61001: एकाचो द्वे प्रथमस्य ========================== **Padacheda:** एकाचः | S | 6 | 1 | द्वे | S | 1 | 2 | प्रथमस्य | S | 6 | 1 | Sutrartha --------- **अधिकारोऽयम् । इतः परम् **दाश्वान् साह्वान् मीढ्वांश्च** (6.1.12) इति यावत्सु सूत्रेषु यत् द्वित्वं विधीयते, तत् द्वित्वं धातोः प्रथमस्य एकाच्-अवयवस्य भवति ।** एतत् अधिकारसूत्रमस्ति । अस्य व्याप्तिः दाश्वान् साह्वान् मीढ्वांश्च (6.1.12) इति यावत् वर्तते । अस्मिन्अधिकारे यत्र कुत्रापि 'द्वित्वं स्यात्' इत्युक्तमस्ति, तत्र तत् द्वित्वम् 'प्रथम-एकाच्-अवयवस्य' भवतीति अस्य सूत्रस्य अर्थः अस्ति । किम् नाम प्रथम-एकाच्-अवयवः? अस्य शब्दस्य व्याख्यायाः विषये व्याकरणशास्त्रे महती चर्चा क्रियते । परन्तु संक्षेपेण एतत् वक्तुं शक्यते - 1. यदि शब्दे एकः एव स्वरः अस्ति, तर्हि सः सम्पूर्णः शब्दः एव 'प्रथमः एकाच् अवयवः' नाम्ना ज्ञायते । यथा, 'पच्' इत्यस्य एकाच्-अवयवः अपि 'पच्' इत्येव । 2. यदि शब्दे द्वौ वा अधिकाः स्वराः सन्ति, तर्हि शब्दस्य प्रथमवर्णात् आरभ्य शब्दस्य 'द्वितीय'स्वरपर्यन्तम्, परन्तु द्वितीयस्वरं विहाय यः वर्णसमुदायः जायते, सः 'प्रथमः एकाच् अवयवः' भवति । यथा, 'जागृ' इत्यस्य एकाच् अवयवः 'जाग्' इति । अयमधिकारः 'षाष्ठद्वित्वप्रकरणम्' नाम्ना अपि ज्ञायते । षष्ठाध्याये अस्ति अतः 'षाष्ठ' इति नाम । Sutrartha (English) ------------------- In this अधिकार the doubling happens for the first एकाच् entity of the verb Vasu English Summary -------------------- In the room of the first portion, containing a single vowel, there are two. Vasu English Translation ------------------------ In the room of the first portion, containing a single vowel, there are two. Upto *Sutra* (6.1.12) inclusive it is to be understood that for the first syllable two are to be made, i. e. the first syllable is to be reduplicated. This is an adhikara *sutra* : all the three words viz, एकाचः, and द्वे and प्रथमस्य are to be read in the subsequent *sutras* upto (6.1.12), before the rule of *Samprasarana* begins. Thus *Sutra* (6.1.8) says "when लिट् follows, of an unreduplicated verbal root". The sense of this *sutra* is incomplete, unless we supply the three words of this *sutra*, when it will read thus : "when लिट् follows, there are two in the room of the first portion, containing a single vowel of an unreduplicated verbal root". Thus from जागृः-जजागार (जागृ + णल् (4.3.82) = जा + जागृ + अ = ज + जागर् + अ (7.4.59) = जजागार "lie awoke"). So also पपाच्, इयाय, आर from the roots पच्, इ and ॠ ॥ The reduplication takes place through the force of the affix that follows. Thus the affixes of the Perfect Tense (लिट्), the Desiderative (सन्), the Intensive (यङ्), the श्लु *vikarana*, the Aorist in चङ्; all cause reduplication. The word एकाच means that which consists of one vowel (अच्) ॥ When a stem or root consists of more than one vowel (is a dissyllabic or polysyllabic root), then the एकाच् प्रथमः will be the first syllable: as in जागृ the portion आ is the प्रथम एकाच् 'the first portion consisting of one vowel'. When a root consists of a single vowel, as इ 'to go', then strictly speaking there cannot be any portion which may be called first (प्रथम) or *ekach* consisting of a single vowel). Here, however, will this rule be applied and इ will be reduplicated, according to the maxim "व्यपदेशिवदेकस्मिन्" - "An operation which affects something on account of some special designation which for certain reasons attaches to the latter, affects likewise that which stands alone and to which therefore, just because the reasons for it do not exist, that special designation does not attach". So also in पच् there is no first syllable strictly speaking, but still the rule will apply under the above maxim. In making Reduplications the Rule (1.1.59) should always be borne in mind. Thus पच् + अ (णल् of लिट्) = पाच् पाच् + अ = प पाच् + अ (7.4.59) and (7.4.60) = पपाच ॥ The word द्वि in the *sutra* indicates that the very word-form is to be doubled or pronounced-twice, and not that another word of similar meaning is substituted. In fact this is not a rule ordaining substitution of two, in the room of one; but of the repetition of the one. Compare (8.1.1). Bhashya ------- एकाचो द्वे प्रथमस्य (2438) (द्वित्वाधिकरणम्) (एकाच्पदार्थबोधकवार्तिकावतरणभाष्यम्) एकाचेति किमयं बहुव्रीहिः - एकोऽच् यस्मिन् स एकाच् - एकाचः - इति, आहोस्वित् तत्पुरुषोऽयं समानाधिकरणः - एकोऽच् - एकाच् - एकाचेति ? किं चातः ? यदि बहुव्रीहिः, सिद्धम् - पपाच, पपाठ । इयाय, आर - इति न सिद्ध्यति । अथ तत्पुरुषः समानाधिकरणः, सिद्धम् - इयाय, आर - इति । पपाच, पपाठ - इति न सिद्ध्यति ॥ अत उत्तरं पठति - (5947 एकाच्पदार्थबोधकवार्तिकम् ॥ 1 ॥) - एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देशः - एकाचो द्वे प्रथमस्येति बहुव्रीहिनिर्देशोऽयम् ॥ एकवर्णेषु च कथम् ? (5948 अनुपपत्तिपरिहारकवार्तिकम् ॥ 2 ॥) - एकवर्णेषु च व्यपदेशिवद्वचनात् - व्यपदेशिवदेकस्मिन् कार्यं भवतीति वक्तव्यम् । एवमेकवर्णेषु द्विर्वचनं भविष्यति ॥ (अधिकारत्वनिर्णायकभाष्यम्) एकाचो द्वे भवत इत्युच्यते, तत्र न ज्ञायते - कस्यैकाचो द्वे भवत इति । वक्ष्यति लिटि धातोरनभ्यासस्य (6.1.8) इति, तेन धातोरेकाचेति विज्ञायते । यदि धातोरेकाचेति, सिद्धम् - पपाच, पपाठ । जजागार, पुपुत्रीयिषति - इति न सिध्यति । धातोरिति नैषैकाच्समानाधिकरणा षष्ठी - धातोरेकाचेति । किं तर्हि ? अवयवयोगैषा षष्ठी - धातोर्य एकाजवयव इति ॥ अवयवयोगैषा षष्ठी चेत्सिद्धम् - जजागार - पुपुत्रीयिषतीति । पपाच - पपाठेति न सिध्यति । एषोऽपि व्यपदेशिवद्भावेन धातोरेकाजवयव इति भविष्यति ॥ (प्रथमाक्षेपभाष्यम्) एकाचो द्वे प्रथमस्येत्युच्यते तेन यत्रैव प्रथमश्चाप्रथमश्चास्ति तत्र द्विर्वचनं स्यात् - जजागार, पुपुत्रीयिष्यतीति । पपाच - पपाठेत्यत्र न स्यात् ॥ (5949 समाधानवार्तिकम् ॥ 3 ॥) - प्रथमत्वे च - प्रथमत्वे च । किम् ? व्यपदेशिवद्भावात्सिद्धमित्येव ॥ स तर्हि व्यपदेशिवद्भावो वक्तव्यः । न वक्तव्यः ॥ (5950 समाधानसाधकवार्तिकम् ॥ 4 ॥) - उक्तं वा - किमुक्तम् ? तत्र व्यपदेशिवद्वचनम् एकाचो द्वे प्रथमार्थम् षत्वे चादेशसंप्रत्ययार्थम् । नैषः दोषः । अवचनाल्लोकविज्ञानात्सिद्धम् इत्येव ॥ (5951 समाधानसाधकान्तरवार्तिकम् ॥ 5 ॥) - योगविभागो वा - अथवा योगविभागः करिष्यते - एकाचो द्वे भवतः ॥ किमर्थो योगविभागः ? (5952 साधकान्तरसमर्थकवार्तिकम् ॥ 6 ॥) - एकाज्मात्रस्य द्विर्वचनार्थः - एकाज्मात्रस्य द्विर्वचनं यथा स्यात् । इयायं, पपाच । ततः - प्रथमस्य । प्रथमस्यैकाचो द्वे भवतः । इदमिदानीं किमर्थम् ? नियमार्थम् । यत्र प्रथमश्चाप्रथमश्चास्ति तत्र प्रथमस्यैकाचो द्विर्वचनं यथा स्यात्, अप्रथमस्य मा भूदिति । जजागार - पुपुत्रीयिषतीति ॥ (5953 आक्षेपवार्तिकम् ॥ 7 ॥) - एकाचोऽवयवैकाच्त्वादवयवानां द्विर्वचनप्रसङ्गः - एकाचोऽवयवैकाच्त्वादवयवानां द्विर्वचनं प्राप्नोति । नेनिजतीत्यत्र निज्शब्दोऽप्येकाच्, इज्शब्दोऽप्येकाच्, इकारोऽप्येकाच्, निशब्दोऽपि । तत्र निज्शब्दस्य द्विर्वचने रूपं सिद्धम्, दोषाश्च न सन्ति । इज्शब्दस्य द्विर्वचने रूपं न सिध्यति, दोषा अपि न सन्ति । इकारस्य द्विर्वचने रूपं न सिद्ध्यति, दोषाश्च सन्ति । निशब्दस्य द्विर्वचने रूपं सिद्धम्, दोषास्तु सन्ति ॥ तत्र को दोषः ? (5954 आक्षेपसमर्थकवार्तिकम् ॥ 8 ॥) - तत्र जुस्भाववचनम् - तत्र जुस्भावो वक्तव्यः । अनेनिजुः, पर्यवेविषुः । अभ्यस्तात् झेर्जुस्भावो भवतीति जुस्भावो न प्राप्नोति, जकारेण व्यवधानात् ॥ (5955 आक्षेपसमर्थकवार्तिकम् ॥ 9 ॥) - स्वरश्च - स्वरश्च न सिध्यति । नेनिजति - यत्परिवेविषतीति । अभ्यस्तानामादिरुदात्तो भवत्यजादौ लसार्वधातुक इत्येष स्वरो न प्राप्नोति ॥ (5956 आक्षेपसमर्थकवार्तिकम् ॥ 10 ॥) - अद्भावश्च - अद्भावश्च न सिध्यति । नेनिजति, परिवेविषतीति । अदभ्यस्तात् (6.1.4) इत्यद्भावो न प्राप्नोति ॥ (5957 आक्षेपसमर्थकवार्तिकम् ॥ 11 ॥) - नुम्प्रतिषेधश्च - नुम्प्रतिषेधश्च न सिद्ध्यति । नेनिजत्, परिवेविषत् । नाभ्यस्ताच्शतुः (7.1.78) इति नुम्प्रतिषेधो न प्राप्नोति, जकारणे व्यवधानात् ॥ (5958 समर्थकवार्तिकम् ॥ 12 ॥) - शास्त्रहानिश्च - शास्त्रहानिश्च भवति । समुदायैकाचः शास्त्रं हीयते ॥ (5959 आक्षेपवारकवार्तिकम् ॥ 13 ॥) - सिद्धं तु तत्समुदायैकाच्त्वात् शास्त्राहानेः - सिद्धमेतत् । कथम् ? तत्समुदायैकाच्त्वात् । किमिदं तत्समुदायैकाच्त्वादिति ? तस्य समुदायस्तत्समुदायः । एकाज्भाव एकाच्त्वम् । तत्समुदायस्यैकाच्त्वं तत्समुदायैकाच्त्वम्, तत्समुदायैकाच्त्वात् । तत्समुदायैकाचो द्विर्वचनं भविष्यति ॥ कुत एतत् ? शास्त्राहानेः, एवं हि शास्त्रमहीनं भवति ॥ ननु च समुदायैकाचोऽपि द्विर्वचने क्रियमाणेऽवयवैकाचः शास्त्रं हीयते । न हीयते । किं कारणम् ? अवयवात्मकत्वात्समुदायस्य । अवयवात्मकः समुदायः । अभ्यन्तरो हि समुदायेऽवयवः । तद्यथा - वृक्षः प्रचलन् सहावयवैः प्रचलति ॥ (5960 आक्षेपवार्तिकम् ॥ 14 ॥) - तत्र बहुव्रीहिनिर्देशे अनच्कस्य द्विर्वचनमन्यपदार्थत्वात् - तत्र बहुव्रीहिनिर्देशेऽनच्कस्य द्विर्वचनं प्राप्नोति । आटतुः, आटुः । किं कारणम् ? अन्यपदार्थत्वाद् बहुव्रीहेः । अन्यपदार्थे बहुव्रीहिर्वर्तते, तेन यदन्यदचस्तस्य द्विर्वचनं स्यात् । तद्यथा - चित्रगुरानीयतामित्युक्ते यस्यता गावः सन्ति स आनीयते, न गावः ॥ (5961 समाधानवार्तिकम् ॥ 15 ॥) - सिद्धं तु तद्गुणसंविज्ञानात्पाणिनेर्यथा लोके - सिद्धमेतत् । कथम् ? तद्गुणसंविज्ञानाद्भगवतः पाणिनेराचार्यस्य, यथा लोके । तद्यथा - लोके शुक्लवाससमानाय लोहितोष्णीषा ऋत्विजः प्रचरन्तीति तद्गुण आनीयते, तद्गुणाश्च प्रचरन्ति । एवमिहापि ॥ (स्थाने द्विर्वचनपक्षोपपादकभाष्यम्) अथ यस्य द्विर्वचनमारभ्यते किं तस्य स्थाने भवति, आहोस्विद् द्विः प्रयोग इति । कश्चात्र विशेषः ? (5962 स्थाने द्विर्वचनपक्षे आक्षेपवार्तिकम् ॥ 16 ॥) - स्थाने द्विर्वचने णिलोपवचनं समुदायादेशत्वात् - स्थाने द्विर्वचने णिलोपो वक्तव्यः । आटिटत्, आशिशत् । किं कारणम् ? समुदायादेशत्वात् । समुदायस्य समुदाय आदेशः, तत्र संप्रमुग्धत्वात् प्रकृतिप्रत्ययसमुदायस्य नष्टो णिर्भवतीति णेरनिटि (6.4.51) इति णिलोपो न प्राप्नोति । इदमिह संप्रधार्यम् - द्विर्वचनं क्रियतां णिलोप इति, किमत्र कर्तव्यम् ? परत्वाण्णिलोपः । नित्यं द्विर्वचनम् । कृतेऽपि णिलोपे प्राप्नोत्यकृतेऽपि । अनित्यं द्विर्वचनम् । अन्यस्य कृते णिलोपे प्राप्नोत्यन्यस्याकृते, शब्दान्तरस्य च प्राप्नुवन् विधिरनित्यो भवति । नित्यमेव द्विर्वचनम् । कथम् ? रूपस्य स्थानिवत्त्वात् ॥ (5963 आक्षेपवार्तिकम् ॥ 17 ॥) - यच्च सन्यङन्तस्य द्विर्वचने - यच्च सन्यङन्तस्य द्विर्वचने चोद्यं तदिहापि चोद्यम् । किं पुनस्तत् ? सन्यङन्तस्येति चेदशेः सन्यनिटः दीर्घकुत्वप्रसारणषत्वमधिकस्य द्विर्वचनात् आवृद्ध्योश्चाभ्यस्तविधिप्रतिषेधः सन्यङाश्रये च समुदायस्य समुदायादेशत्वात् झलाश्रये चाव्यपदेश आमिश्रत्वात् इति ॥ (सिद्धान्तोपपादकभाष्यम्) अस्तु तर्हि द्विः प्रयोगो द्विर्वचनम् । (5964 सिद्धान्ताक्षेपवार्तिकम् ॥ 18 ॥) - द्विः प्रयोग इति चेण्णकारषकारादेशादेरेत्त्ववचनं लिटि - द्विः प्रयोग इति चेण्णकारषकारादेशादेरेत्त्वं लिटि वक्तव्यम् । नेमतुः, नेमुः । सेहे, सेहाते, सेहिरे । अनादेशादेरिति प्रतिषेधः प्राप्नोति । स्थाने पुनर्द्विर्वचने सति समुदायस्य समुदाय आदेशः, तत्र संप्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स आदेशादिर्भवति ॥ (समाधानभाष्यम्) द्विः प्रयोगेऽपि द्विर्वचने सति न दोषः । वक्ष्यति तत्र लिड्ग्रहणस्य प्रयोजनम् - लिटिय आदेशादिस्तदादेर्न इति ॥ (5965 आक्षेपवार्तिकम् ॥ 19 ॥) - इड्वचनं च यङ्लोपे - इट् च यङ्लोपे वक्तव्यः । बेभिदिता, बेभिदितुम् । एकाच उपदेशेनुदात्तात् (7.2.10) इतीट्प्रतिषेधः प्राप्नोति । स्थाने पुनर्द्विर्वचने सति समुदायस्य समुदाय आदेशस्तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स भवति य एकाजुपदेशेऽनुदात्तः ॥ (समाधानभाष्यम्) द्विः प्रयोगे चापि द्विर्वचने न दोषः । एकाज्ग्रहणेनाङ्गं विशेषयिष्यामः - एकाचोऽङ्गादिति । ननु चैकैकमत्राङ्गम् । समुदाये या वाक्यपरिसमाप्तिस्तयाऽङ्गसंज्ञा भविष्यति । कुत एतत् ? शास्त्राहानेः । एवं हि शास्त्रमहीनं भवति ॥ (5966 आक्षेपवार्तिकम् ॥ 20 ॥) - इड्दीर्घप्रतिषेधश्च - इटो दीर्घत्वस्य च प्रतिषेधो वक्तव्यः । जरीगृहिता, जरीगृहितुम् । ग्रहोऽलिटि दीर्घः (7.2.37) इति दीर्घत्वं प्राप्नोति । स्थाने पुनर्दिर्वचने समुदायस्य समुदाय आदेशस्तत्र सम्प्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टो ग्रहिः ॥ (समाधानभाष्यम्) द्विः प्रयोगे चापि द्विर्वचने न दोषः । ग्रहिणाऽङ्गं विशेषयिष्यामः - ग्रहेरङ्गादिति । ननु चैकैकमप्यत्राङ्गम् । समुदाये या वाक्यपरिसमाप्तिस्तयाऽङ्गसंज्ञा भविष्यति । कुत एतत् ? शास्त्राहानेः । एवं हि शास्त्रमहीनं भवति ॥ (5967 दोषवार्तिकम् ॥ 21 ॥) - पदादिविधिप्रतिषेधश्च - पदादिलक्षणविधेः प्रतिषेधो वक्तव्यः । सिषेच, सुष्वाप । सात्पदाद्योः (8.3.111) इति षत्वप्रतिषेधः प्राप्नोति । स्थाने पुनदि्र्वर्वचने सति न दोषः । समुदायस्य समुदाय आदेशस्तत्र संप्रमुग्धत्वात् प्रकृतिप्रत्ययस्य नष्टः स पदादिर्भवति ॥ (समाधानभाष्यम्) द्विः प्रयोगे चापि द्विर्वचने न दोषः । सुप्तिङ्भ्यां पदं विशेषयिष्यामः - सुप्तिङन्तं पदम् - यस्मात्सुप्तिङि्वधिस्तिदादि सुबन्तं तिङन्तं च । ननु चैकैकस्मादप्यत्र सुप्तिङि्वधिः । समुदाये या वाक्यपरिसमाप्तिस्तया पदसंज्ञा भविष्यति । कुत एतत् ? शास्त्राहानेः । एवं हि शास्त्रमहीनं भवति ॥ तावेव सुप्तिङौ यौ ततः परौ सैव च प्रकृतिराद्या । आदिग्रहणं च कृतं समुदायपदत्वमेतेन ॥ Kashika ------- अधिकारोऽयम्। एकाच इति च, द्वे इति च, प्रथमस्येति च त्रितयमधिकृतं वेदितव्यम्। इत उत्तरं यद् वक्ष्यामः प्राक् संप्रसारणविधानात् तत्रैकाचः प्रथमस्य द्वे भवत इत्येवं तद् वेदितव्यम्। वक्ष्यति — **लिटि धातोरनभ्यासस्य** (६.१.८) इति। तत्र धातोरवयवस्यानभ्यासस्य प्रथमस्यैकाचो द्वे भवतः। जजागार। पपाच। इयाय। आर। एकाच इति बहुव्रीहिनिर्देशः। एकोऽच् यस्य सोऽयमेकाच् इत्यवयवेन विग्रहः। तत्र समुदायः समासार्थः। अभ्यन्तरश्च समुदायेऽवयवो भवतीति साच्कस्यैव द्विर्वचनं भवति। एवं च पच् इत्यत्र येनैवाचा समुदाय एकाच् तेनैव तदवयवोऽच्शब्दः पशब्दश्च। तत्र पृथगवयवैकाचो न द्विरुच्यन्ते। किं तर्हि ? समुदायैकाजेव। तथा हि सकृच्छास्त्रप्रवृत्त्या सावयवः समुदायोऽनुगृह्यते। पपाचेत्यत्र प्रथमत्वं व्यपदेशिवद्भावात्। इयाय आरेत्यत्रैकाच्त्वमपि व्यपदेशिवद्भावादेव। द्विःप्रयोगश्च द्विर्वचनमिदम्, आवृत्तिसंख्या हि द्वे इति विधीयते। तेन स एव शब्दो द्विरुच्चार्यते, न च शब्दान्तरं तस्य स्थाने विधीयते॥ Balamanorama ------------ **एकाचो द्वे प्रथमस्य** - भूव्-अ इति स्थिते । एकाचः । अजादेः इत्यधिकृत्येति । षष्ठाध्यायारम्भे द्वे इमे सूत्रोते च न विधायके, अतिप्रसङ्गात्, किन्तुष्यङः संप्रसारण॑मित्यतः प्रागनुवर्तेते एवेति भावः । Tattvabodhini ------------- **एकाचो द्वे प्रथमस्य** - आत्मयापनायेति । कालक्षेपाय, शरीरपक्षणाय वेत्यर्थः । Padamanjari ----------- इह यद्यपि स्वार्थत्वे सम्भवति पारार्थ्यमयुक्त्म्, विधेयकार्यिणोर्द्वयोर्निर्देअ शात् सम्भवति च स्वार्थत्वम्, तथापि'लिटि धातोः' इत्यादौ विधेयानिर्द्देसेन वैयर्थ्यप्रसङ्गान्नायम् ठण्कुटिलिकायाःऽ इत्यादिवत्केवलो विधिः, नापि'शेषे' इत्यादिवल्लक्षणं चाधिकारश्च। तथा हि सति सर्वेषामेव शब्दानां प्रथमस्यैकाचोऽनेन द्विर्वचने सिद्धे'लिटि धातोः' इत्याहि व्यर्थं स्यात्। धातोर्लिठ।लेव, लिटि दातोरेव-इति नियमान्न वैयर्थ्यमिति चेत् ? न; विधिनियमसम्भवे विधेरेव ज्यायस्त्वात्। अस्च हि पारार्थ्येमिति चेत्? न; विधिनियमसम्भवे विधेरेव ज्यायस्तावात्। अस्य हि पारार्थ्योऽवम्भाविनि सति यथा तेषां विधित्वं तथास्य वर्णनं युक्तमतः परार्थ एवायम्। तत्रापि न परिभाषा-द्विर्वचनं विधीयमानं प्रथमस्यैकाचो वेदितव्यमिति; एवं हि सति'सर्वस्य द्वे' इत्यत्रैवास्य व्यापार इति तत्रैवैकाचः प्रथमस्येति वाच्यं स्यात्।'