54148: उद्विभ्यां काकुदस्य ========================== **Padacheda:** उद्विभ्याम् | S | 5 | 2 | काकुदस्य | S | 6 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- After उत् and वि the final of काकुद is elided in a बहुव्रीहि समास । Vasu English Translation ------------------------ After उत् and वि the final of काकुद is elided in a बहुव्रीहि समास । Thus उद्गतंकाकुदमस्य = उत्काकुत्, so also विकाकुत् ॥ The word काकुद means 'palate'. Kashika ------- उद् वि इत्येताभ्यां परस्य काकुदशब्दस्य लोपो भवति बहुव्रीहौ समासे। उद्गतं काकुदमस्य उत्काकुत्। विकाकुत्। तालु काकुदमुच्यते॥ Siddhanta Kaumudi ----------------- लोपः स्यात् । उत्काकुत् । विकाकुत् । काकुदं तालु ॥ Laghu Siddhanta Kaumudi ----------------------- लोपः स्यात्। उत्काकुत्। विकाकुत्॥ Balamanorama ------------ **उद्विभ्यां काकुदस्य** - उद्विभ्यां काकुदस्य । लोप इति । उद्विभ्यां परस्य काकुदस्य लोपः स्याद्बहुव्रीहावित्यर्थः । उत्काकुदिति । उन्नतं काकुदं यस्येति विग्रहः । काकुदशब्दं व्याचष्टे-काकुदं ताल्विति । Nyaas ----- `उत्काकुत्, विकाकुत्` इति। अन्त्यस्य लोपे कृते **वाऽवसाने** (8.4.56) इति चर्त्वम्। ननु च **आदेः परस्य** (1.1.54) इत्यादिलोपेन भवितव्यम्, तत्कथमन्त्यस्य भवति? अन्त्यवचनो ह्रवयववचनोऽपि, स नियतदेशावयवमाचष्ट इत्युक्तम्। तत्र यद्यादेः स्यात्, समासान्तता नोपपद्यते॥ Prakriyasarvasvam ----------------- लोपः स्यात् । काकुदं तालु । उत्काकुत् । विकाकुत् ॥