61046: न व्यो लिटि ================== **Padacheda:** न | S | 0 | 0 | व्यः | S | 6 | 1 | लिटि | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- There is not the substitution of आ for the diphthong of the root व्ये when the affixes of the Perfect follow. Vasu English Translation ------------------------ There is not the substitution of आ for the diphthong of the root व्ये when the affixes of the Perfect follow. Thus संविव्याय, संविष्ययिथ ॥ The reduplicate of the Perfect is vocalised here by (VI.I.I7). The *Vriddhi* in संविव्याय takes place by (7.2.115) before the णित् affix णल् ॥ Kashika ------- व्येञ् इत्येतस्य धातोर्लिटि परत आकारादेशो न भवति। संविव्याय। संविव्ययिथ। **लिट्यभ्यासस्योभयेषाम्** (६.१.१७) इत्यभ्यासस्य संप्रसारणम्। णलि **अचो ञ्णिति** (७.२.११५) इति वृद्धिः॥ Siddhanta Kaumudi ----------------- व्येञ आत्वं न स्याल्लिटि । वृद्धिः । परमपि हलादिःशेषं बाधित्वा यस्य संप्रसारणम् । उभयेषां ग्रहणसामर्थ्यात् । अन्यथा वच्यादीनां ग्रह्यादीनां चानुवृत्त्यैव सिद्धे किं तेन । विव्याय । विव्यतुः । विव्युः । इडत्त्यर्ति -(SK2384) इति नित्यमिट् । विव्ययिथ । विव्याय । विव्यच । विव्ये । व्याता । वीयात् । व्यासीष्ट । अव्यासीत् । अव्यास्त ।{$ {!1008 ह्वेञ्!} स्पर्धायां शब्दे च$} ॥ Balamanorama ------------ **न व्यो लिटि** - तत्राह — न व्यो लिटि । 'व्ये' इत्यस्य कृतात्त्वस्य षष्ठन्तस्य 'व्य' इति निर्देशः । आत्त्वमिति । 'आदेच उपदेशे' इत्यत आदित्यनुवृत्तेरिति भावः । वृद्धिरिति । णलि व्ये अ इति स्थितेअचो ञ्णिती॑ति वृद्धिरित्यर्थः । तथा च व्यै-अ इति स्थितम् । ननु तत्र द्वित्वेलिटभ्यासस्ये॑त्यभ्यासे यकारस्य संप्रसारमे पूर्वरूपे उत्तरखण्डस्य आयादेशेविव्याये॑ति रूपं वक्ष्यति, तदयुक्तं, संप्रसारणात्प्राक् परत्वाद्धलादिशेषेण यकारस्य निवृत्तौ वकारस्य संप्रसारणे उकारे सति उव्यायेत्यापत्तेरित्यत आह — परमपीति । उभयेषामिति ।लिटभ्यासस्ये॑ति सूत्रेउभयेषा॑मिति ग्रहणसामर्थ्यादित्यर्थः । तदेवोपपादयति — अन्यथेति ।वचिस्वपियजादीना॑मित्यस्य,ग्रहिज्यावयिव्यधिविष्टिविचतिवृश्चतिपृच्छतिभृज्जतीना॑मित्यस्य च स्वरितत्वादेवात्रानुवृत्त्यैव सिद्धे पुन॒र्लिटभ्यासस्ये॑त्यत्रउभयेषां॑ग्रहणं पुनर्विधानार्थम् । तथा च वच्यादीनां ग्रह्रादीनां चाभ्यासस्य संप्रसारणं स्याल्लिटीति द्विर्विधानं लब्धम् । तत्र द्वितीयं विधानं नियमार्थम् — ॒उभयेषामभ्यासस्य संप्रसारणमेव स्यान्नेतर॑दिति । तेनाभ्यासे एतत्संप्रसारणविषये कार्यान्तरनिवृत्तिः सिद्धेत्यर्थः । तथा च प्रकृतेऽभ्यासयकारस्य संप्रासरणे सिद्धं रूपमाह — विव्यतुः विव्युरिति ।