लिटि धातोः' इत्यादिकं च विधेयानिर्द्देशाद्व्यर्थ स्यात्। अतः पारिशेप्यात्स्वरितत्वाच्चाधिकार एवायमिति निश्चित्याह - एकाच इतदि चेति। अधिकारोऽयमिति वक्तव्ये पृथक् स्वरितत्वप्रदर्शनार्थमेवमुक्तम्। एतत्रितयमिति। तस्य प्रयोजनम् - यत्र यदपेक्षितं तत्र तस्य सम्बन्धः, यथा - ठजादेर्द्वितीयस्यऽ इत्यत्र ठेकाचो द्वेऽ इति, ठभे अभ्यस्तम्ऽ इत्यत्र'द्वे' इति, लिटि धातोरित्यादौ सर्व सम्बध्यते। इत उतरमित्यादि। अनन्तरोक्तस्यैव विवरणम्। प्राक् सम्प्रसारणविदानादिति। तत आरभ्य तु नास्य सम्बन्धः; विधेयान्तरनिर्देशात्स्वरिते कृते नाधिकार इति वा व्याख्यानात्। सामान्येनोक्तमुदाहरणनिष्ठ्ंअ दर्शयति - वक्ष्यतीति। अत्र यदि'धातोरेरेकाचः' इति सामानाधिकरण्येन सम्बन्धः स्यात्, पचिप्रभृतीनामेव स्यात्, न जागर्त्यादीनाम्। प्रथमग्रहणं चानर्थकं स्यात्, न ह्यएकाचां धातूनां द्वितीयादिरेकाजस्ति। न च प्रथमस्य धातोरिति सम्बन्धः। तथा हि सति धातुपाठे प्रथमपठितस्य भवतेरेव स्यात्, ततश्च भवतिग्रहणमेव कर्तव्यं स्यात्। अथैकाचो धातोः प्रथमस्य वर्णस्येति सम्बन्धः ? तदयुक्तम्; सहनिर्द्दिष्टयोः सामानाधिकरण्यस्य स्वतः प्राप्तस्य त्यागायोगात्। अतो वैयधिकरण्येन सम्बन्ध इत्याह-दातोरवयवस्येति। द्वितीयस्य चेति। यद्यप्यत्र द्वितीयग्रहणं नास्ति, तथापि'लिटि धातोः' इत्यत्र त्वधिकृतमस्ति, तस्य चार्थः प्रदर्श्यते इति नासङ्गतं किञ्चित। जजागार-इत्यादीनि मुख्यगौणतया क्रमेणोदाहरणानि। एकाचेति यद्ययं तत्पुरुषः स्यातदा'धातोः' इत्यनेन सामानाधिकरण्यं चेत्? इयाय आरेत्यादावेव स्याद्, वैयधिकरण्ये तु पपाचेत्यादिषु भवदपि द्विर्वचनमज्मात्रस्यैव स्यात्, ततश्च'हलादिः शेषः' ,'शर्पूर्वाः खयः' ,'लिट।ल्ब्यासस्योभ्येषाम्' इत्याद्यनुपपन्नं स्यात्। एकग्रहणं चानर्थकम, प्रथमस्याचेति विशेषणादेकस्य च धातोरनेकप्रथमाजसम्भवादच इत्येकत्वं वा विवक्षिष्यते, किमेकग्रहणेन ? तस्माद् बहुव्रीहिरयम्। तदाह - एकाचेति बहुव्रीहिनिर्देश इति। बहुव्रीहिणा विवक्षितस्यार्थस्य प्रतिपादनं बहुव्रीहेर्वा उच्चारणं बहुव्रीहिनिर्द्देषः। विग्रहप्रदर्शनं विस्पष्टप्रतिपत्यर्थम्। यदि बहुव्रीहिनिर्द्देशस्ततो बहुव्रीहेरन्यपदार्थप्रधानत्वाद्यथा'चित्रगुरानीयताम्' इत्युक्ते यस्य ता गावः स एवानयते न चित्रा गावः, तद्वदत्रोपलक्षितं तदुभयपार्श्ववति व्यञ्जनद्वयमेव द्विरुच्येत, न तूपलक्षणभूतोऽजित्यत आह - तत्रेति। भवति वै बहुव्रीहावपि क्वचिद्वर्तिपदार्थस्यापि कार्ययोगः, तद्यथा - शुक्लवाससमानयेति मत्वर्थे बहुव्रीहिः, तत्र यथा दण्डी, विषाणीति संसर्गे मत्वर्थीय उत्पन्ने तस्य द्विष्ठत्वाद् गुणस्यापि कार्ययोगः; तद्वद् बहुव्रीहावपि यत्र संसर्गो वाच्यस्तत्राविरुद्धो गुमस्यापि कार्ययोगः। अभ्यन्तरश्चेति। अन्तर्भूत इत्यर्थः। आन्यन्तरमिति पाठे अभ्यन्तरमुमध्यम्, तत्र भवमाभ्यन्तरम्। साच्कस्यैव द्विर्वचनं भवतीति। यथा तत्सन्निहितमवयवान्तरं द्विरुच्यते, तथोपलक्षणीभूतोऽप्यजित्यर्थः। अत्र च ज्ञापकम्'दीर्घो' कितःऽ इत्यादि। चोदयति - एवं च पचित्यत्रेति। तेनैव तदवयवोच्छब्दः पशब्दश्चेति। चकारादकारश्च व्यपदेशिवद्भावादेकाजेव, यथैवाङ्गुल्या देवदतोऽङ्गुलिमांस्तथा हस्तोऽपि, तद्वदत्रापि। ततश्च सर्वेषामेव तेषां द्विर्वचनप्रसङ्ग इति शेषः। नन्वर्थवद्घहणे नानर्थकस्येति समुदायस्यैव भविष्यति, नावयवानाम्, नन्वेवं जागत्र्यादीनां न स्यात्, किञ्च यत्र'शे' इत्यादौ विशिष्ट्ंअ शब्दस्वरूपं गृह्यते तत्रैवेयं परिभाषा, अत्र तु'धातोरवयवस्यैकाचः' इति तटस्थेनोपलक्षणेन जाग्, पच्-इत्येवमादिकं गृह्यते, न तु स्वरूपेणेति नेह तस्याः प्रवृत्तिः? परिहरति - तत्रेति। तेषु समुदायादिष्वेकाक्षु मध्येऽवयवैकाचः प्रथमा न द्विरुच्यन्ते, कुतः ? इत्याह - तथा हीत्यादि। अयमभिप्रायः - किमेकस्मिन्नेव प्रयोगे युगपच्च सर्वप्रयोगश्चोद्यते? पर्यायेण वा ? किं वा प्रयोगभेदेन कस्यचित् क्वचनेति ? न तावदाद्य कल्पः, प्रमित्यनुष्ठानयोर्द्वयोरप्यसम्भवात्। तथा हि - एकाच्त्वेन निरुपितं द्विर्वचनं प्रमातव्यम्, न चैकोऽवयवो युगपदनेकावयवत्वेन शक्योनिरूपयितुम्, तत्कथं युगपत्प्रमीयताम्, प्रमितं वा कथमनुष्ठीयताम्! न ह्यएकस्मिन्नेकाचि द्विरुच्यमाने तदैवान्य एकाच्छक्यो द्विर्वक्तुम्; वाचः क्रमभावित्वात्। नापि द्वितीयः; ठनभ्यासस्यऽ इति प्रतिषेधादनवस्थापाताच्च। तस्मात्प्रयोगभेदेन सर्वप्रसङ्ग इत्येष एव पक्षः सम्भवति। तत्र'णिजिर् शौचपोषणयोः' इत्यस्य श्लौ यदा निशब्दस्य द्विर्वचनम्, तदा नेनेक्ति, नेनिक्त इत्यत्र न कश्चिद्दोषः। नेनिजति, अनेजिजुः, नेनिजदित्यत्र ठदभ्यस्तात्ऽ,'सिजब्यस्तविदिभ्यश्च' ,'नाभ्यस्ताच्छतुः' इत्यद्भावजुसभावनुम्प्रतिषेधा न स्युः; जकारेण व्यवधानात्, इकारस्येच्छब्दस्य च द्विर्वचने रुपमेव न सिध्यतीत्येष एव दोषः ? तस्य परिहारः -'शास्त्रहानिप्रसङ्गात्' इति। अवयवे हि द्विरुच्यमानेऽवयवान्तरविषयसमुदाविषयं च शास्त्रं हीयते। ननु शास्त्रेण प्रमितमेव यदि नानुष्ठीयेत स्याच्छास्त्रहानिः, अत्र तु पर्यायेण प्रतीयत इत्युक्तम्, तच्चानुष्ठितमेव कथं सास्त्रहानिः? अङ्ग तु भवानाचष्टाम् - पशब्दे द्विरुच्यमाने चकारः किमिति न द्विरुच्यते, तदा तद्द्विर्वचनस्याप्रतीतत्वादिति चेत्किमिति न प्रतीयते, तेन सहैकाच्त्वेनानिरूपितत्वादितिचेत्किमिति न निरूप्यते? मौनमत्रोतरम्, तस्माद्यस्मिन् प्रयोगे