61029: लिड्यङोश्च ================= **Padacheda:** लिट्-यङोः | S | 7 | 2 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- There is substitution of पी for प्याय् when the affixes of the Perfect (लिट्) and the Intensive (यङ्) follow. Vasu English Translation ------------------------ There is substitution of पी for प्याय् when the affixes of the Perfect (लिट्) and the Intensive (यङ्) follow. The *anuvritti* of the word विभाषा ceases. The phrase प्यायः पी of the last *sutra* is drawn into this by force of the word च 'and'; thus आपिप्ये, आपिप्याते, आपिप्यिरे ॥ The substitution of पी a subsequent rule, would have debarred reduplication which precedes it in order. The reduplication, however, takes place after the substitution, by force of the maxim of पुनः प्रसङ्ग &c mentioned in (6.1.17). Thus पी + लिट् = पि + पी + त = पि + प्य + ए (6.4.82) the य being substituted) = आपिप्ये with the affix आ. So also in the Intensive, as, आपेपीयते, आपेपीयेते, आपेपीयन्ते ॥ Kashika ------- विभाषेति निवृत्तम्। प्यायः पीत्येतत् चशब्देनानुकृष्यते। लिटि यङि च परतः प्यायः पीत्ययमादेशो भवति। आपिप्ये, आपिप्याते, आपिप्यिरे। परत्वात् पीभावे कृते **पुनः प्रसङ्गविज्ञानाद्०** द्विर्वचनम्, **एरनेकाचो०** (६.४.८२) इति यणादेशः। यङि — आपेपीयते, आपेपीयेते, आपेपीयन्ते॥ Siddhanta Kaumudi ----------------- लिटि यङि च प्यायः पीभावः स्यात् । पुनः प्रसङ्गविज्ञानात्पीशब्दस्यद्वित्वम् । एरनेकाचः -(SK272) इति यण् । पिप्ये । पिप्याते । पिप्यरे ॥ Balamanorama ------------ **लिड्यङोश्च** - लिङ्यङोश्च । लिट् च यङ् चेति द्वन्द्वात्सप्तमी ।प्यायपी॑ति सूत्रमनुवर्तते । तदाह — लिटि यङि चेति । ननु प्यायेर्लिटि दित्वं बाधित्वा परत्वात्पीभावे द्वित्वेएरनेकाच॑इति यणि 'पिप्ये' इति रूपमिष्यते । तत्र द्वित्वं बाधित्वा परत्वात् पीभावे कृते पुनर्द्वित्वं न संभवति,विप्रतिषेधे यद्वाधितं तद्बाधितमेवे॑ति न्यायादित आह — पुनः प्रसङ्गेति ।पुनः प्रसङ्गविज्ञानात्सिद्ध॑मिति परिभाषा । विप्रतिषेधे बाधितस्यापि पुनः प्रवृत्तेरभ्युपगमात्कृतेऽपि पीभावे द्वित्वादिकं सिद्धमिति तदर्थः । Tattvabodhini ------------- **लिड्यङोश्च** - यङि — पेपीयते । Padamanjari ----------- विभाषेति निवृतमिति। उतरसूत्रे पुनर्विबाषाग्रहणात्। प्यायः पीत्येतच्चकारेणानुकृष्यते इति। असति चकारे प्रकरणिनः सम्प्रसारणस्यैवानुवृत्तिः स्याद्, यथोतरत्र। परत्वात्पीभावे कृते इति। ननु द्वयोः सावकाशयोः परत्वं भवति, अनवकाशश्च पीभावः, एवं तर्हि परत्वादुत्कृष्टत्वादनवकाशत्वादिति भावः। पुनः प्रसङ्गविज्ञानादिति। अत्रापि'विप्रतिषेधे परम्' इत्यत्र यदुक्तं न तद्विवक्षितम्, किं तर्हि? द्विर्वचनस्य पुनः प्रसङ्गोऽस्तीति कृत्वेत्यर्थः। यदि तर्ह्यनवकाशः पीभावो नाप्राप्ते द्विर्वचन आरभ्यमाणेन तेन द्विर्वचनस्य बाधः प्राप्नोति? नैष दोषः; परस्परसन्निधौ बाध्यबाधकबावः। इह तु सम्प्रसारणप्रकरणेन द्विर्वचनप्रकरणं विच्छिन्नम्। अत एव वक्ष्यते -ठ्दिग्यादेशेन द्वित्वबाधनमितष्यतेऽ इति॥ Nyaas ----- `विभाषेति निवृत्तम्` इति। उत्तरसूत्रे पुनर्विभाषाग्रहणात्। अन्यथापीदमेव तत्रानुवर्त्तिष्यत इति तन्न कुर्यात्। अत एवोच्यते -द्वयोर्दिभाषयार्मध्ये ये विधयस्ते नित्या भवन्तीति। `प्यायः पीत्येतच्चशब्देनानुकृष्यते` इति। इतरथा हि सम्प्रसारणस्य प्रकृतत्वाल्लिङ्यङोः प्यायः सम्प्रसारणं विज्ञायेत। चशब्दे तु सत्यनन्तरेणैवपीभावेन सम्बन्धः सुखमवसीयते। नाप्राप्ते द्विर्वचने पीभावो विधीयते। तेन तस्य बाधकं प्राप्नोतीति कस्यचिदाशङ्का स्यात्। अतस्तां निराकर्त्तुमाह -`परत्वात्` इत्यादि। विरोधे हि सति बाधा स्यात्, इह तु विरोधो नास्ति। अतः परत्वात्? पीभावे कृते पुनःप्रसङ्गवज्ञानात्? सिद्धमिति द्विर्वचनं भवतीति॥ Prakriyasarvasvam ----------------- लिटि यङि च प्यायः पीभावः स्यात् । पुनर्द्वित्वम् । ह्रस्वः । 'एरनेकाचः—' इति यण् । पिप्ये । पिप्याते । पिप्यिषे पिप्यिढ्वे, पिप्यिध्वे । आशीरादौ प्राग्वदे वेट् । प्यायिषीष्ट, प्यासीष्ट । प्यासीध्वम् । प्यायिता, प्याता । प्यायिष्यते, प्यास्यते ॥ द्युत दीप्तौ । द्योतते । भावे द्युत्यते । लुङि,