वचिस्वपी॑ति संप्रसारणे द्वित्वे यणिति भावः । थलि भारद्वाजनियमादिड्विकल्पमाशङ्क्याह — इडत्त्यर्तीति । विव्ययिथेति । अकित्त्वादभ्यासस्य संप्रसारणमिति भावः । विव्यथुः विव्य । विव्याय विव्ययेति । अकित्त्वादभ्यासस्य संप्रसारणे णित्त्वविकल्पाद्वृद्धिविकल्प इति भावः । विव्यिव विव्यिम । विव्ये इति । कित्त्वात्वचिस्वपी॑ति संप्रसारणे पूर्वरूपेवी॑त्यस्य द्वित्वे यणिति भावः । विव्याते विव्यिरे । विव्यिषे विव्याथे [विव्यिढ्वे] विव्यिध्वे । विव्ये विव्यिवहे विव्यिमहे । व्यातेति । तासि एकारस्य आत्त्वम् । व्यास्यति व्यास्यते । व्ययतु व्ययताम् । अव्ययत् अव्ययत । व्ययेत् व्ययेत । वीयादिति । आशीर्लिङि सीयुटि आत्त्वम् । अव्यासीदिति । लुङि सिचि आत्त्वे इट्सकोः सिज्लोपः । अव्यासिष्टामित्यादि । स्यत । ह्वेञ्धातुरनिट् । ञित्त्वादुभयपदी । शब्दे चेति । आकारणार्थःआगच्छे॑त्यादशब्दोऽत्र विवक्षितः । ह्वयति ह्वयते इति । शपि अयादेशः । णलादौ अकितिलिटभ्यासस्ये॑ति अभ्यासस्यैव संप्रसारणे प्राप्ते — Tattvabodhini ------------- **न व्यो लिटि** - लिटि किम । व्याता । व्यास्यति । Padamanjari ----------- कित्यात्वे सत्यसति वा विशेषाभावात्पित्युदाहरणमेतस्य वृत्तिकारेण दर्शितम्। थलि ठिडत्यर्तिव्ययतीनाम्ऽ इतीट ॥ Nyaas ----- `व्येञ् संवरणे` (धातुपाठः-1007)। अथालिटीति कस्मान्न ज्ञायते, तुल्या हि संहिता? नैतदस्ति; यदि ह्रेवं स्यात्, `लिटि व्यः` इति नियम एव कृतः स्यात् -लिटएवात्त्वम्, नान्यत्रेति। लक्ष्यस्थित्या च विपरीतनियमो भविष्यति। द्विवचनबहुवचनयोः सम्प्रसारणे पूर्वरूपत्व आत्त्वे च सत्यसति वा नास्ति विशेष इत्येकवचनान्तमुदाहृतम्। `संविव्ययिर्थः` इति। थलि वलादिलक्षणस्येटः `एकाचः` (7.2.10) इत्यादिना प्रतिषेधः। पुनरपि क्रादिनियमार्थः प्राप्तः, सोऽपि `अचस्तास्वत्? (7.2.61) इत्यादिना प्रतिषिद्धः, पुनः **ऋतो भारद्वाजस्य** (7.2.63) इति नियमाद्विकल्पे प्राप्ते `इडर्त्तिव्ययतीनाम्` (7.2.66) इति नित्यं क्रियते॥ Prakriyasarvasvam ----------------- लिटि व्येञ आत्वं न स्यात् । कित्सु प्रसारणे सति एत आतो वा पूर्वरूपत्वे विशेषाभावात् णल्थलोरेव आत्वाभावफलम् । णल्येकारस्य वृद्धयायौ । स्थानि वत्त्वाद् द्वित्वम् । व्ये व्याय । 'लिट्यभ्यासस्य--' इति प्रसारणम् । एत पूर्वरूपत्वम् । विव्याय । व्ये अतुस् । किति प्रसारणे द्वित्वम् । 'इः—' इति यण् । विव्यतुः । विव्युः । थलि । Sutra Prayogas -------------- * **संविव्ययुर्** (भट्टिकाव्यम्): `न व्यो लिटि` इत्यात्वप्रतिषेधः।