61030: विभाषा श्वेः
===================
**Padacheda:** विभाषा | S | 1 | 1 |
श्वेः | S | 6 | 1 |
Sutrartha
---------
****
Vasu English Summary
--------------------
There is optionally the vocalisation of the semi-vowel श्वि before the affixes of the Perfect and the Intensive.
Vasu English Translation
------------------------
There is optionally the vocalisation of the semi-vowel श्वि before the affixes of the Perfect and the Intensive.
The phrases लिड् यङोः and सम्प्रसारणं are to be read Into this *sutra*. Thus शुशावे or शिश्वाय, शुशुवतुः or शिश्वियतुः ॥ So also in the Intensive as शीशृयते or शश्वीयते ॥ The root श्वि would not have taken vocalisation before यङ् by any previous rule, this *sutra* teaches optional vocalisation. The root would have taken vocalisation before लिट्, which is a कित् affix, invariably by (6.1.15), this *sutra* modifies that by making the substitution optional. In the alternative, when the root does become vocalised, the reduplicate is also not vocalised in spite of (6.1.17). This explains the form शिश्वाय, which by (6.1.17) would have been शुश्वाय ॥ श्वि + णल् = (श् उद्व + णल् (6.1.30)) = शु + णल् (6.1.108) = शु + शु + अ (6.1.8) = शुशाव ॥
Bhashya
-------
विभाषा श्वेः (2467) (6036 आक्षेपवार्तिकम् ॥ 1 ॥) - श्वेर्लिट्यभ्यासलक्षणप्रतिषेधः - श्वेर्लिट्यभ्यासलक्षणं संप्रसारणं नित्यं प्राप्नोति तस्य प्रतिषेधो वक्तव्यः । शिश्वियतुः, शिश्वियुः ॥ किमुच्यतेऽभ्यासलक्षणस्येति, न पुनः किल्लक्षणस्यापि । किल्लक्षणमपि हि नित्यमत्र प्राप्नोति । किल्लक्षणं श्वयतिलक्षणं बाधिष्यते । यथैव तर्हि किल्लक्षणं श्वयतिलक्षणं बाधते, एवमभ्यासलक्षणमपि बाधेत ॥ न ब्रूमोऽपवादत्वात् श्वयतिलक्षणं किल्लक्षणं बाधिष्यत इति । किं तर्हि ? परत्वात् । श्वयतिलक्षणस्यावकाशः पिति वचनानि - शुशाव, शुशविथ, शिश्वाय, शिश्वयिथ । किल्लक्षणस्यावकाशोऽन्ये कितः - शूनः, शूनवान् । इहोभयं प्राप्नोति - शिश्वियतुः, शिश्वियुरिति । श्वयतिलक्षणं भवति विप्रतिषेधेन ॥ (समाधानभाष्यम्) अभ्यासलक्षणादपि तर्हि श्वयतिलक्षणं भविष्यति विप्रतिषेधेन । अभ्यासलक्षणस्यावकाशोऽन्ये यजादयः - इयाज, उवाय । श्वयतिलक्षणस्यावकाशः परं धातुरूपम् - शुशुवतुः, शुशुवुः, शुशविथ । श्वयतेरभ्यासस्योभयं प्राप्नोति - शिश्वियुः । श्वयतिलक्षणं भविष्यति विप्रतिषेधेन ॥ नैष युक्तो विप्रतिषेधः । न हि श्वयतेरभ्यासस्यान्ये यजादयोऽवकाशः । श्वयतेर्यजादिषु यः पाठः सोऽनवकाशः, तस्यानवकाशत्वादयुक्तो विप्रतिषेधः । तस्मात्सुष्ठूच्यते - श्वयतेर्लिट्यभ्यासलक्षणप्रतिषेध इति ॥
