61003: न न्द्राः संयोगादयः ========================== **Padacheda:** न | S | 0 | 0 | न्द्राः | S | 1 | 3 | संयोगादयः | S | 1 | 3 | Sutrartha --------- **अनेकाचः अजादेः धातोः द्वित्वे प्राप्ते ; तस्मिन् धातौ द्वितीय-एकाच्-समुदाये उपस्थितानाम्, संयोगस्य आदिभूतानाम् नकार-दकार-रेफाणाम् द्वित्वं न भवति ।** **अजादेर्द्वितीयस्य** (6.1.2) इत्यनेन धातोः अनेकाच्-अजादि-अवयवस्य द्वित्वे प्राप्ते ; यदि तस्मिन् अवयवे संयोगः अस्ति तथा च संयोगस्य प्रथमः वर्णः नकारः / दकारः / रेफः अस्ति, तर्हि तेषाम् द्वित्वं अनेन सूत्रेण निषिध्यते । यथा - 1) 'उन्दि' इति कश्चन आतिदेशकः धातुः । अस्य द्वित्वे प्राप्ते वस्तुतः **अजादेर्द्वितीयस्य** (6.1.2) इत्यनेन धातोः द्वितीयः एकाच्-अवयवस्य (इत्युक्ते, 'न्दि' इत्यस्य) द्वित्वम् करणीयम् । परन्तु वर्तमानसूत्रेण संयोगस्य आदिभूतस्य नकारस्य द्वित्वनिषेधः उच्यते, अतः केवलं 'दि' इत्यस्यैव द्वित्वं भवति - उन्दि दि । 2) 'अद्डि' अयमपि कश्चन धातुः । अस्य द्वित्वे प्राप्ते वर्तमानसूत्रेण दकारस्य द्वित्वं निषिध्यते । अतः केवलं 'डि' इत्यस्यैव द्वित्वं भवति - अद्डिडि । 3) 'अर्चि' इति अर्च्-धातोः णिच्-प्रत्ययान्तः आतिदेशिकः धातुः । अत्र द्वित्वे प्राप्ते रेफस्य द्वित्वम् न भवति, अतः अर्चि चि इत्येव जायते । अस्य सूत्रस्य विषये अनेकानि वार्तिकानि ज्ञातव्यानि - 1. । इत्युक्ते, अनेकाच्-अजादि-धातोः द्वितीय-एकाच्-अवयवे संयोगादिः बकारः अस्ति चेत् तस्यापि द्वित्वं न भवति । यथा, 'उब्जि' इत्यस्य द्वित्वे 'उब्जि जि' इति जायते । 2. । इत्युक्ते, अनेन सूत्रेण निर्दिष्टः रेफस्य द्वित्वनिषेधः तदा न भवति यदा रेफात् परः यकारः अस्ति । यथा, 'आर्य' अस्य यङन्त-धातोः द्वित्वे 'आर्य र्य' इति जायते । अत्र रेफात् परः यकारः अस्ति, अतः तस्य लोपः न भवति । 3. । इत्युक्ते, 'ईर्ष्य्' धातोः तृतीयवर्णस्य द्वित्वं भवति । अत्र विषये सन्नन्तप्रक्रियायाम् 'ईर्ष्य् इट् सन्' इति स्थिते द्वित्वस्य विषये पक्षद्वयम् विद्यते । केचन वैयाकरणाः वदन्ति - तृतीयव्यञ्जनस्य (यकारस्य) स्वरेण सह (इकारेण सह) द्वित्वं करणीयम् । केचन अन्ये वदन्ति - तृतीय-एकाच्-अवयवस्य (इत्युक्ते, इस् इत्यस्य) द्वित्वं करणीयम् । प्रथमपक्षे द्वित्वे कृते 'ईर्ष्यियिष' इति धातुः सिद्ध्यति । द्वितीयपक्षे द्वित्वे कृते 'ईर्ष्यिषिष' इति धातुः सिद्ध्यति । 4. । इत्युक्ते, 'कण्ड्वादि' गणे ये शब्दाः समाविश्यन्ते, तेषाम् विषये तृतीय-एकाच्-अवयवस्य द्वित्वं भवति । यथा, 'कण्डूयि' अस्य धातोः द्वित्वे 'कण्डूयि यि' इति जायते । 5. । इत्युक्ते, नामधातूनाम् विषये विकल्पेन तृतीय-एकाच्-अवयवस्य द्वित्वं भवति । यथा, 'पुत्रीय' इत्यस्य द्वित्वे कृते **एकाचो द्वे प्रथमस्य** (6.1.1) इत्यनेन प्रथम-एकाच्-अवयवस्य द्वित्वे कृते 'पुत्र् पुत्रीय' इति अपि जायते, तथा अनेन वार्तिकेन तृतीयस्य एकाच्-अवयवस्य द्वित्वे कृते 'पुत्रीय य' इत्यपि जायते । 