निषेधः केवलं स्वरलोपस्य विषये प्रवर्तते; स्वरादेशस्य विषये न । अतः अयं निषेधः प्रकृतसन्दर्भे, इत्युक्ते यत्र उकारस्य लोपः न क्रियते अपितु आदेशः एव क्रियते, तत्र न प्रवर्तते । स्थानिवद्भावनिषेधस्य अभावात् स्थानिवद्भावः अवश्यं भवति; अतः अत्र वकारस्य अनुपस्थितौ यलोपः अपि न प्राप्नोति ।
**भाष्ये वलोपस्य प्रत्याख्यानम्**
प्रकृतसूत्रस्य प्रामुख्येण यकारलोपार्थम् एव प्रयोगः भवति । वकारलोपस्य बहूनि न्यूनानि उदाहरणानि विद्यन्ते । तेषु प्रायेण सर्वाणि अपि वैदिक-उदाहरणानि एव सन्ति । किं च, भाषायां बहुषु स्थलेषु रेफे परे वकारस्य लोपः न हि कृतः दृश्यते । यथा - "व्रीहिः", "तीव्रम्", "व्रणः" — आदयः । अतः अस्य सूत्रस्य भाष्ये वकारलोपस्य प्रत्याख्यानम् एव कृतम् वर्तते । तत्र भाष्यकारः ब्रूते — **अनारम्भो वा पुनः वलोपस्य न्याय्यः** । प्रकृतसूत्रेण वकारस्य वलि परे लोपः न उच्येत चेदेव वरम् — इति अस्य आशयः ।
Sutrartha (English)
-------------------
A वकार and a यकार are deleted when followed by a letter of the वल् प्रत्याहार.
Vasu English Summary
--------------------
There is लोप-substitution (elision) of the व् and य् when followed by any consonant except य्।
Vasu English Translation
------------------------
There is लोप-substitution (elision) of the व् and य् when followed by any consonant except य्।
The final व् or य् of any stem, be it a root or not, is elided by an affix &c, beginning with a वल् consonant i. e. any consonant except य् ॥ Thus दिव् + वस् (3.2.107) = दिव् + दिव् + वस् = दिदिवस् nominative singular दिदिवान्, दिदिवांसौ, दिदिवांसः ॥ Thus ऊय् + त = ऊतं, 'spun', क्नूय् + त = क्नूतं 'made a noise'. So also the affix ढ्रक् comes after गोधा in forming patronymic (4.1.129). Of the affix ढ्रक्, ढ is replaced by एय् (7.1.2). Thus गोधा + एय् + र = गौधेरः (the य् of the affix being even elided before र) ॥ So also in पचेरन्, यजेरन् the य् of लिङ् (3.4.102) is elided before रन् (3.4.105). So also व is elided in the following :-- from जीव् - जीरदानुः (by *Unadi* affix जीवे रदानुक्) from स्रिव् -अस्रेमाणम् formed by the *Unadi* affix मनिन् with the negative अ ॥ There being diversity in the application of *Unadi* affixes (3.3.1), there is not substitution ऊठ् for व् as required by (6.4.19).
Why do we say "before any consonant except य?" Observe ऊय्यते, क्नूय्यते when य् is not elided. Why the word लोप is placed first? The elision of व् and ल् should take place prior to the elision of the *aprrikta* व् taught in the next *sutra*. Thus कण्डूय + क्विप् = कण्डू य् (6.4.48) = कण्डू + त् = कण्डूः ॥ So लोलूय + क्विप् = लोलूः ॥ "Why व् of व्रश्च is not elided before र् which is a वल् consonant? It is not elided, because it is so taught. Had the elision of व् been intended, the root would have been enunciated as रश्च instead of व्रश्च ॥ If you say the व is taught for the sake of forms like वृश्चति by *samprasarana* and वव्रश्च by reduplication, here also the '*lopa*' would have applied, as being an *Antaranga* rule, while *samprasarana*, and the elision of र् by हलादिशेषः are *Bahiranga*.
