61006: जक्षित्यादयः षट् ======================= **Padacheda:** जक्ष्-इत्यादयः | S | 1 | 3 | षट् | S | 1 | 3 | Sutrartha --------- **जक्षित्यादिगणस्य धातूनाम् 'अभ्यस्त' संज्ञा भवति ।** 'जक्षित्यादिः' इति अदादिगणस्य कश्चन अन्तर्गणः अस्ति । अस्मिन् गणे सप्त-धातवः सन्ति - 1. जक्षँ (भक्षहसनयोः) 2. जागृ (निद्राक्षये) 3. दरिद्रा (दुर्गतौ) 4. चकासृँ (दीप्तौ) 5. शासुँ (अनुशिष्टौ) 6. दीधीङ् (दीप्तिदेवनयोः) 7. वेवीङ् (गतिव्याप्तिप्रजनकान्त्यसनस्वादनेषु) एतेषां सर्वेषामभ्यस्तसंज्ञा भवति । एतेषाम् गणनम् एकया कारिकया अपि क्रियते - जक्षि-जागृ-दरिद्राणाम् चकासेः शासेरेव च । दीधी-वेव्योश्च सप्तानाम् जक्षित्यादौ उपग्रहः ॥ अभ्यस्त-संज्ञकस्य यत् किमपि कार्यमुक्तमस्ति, तत् सर्वम् एतेषाम् विषये अपि भवति । यथा, 'दरिद्रा' धातोः लोट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपम् एतादृशम् सिद्ध्यति - दरिद्रा + लोट् [**लोट् च** (3.3.162) इति लोट्] → दरिद्रा + झि [**तिप्तस्झि..** (3.4.78) इति परस्मैपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झि' प्रत्यय'] → दरिद्रा + शप् +झि [**कर्तरि शप्** (3.1.68) इति औत्सर्गिकं विकरणम् शप्] → दरिद्रा + झि [**अदिप्रभृतिभ्यः शपः** (2.4.72) इति शपः लुक्] → दरिद्रा + अति [**जक्षित्यादयः षट्** (6.1.6) इत्यनेन दरिद्रा-धातोः अभ्यस्तसंज्ञा । अभ्यस्तात् परस्य झ्-प्रत्ययस्य **अदभ्यस्तात्** (7.1.4) इति 'अत्' आदेशः ।] → दरिद्रा + अतु [**एरुः** (3.4.86) इति इकारस्य उकारः] → दरिद्र् + अतु [**श्नाऽभ्यस्तयोरातः** (6.4.112) इति सार्वधातुके ङित्-प्रत्यये परे अभ्यस्तस्य आकारस्य लोपः] → दरिद्रतु Sutrartha (English) ------------------- The verb roots belonging to the जक्षित्यादिगण are called 'अभ्यस्त'. Vasu English Summary -------------------- So also the six roots beginning with जक्षि are called अभ्यस्त। Vasu English Translation ------------------------ So also the six roots beginning with जक्षि are called अभ्यस्त। The word *abhyasta* is understood here. The verb *jakshi* and the six verbs that follow it in the *Dhatupatha*, in all seven verbs, get this designation. These are जक्ष, जागृ, दरिद्रा, चकास्, शास्, देधी, and वेवी । *Panini* has overlooked वेवी and mentions only the first six. By getting the designation of *Abhyasta* these verbs get acute accent on the first syllable when followed by a *sarvadhatuka* Tense-affix not having the intermediate इट् and beginning with a vowel. Thus जा꣡ग्रति *ja*-*grati*, ज꣡क्षति *jakshati*, द꣡रिद्रति *daridrati*, चका꣡सति *chakasati*, शा꣡शति *sasati*, दी꣡ध्यते *didhyate*, and वे꣡व्यते *vevyate*. The present participle दीध्यत् is irregularly formed by adding the affix शतृ (अत्) and when so formed it does not take the augment नुम् by (7.1.78). Bhashya ------- जक्षित्यादयः षट् (2443) (5984 षट्पदाक्षेपवार्तिकम् ॥ 1 ॥) - जक्षित्यादिषु सप्तग्रहणं वेवीत्यर्थम् - जक्षित्यादिषु सप्तग्रहणं कर्तव्यम् । सप्त जक्षित्यादयोऽभ्यस्तसंज्ञका भवन्तीति वक्तव्यम् । किं प्रयोजनम् ? वेवीत्यर्थम् । वेवीतेरभ्यस्तसंज्ञा यथा स्यात् । वेव्यते । अभ्यस्तानामादिः इत्याद्युदात्तत्वं भवति ॥ (5985 षट्पदप्रत्याख्यानवार्तिकम् ॥ 2 ॥) - अपरिगणनं वा गणान्तत्वात् - न वाऽर्थः परिगणनेन । अस्त्वागणान्तमभ्यस्तसंज्ञा ॥ इहापि तर्हि प्राप्नोति - आङः शासु । अस्तु । अभ्यस्तकार्याणि कस्मान्न भवन्ति ? भूयिष्ठानि कार्याणि परस्मैपदेषु, आत्मनेपदी चायम् । स्वरस्तर्हि प्राप्नोति । यत्राप्यस्यात्मनेपदेष्वभ्यस्तकार्यं स्वरस्तत्राप्यनुदात्तेतः परं लसार्वधातुकमनुदात्तं भवतीत्यनुदात्तत्वे कृते नास्ति विशेषो धातुस्वरेणोदात्तत्वे सत्यभ्यस्तस्वरेण वा ॥ षसिवशी छान्दसौ । दृष्टानुविधयश्छन्दसि भवन्ति ॥ चर्करीतमभ्यस्तसंज्ञमेव ॥ ह्नुङस्तर्हि प्राप्नोति । अस्तु । अभ्यस्तकार्याणि कस्मान्न भवन्ति ? भूयिष्ठानि परस्मैपदेषु, आत्मनेपदी चायम् । स्वरस्तर्हि प्राप्नोति । अह्न्विङोः इति प्रतिषेधविधानसार्मथ्यात्स्वरो न भविष्यति ॥ (षट्पदार्थकथनपरभाष्यम्) अथवा सप्तैवेमे धातवः पठ्यन्ते । जक्ष् - अभ्यस्तसंज्ञो भवति । इत्यादयश्च षट्, जक्षित्यादयः षडिति ॥ Kashika ------- अभ्यस्तमिति वर्तते। जक्ष इत्ययं धातुरित्यादयश्चान्ये षड् धातवोऽभ्यस्तसंज्ञा भवन्ति। सेयं सप्तानां धातूनामभ्यस्तसंज्ञा विधीयते — **जक्ष भक्षहसनयोः** इत्यतः प्रभृति **वेवीङ् वेतिना तुल्ये** इति यावत्। जक्षति। जाग्रति। दरिद्रति। चकासति। शासति। दीध्यते, वेव्यत इत्यत्र **अभ्यस्तानामादिः** (६.१.१८९) इत्येष स्वरः प्रयोजनम्। दीध्यदिति च शतरि व्यत्ययेन संपादिते **नाभ्यस्ताच्छतुः**(७.१.७८) इति नुमः प्रतिषेधः॥ Siddhanta Kaumudi ----------------- षड्धातवोऽन्ये जक्षितिश्च सप्तम एतेऽभ्यस्तसंज्ञाः स्युः । जक्षत् । जक्षद् । जक्षतौ । जक्षतः । एवं जाग्रत् । दरिद्रत् । शासत् । चकासत् । दीधीवेव्योर्ङित्त्वेऽपि छान्दसत्वाद्व्यत्ययेन परस्मैपदम् । दीध्यत् । वेव्यत् । गुप् । गुब् । गुपौ । गुपः । गुब्भ्यामित्यादि ॥ Laghu Siddhanta Kaumudi ----------------------- षड्धातवोऽन्ये जक्षितिश्च सप्तम एते अभ्यस्तसंज्ञाः स्युः। जक्षत्, जक्षद्। जक्षतौ। जक्षतः॥ एवं जाग्रत्। दरिद्रत्। शासत्। चकासत्॥ गुप्, गुब्। गुपौ। गुपः। गुब्भ्याम्॥ Balamanorama ------------ **जक्षित्यादयः षट्** - अभ्यस्तसंज्ञायाश्च द्वित्वनिबन्धनत्वादिहाऽप्राप्ताविदमारभ्यते — जक्षित्यादयः ।अभ्यस्त॑मित्यनुवृत्तं बहुवचनान्ततया विपरिणम्यते । तत्र जक्षितिरादिर्येषामिति तद्गुणसंविज्ञानबहुव्रीहौ सति जक्ष धातुमारभ्य षण्णामेव ग्रहणं स्यात्, वेवीङो न स्यात् । अतद्गुणसंविज्ञानबहुव्रीहौ तु जागृ इत्यारभ्य षण्णां ग्रहणं स्यान्नतु जक्षेः । अतो व्याचष्टे — षड्धातव इत्यादि । अत्र विवरणवाक्येजक्षिति॑रिति श्तिपा निर्देशः । जक्षधातुरित्यर्थः ।रुदादिभ्यः सार्वधातुके॑ इति इडागमे रूपम् । सूत्रे जक्षिति पृथक्पदम् । इतिना जक्षिः परामृश्यते । इति आदिर्येषामित्यद्गुणसंविज्ञानबहुव्रीहिः । ततस्च 'इत्यादयः षट्' इत्यनेन जक्षधातोरन्ये जागृ इत्यारभ्य षड् धातवो विवक्षिताः । चशब्दोऽध्याहार्यः । एवं च जक्षधातुश्च, जागृधातुमारभ्य षड् धातवश्चेत्येव सप्त धातवोऽभ्यस्तसंज्ञकाः स्युरिति फलतीत्यर्थः । तदिदं भाष्ये स्पष्टम् । जक्षदिति । अभ्यस्तत्वान्नुम्निषेध इति भावः । ननु दीधीवेव्योर्ङित्त्वात् 'अनुदात्तङित' इति आत्नेपरदसंज्ञक एव लटः शानजादेशः स्यान्न तु शत्रादेश इत्यत आह — दीधीवेव्योरिति । दीधीवेव्योश्छन्दोमात्रविषयत्वं तिङन्ताधिकारे वक्ष्यते । ततश्चव्यत्ययो बहुव॑मिति छान्दसं परस्मैपदम् । अतः शानजसंभवात् शत्रादेश एवेत्यर्थः । दीध्यद्वेव्यदिति । दीधी वेवी इत्याभ्यां लटः शत्रादेशे कृते शब्लुकि यणादेशः । अभ्यस्तत्वाच्च नुम्नेति भावः । इति तान्ताः । अथ पान्ताः । गुबिति । 'गुपू रक्षणे' क्विप् ।आयादय आर्धधातुके वा॑ इति वैकल्पिकत्वादायप्रत्ययो नेति भावः । गुब्भ्यामिति । 'स्वादिषु' इति पदत्वाद्भ्यामादौ जश्त्वमिति भावः । इति पान्ताः । Padamanjari ----------- अत्र जक्षेः श्तिपि रुदादिब्यः सार्वधातुकेऽ इतीटि कृते जक्षितिरिति भवति, स आदिर्यषां ते जक्षित्यादय इति विज्ञायमाने वेव्यतेः सप्तमस्य न स्यात्, लाघवार्थमसन्देहार्थं च हकैव निर्द्देष्टव्यं स्यात्-जक्ष्यादय इति। तस्मान्नायमुक्तविग्रहिः, किं तर्हि?'जक्ष' इति पृथक् पदमित्याह-जक्ष इत्ययं धातुरित्यादयः षडिति। इतिनानन्तरो जक्षिर्निर्द्दिश्यते। आदिशब्दः समीपवचनः, अतद्गुणसंविज्ञानो बहुव्रीहिः। सेयमिति। येयमुक्तप्रकारा, सेयमित्यर्थः। एष स्वर इति। अन्यथा ङ्त्वाल्लिसार्वधातुकानुदातत्वं धातुस्वरः, यणादेशे ठुदातस्वरितयोःऽ इति स्वरितत्वं प्रसज्यते। शतरि व्यत्ययेन सम्पादित इति। ङ्त्वात्पिरस्मैपदासम्भवाद्व्यत्ययः। षड्ग्रहणमनर्थकम्, सन्त्वागणान्ता जक्षित्यादयः। वेवीङेऽपि परे ये पठ।