54127: इच् कर्मव्यतिहारे ======================== **Padacheda:** इच् | S | 1 | 1 | कर्मव्यतिहारे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix इच् comes after a बहुव्रीहि समास when the compound denotes the reciprocity of an action. Vasu English Translation ------------------------ The affix इच् comes after a बहुव्रीहि समास when the compound denotes the reciprocity of an action. The compound denoting reciprocity of action is formed by (2.2.27). Thus केशाकेशि = केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं ॥ So also कचाकचि, मुसलामुसलि, दण्डादण्डि ॥ The affix इच् forms also *avyayibhava* compounds, as it occurs in the list of तिष्ठद्गु words (2.1.17). Kashika ------- कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् प्रत्ययो भवति। **तत्र तेनेदमिति सरूपे** (२.२.२७) इत्ययं बहुव्रीहिर्गृह्यते। केशेषु केशेषु गृहीत्वा इदं युद्धं प्रवृत्तं केशाकेशि। कचाकचि। मुसलैश्च मुसलैश्च प्रहृत्य इदं युद्धं प्रवृत्तं मुसलामुसलि। दण्डादण्डि। तिष्ठद्गुप्रभृतिषु (२.१.१७) अयमिच् प्रत्ययः पठ्यते॥ Siddhanta Kaumudi ----------------- कर्मव्यतिहारे यो बहुव्रीहिस्तस्मादिच् स्यात्समासान्तः । केशाकेशि । मुसलामुसलि ॥ Balamanorama ------------ **इच् कर्मव्यतिहारे** - इच्कर्मव्यतिहारे । समासान्त इति । तद्धित इत्यरि ज्ञेयम् । केशाकेशीति । अत्र प्रक्रिया प्रागेव प्रदर्शिता । Tattvabodhini ------------- **इच् कर्मव्यतिहारे** - केशकेशीति ।तत्र तेनेद॑मिति कर्मव्यतिहारे बहुव्रीहिः । इच्प्रत्ययस्य तिष्ठद्गुप्रभृतिषु पाठादव्ययीभावत्बेऽव्ययत्वम् । नन्वेवमिचश्चित्करणं व्यर्थम्, अव्ययीभावसंज्ञाया बहुव्रीहिसंज्ञाया बाधात्समासस्वरेणान्तोदात्तत्वसिद्धेः । अत्राहुः — विशेषणार्तं तदावश्यकमेव । तिष्ठद्गुणप्रभृतिषु इकारमात्रपाठे हि सुगन्धिरित्यादावतिव्याप्तिप्रसङ्गात् । किञ्चात्राऽव्ययीभावसंज्ञया बहुव्राहिसंज्ञा न बाध्यते, किं तु द्वयोः समावेश एव, उपजीव्यविरोधस्याऽन्याय्यत्वात् । एवं च स्वरार्थमपि चित्त्वं कर्तव्यमेवेति । Padamanjari ----------- अयं बहुव्रीहिर्गृह्यत इति। अस्यैव कर्मव्यतिहारे वृतेः। उदारहरणेषु ठन्येषामपि दृश्यतेऽ इति पूर्वपदस्य दीर्घत्वम्। तिष्ठद्गुप्रभृतिष्वयमिच् पठ।ल्ते इति। तेनाव्ययीभावसंज्ञकत्वादव्ययत्वे सति सुब्लुग्भवतीति भावः। यद्येवम्, अव्ययीभावसंज्ञया बहुव्रीहिसंज्ञाया बाधनात्समासस्वरेणैवान्तोदातत्वं सिद्धमिति नार्थश्चित्करणेन? विशेषणार्थं तु। असति हि तस्मिस्तिष्ठद्गुप्रभृतिष्विकारमात्रं पठ।लेत, ततश्च ठच इःऽ इत्यस्यापि ग्रहणं स्यात् ॥ Nyaas ----- `तत्र तेनेदमिति सरूपे` इत्ययं बहुव्रीहिर्गृह्रते` इति। अस्यैव कर्मध्यतिहारे वृत्तेः `केशाकेशि` (इति) **अन्येषामपि दृश्यते** (6.3.137) इति दीर्घः। तिष्ठद्गुप्रभृतिष्विच्प्रत्ययस्य पाठादव्ययीभावसंज्ञा, अव्ययीभावश्च समासोऽव्ययसंज्ञो भवतीति। तेन सुब्लुग्भवतीति भावः। इचश्चित्करणं विशेषार्थम्। यदि ह्यत्र चकारो न क्रियते, तदा तिष्ठद्गुप्रभृतिष्वपीकारमात्रं पठएत, तदेकारमात्रस्यापि ग्रहणं स्यात्॥ Prakriyasarvasvam ----------------- कर्मव्यतीहारः परस्परकरणम् । तदर्थाद् बहुव्रीहेः समासान्त इच् स्यात् । तिष्ठद्गुप्रभृतिषु पाठादिचोऽव्ययत्वम् । मिथः केशेषु केशेषु च गृहीत्वा प्रवृत्तं युद्धं केशाकेशि । मिथो दण्डैश्च दण्डैश्च प्रहृत्य प्रवृत्तं युद्धं दण्डादण्डि । 'अन्येषामपि दृश्यते' (६-३-१३७) इत्युक्त्या यथादर्शनं क्वचिद् दीर्घत्वमात्वं च वा स्यात् । अजादौ तु न स्यात् । मुष्टामुष्टि, मुष्टीमुष्टि, 'ओर्गुणः' (६-४-१४६) बाहाबाहवि, बाहूबाहवि । अचि परे तु अस्यसि । 'युद्धनियमो नास्ती'ति शृङ्गारे । मिथो हस्ते च हस्ते च गृहीत्वा चरन्ति हस्ताहस्ति चरन्ति ।।