Bhashya
-------
लोपो व्योर्वलि (2503) (लोपाधिकरणम्) (6074 उपसंख्यानवार्तिकम् ॥ 1 ॥) - व्योर्लोपे क्वावुपसंख्यानम् - व्योर्लोपे क्वावुपसंख्यानं कर्तव्यम् । इहापि यथा स्यात् - कण्डूयतेरप्रत्ययः - कण्डूरिति । किं पुनः कारणं न सिध्यति ? वलीत्युच्यते, न चात्र वलादिं पश्यामः । ननु चायं क्विबेव वलादिः । क्विब्लोपे कृते वलाद्यभावान्न प्राप्नोति ॥ एवं तर्हि - इदमिह संप्रधार्यम् - क्विब्लोपः क्रियताम् - यलोप इति, किमत्र कर्तव्यम् ? परत्वात् क्विब्लोपः, नित्यत्वाच्च । नित्यः खल्वपि क्विब्लोपः । कृतेऽपि यलोपे प्राप्नोत्यकृतेऽपि प्राप्नोति । नित्यत्वात्परत्वाच्च क्विब्लोपः । क्विब्लोपे कृते वलाद्यभावाद्यलोपो न प्राप्नोति ॥ (उपसंख्यानप्रत्याख्यानभाष्यम्) एवं तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये नास्ति प्रत्ययलक्षणम् । यदि वा कानिचिदन्यान्यपि वर्णाश्रयाणि प्रत्ययलक्षणेन भवन्ति तथेदमपि भविष्यति ॥ अथवैवं वक्ष्यामि - लोपो व्योर्वलि । ततः - वेः । व्यन्तयोश्च व्योर्लोपो भवति । ततः - अपृक्तस्य । अपृक्तस्य च लोपो भवति । वेरित्येव ॥ (6075 व्योर्वकाराक्षेपवार्तिकम् ॥ 2 ॥) - वलोपाप्रसिद्धिरूङ्भाववचनात् - वलोपस्याप्रसिद्धिः - आस्रेमाणम्, जीरदानुरिति । किं कारणम् ?ऊङ्भाववचनात् । च्छोः शूडनुनासिके च (6.4.19) इत्यूठ् प्राप्नोति ॥ (6076 वकारग्रहणेऽतिप्रसङ्गापादकवार्तिकम् ॥ 3 ॥) - अतिप्रसङ्गो व्रश्चादिषु - व्रश्चादिषु चातिप्रसङ्गो भवति । इहापि प्राप्नोति - व्रश्चनः, व्रीहयः, व्रण इति ॥ (अतिप्रसङ्गनिरासे वार्तिकावतरणभाष्यम्) उपदेशसार्मथ्यात्सिद्धम् । उपदेशसार्मथ्यात् व्रश्चादिषु लोपो न भविष्यति ॥ (6077 आक्षेपवार्तिकम् ॥ 4 ॥) - उपदेशसार्मथ्यात्सिद्धमिति चेत्संप्रसारणहलादिशेषेषु सार्मथ्यम् - उपदेशसार्मथ्यात्सिद्धमिति चेत्, अस्त्यन्यदुपदेशवचने प्रयोजनम् । संप्रसारणहलादिशेषेषु कृतेषु वकारस्य श्रवणं यथा स्यात् - वृक्णः, वृक्णवान्, वृश्चति, विव्रश्चिषतीति ॥ (6078 समाधानवार्तिकम् ॥ 5 ॥) - न वा बहिरङ्गलक्षणत्वात् - न वा एतत्प्रयोजनमस्ति । किं कारणम् ? बहिरङ्गलक्षणत्वात् । बहिरङ्गाः संप्रसारणहलादिशेषाः, अन्तरङ्गो लोपः । असिद्धं बहिरङ्गमन्तरङ्गे ॥ (6079 व्योर्वकारप्रत्याख्यानवार्तिकम् ॥ 6 ॥) - अनारम्भो वा - अनारम्भो वा पुनर्वलोपस्य न्याय्यः । कथम् - आस्रेमाणम्, जीरदानुरिति ? (6080 अनुपपत्तिपरिहारवार्तिकम् ॥ 7 ॥) - आस्रेमाणं जीरदानुरिति वर्णलोपात् - आस्रेमाणं जीरदानुरिति च्छान्दसाद्वर्णलोपात्सिद्धम् ॥ (6081 अनुपपत्तिपरिहारे दृष्टान्तवार्तिकम् ॥ 8 ॥) - यथा संस्फानो गयस्फानः - तद्यथा - संस्फायनः - संस्फानः, गयस्फायनः - गयस्फान इति ॥