ल्न्ते तेषां कस्मान्न भवति? अत्रैवं गणपाठः, वेवीङेऽनन्तरम्'षस स्वप्ने, वश कान्तौ, चर्करीतं च, ह्नुङ् अपनयने' इति, केचिद्वेवीङेऽनन्तरम् ठाङ्ः शसुऽ इति पठन्ति,'षस्ति स्वप्ने' इति च। तत्राशासो न विशेषः; अभ्यस्तकार्याणि भूयिष्ठानि परस्मैपदिषु, आत्मनेपदी चायम्। अभ्यस्तस्वरेऽपि नास्ति विशेषः, कथम्? अनभ्यस्तेऽपि तस्मिन्ननुदातेतः परं लसार्वधातुकमनुदातं धातुस्वरश्च, चर्करीतमब्यस्तमेव, षसषस्ती छान्दसौ, वशिरपि, तस्यापि भाषायां न प्रयोगस्साधुः -बाष्यवार्तिककारौ चेत्प्रमाणम्। ह्नुङ्एऽपि ङ्त्वात्पिरस्मैपदासम्भवः। स्वरस्तर्हि प्राप्नोति, ठङ्न्विङेःऽ इति प्रतिषेधवचनसामर्थ्यान्न भविष्यति, यदि स्यात्, तर्ह्यपह्नवत इत्यादावभ्यस्तस्वरे सति लसार्वधातुकस्य भवितव्यमेव निघातेनेति प्रतिषेधोऽनर्थकः स्यात्। तस्मात्प्रत्ययस्वरो यथा स्यतात्, लसार्वधातुकानुदातत्वं मा बूदित्यहन्विङेरिति प्रतिषेधोऽर्थवान् भवतीति प्रतिषेधसामर्थ्यात्प्रत्ययस्वरः एव भविष्यति, नाभ्यस्तरस्वरः। ननु चाभ्यस्तस्वरोऽजादौ विधीयते, ततः किम्? अजादौ तस्मिन्प्रवःतेऽपि ह्रौते, षेह्नु, ह्नुवे-इत्यत्र तस्याप्रवृतौ यद्यह्न्विङेरिति प्रतिषेधो न क्रियते, ततो धातुस्वरेणाद्यौदातं पदं स्यात्। अन्तोदातं यथा स्यादिति प्रतिषेधः क्रियेत। तदेवं सति प्रयोजने न प्रतिषेधसामर्थ्यादब्यस्तस्वरं बाधित्वा प्रत्ययस्वरः सिध्यति। एवं तर्हि ठभ्यस्तानामादिःऽ इत्यत्राप्यह्न्विङेरित्यनुवर्तिष्यते, तदेवं नार्थः षड्ग्रहणेन। तदुक्तम् -अपरिगणनं वा गणान्तत्वात् ॥ Nyaas ----- `जक्षित्यादयः` इति। एष निदशो जक्षेः श्तिबन्तस्यादिशब्देन बहुव्रीहावपि कृते भवति, द्वन्द्वेऽपि -यदा जक्षेरनजन्तस्येत्यादिशब्दस्य च द्वन्द्वः क्रियते। वाक्येऽपि यदानयोरनन्तरोक्तयोरुभयोरपि प्रयोगो भवति, तदा तत्र बहुव्रीहौ गृह्रमाणे यदि तद्गुणसंविज्ञानोऽयं बहुव्रीहिराश्रीयेत, तदा वेवीङो ग्रहणं न स्यात्; अथातद्गुणसंविज्ञानोऽयम्, तदा जक्षेर्न स्यादितीमं बहुव्रीहेराश्रयणे दोषं दृष्ट्वेतरयोः पक्षरोरन्यतरमाश्रित्याह -`जक्षित्ययं धातुरित्यादयश्च` इत्यादि अत्रेतिशब्देऽतिक्रान्तप्रत्यवमर्शी। जक्षित्ययं धातुरनन्तरमतिक्रान्त इति स एव तेन प्रत्यवमृश्यते। इति आदिर्येषां त इत्यादयः, जक्षादय इत्यर्थः। ते पुनर्जागृप्रभृतयो वेवीङ्पर्यन्ताः। `सेयं सप्तानां धातूनामभ्यस्तसंज्ञा` इति। जक्षित्येतदुपलक्षितानां जागर्तिप्रभृतीनां षष्णां जक्षितिरित्येतस्य च सप्तमस्य तेभ्यः पृथग्निर्दिष्टस्य। ननु च दीध्यते, वेव्यत इत्यत्रादादेशः **आत्मनेपदेष्वनतः** (7.1.5) इत्यनेनैव सिद्धः, शेषं चाभ्यस्त कार्यमाकारलोपादिकम्? तच्च दीधीवेव्योर्न सम्भवत्येव, तत्राकारलोपस्तावदाकारस्याभावान्न सम्भवति; जुस्भावोऽपि झेरभावात्, नुम्प्रतिषेधोऽपि ङित्वादात्मनेपदित्वाच्छतुः, तत्? किमर्थमनयोरभ्यस्तसंज्ञा विधीयते? इत्याह -`दीध्यते वेव्यते` इत्यादि। `दीष्यदिति च शतरि` इत्यादिना प्रयोजनान्तरमपि दर्शयति। आत्मनेपदित्वादनयोव्र्यत्ययेन विना शता न सम्भवतीति व्यत्यग्रहणम्॥ Praudhamanorama --------------- जक्ष् इति पृथक् पदम्। इतिशब्देन जक्षितिरेव परामृश्यते। इति आदिर्येषामित्यतद्गुणसंविज्ञानो बहुव्रीहिस्तदेतदाह— षड् धातवोऽन्ये इति॥ तान्ताः॥ गोपायतीति गुप्। क्विपि विवक्षिते 'आयादय आर्धधातुके वा' इत्यायाऽभावः॥ पान्ताः॥ Prakriyasarvasvam ----------------- जक्षिधातुस्तदाद्याश्च षडन्येऽभ्यस्तसंज्ञकाः । जक्षिजागृदरिद्राशास्दीधीवेवीवकास्तयः ।। ६०९ ।। जक्षत् । जक्षतौ । जक्षतः । एवं जाग्रदित्यादि । दीधीङ्वेवीङौ तु शतृहीनौ ।। धर्मगुप् । धर्मगुपौ । धमगुप्भ्याम् ।। 'क्विन्प्रत्ययस्य कुः' (८-२-६२) इति शस्य कुत्वे सोष्मत्वसाम्यात् खः । जश्त्वचर्त्वे । तादृक् । तादृशौ । तादृग्भ्याम् । एवं दिविस्पृगादि । विश् स् । क्विबन्तः । सुलोपे व्रश्चादिषः । विट् । विशौ । विड्भ्याम् । नशेः क्विप् । नश् स् । Sudha ----- जक्षित्यादय इति । जक्षिति पृथक् पदम् । इति शब्देन जक्षिरेव परामृश्यते । तत्र जक्षितिः आदिर्येषामिति तद्गुणसंविज्ञानबहुव्रीहिस्तदेतदाह - षड् धातवोऽन्ये इति । जक्षत् - जक्षद् । जक्षत् + सु अत्र **उगिदचां सर्वनामस्थानेऽधातोः**(7.1.70) इति नुमागमे प्राप्ते **जक्षित्यादयः षट्**(6.1.6) इति अभ्यस्तसञ्ज्ञायाम् **नाभ्यस्ताच्छतुः**(7.1.78) इति नुमो निषेधे हल्ङयादिना सुलोपे पदसंज्ञायाम् **झलां जशोऽन्ते**(8.2.39) इति जश्त्वेन तकारस्य दकारे तस्य **वाऽवसाने**(8.4.56) इति चर्त्वे 'जक्षत्' इति । पक्षे - 'जक्षद्' इति । एवमिति । जाग्रत् दरिद्रत्, शासत्, चकासत्, दीध्यत्,वेव्यत्, शब्दानां **जक्षित्यादयः षट्**(6.1.6) इत्यभ्यस्तसञ्ज्ञायां जातायां **नाभ्यस्ताच्छतुः**(7.1.78) इति नुमोऽभावे ददद् वद् रूपाणि ज्ञेयानि । गुप् – गुब् | गुप् + सु इत्यत्र सोर्लोपे **झलां जशोऽन्ते**(8.2.39) इति पस्य बत्वे **वाऽवसाने**(8.4.56) इति चर्त्वेन बस्य पत्वे 'गुप्' इति । पक्षे — 'गुब्' इति । गुब्भ्याम् । गुप् + भ्याम् इत्यत्र पदसंज्ञायां **झलां जशोऽन्ते**(8.2.39) इति पस्य बत्वे 'गुब्भ्याम्' इति । Sutra Prayogas -------------- * **प्रशासत्** (किरातार्जुनीयम्): `जक्षित्यादयः षट्` इत्यभ्यस्तसंज्ञा। * **चकासति** (किरातार्जुनीयम्): `जक्षित्यादयः षट्` इत्यभ्यस्तसंज्ञा। * **अनुशासतम्** (किरातार्जुनीयम्): `जक्षित्यादयः षट्` इत्यभ्यस्ताच्छतुर्नुमभावः। * **चकासतम्** (शिशुपालवधम्): `जक्षित्यादयः षट्` इत्यभ्यस्तसंज्ञा।