54154: शेषाद्विभाषा =================== **Padacheda:** शेषात् | S | 5 | 1 | विभाषा | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After all other बहुव्रीहि समास not covered by the foregoing rules, may optionally be added the affix कप्। Vasu English Translation ------------------------ After all other बहुव्रीहि समास not covered by the foregoing rules, may optionally be added the affix कप्। Thus बहुखट्वकः or बहुखट्वाकः or बहुखट्वः, बहुमालकः or बहुमालाकः or बहुमालः, बहुवीणकः or बहुवीणः or बहुवीणाकः &c. The word शेष denotes all those *Bahuvrihi* about which no special rule has been given above. How do you explain the forms अनृक्कं साम, बह्वृक्कं सूक्तं, in which the affix कप् is added, though these words are governed by the general rule (5.4.74), and ought to have taken the *samasanta* affix अ? The affix अ is added to ऋक् when the compound has a special meaning such as अनृचः means 'a boy', बह्वृचः 'a *charana*'. Why do we say "after the rest"? Observe प्रियपथः, प्रियधुरः ॥ Bhashya ------- शेषाद्विभाषा (2431) (शेषपदार्थबोधकभाष्यम्) शेषादित्युच्यते कः शेषो नाम? याभ्यः प्रकृतिभ्यः समासान्तो न विधीयते स शेषः॥ (शेषपदस्य फलबोधकभाष्यम्) किमर्थं पुनः शेषग्रहणं क्रियते? याभ्यः प्रकृतिभ्यः समासान्तो विधीयते ताभ्यः कब्मा भूदिति। नैतदस्ति प्रयोजनम्। ये प्रतिपदं विधीयन्ते ते तत्र बाधका भविष्यन्ति। अनवकाशा हि विधयो बाधका भवन्ति सावकाशाश्च समासान्ताः। कोऽवकाशः? विभाषा कप् यदा न कप् सोऽवकाशः। कपः प्रसङ्गे उभयं प्राप्नोति। परत्वात्कप् प्राप्नोति। तस्माच्छेषग्रहणं कर्तव्यम्॥ (शेषग्रहणे पक्षद्वयोपपादकभाष्यम्) किं पुनिरदं शेषग्रहणं कबपेक्षम् - यस्माद्बहुव्रीहेः कब्न विहित इति, आहोस्वित्समासान्तापेक्षम् - यस्माद् बहुव्रीहेः समासान्तो न विहित इति? किं चातः? (प्रथमपक्षे दोषोपपादकभाष्यम्) यदि विज्ञायते - कबपेक्षम्, अनृचः - बह्वृच इत्यत्रापि प्राप्नोति॥ (द्वितीयपक्षे दोषोपपादकभाष्यम्) अथ समासान्तापेक्षम्। अनृक्कं साम - बह्वृक्कं सूक्तमिति न सिद्ध्यति॥ (प्रथमपक्षे दोषान्तरोपपादकभाष्यम्) अस्तु कबपेक्षम्। कथमनृचो बह्वृचेति? विशेष एतद् वक्तव्यम् - अनृचो, माणवे बह्वृचश्चरणाख्यायाम् इति। इदं तर्हि - ऊधसोऽनङि स्त्रीग्रहणं चोदितं तस्मिन् क्रियमाणेऽपि प्राप्नोति॥ (शेषग्रहणस्यापेक्ष्यनिर्धारकभाष्यम्) एवं तर्हि नैव कबपेक्षं शेषग्रहणम्, नापि समासान्तापेक्षम्। किन्तर्हि? अनन्तरो यो बहुव्रीह्यधिकारः सोऽपेक्ष्यते। अनन्तरे बहुव्रीह्यधिकारे यस्माद् बहुव्रीहेः समासान्तो न विहित इति। कथमनृचः - बह्वृचेति? वक्तव्यमेवैतत् - अनृचो माणवे, बह्वृचश्चरणाख्यायाम् इति॥ Kashika ------- यस्माद् बहुव्रीहेः समासान्तो न विहितः स शेषः, तस्माद् विभाषा कप्प्रत्ययो भवति। बह्व्यः खट्वा अस्मिन् बहुखट्वकः। बहुमालकः। बहुवीणकः। बहुखट्वाकः। बहुमालाकः। बहुवीणाकः। बहुखट्वः। बहुमालः। बहुवीणः। कथमनृक्कं साम बह्वृक्कं सूक्तमिति, यावता विहितोऽत्र सामान्येन समासान्त **ऋक्पूः०** (५.४.७४) इति? नैतदस्ति। विशेषे स इष्यते, अनृचो माणवके ज्ञेयो बह्वृचश्चरणाख्यायाम् (५.४.७४) इति। शेषादिति किम् ? प्रियपथः। प्रियधुरः॥ Siddhanta Kaumudi ----------------- अनुक्तसमासान्ताच्छेषाधिकारस्थाद्बहुव्रीहेः कप् वा स्यात् । महायशस्कः । महायशाः । अनुक्तेत्यादि किम् । व्याघ्रपात् । सुगन्धिः । प्रियपथः । शेषाधिकारस्थात् किम् । उपबहवः । उत्तरपूर्वा । सुपुत्रः । तन्त्रादिना शेषशब्दोऽर्थद्वयपरः ॥ Laghu Siddhanta Kaumudi ----------------------- अनुक्तसमासान्ताद्बहुव्रीहेः कब्वा । महायशस्कः, महायशाः ॥ इति बहुव्रीहिः ॥ ४ ॥ Balamanorama ------------ **शेषाद्विभाषा** - शेषाद्विभाषा । इतः पूर्वं येब्यः समासान्ता विहितास्तेभ्योऽन्यः शेषः । तदाह — अनुक्तसमासान्तादिति । शेषाधिकारस्थादिति ।शेषा॑दित्यनेन शेषाधिकारस्थादित्यपि विवक्षितमिति भावः । महयशस्क इति । महत् यशः यस्येति विग्रहः 'आन्महतः' इत्यात्त्वे, कपि, 'सोऽपदादौ' इति सत्वम् । महायशा इति । कबभावेअत्वसन्तस्ये॑ति दीर्घः । व्याघ्रपादिति ।पादस्य लोपोऽहस्त्यादिभ्यः॑ इत्युक्तसमासान्तोऽयम् स्थानिद्वारा लोपस्यापि समासान्तत्वात् । सुगन्धिरिति ।गन्धस्येदुत्पूती॑ति कृतसमासान्तोऽयम् । प्रियपथ इति ।ऋक्पू॑रिति कृतसमासान्तोऽयम् । उपबहव इति । सङ्ख्ययाव्यये॑ति बहुव्रीहिरयं, न शेषाधिकारस्थः । उत्तरपूर्वेति । अयमपिदिङ्नामान्यन्तराले॑ इति बहुव्रीहिः न सेषाधिकारस्थः । सपुत्र इति । 'तेन सह' इत्ययमपि बहुव्रीहिः न शेषाधिकारस्थः । ननु सकृदुच्चारिताच्छेषशब्दात् कथमर्थद्वयलाभ इत्यत आह — तन्त्रादिनेति । आदिना आवृत्तिसंग्रहः । एकमनेकोपयोगि तन्त्रम् । उच्चारयित्रा तन्त्रेणोच्चारिताच्छब्दादावृत्त्या बोध इति बोध्यम् ।ओतो धावती॑त्यादौ सकृदुच्चारणेऽपिआआ इतो धावति, ओत गुणको धावती॑त्येवमनेकार्थबोधदर्शनादिति भावः । Tattvabodhini ------------- **शेषाद्विभाषा** - शेषद्वि । यद्यत्र प्रागुक्तकब्मात्रापेक्षः शेषः स्यात्तर्हि व्याघ्रपात्सुगन्धिरित्यादावपि स्यादतः समासान्तापेक्षः शेष इह गृह्रत इत्याह -अनुक्तसमासान्तादिति । व्याघ्रपादिति । स्थानिद्वारा लोपोऽपि समासान्तापेक्ष इत्युक्तम् । सुगन्धिरिति ।