54131: ऊधसोऽनङ् =============== **Padacheda:** ऊधसः | S | 6 | 1 | अनङ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The syllable अनङ् is the substitute of the final ऊधस् in a बहुव्रीहि समास । Vasu English Translation ------------------------ The syllable अनङ् is the substitute of the final ऊधस् in a बहुव्रीहि समास । As कुण्डमिव ऊधोऽस्याः = कुण्डोध्नी, घटोध्नी ॥ The feminine is formed by adding ङीष् (4.1.25); and these words are always used in this form for the feminine only; no substitution takes place in the masculine, as महोधाः पर्जन्यः; घटोधो धैनुकम् ॥ ऊधस + अन् = ऊधन् (6.4.148). ऊधन् + ङीष् = ऊध्न् + ई (अ being elided by (6.4.134) = ऊध्नी ॥ Bhashya ------- ऊधसोऽनङ् (2408) (5943 उपसंख्यानवार्तिकम्॥ 1 ॥) - ऊधसोऽनङि स्त्रीग्रहणम् - (भाष्यम्) ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम्। इह मा भूत् - महोधाः पर्जन्य इति॥ Kashika ------- ऊधःशब्दान्तस्य बहुव्रीहेरनङादेशो भवति समासान्तः। कुण्डमिव ऊधोऽस्याः सा कुण्डोध्नी। घटोध्नी॥ ऊधसोऽनङि स्त्रीग्रहणं कर्तव्यम्॥ इह मा भूत् — महोधाः पर्जन्यः। घटोधो धैनुकम्॥ Siddhanta Kaumudi ----------------- ऊधोन्तस्य बहुव्रीहेरनङादेशः स्यात् स्त्रियाम् । इत्यनङि कृते डाब् ङीब् निषेधेषु प्राप्तेषु ॥ Balamanorama ------------ **ऊधसोऽनङ्** - तत्र विशेषमाह — ऊधसोऽनङ् । बहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुवीहावित्यनुवृत्तं षष्ठआ विपरिणम्यते, 'ऊधसः' इत्यनेन विशेष्यते, तदन्तविधिः । तदाह — ऊधोऽन्तस्येति । समासान्तप्रकरणस्थत्वेऽपि ङित्त्वादस्यादेशत्वं बोध्यम् । इत्यनङि कृते इति । अनङि ङकार इत्, अकार उच्चारणार्थः,ङिच्चे॑त्यन्त्यस्य सकारस्य अन्, पररूपम्, कुण्जोधन् इति स्थिते सतीत्यर्थः । डाब्डीब्निषेधेष्विति ।डाबुभाभ्या॑मिति वैकल्पिके डापि, 'अन उपधालोपिनः' इति वैकल्पिके ङीपि, तदुभयाऽभावे 'ऋन्नेभ्यः' इति प्राप्तस्य ङीपःअनो बहुव्रीहे॑रिति निषेधे च प्राप्ते इत्यर्थः । Tattvabodhini ------------- **ऊधसोऽनङ्** - ऊधसोऽनङ् । नादेशेनैव सिद्धेऽनङ्करणंधनुषश्चे॑त्युत्तरार्थम्, अन्यथाशाङ्र्गधन्वे॑ति न सिद्ध्येदित्याहुः । वस्तुत इहार्थमप्यावश्यकमेव, अन्यथा अनोलक्षणिकत्वेनाऽल्लोपाऽपर्सङ्गादित्यन्ये । इहबहुव्रीहौ सक्थ्यक्ष्णो॑रित्यतो बहुव्रीहावित्यनुवर्तते इत्याह — Nyaas ----- `अनङादेशोऽयं भवति` इति। कथं पुनर्विज्ञायते - आदेशोऽयं न प्रत्यय इति ? यद्येष प्रत्ययः स्यात्? ङित्करणमनर्थकं स्यात्? आदेशो ह्रस्मिन्नन्त्यादेशार्थं ङित्त्वमर्थवद्भवति। तस्मान्ङित्त्वादेवायमादेशो भवतीति विज्ञायते। `कुण्डोध्नी` इति। अनङि कृते **अतो गुणे** (6.1.97) पररूपत्वम्, **बहुव्रीहेरूधसो ङीष्** (4.1.25) इति ङीष्? **अल्लोपोऽनः** (6.4.134) । `स्त्रीग्रहणं कर्तव्यम्` इति। स्त्री गृह्रते येनाभिधेयनित्यत्वेन ततः स्त्रीग्रहणं कर्तव्यम्। एतदुक्तं भवति - तथा व्याख्यानं कर्तव्यं यथा स्त्रियामभिधेयायामनङ् भवतीति। तत्रेदं व्याख्यानम् - `ऊध्र्वाद्विभाषा` (5.4.130) इत्यतो विभाषाग्रहणमनुवर्तते, सा च व्यस्थितविभाषा, तेन स्त्रियामेव भवति, नान्यत्रेति। अनङ्ऽकारादित्वमुत्तरार्थम्। इह विनापि तेन सिध्यत्येव॥ Praudhamanorama --------------- नादेशेनैव सिद्धेऽनङ्करणं 'धनुषश्च' इत्येतदर्थम्। Prakriyasarvasvam ----------------- ऊधोन्तस्यानङादेशो ङित्त्वादन्त्यस्य सस्य सः । अन्त्यो ह्यकार उक्त्त्यर्थः पूर्वस्य स्यादतो गुणे ॥ ३९८ ॥ घटोधन् । Sutra Prayogas -------------- * **घटोध्नीः** (रघुवंशम्): `ऊधसोऽनङ्` इत्यनङादेशः। * **प्रस्नुतपीवरौधसः** (किरातार्जुनीयम्): `ऊधसोऽनङ्` इति सूत्रेण प्राप्तः अनङादेशः 'स्त्रीग्रहणं कर्तव्यम्' इति वार्त्तिकान्न भवति।