6. । इत्युक्ते, नामधातुषु वक्तुः इच्छानुसारम् केषाञ्चन अपि वर्णानाम् द्वित्वम् भवितुं शक्यते । यथा - 'पुत्रीय' अस्य धातोः द्वित्वे 'पुत्र् पुत्रीय', 'पुत्रीय् त्रीय', पुत्रीयय', 'पुपुत्रीय य' एतादृशम् किमपि कर्तुं शक्यते । ज्ञातव्यम् - अनेन सूत्रेण निर्दिष्टः नकार/दकार/रेफाणाम् द्वित्वनिषेधः केवलं अनेकाच् -अजादि-धातोः विषये एव भवति । यदि धातुः हलादिः अस्ति, उत एकाच्-अजादिः अस्ति, तर्हि तस्य विषये अयं द्वित्वं न निषिध्यते । यथा, 'द्रा' धातोः द्वित्वे दकारस्य द्वित्वे कृते 'द्रा द्रा' इत्येव सिद्ध्यति । Sutrartha (English) ------------------- When doubling of an अनेकाच् अजादि verb root is to be done, the नकार, दकार, and रेफ present at the beginning of a संयोग are not duplicated. Vasu English Summary -------------------- The letters न् , द् , and र् being the first letter of a compound consonant and being part of the second syllable, are not reduplicated. Vasu English Translation ------------------------ The letters न् , द् , and र् being the first letter of a compound consonant and being part of the second syllable, are not reduplicated. The word *dvitiyasya* "of the second syllable", is understood here. This *sutra* debars the doubling of the consonants *n*, *d*, and *r* when forming parts of the second syllable, provided these letters occur in the beginning of a conjunct (*sanyoga*) letter. Thus the Desiderative root of उन्द is उन्दिष, formed by adding सन् and इट् ॥ The second syllable here is न्दिष् which is to be reduplicated by the last rule. But in doing so, न् will not be doubled. Thus we get the form उन्दिदिषति; so also from अड्ड् and अर्च् we have अड्डिडिषति, and अर्चिचिषति ॥ Why do we say "when न्, द् and र् are the letters"? Observe ईचिक्षिषते from ईक्ष् in which क् is the initial letter and has been reduplicated in to च् ॥ Why do we say "being the first letter in a conjunct consonant"? Observe प्राणिणिषति from the root अन् 'to breathe', the न् being changed into ण् by (8.4.19) and (8.4.21). The phrase अजादेः of the last *sutra* is understood in this *sutra* also. Thus दरिद्रासति ॥ Some explain the word अजादेः understood in this *sutra* in the same way as in the last, namely as a *karmadharaya* compound in the Ablative singular. They do so, in order to explain the form इन्दिद्रीयिषति, which is thus evolved इन्द्रमिच्छति = इन्द्र + क्यच् (3.1.8) = इन्द्रीय ॥ Then इन्द्रीयितुमिच्छति = इन्द्रीय + सन् ॥ Here though the second syllable consists of *n*, *d* and *r*, yet न् alone is rejected in reduplication and not द and र also, as द and र are not immediately after the initial vowel (अजादि) इ in this case. Vart:- This prohibition should be stated with regard to the letter ब् also. As उब्ज् — उब्जिजिषति ॥ This prohibition applies when the word is taught primarily as having a penultimate ब् ॥ But when it is taught as primarily having a penultmate द, then the rule does not apply: the ब should then be ordained as a substitute of द ॥ See *Tudadi* root 20. Vart:-There is no prohibition of the र when it is followed by य ॥ Thus अरार्यते ॥ This is the Intensive form of the verb ॠ, and is thus evolved: ॠ + यङ् (III.1.22. Vart) = अर् + य (7.4.30) = अर्य, then follows reduplication by the rules of this *sutra*. The second syllable र्य has an initial र which is not however rejected in reduplication. Vart:- In the case of the verb ईर्ष्यति the third should be reduplicated. "Third of what"? Some say the third of the consonants, and according to them the form is ईर्ष्यियिषति ॥ Some say the third syllable, therefore of the root ईर्ष्यिष (ईर्ष्य + इट् + सन्), the third syllable ष is reduplicated: Thus ईर्ष्यिषष, ईर्ष्यिषिष (7.4.79) the अ of ष is changed into short इ by (7.4.79) = ईर्ष्यिषिषति ॥ Vart:- The third syllable of the verbs कण्डूय &c. is to be reduplicated. Thus कण्डूय + इट् + सन् = कण्डूयिष = कण्डूयियिषति; so also असूयियिषति &c. Vart:- The third syllable of verbs derived from nouns is optionally reduplicated. Thus अश्वीयियिषति or अशिश्वीयिषति ॥ Vart:- Others say, any syllable of a नामधातु (verbs derived from nouns) may be reduplicated. Thus from the noun पुत्र is derived the root पुत्रीय, the desiderative root of which is पुत्रीयिष, which requires reduplication. Here any syllable may be reduplicated; as. 1, पुपुत्रीयिषति, 2, पुतित्रीयिषति, 3. पुत्रीयियिषति, 4, पुत्रीयिषिषति ॥ Or there may be double and treble reduplication simultaneously as. पुपुतित्रीयियिषति ॥ Bhashya ------- न न्द्राः संयोगादयः (2440) (सूत्राक्षेपभाष्यम्) किमर्थमिदमुच्यते ? (5978 सूत्रप्रयोजनवार्तिकम् ॥ 1 ॥) - न्द्रादेर्द्विर्वचनप्रसङ्गस्तत्र न्द्राणां प्रतिषेधः - न्द्रादेरेकाचो द्विर्वचनं प्राप्नोति । तत्र न्द्राणां संयोगादीनां प्रतिषेध उच्यते ॥ (5979 उपसंख्यानवार्तिकम् ॥ 2 ॥) - इर्र्ष्यतेस्तृतीयस्य द्वे भावतः - इर्र्ष्यतेस्तृतीयस्य द्वे भवत इति वक्तव्यम् । केचिदाहुः - एकाचेति । इर्र्ष्यिषिषति । अपर आह - व्यञ्जनस्येति । इर्र्ष्यियिषति ॥ (5980 उपसंख्यानवार्तिकम् ॥ 3 ॥) - कण्ड्वादीनां च - कण्ड्वादीनां च तृतीयस्य द्वे भवत इति वक्तव्यम् । कण्डूयियिषति । असूयियिषति ॥ (5981 उपसंख्यानवार्तिकम् ॥ 4 ॥) - वा नामधातूनाम् - वा नामधातूनां तृतीयस्य द्वे भवत इति वक्तव्यम् । अश्वीयियिषति । अशिश्वीयिषति ॥ अपर आह - यथेष्टं वा । यथेष्टं वा नामधातूनामिति । पुपुत्रीयिषति, पुतित्रीयिषति, पुत्रीयियिषति॥ Kashika ------- द्वितीयस्येति वर्तते। द्वितीयस्यैकाचोऽवयवभूतानां न्द्राणां तदन्तर्भावात् प्राप्तं द्विर्वचनं प्रतिषिध्यते। नकारदकाररेफा द्वितीयैकाचोऽवयवभूताः संयोगादयो न द्विरुच्यन्ते। उन्दिदिषति। अड्डिडिषति। अर्चिचिषति। न्द्रा इति किम् ? ईचिक्षिषते। संयोगादय इति किम् ? प्राणिणिषति। अनितेः **उभौ साभ्यासस्य** (८.४.२१) इति णत्वम्। अजादेरित्येव — दिद्रासति। केचिदजादेरित्यपि पञ्चम्यन्तं कर्मधारयमनुवर्तयन्ति। तस्य प्रयोजनम् — इन्दिद्रीयिषति इति। अजादेरनन्तरत्वाभावद् दकारो द्विरुच्यत एव, नकारो न द्विरुच्यते। इन्द्रमिच्छति इति क्यच्, तदन्ताद् इन्द्रीयितुमिच्छतीति सन्॥ बकारस्याप्ययं प्रतिषेधो वक्तव्यः॥ उब्जिजिषति। यदा बकारोपध उब्जिरुपदिश्यते तदायं प्रतिषेधः। दकारोपधोपदेशे तु न वक्तव्यः। बत्वं तु दकारस्य विधातव्यम्॥ यकारपरस्य रेफस्य प्रतिषेधो न भवतीति वक्तव्यम्॥ अरार्यते। अर्तेः अट्यर्त्यशूर्णोतीनामुपसंख्यानम् (३.१.२२ वा०) इति यङ्। तत्र **यङि च** (७.४.३०) इति गुणः, ततो द्विर्वचनम्॥ ईर्ष्यतेस्तृतीयस्य द्वे भवत इति वक्तव्यम्॥ कस्य तृतीयस्य ? केचिदाहुर्व्यञ्जनस्येति। ईर्ष्यियिषति। अपरे पुनस्तृतीयस्यैकाच इति व्याचक्षते। ईर्ष्यिषिषति॥ कण्ड्वादीनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यम्॥ कण्डूयियिषति। असूयियिषति॥ वा नामधातूनां तृतीयस्यैकाचो द्वे भवत इति वक्तव्यम्॥ अश्वीयियिषति। अशिश्वीयिषति। अपर आह॥ यथेष्टं नामधातुष्विति वक्तव्यम्॥ पुपुत्रीयिषति। पुतित्रीयिषति। पुत्रीयियिषति। पुपुतित्रीयियिषति। पुत्रीयिषिषति॥ Siddhanta Kaumudi ----------------- अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । णत्वस्यासिद्धत्वात् । [(परिभाषा - ) पूर्वत्रासिद्धीयमद्विर्वचने] इति त्वनित्यम् । उभौ साभ्यासस्य (SK2606) इति लिङ्गात् । ऊर्णुनाव । ऊर्णुनुवतुः । ऊर्णुनुवुः ॥ Laghu Siddhanta Kaumudi ----------------------- अचः पराः संयोगादयो नदरा द्विर्न भवन्ति । नुशब्दस्य द्वित्वम् । ऊर्णुनाव । ऊर्णुनवतुः । ऊर्णुनुवुः ॥ Balamanorama ------------ **न न्द्राः संयोगादयः** - न न्द्राः ।एकाचो द्वे प्रथमस्ये॑त्यतो 'द्वे' इत्यनुवर्तते ।अजादेर्द्वितीयस्ये॑त्यतोऽजादेरिति । अञ्चासौ आदिश्चेति कर्मदारयात्पञ्चमी । न्, द्, र् एषां द्वन्द्वः । तदाह — अचः परा इति । ननुणु॑इत्यस्य द्वित्वे खण्डद्वयेऽपि णकारः श्रूयेतेत्यत आह — नुशब्दस्य द्वित्वमिति । णत्वस्येति । धातुपाठे 'ऊर्णु' इति नकारस्य कृतणत्वस्य निर्देशः, द्वित्वे कर्तव्ये तस्य णत्वस्याऽसिद्धत्वादित्यर्थः । लिङ्गादिति ।