यच्च यावच्च प्रथमैकाच्त्वेन शक्यते निरूपयितुम्, तस्य सर्वस्य द्विर्वचनं प्रमातव्यमनुष्टातव्यं च; अन्यथा तु क्रियमाणं प्रतीत्यनुष्ठानयोरुभयोरपि शास्त्रहानिमावहति। तस्मात्समुदायस्य द्विर्वचनमिति। न चात्रापि पक्षेऽवयवविषये शास्त्रहानिः; अवयवात्मकत्वात्समुदायस्य न खल्ववयवानां द्विर्वचनमकृत्वा समुदायः शक्यो द्विर्वक्तुम्, तद्यथा-वृक्षः प्रचलन्सहावयवैः प्रचलति। अथ कथं पपाचेति द्विर्वचनम्, यावता धातुरेवायं न धात्ववयवः, नापि प्रथमः, द्वितायादिषु हि सत्सु यस्मात्पूर्वो नास्ति स प्रथमः? कथन्तरां चेयायेत्यादौ यत्रैकोऽजस्येति व्यतिरिक्तोऽन्यपदार्थो नास्ति? तत्राह - पपाचेत्यत्रेति। एकाच्त्वमपीति। अपिशब्दात्प्रथमत्वमपि, उभयत्रापि धातुं प्रत्यवयवत्वम्। व्यपदेशिवद्भावादिति। मुख्य एकाज्व्यपदेशः, अवयवव्यपदेशश्च येषामस्ति ते व्यपदेशिनो जाग्रादिषु जागित्येवमादयः, तेषामिवैषामपि कार्य भवतीत्यर्थः। न चेदं वचनम्, लोकिकोऽयं न्यायः, लोके हि'शिलापुत्रकस्य शरीरम्' इति बहिर्वस्तुभेदेऽसत्यपि बेदव्यवहारोऽवस्थाबेदाश्रयो दृश्यते। शिलापुत्रकः क्रीयमाणविक्रीयमाणत्वाद्यवस्थायुक्तो यो दृष्टस्तस्येदं शरीरमिति परिदृश्यमानावस्थाभेदेन व्यपदिश्यते। पपाचेत्यत्रापि पचेरनन्तप्रयोगविषयस्य सम्प्रति प्रयुज्यमानं लिट्परं रूपमवयव इति शक्यं व्यपदेष्टुअम्, प्रथमशब्दोऽपि प्रथमगर्बेण हतेत्यादावसतोऽपि द्वितीयादीन् बुद्ध्या परिकल्प्य मुख्यप्रथमसाधर्म्याद्यथा लोके एकस्मिन्नपि प्रथम इति प्रयुज्यते, तद्वदत्रापि। इयायेत्यत्रापि इतः, यन्ति, आयन्, आगात्, जिगमिषतीत्यनन्तप्रयोगस्थेनैकोऽयमिकअर इत्यन्यपदार्थोऽपि कल्पितः। प्रसिद्ध्यप्रसिद्धिकृतश्च गौणमुख्यविवेकः। एवं विधस्तु व्यवहारो मुख्यादपि प्रसिद्ध इति न गौणत्वदोषः। एवं च कृत्वा -'व्यथो लिटि' 'भवतेरः' 'लिट।ल्भ्यास्सयोभयेषाम्' ,'दीर्घ इणः किति' इत्यादिकमुपपद्यते। अत्र'द्वे' इत्यस्य संख्येयापेक्षायां शब्दानुशासनप्रस्तावाच्छब्दरूपे सख्येये'षष्ठी स्थानेयोगा' इति वचनादेकाचः प्रथमस्येति स्थानषष्ठ।लं सत्यामेकस्य स्थाने द्वे शब्दरुपे इत्यर्थो भवति, यथा - ठस्तेर्भूःऽ इत्यादौ, तदा'स्थाने द्विर्वचनम्' इत्ययं पक्षो भवति। यदा शब्दसम्बन्धिनी उच्चारणे संख्येये क्रियारूपस्य शब्दस्य च स्थान्यादेशसम्बन्धायोगादध्याहृतोच्चारणक्रियापेक्षयैकाचेति कर्मषष्ठी - एकाचो द्वे उच्चारणे भवतः, एकाचं द्विरुच्यारयेदित्यर्थः, तदा'द्विःप्रयोगो द्विर्वचनम्' इत्ययं पक्षो भवति। तत्राद्ये पक्षे'स्थाने' न्तरतमःऽ इति वचनाच्छब्दतश्चान्तरतमयोर्द्वयोविधानाद् यद्यपि ये केचन प्राप्नुत इति दोषनवतारः। चिचीषतीत्यत्र तु'सन्यङेः' इति षष्ठयाः स्थापयिष्यमाणत्वाच्चिस् इत्यस्य स्ताने चिस्चिस् इति शब्दान्तर आदेशे सति तत्स्थस्य सकारस्य सन्त्वे प्रमाणाभावात् ठज्ज्ञनगमां सनिऽ इति दीर्घत्वं न स्यात्; आदेशस्य स्थानिवद्भाव उच्यते नादेशावयवस्य स्यान्यवयववद्भाव इति स्थानिवद्भावेनापि सन्त्वं नास्ति। तस्य तु यत्र सन्मात्रस्य द्विर्वचने स्थानिवद्भावेन सन्त्वं सोऽवकाशः, यथा - इणः सन्, ईषिषतीति। ननु शब्दान्तरप्राप्त्या द्विर्वचनमनित्यम्, अप्राप्त्या तु दीर्घत्वमित्युभयोः परत्वाद्दीर्घत्वे कृते द्विर्वक्ष्यते? इह तर्हि ह्वयतेः सनि ह्नास् इत्यस्य द्विर्वचनम्, समुदायस्य समुदाय आदेशस्तत्र आदोश एतन्नास्ति - इयं प्रकृतिरयं प्रत्यय इति, ततश्च'ह्वो' भ्यस्तस्यऽ इति संप्रसारणं न स्यात्, जुहाव जुहुवतुरित्यादावेव तु स्याद् - यत्र ह्वामात्रस्य द्विर्वचनात्स्थानिवत्वम्? नैष दोषः;'ह्वो' भ्यस्तस्यऽ इति व्यधिकरणे षष्ठयौ, ह्वयतेरभ्यस्तस्य भविष्यतः प्रागेव संप्रसारणं परपूर्वत्वम्,'हलः' इति ठज्ज्ञनगमाम्ऽ इति वा दीर्घत्वम्,'ह्वास्' इत्यस्य द्विर्वचनम्। इह च पिपक्षति, उद्विवक्षतीत्यत्र'पूर्वत्रासिद्धमद्विर्वचने' इति तर्हि आटिटद्, आशिशद् इति णिलोपे कृतेऽपि'द्विर्वचने' चिऽ इति रूपस्थानिवद्बावाच्छब्दान्तरप्राप्त्यभावेन नित्यत्वात्पूर्वं द्विर्वचने सति समुदायस्य समुदाय आदेशस्तत्र सम्प्रभुग्धत्वात्प्रकृतिप्रत्ययत्वं नष्टम्, स णिज्न भवतीति णिलोपो न स्यात्, तस्य तु कारणेत्यादिरवकाशः। इह च जिघांसतीति समुदायस्य समुदाय आदेशे कृते हन्तेरभावाद् ठभ्यासाच्चऽ इति हन्तेरिति कुत्वं न स्यात्। तस्य तु जघनथि, जघन्थ, अहं किल जघन, जघन्वानित्यादिरवकाशः, यत्रहन्तिमात्रस्य द्विर्वचनात्स्थानिवद्भावः। तदेवमाद्यपक्षस्य दुष्टत्वाद् द्वितीयं पक्षमाश्रित्याह-द्विःप्रयोगे द्विर्वचनमिति। चशब्दोऽवधारणे। कथं पुनः'षष्ठी स्थानेयोगा' इति परिभाषायां सत्यां द्विःप्रयोगपक्षः शक्य आश्रयितुम्? तत्राह - आवृत्तिसंख्या हीति। यद्यावृतेः संख्या विधीयते, एवं सति त्रिर्वचनं प्राप्नोति। न ह्याद्यमुच्चारणमावृत्तिः, अतस्तदेकम्, आवृती च द्वे इति त्रिर्वचनप्रसङ्गः। तस्मादावृत्तिकृता संख्या। आवृत्तिसंख्या कस्य? उच्चारणस्य, आवृतमुच्चारणं विधीयत इत्यर्थः। तत्र च स्थान्यादेशभावो न सम्भवतीत्युक्तम्। अत्र पक्षे यथाटिटदित्यादौ दोषौ न भवति तथा दर्शयति - तेनेत्यादिना । नन्वत्रापि पक्षे नेमतुः, सेहे इत्यादौ नत्वसत्वयोः कृतयोर्धातोरादेशादित्वस्य द्विःप्रयोगेऽप्यनिवृतेरेत्वाभ्यासलोपौ न स्याताम्, पक्षान्तरे तु नादेशादिव्यपदेशः? अलाश्रयत्वेन स्थानिवत्वाभावात्समुदायादेशत्वेनादेशादित्वाभावाच्च न दोष)ः;'लिटि आदेशः' इति विशेषणाअन्नत्वसत्वयोरनैमितिकत्वाद्। इह तर्हि वेभिदितेति वेभिद्यशब्दातृचि अल्लोपयलोपयोः कृतयोरुपदेषे य एकाजनुदातः स एवायमितीट्प्रतिषेधः