Kashika
-------
धातोरिति प्रकृतं यत् तद् धात्वादेरिति पुनर्धातुग्रहणाद् निवृत्तम्। तेन धातोरधातोश्च वकारयकारयोर्वलि परतो लोपो भवति। दिव् — दिदिवान्, दिदिवांसौ, दिदिवांसः। ऊयी — ऊतम्। क्नूयी — क्नूतम्। **गोधाया ढ्रक्**(४.१.१२९) — गौधेरः। पचेरन्। यजेरन् । वकारस्य — **जीवे रदानुक्** (द॰उ॰ १.१६३) — जीरदानुः। स्रिवेः — आस्रेमाणम्। **उणादयो बहुलम्**(३.३.१) इति बहुलवचनात् **च्छ्वोः शूडनुनासिके च** (६.४.१९) इत्यूठ् न भवति। वलीति किम् ? ऊय्यते। क्नूय्यते। पूर्वं लोपग्रहणं किम् ? वेरपृक्त लोपात् पूर्वं वलि लोपो यथा स्यात्। कण्डूयतेः क्विप् — कण्डूः। लोलूयतेः — लोलूः। व्रश्चादीनामुपदेशसामर्थ्याद् वलि लोपो न भवति। वृश्चति। वव्रश्चेत्यत्रापि हि संप्रसारणहलादिः शेषयोर्बहिरङ्गत्वात् प्राप्नोति॥
Siddhanta Kaumudi
-----------------
वकारयकारयोर्लोपः स्याद्धलि । पुंवद्भावः । युवतिर्जाया यस्य युवजानिः ॥
Laghu Siddhanta Kaumudi
-----------------------
भवेत्। भवेताम्॥
Balamanorama
------------
**लोपो व्योर्वलि** - लोपो व्योर्वलि । 'व्'य् अनयोद्र्वन्द्वात् षष्ठीद्विवचनम् । तदाह — वकारयकारयोरिति । पुंवद्भाव इति ।स्त्रियाः पुंवदि॑त्यनेने॑ति शेषः । युवजानिरिति । जायाशब्दे यकारादाकारस्य निङ् ।
Tattvabodhini
-------------
**लोपो व्योर्वलि** - लोपो व्योर्वलि ।व्योर्लोप॑इति वक्तव्येवेरपृक्तलोपाद्वलिलोपः पूर्वविप्रतिषेधेन॑इति ज्ञापयितुमादौ विधेयनिर्देशः कृतः । तेन सुखीयतेः क्विपि सुखीरिति सिद्ध्म् ।
Padamanjari
-----------
धातोरिति प्रकृतमित्यादि। एतद्'धात्वादेः षः सः' इत्यत्र व्याख्यातम्। दिदिवानिति। दिवेः क्वसौ रूपम्।'वस्वेकाजाद्घसाम्' इति नियमादिडभावः। अत्र वक्तव्यमस्ति तद्'वस्वेकाजाद्घसाम्' इत्यत्र वक्ष्यामः। ठूयी तन्तुसन्तानेऽ,'क्नूयी शब्दे' । आस्रेमाणमिति।'स्रिवु गतिशोषणयोः' , औणादिको मनिन्, नञा समासः। ननु च सतः कार्यिणः कार्येण भवितव्यमिति पूर्वं कार्यिनिर्द्देशो युक्तः, पश्चात्कार्यनिर्द्देशः -ठ्व्योर्वलि लोपःऽ इति, लाघवं च भवत्यर्द्धमात्रया, तत्किमर्थं पूर्वं लोपग्रहणं कृतम्? इत्यत आह -पूर्वं लोपग्रहणमित्यादि। पूर्वं लोपग्रहणेनायमर्थः सूच्यते -विध्यन्तरात्पूर्वमेवायं लोपो भतीति, कण्कडूअयतेर्यलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भवितव्यम्। कण्डूअयतेः क्विबिति।'