उभौ साभ्यासस्ये॑त्यस्याऽयमर्थः — साभ्यासस्याऽनितेरुपसर्गस्थान्निमित्तात्परौ खण्डद्वयगतौ नकारौ णत्वं प्राप्नुत इति । प्राणिणदित्युदाहरणम् ।अत्र अनिते॑रिति णत्वे कृतेपूर्वत्रासिद्धीयमद्विर्वचने॑ इति णत्वस्याऽसिद्धत्वाऽभावमाश्रित्यणी॑त्यस्य द्वित्वादेव खण्डद्वये मकारश्रवणसिद्धेःउभौ साभ्यासस्ये॑ति वचनंपूर्वत्रासिद्धीयमद्विर्वचने॑ इत्यस्याऽनित्यतां गमयतीत्यर्थः । ऊर्णुनावेति । नुशब्दस्य द्वित्वे पूर्वनकारस्यरषाभ्या॑मिति णत्वम् । द्वितीयस्य तुअट्कुप्वा॑ङिति न णत्वम्,उभौ साभ्यासस्ये॑ति लिङ्गादेव । Tattvabodhini ------------- **न न्द्राः संयोगादयः** - न न्द्राः । अजादेरिति वर्तते । स च कर्मधारयः । आदिग्रहणस्य तु प्रकृतेऽनुप्रयोगः । तदेतदाह — अचः परा इति । उन्दिदिषति । इन्दिदिषति । अड्डिडिषति । अर्चिचिषति ।न न्द्राः॑ इति किम् । ईक्षतेः सनि ईचिक्षिषते । संयोगादयः किम् । प्राणिणिशति । अरिरिषति । अचः पराः किम् । इन्द्रीयितुमिच्छतीति क्यजन्तात्सनि इन्दिद्रीयिषति । इह नकारस्य द्वित्वाऽभावेऽपि दकारस्तु द्विरुच्यत एव, अचः परत्वाऽभावात् । नुशब्दस्येति । उपदेशे नकारएव, णत्वं तुरषाभ्या॑मित्यनेनेति भावः । पूर्वत्रासिद्धीयमिति । अत्र द्विर्वचनशब्देन षाष्ठआष्टमिकं चोभयं गृह्रते । तत्र षाष्ठस्य ऊढिमाख्यत् औडिढदित्युदाहरणम् । आष्टमिकस्य तु द्रोग्धा,द्रोग्धा, द्रोढा- द्रोढेति । इह त्रिपादीस्थं घत्वढत्वादिकं द्विर्वचने सिद्धमेव । असिद्धत्वे तु त्रिपादीस्थकार्यात्पूर्वमेव द्रोहता इत्यस्य द्वित्वे, पश्चात्वाह द्रुहे॑ ति घत्वढत्वयोः प्रवृत्तौ द्रोग्धा द्रोढेत्यपि द्विर्वचनं कदाचित्स्यान्न तु द्रोग्धा — द्रोग्धेति । समानजातीयस्यैव नियमेन द्विर्वचनं सिध्यति । किंच षट् सन्त इत्यत्र धस्य जश्त्वेन दकारे व्यक्तिभेदाद्दकारस्यापि द्वित्वं सुवचमेवेत्याहुः । अनित्यमित#इ । अत एव हतिशब्दस्य द्वित्वमौजिढदित्यपि नामधातुषु वक्ष्यति । उभौ साभ्यासस्येति ।अनिते॑ रित्यनेन णत्वं कृत्वा द्विर्वचने कृते प्राणिणत् प्राणिणिषतीति सिद्धमिति सूत्रमिदं ज्ञापकमित्यर्थः । एवं चप्रणिनाये॑त्यादौ द्वितीयस्य णत्वाऽभावः सिद्धः । विभाषोर्णोः ।गाङ्कुटादिभ्यः॑ इत्यतो ङिदिति,विज इ॑ डित्यत इडिति चानुवर्तते इत्याशयेनाह-इडादिप्रत्यय इत्यादि । तेन गुणविकल्पे पक्षे उवङ् । Nyaas ----- `तदन्तर्भावात्` इति। अवयवानां समुदायाभ्यन्तरत्वात्? तदन्तभविः। `अवयवभूताः` इति। आदिशब्दस्य नियतदेशावयववाचित्वाद्विशिष्टदेशावयवभूता इत्येषोऽर्थो वेदितव्यः। `अन्दिविषति` इति। `उन्दी क्लेदने`, (धा।प।