गन्धस्ये॑दित्यादिना इत्समासान्तः । प्रियपथ इति ।ऋक्पूः -॑इत्युप्प्रत्ययः समासान्तः । उपबहव इति ।संङ्ख्याव्यये॑त्यादिना समासः । उत्तरपूर्वेति ।दिङ्नामे॑त्यादिना समासः । सुपुत्र इति ।तेन सहेती॑त्यादिना समासः । अयं भावः — ॒शेषो बहुव्राहि॑रित्यतऋ शेषपदम्अनेकमन्यपदार्थे॑इत्येतस्मिन्नेव सूत्रेऽनुवर्तते,सङ्ख्यायाव्ययासन्ने॑त्यादिषु च निवर्तते । तथा च शेषधिकारस्थात्वाऽभावादुपबहव इत्यादिषु कप्प्रत्ययो नेति । एवं चअनेकमन्यपादर्थे॑इति सूत्रत्पृथक्सङ्ख्ययाव्ययासन्ने॑त्यादीनामारम्भः कबभावार्थमप्यावश्यक इति स्थितम् । ननु सकृदुच्चरितस्य शेषशब्दस्याऽनुक्तसमासान्तपरत्वं शेषाधिकारस्थपरत्वं च कथमित्यत आह -तन्त्रादिनेति ।अर्थभेदेन शष शब्दभेदः॑,सत्यप्यर्थभेदे ब्दस्याऽभेदः॑इति मतद्वयम् । आद्ये आवृत्तिर्द्वितीये तन्त्रमिति विवेकः । यत्तु वदन्ति -॒प्रतिपदोक्ताः समासान्ताः स्वविषये बाधका भवन्ति, तत्किमनुक्तसमासान्तपरेण शेषग्रहणेने॑ति । तन्न ।ऋक्पूः॑ इत्यादीनां समासान्तरे चरितार्थतयाप्रियपथ॑इत्यादौ परेण कपा बाधापत्तेः । Padamanjari ----------- यस्माद्बहुव्रीहेरिति। कर्मणि ल्यब्लोपे एषा पञ्चमी, बहुव्रीहिमाश्रितयेत्यर्थः, तेन यत्राप्यादेशः समासान्तः - व्याघ्रपात्, सुगन्धिः, कुण्डोध्नीति; असावपि शेषो न भवति। प्रत्ययप्रायत्वाद्वा समासान्तस्य'यस्मात्' इत्युक्तम्। इह शेषः कबपेक्षो वा स्याद्, अनन्तरो यो बहुव्रीह्यधिकारस्तदपेक्षो वा, समासान्तमाक्षत्रापेक्षो वा-इति त्रयः पक्षाः सम्भवन्ति। तत्राद्ये पक्षे-व्याघ्रपात्, सुगन्धिः, द्विदशाः, अनृचः, विधुर इत्यादौ नित्यकब्विषयवर्जं सर्वत्र प्रसज्येत। शेषग्रहणं चानर्थकम्, न हि नित्यकब्विषये विकल्पप्रसङ्गः; नित्यकविधेरानर्थक्यप्रसङ्गात्। द्वितीयेऽपि द्विद्शा इत्यादौ स्यादेव प्रसङ्ग इति मन्यमानस्तृतीयं पक्षमाश्रयति - समासान्तो न विहित इति। बहुखट्वक इत्यादौ ठापोऽन्यतरस्याम्ऽ इति ह्रस्वः, बहुखट्व इत्यादौ'गोस्त्रियोरुपसर्जनस्य' इति। कथमित्यादि। यदि समासान्तापेक्षः शेष इति प्रश्नः। विशेषे स इष्यत इति। ततश्च विषयान्तरे सूक्ते सामनि च बहुव्रीहेः समासान्तापेक्षं शेषत्वमस्त्येवेति भावः। किमर्थं पुनः शेषग्रहणम्, यावता यत्र समासान्ता विहितास्तत्र त एव बाधका भविष्यन्ति, अनवकाशा विधयो बाधका भवन्ति, सावकाशाश्च ते, कोऽवकाशः ? विभाषा कप्, यदा न कप् सोऽवकाशः - कपोऽप्यन्याः प्रकृतयः; विशेषप्रकृतिभ्य उभयप्रसङ्गे परत्वात्कप् स्यात्। तस्माच्छेषग्रहणम् ॥ Nyaas ----- शेषः कबपेक्षो वा स्यात् - यस्माद्बहुव्रीहेः कब्न विहितः स शेष इति? समासान्तापेक्षो वा - यस्माद्बहुव्रीहेः समासान्तो न विहितः स शेष इति? तत्र यदि कबपेक्षः शेषः स्यात् - अनृचः, व्याघ्रपात्, सुगन्धिरित्यत्रापि स्यात्। न ह्रतः केनचित्? कब्विहित इति कबपेक्षे शेषे दोषं दृष्ट्वा समासान्तापेक्षया शेष इति दर्शयन्नाह - `यस्माद्बहुव्रीहेः समासान्तो न भवति स शेषः` इति। कथं ज्ञायते - समासान्तापेक्षः शेष इति? शेषग्रहणात्। तत्र यदि कबपेक्षः शेषः स्यात्, शेषग्रहणनर्थकं स्यात्। आरम्भसामर्थ्यादेव हि शेषविषय एव विकल्पो भविष्यति; अन्यथा यदि यतोऽपि पूर्वेविधिवाक्यैः कब्विहितस्ततोऽप्यनेन विभाषा विधीयते, विधिवाक्यानामानर्थक्यमापद्येत। तस्माच्छेषग्रहणात्? समासान्तापेक्षः शेषो विज्ञायते। `बहूखट्वकः` इति **आपोऽन्यतरस्याम्** (7.4.15) इति ह्रस्वः। `बहुखट्वः` इत्यत्रापि **गोस्त्रियोरुपसर्जनस्य** (1.2.48) इति। `कथम्` इत्यादि। यदि समासान्तापेक्षः शेषः; अनृक्कं साम, बह्? वृक्कं सूक्तमित्यत्र कब्न सिध्यतीत्यभिप्रायः। `विशेषे स इष्यते` इति। स ह्रकारः समासान्तो विशेषे माणवे चरणाख्यायां चेष्यत इति तत्राकारो विहितः। न चापि तत्रैव विशेष कब्विहितः, किं तर्हि? विषयान्तरे - सामनि, सूक्ते च। तत्र बहुव्रीहेः समासान्तापेक्षः शेषः। तेन च प्रियपथः, प्रियमधुर इति `ऋक्पूरब्धूः` (5.4.74) इत्यादिनाऽकारः समासान्तः। अथ किमर्थं शेषग्रहणम्, यावता याभ्यः प्रकृतिभ्यः समासान्ता विहिताः, ताभ्यस्त एव बाधका भविष्यन्ति? नैतदस्ति; निरवकाशा हि विषयो बाधका भविष्यन्ति, सावकाशाश्च समासान्ताः। कोऽवकाशः? प्रतिपदोपात्तप्रकृतयः; याभ्यः समासान्ता अर्थविशेषे समासविशेषं प्रति प्रतिपदमुपादाय विहिताः सोऽवुकाशः; विशेष प्रकृतिभ्यः प्रसङ्गे सत्युभयप्राप्तौ परत्वात्? कप्रत्ययः स्यात्। तस्माच्छेषग्रहणं कर्तव्यम्॥ Prakriyasarvasvam ----------------- प्रागनुक्तसमासान्ताद् बहुव्रीहेः कब्वा स्यात् । प्रियकृष्णकः । प्रियकृष्णः ॥ Sutra Prayogas -------------- * **किंचिदुक्षितशिखण्डकावुभौ** (रघुवंशम्): `शेषाद्विभाषा` इति कप्प्रत्ययः। * **विपयसि** (किरातार्जुनीयम्): `शेषाद्विभाषा` इति विकल्पान्न समासान्तः। * **गृहीतदिक्कैः** (शिशुपालवधम्): `शेषाद्विभाषा` इति कप् प्रत्ययः। * **सकर्णकैः** (शिशुपालवधम्): `शेषाद्विभाषा` इति कप् प्रत्ययः। * **संवलितांशुकम्** (शिशुपालवधम्): `शेषाद्विभाषा` इति कप्प्रत्ययः।