कण्ड्वादिभ्यो यक्' इत्यत्र भाष्यम् -ठ्नैतेब्यः क्विब् दृश्यतेऽ इति, तस्मात्कण्डूअमिच्छतीति क्यजन्तात्क्विब् दृष्टव्यः। द्विविधा हि कण्कड्वादयः -धातवः, प्रातिपदिकानि च। तत्र धातुभ्यो यग्विधानात्प्रातिपदिकेभ्यः क्यजादयो भवन्त्येव, तत्र क्यजन्तात्किवपि कृते -अतो लोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपेन भाव्यम्। अथाप्यार्द्धधातुक इति विषयसप्तम्याश्रयणात्पूर्वमतो लोपः, पश्चात्किवप्? एवमपि क्विलोपश्च प्राप्नोति, वेरपृक्तलोपश्च, तत्रान्तरङ्गत्वात्पूर्वमपृक्तलोपः स्तात्, तस्मिश्च सति निमिताभावादलाश्रये प्रत्ययलक्षणाभावात्स्थानिवद्भावाभावाच्च वलि लोपो न स्यात् पूर्वलोपग्रहणाच्च भवति। अथात्र लोपस्य स्थानिवद्बावादुवङ् करमान्न भवति ? उच्यते; क्यजन्तात्क्विबित्युक्तम्, ततः किम् ? स्थानिवद्भावेनापि कण्कडूअमात्रस्य धातुत्वाभावादुवह् न भवति। यणादेशस्तर्हि प्राप्नोति ? अस्तु यण्, तस्योठ करिष्यते। न चोठयपि कर्तव्ये स्थानिवद्भावः, आदिष्टदचः पूर्वत्वाद्वकारस्य, अत एव कण्कडुवावित्यादावूणुवङदिषु कर्तव्येषु नास्त्यल्लोपस्य स्थानिवद्भावः। अथ व्रश्चकः, व्रश्चनमित्यादौ रेफे वलि परतो वकारस्य लोपः कस्मान्न भवति? तत्राह -व्रश्चादीनामित्यादि। ननु वृश्चति, वव्रश्चेत्यादौ सम्प्रसारणे कृते हलादिशेषे च वकारस्य श्रवणं यथा स्यादित्येतदुपदेशस्य प्रयोजनं स्यात्, न ह्यत्र लोपः प्रवर्तते, वल्परत्वाभावदित्यत आह -वृश्चति वव्रश्चेत्यादावपीत्यादि। बहिरङ्गत्वादिति। बहिरङ्गत्वं सम्प्रसारणस्य क्डित्प्रत्ययोपेक्षत्वात्, हलादिशेषस्य त्वभ्यासापेक्षत्वात्, ततश्चाकृतयोरेव तयोर्वलोपः प्राप्त उपदेशसामर्थ्यादेव न भवति। अत्र भाष्ये वलोपः प्रत्याख्यातः। आस्रेमाणम्, जीरदानुरित्यत्र छान्दसो वर्णलोपः, क्वसावपि छान्दस एव, दिविप्रबृतीनां यङ्लुगन्तानां तसादिषूठा भवतिव्यम्, तिप्सिपोरीडभावपक्षेषूठा भवितव्यम्। ये तत्र क्ङितीति नानुवर्तयन्ति-देदिविति देद्योति, देदिवीषि देद्योषि, मिपि त्वनुनासिकत्वादेव भवति, देदिवीमि देद्योमि; ये त्वनुवर्तयन्ति तेषामपि छान्दसो यङ्लुगिति ॥
Nyaas
-----
`लिटि धातोः` (6.1.8) इत्यस्य धातुग्रहणस्य दृष्टानुवृत्तिसामर्थ्यादिहाप्यनुवृत्तिरिति मन्यमानस्य धातोरेवायं वलि व्यलोपो विधीयत इति कस्याचिद्भ्रान्तिः स्यात्, अतस्तं निरकर्त्तुमाह -`धातोरिति यत्? प्रकृतम्` इत्यादि। `दिदिवान्` इति। दिवेः क्वसौ रूपम्। `ऊयी` इति। `ऊयी तन्तुसन्ताने (धातुपाठः-483) `क्नूयो` इति। `क्नूयी शब्दे` (धातुपाठः-485) `गौदेरः` इति। **गोधाया ढ्रक्** (4.1.129) ढस्यैयादेशः, यकारलोपः। `पचेरन्` इति। सीयुडकारस्य लोपः। `जीवेः` इति। `जीव प्राणधारणे` (धातुपाठः-562) इत्यस्य। `रिउआवेः` इति। `रिउआवु गतिशोषणयोः` (धातुपाठः-1109) इत्येतस्य। `आरुओमाणम्` इति। औणादिकोऽयं मनिन्। कथं पुनरेतदिहोदाहरणम्, यावता परत्वात्? `वार्णादाङ्गं बलीयो भवति` (व्या।