स्यात्, पक्षान्तरे त्वेकाज्व्यमपदेशस्यालाश्रयत्वाद् बेभिद्येत्यस्य द्व्यचकत्वान्निषेधाभावः? द्विःप्रयोगेऽपि न दोषः; पूर्वस्मादपि विधौ अल्लोपस्य स्थानिवद्भावात्। इह तर्हि जरीगृहितेति ग्रहेर्वलिटि दीर्घत्वं स्यात्, न ह्यत्र स्थानिवत्वम्, दीर्घविधौ निषेधात्? नैष दोषः; ठेकाच उपदेशेऽ इत्यत ठेकाचऽ इत्यनुवर्तयिष्यते। यद्वा - ग्रहेर्विहितं यदार्द्धधातुकं तस्य य इट् तस्य दीर्घ इति जरीगृह्यशब्दाद्विहितस्य न भविष्यति। इच च सिषेचति, यद्यपि सिचेर्लिड्विहितः; तथापि द्विर्वचने कृते समुदायस्यैका पदसंज्ञा न तदवयवस्य, सेचशब्दस्य पदसंज्ञायां तदादिग्रहणानिवृतेरभ्यासस्य वर्जनायोगादिति'सात्पदाद्योः' इति षत्वनिषेधाभावः। इह तर्हि विभिद्वानित्यादौ शतकृत्वोऽप्युच्चारणे एकाच्त्वं न याति, किं पुनर्द्विरुच्चारण इति'वस्वेकाजाद्धसाम्' इतीट्प्रसङ्गः? तन्न; उच्चारणभेदाद्विरुद्धसंख्याप्रादुर्भावे पूर्वसंख्याकृतव्यपदेशनिवर्तनात्। अत एवाद्ग्रहंणं कृतं पपिवानित्यादाविडर्यम्। इह तर्हि विशुष्वापेति, तस्यैवार्थवतो द्विरुक्तिभावमात्रमित्यभ्यासस्यार्थवत्वात्सुपेः षत्वमित्यत्रानर्थको विसुषुपुरिति वक्ष्यमाणं विहन्येत? नैष दोषः; अन्वयव्यतिरेकाभ्यां शब्दस्याशेषार्थावसायः, न चात्राभ्यासोपजनने कश्चिदर्थ उपजायते, अपाये चापयाति। ननु स एव चेद् द्विरुच्यते, अर्थप्रत्ययेनाप्यावतितव्यम्, यथा - अहिरहिर्बुध्यस्वबुध्यस्वेति? किमत्रोपालभ्येमहि, न तावदर्थप्रत्यया आवर्तन्ते! तदेतदेवं दृश्यताम्-यथा स्वप्नः, सुप्तः, अस्वपदित्यादौ क्वचिदविकृतः, क्वचिद्विकृतः, क्विचिदडागमापेक्षोऽर्थं प्रतिपादयति, तथा सुष्वापेत्यादावावृत एव प्रतिपादयतीति ॥ Nyaas ----- इह केचित्? स्वार्था एव विधयो भवन्ति, न पदार्थाः, तद्यथा - `अण्कुटिलिकायाः` (4.4.18) इति कुटिलिकाशब्दादण्? विधीयमानः स्वार्थो भवति। केचित्? पुनः स्वार्थाः, परार्थश्च तद्यथा - **पदरुजविशस्पृशो घञ्** (3.3.16) इति पदादिभ्यो घञ्? विधीयमानः स्वार्थो भवति, स्वरितलिङ्गासङ्गादुत्तरेषु योगेष्वनुवर्तमानः परार्थश्च। केचित्? पुनः परार्था एवाधिकारा भवन्ति, न स्वार्थाः, यथा - **समर्थानां प्रथमाद्वा** (4.1.82) इति; तत्? किमयं स्वार्थ एव? अथोभयार्थ एवाधिकारः? उत परार्थ एवेति सन्देहापनयनाय परार्थतामेवास्य दर्शयितुमाह - `एकाचेति च` इत्यादि। एतद्ग्रहणकं वाक्यम्, अस्य च `इत उत्तरम्` इत्यादि। विवरणम्। सिंहावलोकितन्यायेन पूर्वत्राप्यधिकाराणामनुवृत्तिर्भवति, अतस्तन्निवृत्तिरस्वरितत्वाद्विज्ञेया। कस्य पुनः `एकाचो द्वे भवतः` इत्येवं तद्वेदितव्यम्? इत्यत यद्येषा धातोरेव्? समानाधिकरणा षष्ठी स्यात्, तदा पचादीनामेव द्विर्वचनं स्यात्, न जागर्त्त्यादीनाम्, न हि तत्रैकाचेति मन्यमानो नैषैकाचेति सामानाधिकरणा षष्ठी - धातोरेकाचेति, अपि त्ववयवयोगा - धातोर्योऽवयव एकाचेति दर्शयितुमाह - `धातोरवयवस्य` इति। `जजागार` इत्यत्र जागित्येतद्द्विरुच्यतदे, `पपाच` इत्यत्र पच्छब्दः; पूर्वत्र **अचो ञ्णिति** (7.2.115) इति वृद्धिः, उत्तरत्र **अत उपधायाः** (7.2.116) इति। `इयाय` इति। `इण्? गर्तौ (धातुपाठः-1045) **अचो ञ्णिति** (7.2.115) इति वृद्धौ कृतायां **द्विर्वचनेऽचि** (1.1.59) इति स्थानिवद्भावादिकारो द्विरुच्यते, आयादेशः, `अभ्यासस्यासवर्णो` (6.4.78) इतीयङ्। `आर इति। `ऋ गतौ` (धा। पा। 1098) ऋ इत्येतस्य द्विर्वचनम्, `उरत्` (7.4.66) इत्यत्त्वम्? रपरत्वम्, **अत आदेः** (7.4.70) इति दीर्घः, सर्वर्णदीर्घत्वञ्च। एकाचेति तत्पुरुषोऽयं वा स्यात्? एकश्चासावच्चेति एकाच्, बहुव्रीहिर्वा एकोऽञ्? यस्येति? तत्र यद्ययं तत्पुरुषः स्यात्, इणादीनामेव द्विरुक्तिः स्यात् - इयाय आरेत्येवमादौ; पचादीनां तु पपाचेत्यादौ न स्यात्, तेषामज्झल्समुदायात्मकत्वादित्येतन्मनसि कृत्वाऽऽह - `एकाचेति बहुव्रीहनिर्देशोऽयम्` इति। बहुव्रीहिणा विवक्षितस्यार्थस्य निर्देशः=कथनम्। बहुव्रीहेर्निर्देशः=कथनम्, उच्चारणं वा बहुव्रीहिनिर्देशः। कुतः पुनरेतदवसितम् - बहुव्रीहेनिर्देशोऽयमिति? `हलादिः शेषः`, (7.4.60) **शर्पूर्वाः खयः** (7.4.61) इत्येवमादिलिङ्गात्। ननु च तत्पुरुषस्यापि लिङ्गमस्ति - **दीर्घ इणः किति** (7.4.69) इतीणोऽभ्यासस्य दीर्घविधानम्? नैतदस्ति; बहुव्रीहावपि ह्रस्मिन्? व्यपदेशिवद्भावादिणो द्विर्वचनेऽभ्यासस्य दीर्घविधानमुपपद्यत एव, न तु तत्पुरुषेऽस्मिन्? हलादिशेषादिकार्यमुपपद्यतेः पचादीनामज्झल्समुदायानां द्विर्वचनानुपपत्तेः। तस्माद्बहुव्रीहेरेव लिङ्गमस्ति, न तत्पुरुषस्येति बहुव्रीहिनिर्देश एवायम्। यद्येवम्; बहुव्रीहेरेवान्यपदार्थप्रधानत्वादुपलक्षणविनिर्मुक्तस्य शुद्धस्यैवान्यार्थस्य बहुव्रीहिणाभिधानादचावयवेन य उपलक्षितोऽन्यपदार्थस्तस्यैवानच्कस्य द्विर्वचनं प्राप्नोति, न तूपलक्षणभूतस्यापि। न ह्रुपलक्षणं कार्योपयोगि भवति। तथा हि यथा चित्रगुरानीयतामित्युक्ते यस्य चित्रागावः सन्ति स एव आनीयते, न तूपलक्षमभूता गावोऽपि। अत एव तस्य निरासाय तद्गुणसंविज्ञानोऽयं बहुव्रीहिरित दर्शयन्नाह - `तत्र` इत्यादि। `समुदायः समासार्थः` इति। सह तेनोपलक्षणभूतेनाचावयवेन समुदाय एवान्यपदार्थ इत्यर्थः। `उभ्यन्तरश्च` इति। तदन्तर्भूत इत्यर्थः। चशब्दोऽवधारणे। अभ्यन्तर एवेत्यर्थः। इतिकरणो हेतौ। यस्मात्? समुदाये समासार्थेऽवयवोऽभ्यन्तरो भवति, तस्मात्? साच्कस्यैव द्विर्वचनं भवति। लोकेऽपि क्वचिदुपलक्षणस्य समासेऽन्तर्भावात्? कार्योपयोगित्वं दृष्टमेव, यथा शुकलवाससमानयेत्युक्ते सहैव शुक्लेन वाससानीयते। पचित्यत्र यनैवाचा समुदाय एकाच्? तेनैव तदवयवोऽप्यच्छब्दः