Kashika
-------
लिड्यङोरिति वर्तते, संप्रसारणमिति च । लिटि यङि च श्वयतेर्धातोर्विभाषा संप्रसारणं भवति। शुशाव, शिश्वाय। शुशुवतुः, शिश्वियतुः। यङि — शोशूयते, शेश्वीयते। तदत्र यङि संप्रसारणमप्राप्तं विभाषा विधीयते, लिटि तु किति यजादित्वाद् नित्यं प्राप्तम्, तत्र सर्वत्र विकल्पो भवतीत्येषोभयत्रविभाषा। यदा च धातोर्न भवति, तदा **लिट्यभ्या — सस्योभयेषाम्** (६.१.१७) इत्यभ्यासस्यापि न भवति॥
Siddhanta Kaumudi
-----------------
श्वयतेः संप्रसारणं वा स्याल्लिटि यङि च । शुशाव । शुशुवतुः । (वार्तिकम्) ॥ तेन लिट्याभ्यासस्य - (SK2408) इति संप्रसारणं न । शिश्वाय । शिश्वियतुः । श्वयिता । श्वयेत् । शूयात् । जॄस्तम्भु - (SK2291) इत्यङ् वा ॥
Balamanorama
------------
**विभाषा श्वेः** - संप्रसारणमिति ।ष्यङ संप्रसारणमित्यतस्तदनुवृत्तेरिति भावः । लिटि यङि चेति ।लिङ्यङो॑रित्यनुवृत्तेरिति भावः । शुशावेति । णलि अभ्याससंप्रसारणं बाधित्वा द्वित्वात्प्रागेव परत्वादनेन संप्रसारणे कृते ततो द्वित्वे वृद्ध्यावादेशाविति भावः । अकित्त्वाद्वचिस्वपीत्यस्य नाऽत्र प्राप्तिः । तथा च लिटकित्स्वेकवचनेषु द्वित्वात्प्रागप्राप्तस्य संप्रसारणस्य विकल्पविधिः ।शुशुवतु॑रित्यादिद्विवचनबहुवचनेषु तु द्वित्वात्प्राग्वचिसवपीति प्राप्तस्य संप्रसारणसय विकलपविधिः । तथा च उभयत्र विभाषेयम् । यङंशे त्वप्राप्तविभाषैवेयम् — शोशूयते । शेआईयते । तत्र णलि एतत्संप्रसारणाऽभावपक्षेआईत्यस्य द्वित्वानन्तरमभ्याससंप्रसारणे शुआआय इति प्राप्ते आह — आयतेर्लिटभ्यासलक्षणप्रतिषेध इति । लिटभ्याससंप्रसारणस्य प्रतिषेधो वक्तव्य इत्यर्थः । तथा चइआ॑इत्यभ्यासस्य संप्रसारणे पूर्वरूपेअकृत्सार्वधातुकयो॑रिति दीर्घ इति भावः । लुङि विशेषमाह — जृस्तन्भ्विति । तथा च अइआ अ त् इति स्थिते इयङि प्राप्ते —
Tattvabodhini
-------------
**विभाषा श्वेः** - विभाषा श्वेः । लिटि यङि चेति ।लिडङोश्चे॑ति पूर्वसूत्रमिहानुवर्तत इति भावः । उभयत्रविभाषेयम् । लिडंशे अतुसादौ नित्यं प्राप्ते, णलादावप्राप्ते । यङंशे त्वप्राप्तविभाषा । शोशूयते । शेआईयते । संप्रसारणं नेति । अन्यथा शुआआयेत्यादि स्यादिति भावः ।
Padamanjari
-----------
शुशावेति। परावपि वृद्ध्यायादेशौ बाधित्वा नित्यत्वात् सम्प्रसारणमन्तरङ्गत्वात्पूर्वत्वम्। शुशुवतुरिति। अत्रापि परत्वात्प्रापमियण्ंó बाधित्वा नित्यत्वात्सम्प्रसारणम्। तत्र कृते परमपि ठेरनेकाचःऽ इति यणं बाधित्वान्तरङ्गत्वात्पूर्वत्वम्, पश्चादुवङदेशः। अन्यत्रेति। पित्सु वचनेषु। तत्र सर्वत्र विकल्प इति। पित्सु तावद्विकल्प्यते; प्रतिषेधकाभावात्। कित्स्वपि परत्वादयं विकल्पः। यजादिलक्षणस्यावकाशः - शूनः, शूनवान्, अस्यावकाशः पिद्ववचनानि; किति लिट।लुभयप्रसंगे परत्वादयं विकल्पः। अब्यासस्यापि न भवतीति। किमिति न भवति? न तावत् परत्वादनेन कल्पेन बाधः, धातोरयं विकल्पः, नाभ्यासस्य। किञ्च - उभयेषांग्रहणस्य स एव विधिर्यथा स्यादिति। तस्माद्वचनमेवात्र शरणम्। यदाह -'स्वेर्लिट।ल्भ्यासलक्षणप्रतिषेधः' इति ॥