1457) सनीट च कृते दिष्शब्दस्य द्विर्वचनम्। `अड्डिडिषति` इति। `अद्ड अभियोगे (धातुपाठः-348) इत्यत्र यः संयोगः स दकारादिः, तस्य ष्टुत्वेन दकारस्य डकारः, ष्टुत्वञ्च द्विर्वचनेऽसिद्धम्, तेन सनीटि कृते विष्शब्दो द्विरुच्यते ततः ष्टुत्वम्। `अर्चिचिषति` इति `अर्च पूजायाम्` (धातुपाठः-204), चिष्शब्दस्य द्विर्वचनम्। `ईचिक्षिषते` इति। `ईक्ष दर्शने` (धातुपाठः-610) सनीटि च कृते क्षिष्शब्दस्य द्विर्वचनम्? **हलादिः शेषः** (7.4.60) , **कुहोश्चुः** (7.4.62) इति चुत्वम्। `प्राणिणिषति` इति। `आस प्राणने` (धातुपाठः-1069), `अन च` (धातुपाठः-1070) प्रपूर्वः। `दिद्रासति` इति। `द्रा कुत्सितायाङ्गतौ` (धातुपाठः-1054)। `केचिदजादेः` इत्यादि। तेषां मतेनाजादेरुत्तरे ये नकारादयः संयोगादिभूतास्ते न द्विरुच्यन्त इति शूत्रार्थः। किं पुनस्तदनुवर्तनस्य प्रयोजनम्? इत्यत आह -`तस्य` इत्यादि। दकारस्तु द्विरुच्यत एवेति कर्मधारयपञ्चम्यन्तानुवृत्तौ हि **तस्मादित्युत्तरस्य** (1.1.67) इत्यनन्तराणामेव नकारादीनां द्विर्वचनप्रतिषेधेन भवितव्यम्; निर्दिष्टग्रहणस्यानन्तर्यार्थत्वात्। दकारस्तत्र यद्यपि रेफदकारयोर्यः संयोगस्तदादिभूतः, तथापि नकारेण व्यवहितः। तस्माद्दकारोऽपि द्विरुच्यत एव। `इन्दिद्रीयिषति` इति। इन्द्रशब्दात्? क्वचि कृते **क्यचि च** (7.4.33) इतीत्त्वम्, क्यजन्तात्? सन्, इट्, **अतो लोपः** (6.4.48) इत्यकारलोपः। `उब्जिजिषति` इति। `उब्ज आर्जवे` (धातुपाठः-1303)। `यदा बकारोपध उब्जरुपदिश्यते तदायं प्रतिषेधो वक्तव्यः। दकारोपदेशे तु न वक्तव्यः `न न्द्राः` इत्यनेनैव सिद्धत्वात्। `बत्वं तु तदा दकारस्य विधातव्यम्` इति। उब्जित, उब्जिजिषतीति यथा स्यात्। तदपि बतद्वमकुत्वविषये विधातव्यम्; अन्यथाऽभ्युद्गः, समुद्ग इति न सिध्येत्। दकारोपधस्यैव युक्तः पाठः। बत्वमात्रं वक्तव्यम्? तदपि न वक्तवयम्; तत्र **भुजन्युब्जौ पाण्युपतापयोः** (7.3.61) इति निपातनादेव लिङ्गाव्? बत्वं लभ्यते। न चाभ्युद्गः, समुद्ग इत्यत्रापि प्रसज्येत, अकृत्वविषयत्वान्निपातनस्य; यत्र कुत्वं नास्ति तत्रैव बत्वं विज्ञायते, न तु कुत्वविषये। `यकारपरस्य` इत्यादि। यकारः परो यस्मात्? तस्य प्रतिषेधो न स्यादित्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्र कैश्चिदेवं व्याख्यायते -बहिरङ्गो रेफः, `गुणोऽर्त्तिसंयोगाद्योः` (7.4.29) `यङि च` (7.4.30) इति गुणोऽङ्गस्य विधीयमानो यङि भवति बहिरङ्गः, तदाश्रितो रेफोऽपि बहिरह्ग एव, ततश्च सोऽन्तरङ्गे प्रतिषेऽसद्धः। तस्मात्? तसय द्विर्वचनप्रतिषेधो न भवतीति। यद्येवम्, इन्दिदिषतीति नुमोऽपि प्रतिषेधो न प्राप्नोतीति? नैष दोषः; वक्ष्यति ह्रेतत् -नुम्विषावुपदेशिवद्वचनमिति। नैयायिकास्त्वन्यथा वर्णयन्ति -**न न्द्राः संयोगादयः** (6.1.3) इति। तैः किमुक्तम्? संयोगात्? पूर्वे नकारादयो न द्विरुच्यन्ते स चेद्भवति यकारान्तः संयोगः` इति तेनाराय्र्यत इत्यत्र संयोगस्य यकारान्तत्वात्? प्रतिषेधो न भवतीति। `अराय्र्यते` इति। `यङि च` (7.4.30) इति गुणे रपत्वे च र्यशब्दस्य