61047: स्फुरतिस्फुलत्योर्घञि ============================ **Padacheda:** स्फुरति-स्फुलत्योः | S | 6 | 2 | घञि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- In the roots स्फुर् and स्फुल् 'to move', there is the substitution of the आ for the diphthong when the affix घञ् follows. Vasu English Translation ------------------------ In the roots स्फुर् and स्फुल् 'to move', there is the substitution of the आ for the diphthong when the affix घञ् follows. Thus विस्फारः instead of विस्फोरः, and विस्फालः instead of विस्फोलः ॥ By (8.3.76), the स is optionally changed to ष after वि, as विष्फारः, and विष्फालः ॥ Kashika ------- आदेच इति वर्तते। **स्फुर स्फुल चलने** इत्येतयोर्धात्वोरेचः स्थाने घञि परत आकारादेशो भवति। विस्फारः। विस्फालः। विष्फारः। विष्फालः। **स्फुरतिस्फुलत्यो — र्निर्निविभ्यः** (८.३.७६) इति वा षत्वम्॥ Siddhanta Kaumudi ----------------- अनयोरेच आत्वं स्याद्घञि । स्फारः । स्फालः । उपसर्गस्य घञि-(SK1044) इति दीर्घः । परीहारः । इकः काशे (SK1045) काशे उत्तरपदे इगन्तस्यैव प्रादेर्दीर्घः । नीकाशः । अनूकाशः । इकः किम् । प्रकाशः ।नोदात्तोपदेश (SK2763) इति न वृद्धिः । शमः । आचमादेस्तु । आचामः । कामः । वामः । विश्राम इति त्वपाणिनीयम् ॥ Tattvabodhini ------------- **स्फुरतिस्फुलत्योर्घञि** - आचमेति ।नोदात्ते॑ति सूत्रेअनाचमे॑रित्युक्तत्वादिति भावः । तत्रैव सूत्रे॒ऽनाचमिकमिवमीना॑मिति वार्तिकाद्वृद्धिनिषेधो नेत्याह — कामः वाम इति । अपाणिनीयमिति । श्रमेरुदात्तोपदेशत्वाद्धञि, वृद्धेर्दुर्लभत्वात् । यदि तुधुर्यान्विश्रामय॑न्नित्यादिवण्णिचि वृद्धिमाश्रित्य णिजन्तादेरच् क्रियते तदा रूपं सिध्यति । न च णिच्यपि वृद्धिनिषेधः शङ्क्यः ।नोदात्ते॑त्यत्रकृती॑त्यनुवृत्त्या णिचि निषेधाऽभावात् । न चैवमपिमितां ह्रस्वःर॑ इति ह्रस्वः स्यादिति शङ्क्यं, वेत्यनुवर्त्त्य व्यवस्थिविभाषाश्रयणेन ह्रस्वाऽभावसिद्धेः । परन्तु णिजन्तकल्पनायामर्थो भिद्यत इति भावः । वस्तुतस्तुनिवृत्तप्रेषमाद्धातोः प्राकृतेऽर्थे णि॑जिति विवक्षायां तु न दोष इत्यवधेयम् । एवं चरोगी चिरप्रवासी परान्नभोजी परावसथशायी । यज्जीवति तन्मरणं यन्मरणं सोऽस्य विश्रामः॑ इत्यादिकविप्रयोगाः साधव एवेति बोध्यम् । Padamanjari ----------- यद्यपि करोतेः ठीङ् गतौऽ इत्येतस्य यणादेशे ङिति रूपं सम्भवतति, तथापि ठेचःऽ इत्यधिकारात्करोतेस्तावद् ग्रहणं न सम्भवति। तथा ईङेऽपि ग्रहणं न भवति, ह्रस्वान्तेन परेण जयतिना साहचर्यात् ॥ Nyaas ----- `विस्फारः, विस्फालः` इति। भावे घञ्, `हलश्च` (3.3.121) इति करणाधिकरणयोर्वा॥ Prakriyasarvasvam ----------------- शोभनचलनार्थयोरनयोर्घञ्येव आत्वं स्यात् । स्फारः । स्फालः ॥