61050: मीनातिमिनोतिदीङां ल्यपि च ================================ **Padacheda:** मीनाति-मिनोति-दीङाम् | S | 6 | 3 | ल्यपि | S | 7 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- And there is substitution of आ for the finals of मी 'to hurt', मि 'to scatter' and दी 'to decay' when the affix ल्यप् follows, as well as before those affixes which demand this substitution for the diphthong. Vasu English Translation ------------------------ And there is substitution of आ for the finals of मी 'to hurt', मि 'to scatter' and दी 'to decay' when the affix ल्यप् follows, as well as before those affixes which demand this substitution for the diphthong. By force of the word च 'and' in the *sutra*, the substitution takes place of the diphthongs also of these verbs before all affixes other than शित्, and this substitution takes place, before the occasion for the applying of the affixes arises (उपदेशावस्थायाम् आत्वं भवति) ॥ So that these verbs should be understood as if they were enunciated with an आ, so that all rules of affixes relating to आ will apply to them. Thus प्रमाता, प्रमातव्यम्, प्रमातुम्, प्रमाय, निमाता, निमातुम्, निमातव्यम्, निमाय, उपदाता, उपदातव्यम्, उपदातुम्, उपदाय ॥ The substitution of आ being understood to have taken place in the very उपदेश (in the *dhatupatha*) of these roots, the affixes relating to roots ending in इ or ई do not apply to these at all. Thus उपदायो वर्त्तते, ईषदुपदानं, formed by घञ् and युच् by taking दी = दा and adding these affixes (3.3.128) and (3.3.18) and not the affixes अच् (3.3.56) and खल् (3.3.126). Bhashya ------- मीनातिमिनोतिदीङां ल्यपि च (2487) (6061 उपसंख्यानवार्तिकम् ॥ 1 ॥) - मीनात्यादीनामात्व उपदेशवचनं प्रत्ययविध्यर्थम् - मीनात्यादीनामात्व उपदेशिवद्भावो वक्तव्यः । उपदेशावस्थायामात्वं भवतीति वक्तव्यम् । किं प्रयोजनम् ? प्रत्ययविध्यर्थम् । उपदेशावस्थायामात्वे कृत इष्टः प्रत्ययविधिर्यथा स्यात् ॥ (वार्तिकफलबोधकभाष्यम्) के पुनः प्रत्यया उपदेशिवद्भावं प्रयोजयन्ति ? काः । कास्तावन्न प्रयोजयन्ति । किं कारणम् ? एच इत्युच्यते, न च केष्वेजस्ति । णघञ्युज्विधयस्तर्हि प्रयोजयन्ति । ण, अवदायः । आत इति णः सिद्धो भवति । ण ॥ घञ्, अवदायो वर्तते । आत इति घञ् सिद्धो भवति । किं च भो आत इति घञ्ञुच्यते ? न खल्वप्यात इत्युच्यते, आतस्तु विज्ञायते । कथम् ? अविशेषेण घञ्ञुत्सर्गः, तस्य इवर्णान्तादुवर्णान्ताच्चाजपावपवादौ । तत्रोपदेशावस्थायामात्वे कृते अपवादस्य निमित्तं नास्तीति कृत्वा, उत्सर्गेण घञ् सिद्धो भवति । एवं च कृत्वा न च आतः इत्युच्यते, आतस्तु विज्ञायते ॥ युच्, इर्षदवदानम्, स्ववदानम् । आत इति युच् सिद्धो भवति ॥ (उपदेशपदान्वयबोधकभाष्यम्) इदं विप्रतिषिद्धम् - एच उपदेश इति । यद्येचः, नोपदेशे । अथोपदेशे, नैचः । एचश्चोपदेशे चेति विप्रतिषिद्धम् । नैतद्विप्रतिषिद्धम् । आहायम् - एच उपदेश इति । यद्येचो नोपदेशे - अतोपदेशे नैचः, ते वयं विषयं विज्ञास्यामः - एज्विषय इति ॥ (उपदेशपदानुवृत्तिबोधकभाष्यम्) तत्तर्हि उपदेशग्रहणं कर्तव्यम् । न कर्तव्यम्, प्रकृतमनुवर्तते । क्व प्रकृतम् ? आदेच उपदेशेऽशिति (45) इति । तद्वै प्रकृतिविशेषणम्, विषयविशेषणेन चेहार्थः । न चान्यार्थं प्रकृतमन्यार्थं भवति । न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति - न हि गोधा सर्पन्ती सर्पणादहिर्भवति ॥ (उपदेशपदस्य यथेष्टमभिसंबन्धबोधकभाष्यम्) यत्तावदुच्यते - न चान्यार्थं प्रकृतमन्यार्थं भवतीति । अन्यार्थमपि प्रकृतमन्यार्थं भवति । तद्यथा - शाल्यर्थं कुल्याः प्रणीयन्ते, ताभ्यश्च पानीयं पीयते, उपस्पृश्यते च, शालयश्च भाव्यन्ते ॥ यदप्युच्यते - न खल्वप्यन्यत्प्रकृतमनुवर्तनादन्यद्भवति - न हि गोधा सर्पन्ती सर्पणादहिर्भवतीति । भवेत्, द्रव्येष्वेतदेवं स्यात् । शब्दस्तु खलु येन येनाभिसंबध्यते तस्य तस्य विशेषको भवति । तद्यथा - गौः शुक्लः, अश्वश्च । शुक्ल इति गम्यते ॥ (6062 प्रतिषेधोपसंख्यानवार्तिकम् ॥ 2 ॥) - निमिमीलियां खलचोः प्रतिषेधः - निमिमीलियां खलचोः प्रतिषेधो वक्तव्यः । इर्षन्निमयम्, सुनिमयम्, निमयो वर्तते, नियमः । मि ॥ मी । इर्षत्प्रमयम्, सुप्रमयम् प्रमयो वर्तते, प्रमयः । मी ॥ ली । इर्षद्विलयम्, सुविलयम्, विलयो वर्तते, विलयः ॥ Kashika ------- आदेच उपदेश इति वर्तते। **मीञ् हिंसायाम्** **डुमिञ् प्रक्षेपणे** **दीङ् क्षये** इत्येतेषां धातूनां ल्यपि विषये, चकारादेचश्च विषये,उपदेश एव प्राक्प्रत्ययोत्पत्तेः **अलोऽन्त्यस्य** (१.१.५२) स्थान आकारादेशो भवति। प्रमाता। प्रमातव्यम्। प्रमातुम्। प्रमाय। निमाता। निमातव्यम्। निमातुम्। निमाय। उपदाता। उपदातव्यम्। उपदातुम्। उपदाय। उपदेश एवात्वविधानादिवर्णान्तलक्षणः प्रत्ययो न भवति, आकारान्तलक्षणश्च भवति। उपदायो वर्तते, ईषदुपदानमिति घञ्युचौ भवतः॥ Siddhanta Kaumudi ----------------- एषामात्वं स्यात् ल्यपि चकारादशित्येज्निमित्ते । दाता । दास्यते । अदास्त । अदास्थाः ।{$ {!1135 डीङ्!} विहायसा गतौ$} । डीयते । डिड्ये ।{$ {!1136 धीङ्!} आधारे$} । धीयते । दिध्ये । धेता ।{$ {!1137 मीङ्!} हिंसायाम्$} । हिंसात्र प्राणवियोगः । मीयते ।{$ {!1138 रीङ्!} श्रवणे$} । रीयते ।{$ {!1139 लीङ्!} श्लेषणे$} ॥ Laghu Siddhanta Kaumudi ----------------------- एषामात्वं स्याल्ल्यपि चादशित्येज्निमित्ते। दाता। दास्यति। **स्थाघ्वोरित्त्वे दीङः प्रतिषेधः** (वार्त्तिकम्) । अदास्त॥ {$ {! 16 डीङ् !} विहायसा गतौ $} (धातुपाठे (04.0030)) ॥ डीयते। डिड्ये। डयिता॥ {$ {! 17 पीङ् !} पाने $} (धातुपाठे (04.0036)) ॥ पीयते। पेता। अपेष्ट॥ {$ {! 18 माङ् !} माने $} (धातुपाठे (04.0037)) ॥ मायते। ममे ॥ {$ {! 19 जनी !} प्रादुर्भावे $} (धातुपाठे (04.0044)) ॥ Balamanorama ------------ **मीनातिमिनोतिदीङां ल्यपि च** - मीनातिमिनोति ।आदेच उपदेशेऽशिती॑त्यताअदित्यनुवर्तते । तदाह — एषामात्त्वं स्याल्ल्यपीति । चकारात् एचः, अशितीति परनिमित्तं समुच्चीयते । तत्रएचट इत्यनन्तरं 'निमित्ते' इति शेषः । एज्निमित्ते अशिति प्रत्यये च परे इति फलितम् । तदाह — अशित्येज्निमित्ते इति । 