द्विवचनम्, हलादिशेषः (7.4.60) **दीर्घोऽकितः** (7.4.83) इति दीर्घः। ननु चार्तेरहलादित्वाद्यङा न भवितव्यम्, स हि `धातोरेकाचः` (3.1.22) इत्यादिना हलादेरेव धातोर्विधीयते? इत्याह -`अर्त्तेः` इत्यादि। `व्यञ्जनस्य` इति। ईष्र्यतेव्र्यञ्जनं यदेकाच्? द्विर्वचनं कर्तव्यम्। तच्च व्यञ्जनं यकारः, तस्येटि कृते साच्कस्यैव द्विर्वचनं कर्तव्यमम्। `एकाचः` इति। सनः। स हीटि कृते तृतीय एकाज्? भवति। तस्य द्विर्वचने कृते `सन्यतः` (7.4.79) इतीत्त्वम्। पूर्वं पूर्वमिणमाश्रित्य सर्वसकाराणां षत्वम्। `कण्डूयियिषति` इति। `असूयियिषति` इति। `कण्डूञ्`, `असूञ्` इति कण्ड्वादिषु पठएते, ततः **कण्ड्वादिभ्यो यक्** (3.1.27) ।`वा नामधातूनाम्` इति। सुब्धातुर्नामधातुरभिधीयते। `अआईयियिषति` इति। अआशब्दात्? क्यजन्तात्? सनीटि च कृते यिष्शब्दस्य द्विर्वचनम्। `आशिआईयिषति` इति। आईशब्दस्य द्विर्वचनम्, ह्रस्वत्वम्, हलादिशेषः (7.4.60) । `यथेष्टम्` इति। प्रथमादीनामन्यतरस्य यस्येष्यते तस्य कर्तव्यमिति॥ Prakriyasarvasvam ----------------- आद्यचः परे संयोगादयो नदरा न द्विरुच्यन्ते । अत्र च रेफयोगकृतं णत्वमिति नुशब्दो द्विरुच्यते । ऊर्णुनाव । अपित्सु 'असंयोगात्—' इति नित्यं कित्त्वम् । थलि 'विभाषोर्णोः' इति वा ङित्त्वम् । ऊर्णुनुवतुः । ऊर्णुनुवुः । ऊर्णुनुविथ, ऊर्णुनविथ । ऊर्णुनुवथुः । ऊर्णुनुव । ऊर्णुनाव, ऊर्णुनव । ऊर्णुनुविव । ऊर्णुनुवे । ऊर्णुनुवाते । ऊर्णुनुविषे । ऊर्णुनुविढ्वे, ऊर्णुनुविध्वे । ऊर्णुनुवे । ऊर्णुनुविवहे । आशोलिङि आर्धधातुकत्वाद् 'अकृत-' इति दीर्घः । ऊर्णूयात् । ऊर्णूयास्ताम्, तङि ऊर्णुविषीष्ट, ऊर्णविषीष्ट । इत्यादि चिण्वदिटि ऊर्णाविषीष्टे- त्याद्यपि । लुडादौ ङित्त्वे ऊर्णुविता । ऊर्णुविष्यति । और्णविष्यत् । अङित्त्वे गुण ऊह्यः । एवं तङ्यपि द्वेधोह्यम् । कर्मणि ऊर्णावितेत्यादि त्रेधा ॥ ष्टुञ् स्तुतौ । धात्वादेः षः से कृते ष्टुत्वनिवृत्तिः । स्तु । Vartika ------- बकारस्याप्ययं प्रतिषेधो वक्तव्यः । Sutra Prayogas -------------- * **तमाञ्जिहन्मैथिल** (भट्टिकाव्यम्): `न न्द्राः संयोगादयः` इति नकारस्य प्रतिषेधः। * **जाताऽञ्जिहिषस्तदाऽसा-** (भट्टिकाव्यम्): `नकारस्य न न्द्राः` इति प्रतिषेधः। * **राजाऽऽजिहत्तं** (भट्टिकाव्यम्): `न न्द्राः` इति प्रतिषेधः। * **अरार्यसे** (भट्टिकाव्यम्): `न न्द्राः` इति रेफो द्विरुच्यते। * **प्रोर्णुनविषुः** (भट्टिकाव्यम्): `न न्द्राः` इति रेफो न द्विरुच्यते । * **व्यञ्जिजिषुर्** (भट्टिकाव्यम्): `न न्द्राः` इति नकारो न द्विरुच्यते। * **ररङ्घतु** (भट्टिकाव्यम्): `न न्द्राः` इति नकारो न द्विरुच्यते। * **चाऽर्पिपः** (भट्टिकाव्यम्): `न न्द्राः` इति प्रतिषेधः। * **आर्जिजत्** (भट्टिकाव्यम्): `न न्द्राः` इति प्रतिषेधः। * **प्रौर्णोनूयत** (भट्टिकाव्यम्): `न न्द्राः` इति रेफो न द्विरुच्यते।