पशब्दश्चेति, ततआआवयवानिमपि प्रत्येकं द्विर्वचनं प्राप्नोति। यथा यनैव हस्तेनावयवेन बाहुर्हस्तवान्? भवति, तेनैव देवदत्तोऽपि हस्तवान्? भवति; तथा पचतौ घातौ येनैवाकारेम पच्छब्दः समुदाय एकाच्? तेनैव तदवयवोऽप्यच्छब्दः पशब्दश्तेति। ततश्चावयवानमपि प्रत्येकं द्विर्वचनं प्राप्नोत्येव। द्विर्वचनञ्च कायिण एकाचः, सामान्येन निर्देशात्। एवञ्च समुदायस्य तदवयवनाञ्चैकाचां पृथग्द्विर्वचने कृतेऽन्ष्यटं रूपं स्यात्, अत एतद्द्वेष्यमपाकर्तुमाह - `तत्र` इत्यादि। तेषु समुदायेष्वेकाक्षु मध्ये पृथगवयवैकाचो न द्विरुच्यन्ते। किं तर्हि? समुदायैकाजेव। अवयवैकाजिति कर्मधारयः। `समुदायैकाच्` इति। अयमपि कर्मधारय एव। कुतः पुनरयं सामान्याभिधाने विशेषो लभ्यते? इत्यत आह - `तथा हि` इत्यादि। यद्यपि समुदायीऽवयवश्चैकाच्, तथापि यस्य द्विर्वचने कृते सर्वेषामनुग्रहो भवति तस्यैव द्विर्वचनं युक्तम्। एवं शास्त्रहानिनं भवति; सर्वेषामेव शास्त्रविहितकार्यस्य निष्पत्तेः। अयमेवानुग्रहो या शास्त्रविहितकार्यस्य निष्पत्तिः। समुदायस्यैव द्विर्वचने कृते सर्वेषामनुग्रहो भवति। यथा वृक्षः प्रचलन्? सहावयवैः प्रचलति, तथैकयैव शास्त्रप्रवृत्त्या समुदायो द्विरुच्यमानः सहावयवैद्विरुच्यते, न हि विनावयवैः समुदायो द्विर्वक्तुं शक्यते; तस्य तदात्मकत्वात्। अवयवानां तु द्विर्वचनं नैकया प्रवृत्त्या सर्वेषां कर्त्तु शक्यते। न तद्द्विरुक्तौ सर्वेषामनुग्रहो भवति। कथम्? सर्वेषां हि तेषामेकाज्व्यपदेश एकोऽजिति हेतुः; तत्र यदा येनाचैकोऽवयव एकाजिति व्यपदिष्यते, तदा तेनैव तस्याक्षिप्तत्वान्न शक्यतेऽपर एकाजिति व्यपदेष्टुम्। ततश्चैकस्य द्विर्वचने विधित्सिते तदेदानीं तेनाचा य एकगाच्? कश्चिदवयवस्तस्यैव द्विर्वचनं स्यात्, नेतरस्य; अनच्कत्वात्। अत्रैतत्? स्यात्? `एकाचः` (6.1.1) इति सर्वेषां पष्ठआ निर्दिष्टत्वात्? सर्वेषामेव तेषां द्विर्वचनं कर्तव्यम्, न च तद्युगपत्? सम्भवति, अत एकस्य तावत्? क्रियते। एकस्मिन्? कृते पुनः प्रवृत्त्यन्तरेणापरस्यापि करिष्यत` इति? एतच्च न; यस्य ह्रवयवस्य पूर्वं द्विर्वचनं कृतं तेनैव सहाचो द्विरुक्तत्वान्न युज्यते पुनस्तस्यावयवान्तरेम द्विर्वचनं कर्त्तुम्। अकृतद्विरुक्तस्य हि द्विर्वचनं क्रियते, न द्विरुक्तस्य; अन्यथा ह्रनवस्था स्यात्। `अनभ्यासस्य` (6.1.8) इति वचनाच्चायुक्तमेवैकस्मिन्नवयवे द्विरुक्तेऽपरस्य द्विर्वचनं कर्तुम्। अतो नावयवद्विर्वचने सर्वेषामनुग्रहः सम्भवति। तत्र यस्य द्विर्वचनं न सम्भवति तस्य शास्त्रहानिः स्यात्। तदयुक्तमवयवानां प्रत्येकं द्विर्वचनम्। अथैषां युगपदवयवानां द्विर्वचनं न सम्भवतीति प्रयोगान्तरे पर्यायेण करिष्यते पूर्वोक्तदोषपरिहारार्थम्? एवमपि यदा पचेरच्छब्दस्य द्विर्वचनं स्यात्, तदा पपाचेत्येवमादि न सिध्येत्। किञ्च `णिजिर्? शौचपोषणयोः` (धातुपाठः-1093) इत्यस्त्राल्लट्, झि, शप्, तस्य जुहोत्यादित्वात्? श्लुः, `श्लौ` (6.1.10) इति द्वर्वचनम्। तत्र यदि निशब्दमात्रस्य द्विर्वचनं क्रियते तदा `णिजां त्रयाणाम्` (7.4.75) इति गुणः। अत्रेदानीम्? `अदभ्यस्तात्` (7.1.4) इत्यदादेश इष्यते - तेनिजतीति रूपं यथा स्यादित्येवमर्थम्, स च न प्राप्नोति; जकारेण व्यवहितत्वात्। न हि जकारस्याभ्यस्तसंज्ञा, किं तर्हि? निशब्दस्य; द्विरुक्तत्वात्, जकारस्य चाद्विरुक्तत्वात्। अनेनिजुरिति - अत्र लङादेशस्य झेः `सिजभ्यस्तविदिभ्यश्च` (3.4.109) इति जुस्? न प्राप्नोति; पूर्वस्मादेव हेतोः। नेनिजदित्यत्र **नाभ्यस्ताच्छतुः** (7.1.78) इति नुम्प्रतिषधो न स्यात्, अत एव हेतोः। न च शक्यते वक्तुम् - वचनसामर्थ्याद्व्यवधानेऽपि भविष्यतीति; यदा समुदायस्य द्विर्वचनं तदा वचनस्य सावकाशत्वात्। यदा त्विकारसहितस्य जकारसय द्विर्वचनं तदा नेनिजतीत्यादिकं रूपमेव न स्यात्। तस्मादयुक्तमवयवानां द्विर्वचनम्। अतः समुदाय एव द्विर्वक्तव्यः। अथ पपाचेत्यत्र कथं द्विर्वचनम्, यावता `एकाचो द्वे प्रथमस्य (6.1.1) इत्युच्यते, न चात्रैकाचः प्रथमव्यपदेशोऽस्ति, प्रथमशब्दो ह्रप्रथमापेक्षो भवति, सम्बन्धिशब्दत्वात्; सत्स्वनेकेषु यस्मात्? पूर्वो नास्ति स प्रथमः, यः पुनरेक एव नासौ प्रथमव्यपदेशं लभते, एकश्चात्रैकाच्। तेनात्र द्विर्वचनं न स्यात्, जजागारेत्यादावेव स्यात्? इयाय, आरेत्यत्रापि कथं द्विर्वचनम्, यावतैकाचस्तदुच्यते, न चैकाच्त्वमस्ति, अज्व्यतिरिक्तस्यानच एकाज्व्यपदेशहेतोरभावात्? इत्यत आह - `पपाचेत्यत्र` इत्यादि। एकसंख्याव्यवच्छिन्नस्वरसम्बनधहेतुको व्यपदेशः, स यस्यास्ति स व्यपदेशी। जागर्त्त्यादिषु धातुषु जागित्येवमादिः। `तेन तुल्यं वर्तते` (5.1.114) इति व्यपदेशिवत्, तस्य भावो व्यपदेशिवद्भावः। एकाच्त्वमपीत्यपिशब्दादद्वितीयत्वमपीति। ततोऽनेन जजागारेत्यत्र यथा वास्तवे प्रथमत्वे जाग्? इत्येतस्य प्रथमस्यैकाचो द्विर्वचनं भवति, तथा परमार्थतो सत्यपि प्रथमत्वे प्रथमस्यैकाचो द्विर्वचनं भवति व्यपदेशिवद्भावेन पपाचेत्यत्र पच्छब्दस्य। इयाय, आरेत्यत्राप्यसति वास्तव एकाच्त्वे द्वितीयत्वे च व्यपदेशिवद्भावेन द्विर्वचनं भवति; यथा - अटिटिषतीत्यत्र वस्तुत एवैकाचो द्वितीयस्य टिशब्दस्येति।