'इति समुच्चीयते' इति शेषः । लुङ्याह - अदास्तेति । इह आत्त्वे कृते घुत्वे सत्यपि स्थाध्वोरिच्चेति न भवति,स्थाध्वोरित्त्वे दीङः प्रतिषेधः॑ इति घुसंज्ञासूत्रस्थभाष्यपठितवार्तकादिति भावः । धीङ् आधारे इति । आधारः — आधारणम् । स्थापनमिति यावत् । लीङ् श्लेषणे इति । लीयते । लिल्ये ।लिल्यिषे । [लिल्यिढ्वे । लिल्यिध्वे] । Tattvabodhini ------------- **मीनातिमिनोतिदीङां ल्यपि च** - मीनाति । मीञ् हिंसायाम् । डुमिञ् प्रक्षेपणे । प्रमाय । उपदाय । प्रमातव्यम् । उपदातव्य् । एज्निमित्त इति विषयसप्तमी । तेन आदावात्वं पश्चाद्धञ् ।आतो यु॑गिति युक् । उपदाय इति सिध्यति । अन्यथा एरचि कृते तत आत्वे उपदा इति स्यात् । अदास्तेति ।दीङः प्रतिषेधःस्थाध्वोरित्त्वेट इति न घुत्वमित्यदितेति रूपं न भवतीत्येके । अन्ये तुस्थाध्वोरिच्चे॑त्येतत्तु न भवति, दीङोऽनुकरणे दारूपाऽसंभवेनाऽघुत्वात् । अत एव प्रनिदातेत्यादौनेर्गदे॑ति णत्वम् [अपि] न भवतीत्याहुः अयं भावः — द अवखण्डने॑ इत्यादेर्दारूपत्वं संभवति ।आदेच उपदेशे॑ इत्यस्याऽनैमित्तिकत्वात् ।दीङस्तु एज्निमित्तप्रत्ययविषये आत्वं, दा इत्यनुकरणे एज्निमित्तस्याऽभावित्वान्न घुत्वम् । एवं च घुप्रकृतित्वमपि नास्तीति णत्वस्याऽप्रसक्तिरिति । डीङ् । डीनः । डीनवान् । स्वादिषु पाठसामर्थ्यान्निष्ठायामिण्न । इटि हि सति व्यवधानात् ।ओदितश्चे॑ति नत्वं नस्यादिति । स्वादिषु पाठसमाथ्र्यादिड्व्यवधानेऽपि णत्वमस्त्विति न शङ्क्यम्, इष्टानुरोधात् । डयतीति प्रयोगस्तु भौवादिकस्य ।निष्ठा शीङ् इत्यत्र निष्ठेति योगविभागादकत्त्वे गुण इत्याहुः । मीङ् हिंसायाम् । मीञिति क्र्य#आदौ । प्राणवियोग इति । मीयते । प्राणैर्वियुज्यत इत्यर्थः । लीङ् । ली श्लेषण इति क्र्यादौ । Nyaas ----- `उपदेश` (6.1.44) इत्यनुवृत्तेः प्रागेव प्रत्ययोत्पत्तेरात्त्वेन भवितव्यमिति, अत आत्वविधानकाले ल्यपः परत्वं न सम्भवतीति तस्माल्ल्यपीति विषयसप्तमीयं विज्ञायत इत्याह -`ल्यपि विषये` इति। एचेति यद्यपि प्रकृतविशेषणं प्रागासीत्, तथापीहोपदेशाधिकारान्मीनातिप्रभृतीनां चोपदेशावस्थायामेचोऽसम्भवात्? सामर्थ्याद्विषयविशेषणं विज्ञायत इत्याह -`एचश्च विषये` इति। `उपदेशे` इत्यस्य प्रागित्यादिनार्थमाचष्टे। `प्रमाय` इति। `समासेऽनञ्` (7.1.37) इति ल्यप्। कः पुनरुपदेशावस्थायामेवात्त्वविधानेऽर्थः सम्पद्यते, यदर्थमुपदेशावस्थायामात्त्वं क्रियते? इत्याह -`उपदेश एव` इत्यादि। इवर्णान्तलक्षणः `एरच्` (3.3.56) इत्यच, आकारान्तलक्षणः **आतो युच्** (3.3.128) `उपदायः` इति। उपदेश एवात्त्वे कृते सत्यचो निमित्तं विहितमित्युसर्ग एव `भावे` (3.3.18) इति घञ्? सिद्धो भवति। `आतो युक्? चिष्कृतोः` (7.3.33) इति युक्। `ईषदुपदानम्` इति। उपदेशावस्थायामात्त्वे खलपवादो युच्? सिद्धो भवति॥ Prakriyasarvasvam ----------------- 'मीञ् हिंसायां', 'डुमिञ् प्रक्षेपणे', 'दीङ् क्षये', एषामेज्निमित्ते ल्यपि च कर्तव्ये आत्वं स्यात् । अत्र तृचो गुणहेतुत्वादेज्निमित्तत्वम् । प्रमाता रिपोः । निमाता बीजस्य । उपादातु धनम् ।