प।39) इति बलीयस्त्वात्? `च्छवोः शूडनुनासिके च` (6.4.19) इत्यादिनोठादेशेनात्र भवितव्यम्? इत्यत आह -`उणादयो बहुलम्` इत्यादि। बहुलग्रहणस्य सर्वविधिव्यभिचारार्थत्वान्न भवत्येष दोषप्रसङ्ग इति।पश्चाल्लोपग्रहणे क्रियमाणे पकारात्? परेणाध्यर्धमात्रोच्चारयितव्या भवति, अकगारो हि मात्रा, विसजं नीयस्त्वर्धमात्रः। पूर्वं तु लोपग्रहणे क्रियमाणे मात्राद्वयमुच्चारयितव्यं जायते; ओकारस्य द्विमात्रिकत्वात्। तत्र लाघवार्थं पश्चादेव लोपग्रहणं कर्त्तु युक्तम्, तत्? किं पूर्वं क्रियते? इत्यत आह -`पूर्वम्` इत्यादि। अन्यस्तु पूर्व कार्यिनिर्देशो युक्तः, पश्चात्? कर्यनिर्देश इति पूर्व व्योग्र्रहणे कर्तव्ये किमर्थ लोपग्रहणं क्रियत इति पूर्वपक्षं वर्णयति, स चायुक्तः `लुगणिञोः` (2.4.58) इत्यत्र कार्यस्यापि पूर्व निदशात्। `वेरपृक्तलोपात्` इत्यादि। कण्डूयतेर्लोलूयतेश्च क्विपि कृते वलि लोपात्? परत्वात्? कृताकृतप्रसङ्गित्वेन नित्यत्वाच्च पूर्वं वेरपृक्तलोप एव स्यात्। अस्मश्च सति निमित्ताभावात्? वर्णाश्रये प्रत्ययलक्षणाभाद्ववलि लोपो न स्यात्? तस्मात्? पूर्वं लोपग्रहणं क्रियते -वलि लोप एव पूर्वं यथा स्यात्। पूर्वं लोपग्रहणे ह्रयमर्थः सूच्यते -वेरृक्तलोपत्? पूर्व वलि लोप एव कर्तव्यमिति। `कण्डूः` इति। **अतो लोपः** (6.4.48) इत्यकारलोपः। क्विलुगुपधात्वचङ्गपरनिह्यसिकुत्वेषु न स्थानिवत्` (1.1.59 वा।2) इत्यकारस्य स्थानिवद्भावो न भवति वलि लोपः। अथ व्रश्चकः, व्रश्चन इत्यत्र रेफे वलि परतो वकगारलोपः कस्मान्न भवति? इत्याह -`व्रश्चादीनाम्` इत्यादि। यद्येषामपि लोपः स्यात्, वकारोच्चारणमनर्थकं स्यात्। अतश्चोच्चारणसामर्थ्याद्व्रश्चादीनां वलि लोपो न भवति। स्यादेतत् -वृश्चति, वव्रश्चेत्यत्र सम्प्रसारणे हलादिशेषे च वकारस्य श्रवणं यथा स्यात्, तत्? कुत उपदेशस्य वैयर्थ्यम्? अत आह -`वृश्चति` इत्यादि। यथा व्रश्चक इत्यादौ लोपस्य प्राप्तिः, एवं वृश्चतीत्यादावपि सम्प्रसारणादौ कार्ये कृतेऽपि; तस्य बहिरङ्गत्वेनासिद्धत्वात्। तत्र सम्प्रसारणं ङित्प्रत्ययापेक्षत्वात्? बहिरङ्गम्। हलादिशेषेऽभ्यासापेक्षत्वाद्बहिरङ्गः, वलि यलोपस्तु वर्णमात्राश्रयत्वादन्तरङ्गः। तस्मात्? सर्वत्रैव व्रश्चेर्वकारलोपः प्राप्नोति। क्रियते चास्यो पदेशः, अत उपदेशसामर्थ्यान्न भविष्यतीति तदेवावस्थितम्॥
Sutra Prayogas
--------------
* **आप्यानं** (भट्टिकाव्यम्): `लोपो व्योर्वलि` इति यलोपः।
* **समिद्-ध-शरणाऽऽदीप्-ता** (भट्टिकाव्यम्): `लोपो व्योर्वलि` इति लोपः।