54121: नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम् ========================================== **Padacheda:** नञ्दुःसुभ्यः | S | 5 | 3 | हलिसक्थ्योः | S | 6 | 2 | अन्यतरस्याम् | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अच् comes optionally after the words 1. हलि and 2. सक्थि final in a बहुव्रीहि समास when preceded by a negative particle or by the words 1. दुस् and 2. सु। Vasu English Translation ------------------------ The affix अच् comes optionally after the words 1. हलि and 2. सक्थि final in a बहुव्रीहि समास when preceded by a negative particle or by the words 1. दुस् and 2. सु। Thus अविद्यमाना हलिरस्य = अहलः or अहलिः, दुर्हलः or दुर्हलिः, सुहलः or सुहलिः ॥ So also असक्थः, असक्थिः, दुःसक्थः or दुःसक्थिः, सुसक्थः or सुसक्थिः ॥ Some read the text as हलिशक्त्योः ॥ According to this reading we have अशक्तिः or अशक्तः, दुःशक्तिः or दुःशक्तः (विरूपा शक्तिरस्य), सुशक्तिः or सुशक्तः ॥ Kashika ------- नञ् दुस् सु इत्येतेभ्यः परौ यौ हलिसक्थिशब्दौ तदन्तात् बहुव्रीहेरन्यतरस्यामच् प्रत्ययो भवति समासान्तः। अविद्यमाना हलिरस्य अहलः, अहलिः। दुर्हलः, दुर्हलिः। सुहलः, सुहलिः। अविद्यमानं सक्थ्यस्य असक्थः, असक्थिः। दुःसक्थः, दुःसक्थिः। सुसक्थः, सुसक्थिः। हलिशक्त्योरिति केचित् पठन्ति। अविद्यमाना शक्तिरस्य अशक्तः, अशक्तिः। विरूपा शक्तिरस्य दुःशक्तः, दुःशक्तिः। शोभना शक्तिरस्य सुशक्तः, सुशक्तिः॥ Siddhanta Kaumudi ----------------- अच् स्यात् । अहलः । अहलिः । असक्थः । असक्थिः । एवं दुःसुभ्याम् । शक्त्योरिति पाठान्तरम् । अशक्तः । अशक्तिः ॥ Balamanorama ------------ **नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्** - नञ्दुःसुभ्यः । शेषरपूरणेन सूत्रं व्याचष्टे — अच्स्यादिति । अहलः, अहलिरिति । अविद्यमानो हलिर्यस्येति विग्रहः । हलिशब्द इदन्तो हलपर्यायः । तदन्तादचियस्येति चे॑तीकारलोपे तदभावे च रूपम् । यद्यपि हलशब्देन हलिशब्देन च रूपद्वयं सिद्धन्तथापि अनुक्तसमासान्तत्वाऽभावादत्र न कप् । असक्थः, असक्थिरिति । अविद्यमानं सक्थि यस्येति विग्रहः । एवं दुःसुभ्यामिति । दुर्हलः, दुर्हलिः । दुःसक्थ, दुःसक्थिः । शक्त्योरिति । 'हलिशक्त्योः' इति केचित्पाणिनीया पठन्तीत्यर्थः । केचिच्छिष्याः पाणिनिना तता पाठिता इति वदन्तीति भावः । Tattvabodhini ------------- **नञ्दुःसुभ्यो हलिसक्थ्योरन्यतरस्याम्** - नञ्दुःसुभ्यो । नन्वत्र हलिग्रहणं व्यर्थं, हलशब्दमादायाऽहल इति प्रयोगसम्भवात् । न च मदद्धलं हलिः, तद्रहितोऽहलिस्तत्रैवार्थेऽहल इति प्रयोगार्थं तद्ग्रहणमिति वाच्यम्, अहल इत्यत्र पूर्वपदप्रकृतिस्वरः स्यादिति सङ्क्यं,नञ्सुभ्या॑मित्यनेनान्तोदात्तत्वविधानात् । अत्राहुः -शैषिकस्य कपो निवृत्त्यर्थं,दुर्हलः॑ इत्यत्रान्तोदात्तत्वार्थं च तदिति । शक्त्योरिति । आचार्येण केचिच्छात्राहलिशक्त्यो॑रिति पाठिता इति भावः । Padamanjari ----------- हलिग्रहणमनर्थकम्? कथमहलः, सुहल इति? अकारान्तो हलशब्दोऽस्ति? नन्वर्थभेदोऽस्ति-महद्धलं हलिरित्युच्यते, हलमात्रं तु हलम्? नायमर्थभेदः किञ्चित्करः, क्रियमाणेऽपि हलिग्रहणे हलशब्देनापि समासो न दण्कडवारितः, ततश्च प्रकरणादिवशेन विशेषोऽवगन्तव्यः; सति चैवमकारान्तेनापि समासे प्रकरणादिनैव महस्वमवगंस्यते? इह तर्हि - दुर्हल इत्यकारान्तेनापि समासे पूर्वपदप्रकृतिस्वरः प्राप्नोति, समासान्ते तु विहिते चित्स्वरो भवति। अहलः, सुहल इत्यत्र'नञ्सुभ्याम्' इत्यन्तोदातविधानान्नास्ति विशेषः।'शेषाद्विबाषा' इति च हलिशब्दात्कप् प्रत्ययः प्रसज्येत; तस्माद्धलिग्रहणम्। केचितु हलिशक्त्योरिति पठन्ति। अस्थिपर्यायः शक्तिशब्दः ॥ Nyaas ----- `अकारान्तोऽपि हलशब्दोऽस्ति; तत्र यदा तेन समासः तदा हल इति भविष्यति, यदा त्विकारान्तेन तदा हलिरिति, तदनर्थकं हलिग्रहणम्? नानर्थकम्; भिन्नार्थत्वात्। तेन यो महद्धलं हलिः, तस्मिन्? विषये विवक्षिते, अहल इति न सिध्यति, अहल इति यदाकारान्तेन समासः क्रियते, पूर्ववत्? प्रकृतेभावेनाद्युदात्तत्वं चेष्यते, **शेषाद्विभाषा** (5.4.154) इति कप्? प्रसज्येत। तस्माद्युक्तं हलिग्रहणम्॥ Prakriyasarvasvam ----------------- एभ्यो हलिसक्थ्योरज् वा । अहलः, अहलिः । असक्थः, असक्थिः । एवं दुःसुभ्यामपि ॥ हलिसक्थ्योरिति त्वेके पठन्तीति हरोऽब्रवीत् । सुसृक्थो वा सुसृक्थिर्वा यज्ञः सुक्थिः किलारणिः ॥ ३९७ ॥