न चै तद्वक्तव्यम् - `यस्मादप्रथमस्यापि पच्? इत्येवम्प्रकारस्य व्यपदेशिवद्भावेन द्विर्वचनं भवति` इति। अत्र `लिटभ्यासस्योभयेषाम्` (6.1.17) इति वचनं ज्ञापकम्, असत्यपि वास्तव एकाच्त्वे द्वितीयत्वे च पुनव्र्यपदेशिवद्भावेन चेण्प्रभृतनां द्विर्वचनं भवतति। अत्राभ्यासस्य दीर्घविधानार्थम्? **दीर्घ इणः किति** (7.4.69) इति वचनं ज्ञापकम्। इह `आदशभ्यः संख्याः संख्येये वर्तन्ते न तु संख्यानमात्रे` इति द्विशब्दोऽत्र संख्येये वर्तते। तच्च संख्येयं शब्दरूपं वा स्यात्? उच्चारणं वा? तत्र यदि शब्दरूपं संख्येयं स्यात्? तदा `द्वे` इत्यनेन द्विशब्दरूपे भाव्यमानतया निर्दिश्येते इति। अत एकाच इत्यस्य च स्चाने योगलक्षणः सम्बन्धो भवति, अतः `स्थाने द्विर्वचनम्` इत्येष पक्षो भवति। तदैकाचेति स्थानषष्ठी जायते। अथ पुनरुच्चारणं सख्येयं तदा स्थान्यादेशसम्बन्धो न भवति। उच्चारणं नाम शब्दानुगतो धर्मः। यद्यसावदेशो विदीयते तदा निवृत्तिधर्मा स्थानी भवतीति शपब्दस्य स्थानिनो निवृत्त्या भवितव्यम्, ततश्चोच्चारणमपि न स्यात्; तस्य तद्धर्मत्वात्। तस्मादुच्चारणे संख्येये स्थाने द्विर्वचनं न सम्भवतीति `द्विष्प्रयोगो द्विर्वचनम्` इत्येष पक्षो भवतीति। तदैकाचेति `कर्त्तृकर्मणोः कृति` (2.3.65) इति कर्मणि षष्ठी, सा ह्रैकाजुच्चारणक्रियया व्याप्तुमिष्टतमत्वात्? कर्म भवति। तत्र यदि `स्थाने द्विर्वचनम्` इत्येष पक्ष आश्रीयेत, तदा जिघांसतीत हन्तः कुत्वं न स्यात्। समुदायस्य हि सन्नन्तस्य समुदायः सन्नन्त आदेशः, तत्र कृत आश्रीयेत, तदा जीघांसतीति हन्तेः कुत्वं न स्यात्। समुदायस्य हि सन्नन्तस्य समुदायः सन्नन्त आदेशः, तत्र कृत एतन्नास्ति। अयं प्रत्ययः इयं प्रकृतिरिति सन्दिग्धत्वात्? प्रकृतिप्रत्ययस्य हन्तिर्नष्टो भवतीति **अभ्यासाच्च** (7.3.55) इति कुत्वं हन्तिहकारस्य न स्यादितीमं स्थानेद्विर्वचनपक्षे दोषं दृष्ट्वा द्विष्प्रयोगो द्विर्वचनमिति पक्षमाश्रित्याह - `द्विष्प्रयोगश्च` इत्यादि। चकारोऽवधारणे। द्विष्प्रयोग एवेत्यर्थः। न स्थाने द्विष्प्रयोग इत्यर्थः। अथ द्विष्प्रयोगद्विर्वचने कथमयं दोषो न भवति? इत्याह - `आवृत्तिसंख्या हि` इत्यादि। पुनः पुनरुच्चारणम्ावृत्तिः। तत्? पुनः संख्याव्यवस्थितस्यैव धातोर्विधीयते। `तेन` इत्यादि। यस्मादावृत्तिः सख्याव्यवस्थितस्यैव धातोर्विधीयते, तेन स एव शब्दो व्यवस्थित एव द्विरुच्चार्यते, न तु तस्य स्ताने शब्दान्तरं विधीयत इति कुतः पुनः पूर्वोक्तदोषाव सरप्रसङ्गः!यदि तर्ही द्विष्प्रयोगो द्विर्वचनमित्येष पक्ष आक्षीयते, एवं च सति **वस्वेकाजाद्घसाम्** (7.2.67) इत्यत्रादिवान्, आशिवान्, पेचिवान्, शेकिवान्, इत्युदाहृत्य यद्वक्ष्यति - `धात्वभ्यासयोरेकादेशे कृत एवाभ्यासलोपयोः कृतयोः कृतद्विर्वचना एत एकाचो न भवन्ति` इति, तन्न युज्यते; अकृतेऽपि धात्वभ्यासयोरेकादेशेऽकृतयोरपि चैत्वाभ्यासलोपयोः कृतद्विर्वचनानामष्येषामेकाच्त्वात्। स्थाने द्विर्वचने हि शब्दान्तरमेवा नेकाजादिश्यत इति स्यादेषां कृतद्विर्वचनानामनेकाच्त्वम्, न तु द्विष्प्रयोगपक्षे। तत्र हि स एव शब्दो द्विरुच्चार्यते। न चासौ शतकृत्वोऽप्युच्चार्यमाम एकाच्त्वं जहाति, किं पुनर्द्विरुच्यमानः। यदपि नियमस्य व्यवच्छेद्यचं दर्शयितुं बिभिद्वानित्यादि तत्रोपन्यसिष्यति, तदप्ययुक्तमेव; भिविप्रभृतीनामेव यथोक्तादेव हेतोः कृतद्विर्वचनानामप्येकाच्त्वात्। यदप्याद्ग्रहणमनेकाजर्थमित्यभिधास्यति, तदप्ययुक्तमेव; तत एव हेतोराकारान्तानां कृतद्विर्वचनानामप्यनेकाच्त्वानुपपत्तेः। तस्मात्? स्थाने कृतद्विर्वचनपक्षोऽप्यङ्गीकर्तव्यः। एवं तह्र्रन्यथा व्याख्यायते। इह पक्षद्वयं पूर्वोक्तं, सम्भवति। तत्र किं द्विष्प्रयोगो द्विर्वचनमित्येष पक्ष आश्रीयते? उत स्थाने द्विर्वचनपक्षः - इति प्रश्नावसर इदमाह - `द्विष्प्रयोगश्च द्विर्वचनम्` इति। चकारः स्थाने द्विर्वचनमित्यमुमर्थं द्योतयति। ननु च **षष्ठी स्थानेयोगा** (1.1.49) इति वचनात्? स्थाने द्विर्वचनपक्षेमात्र [द्विर्वचनपक्षे नात्र - मुद्रितः पाठः] भवितुं युक्तम्, तत्? कथं द्विष्प्रयोगपक्षोऽप्युपपद्यत इत्यत आह - `आवृत्तिसंख्या हि` इत्यादि। यदि शब्दान्तरं तस्य स्थाने विधीयते तदा स्थान्यादेशसम्बन्धे प्रतिस्थाने द्विर्वचनमित्येष पक्षो जायत इत्यक्तम्। यदा त्वावृत्तिसंख्या विधीयते तदेतरः पक्षो भवतीति। एदपि प्रतिपादितं प्राक्। तस्मात्? द्विष्प्रयोगपक्षो यदाङ्ग#ईकर्तुमिष्यते, तदावृत्तिसंख्या द्वे इति विधीयते, तेन स एव शब्दो द्विरुच्चार्यते, न तु शब्दान्तरं तस्य स्थाने विदीयते। तस्माद्द्विष्प्रयोगद्विर्वचनपक्षोऽप्यङ्गीकर्तव्यः। अथ कथं स्थाने द्विर्वचनमित्येषोऽपि पक्ष आश्रीयते, यावता जिघांसतीत्यत्र हन्तेर्हकारस्य कुत्वं न प्राप्नोतीत्युक्तम्? नैष दोषः; उच्यते चेदम् - अब्यासाच्च (7.3.55) हन्तेः कुत्वं भवतीति। न च तस्य स्थाने शब्दान्तर एवादेशे कृते हन्तिरस्ति। तत्र वचनसामर्थ्यादादेशैकदेशे हन्तिप्रतिरूपके हन्तिशब्दो विज्ञास्यते। अन्ये त्वनयोः पक्षयोर्दोषा य आशङ्क्यन्ते ते भाष्य एवोत्क्षिप्य प्रतिक्षिप्ताः। इह त्वतिविस्तरग्रन्थभयान्न लिख्यन्ते॥ Prakriyasarvasvam ----------------- 'लिटि धातोः' (६-१-८) इत्यादौ प्रथमस्यैकाचोऽशस्य द्वे उच्चारणे स्त इत्यधिक्रियते । प्रथमैकाजिति द्वितीयैकाचः पूर्वो भाग उक्तः । तेन दर् इत्यस्य द्विरुक्तिः, दर् दरिद्रा वस्, 'हलादिः शेषः' (७-४-६०) इति रलोपः । ददरिद्रा वस् । ल्युटकवर्जित आर्धधातुके कर्तव्ये दरिद्रातेराल्लोपोक्तेरादन्तत्वनाशात् 'वस्वेकाज्—' (७-२-६७) इति इण् न । ददरिद्रुवान् जागर्तेश्च, जागृ इत्यस्य द्विरुक्तिः, हलादिशेषः, अभ्यासह्रस्वः, जजागृवस् । 'जाग्रोऽविचिण्णल्ङित्सु' (७-३-८५) इति गुणः । जजागर्वान् । तत्र विशब्दे इकारस्योक्त्यर्थत्वाद् वकारादिप्रत्यये सर्वत्र जाग्रो गुणाभाव इति मते जजागृवानित्यपि । एवं क्विप्यपि वादित्वादगुणे ह्रस्वतस्तुकि । जागृत् स्यात् गुणपक्षे तु रेफान्तं जागरित्यपि ॥ १२४ ॥