Nyaas
-----
`शुशाव` इति। लिटि णलि सम्प्रसारणे कृते वृद्ध्यावादेशौ। `शिआआय` इति। यदा न सम्प्रसारणं तदा वृद्ध्यायादेशौ। `शुशुवतुः, शिइआयतुः, इति। यदा सम्प्रसारणं तदोवङ्, अन्यदेयङ्। `अप्राप्तम्` इति। केनचिवविहितत्वात्। `लिटभ्यासस्योभयेषाम्` (6.1.17) इत्युभयत्रोभयग्रहणादन्यत्? कार्यं प्रवर्तमानमपास्याभ्यासस्य सम्प्रसारणमेव यथा स्यादित्येतदुभयेषांग्रहणस्य प्रयोजनमुक्तम्। ततश्चेयमपि विकल्पं बाधित्वा नित्यं सम्प्रसारण मेव स्यादिति कस्यचिद्भ्रान्तिः स्यात्? अतस्तां निराकर्त्तुमाह - `यदा च` इत्यादि। अत्र आयतेर्विभाषा सम्प्रसारणमुच्यते, यदि कदाचिद्धातोर्न सम्प्रसारणं भवति तदाब्यासस्य स्यात्? ततश्च आयतेः सम्प्रसारणं पाक्षिकं न कृतं स्यात्। स्यादेतत् - लिट्परस्य शक्यतेरिदं विकल्पेन कार्यं विधीयते, तस्य च तदस्त्येवेति? असम्यगेतत्; द्विष्प्रयोगे हि द्विर्वचने क्रियामात्रं भिद्यते, न धातुरूपमिति कुतः पूर्वपरयोः कार्यसम्बन्धं प्रति भेदः? तस्माद्यदा धातोर्न भवति तदाभ्यासस्यापि न भवत्येव॥
Prakriyasarvasvam
-----------------
लिङ्यङोः परयोः श्वेः प्रसारणं वा स्यात् । पुनर्द्वित्वम् । शुशाव, शुशुवतुः । सेट्त्वात् थलि नित्यमिट् । शुशविथ । शुशुविव । प्रसारणाभावपक्षे तु ‘लिट्य- भ्यासस्य’ इत्युक्तमभ्यासस्य प्रसारणमपि नेष्टम् । ‘हलादिः शेषः’ । शिश्वाय । शिश्वियतुः । शिश्वयिथ । शिश्वयिव । कर्मणि शुशुवे, शिश्विये । आशीरादौ शूयात् । श्वयिता । श्वयिष्यति । कर्मणि श्वायिषीष्ट, श्वयिषीष्ट इत्यादि । ज्यादेरङ्यजरत् स्तम्भेर्नलोपे पुनरस्तभत् । अम्लुचच्चाम्लुचद् गत्या स्तेयार्थेऽग्रुचदग्लुचत् ॥ ७०४ ॥ गत्यर्थस्यापि हि ग्लुञ्चेर्ग्लुचत् स्यान्नलोपतः । सिचि त्वजारीदस्तम्भीदम्लोचीदिति दृश्यताम् ॥ ७०५ ॥ इति ॥ लिटि ऋदीन् विना सेटामनिटामपि नित्यमिट् । ऊदिद्रुधादीड्विकल्पो लिटि चास्तीति केचन ॥ ७०६ ॥ अनिट्स्वजन्तधातूनामत्वतामपि वेट् थलि । ऋदन्तानां तु नेत्येवं थलिटः सारसंग्रहः ॥ ७०७ ॥ षीध्वं लुङ्लिट्स्विनन्ताङ्गाद्दुः स्यादिण इटस्तु वा । अन्यत्रेटस्तु लुङि वा तत्र षीध्वं लिटोर्न ढः ॥ ७०८ ॥
Sutra Prayogas
--------------
* **शेश्वीयमानाऽरुण-रौद्र-नेत्रः** (भट्टिकाव्यम्): `श्वयतेर्यङि विभाषा श्वः` इति वा सम्प्रसारणम्।
* **शिश्वियुर्** (भट्टिकाव्यम्): `विभाषा श्वेः` इत्यसम्प्रसारणपक्षे रूपम्।