54120: सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः ============================================================ **Padacheda:** सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपदप्रोष्ठपदाः | S | 1 | 3 | Sutrartha --------- **** Vasu English Summary -------------------- The following बहुव्रीहि-s are irregularly formed by adding अच् - 1. सु-प्रात 2. सु-श्व 3. सु-दिव 4. शारिकुक्ष 5. चतुरश्र 6. एणी-पद 7. अज-पद and 8. प्रोष्ठ-पद। Vasu English Translation ------------------------ The following बहुव्रीहि-s are irregularly formed by adding अच् - 1. सु-प्रात 2. सु-श्व 3. सु-दिव 4. शारिकुक्ष 5. चतुरश्र 6. एणी-पद 7. अज-पद and 8. प्रोष्ठ-पद। In some of the above compounds the टि (syllable) is elided. शोभनं प्रातरस्य = सुप्रातः, शोभनं श्वोऽस्य = सुश्वः, शोभनं दिवाऽस्य = सुदिवः ॥ शारेरिव कुक्षिरस्य = शारिकुक्षः, चतस्रोऽश्रयोऽस्य = चतुरश्रः, एण्या इव पादावस्य = एणीपदः, So अजपदः, प्रोष्ठो गौः, तस्येव पादावस्य = प्रोष्ठपादः ॥ Kashika ------- सुप्रातादयो बहुव्रीहिसमासा अच्प्रत्ययान्ता निपात्यन्ते। अन्यदपि च टिलोपादिकं निपातनादेव सिद्धम्। शोभनं प्रातरस्य सुप्रा॒तः (शौ० सं० १९.८.३)। शोभनं श्वोऽस्य सुश्वः। शोभनं दिवास्य सु॒दिवः॑ (ऋ० १०.३.५)। शारेरिव कुक्षिरस्य शारिकुक्षः। चतस्रोऽश्रयोऽस्य चतुरश्रः। एण्या इव पादावस्य एणीपदः। अजस्येव पादावस्य अजपदः। प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठप॒दः (तै०सं० ४.४.१०.३)॥ Siddhanta Kaumudi ----------------- एते बहुव्रीहावच्प्रत्ययान्ता निपात्यन्ते । शोभनं प्रातरस्य सुप्रातः । शोभनं श्वोऽस्य सुश्वः । शोभनं दिवाऽस्य सुदिवः । शारेरिव कुक्षिरस्य शारिकुक्षः । चतस्त्रोऽश्रयोऽस्य चतुरश्रः । एण्या इव पादावस्य एणीपदः । अजपदः । प्रोष्ठो गौः, तस्येव पादावस्य प्रोष्ठपदः ॥ Balamanorama ------------ **सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपद- प्रोष्ठपदाः** - सुप्रात । सुप्रात इति । अच्प्रत्ययः ।॒अव्ययानां भमात्रे टिलोपः॑ । सुआ इति । अच् । पूर्ववट्टिलोपः । सुदिव इति । शोभनं दिवा यस्येति विग्रहः ।दिवे॑त्याकारान्तमव्ययम् ।अव्ययानां भमात्रे टिलोप॑ इति टिलोपः । शारिकुक्ष इति ।शारिः — पक्षिविशेषः । अचियस्येति चे॑तीकारलोपः । चतरुआओऽश्रय इति । कोणा इत्यर्थः । अचियस्येति चे॑तीकारलोपः । एण्या इवेति । एणी-मृगी । अजपद इति । अजः-छागः, तस्येव पादावस्येति विग्रहः । एणीपदादिषु अच् निपातनात् ।पादः पत् । Tattvabodhini ------------- **सुप्रातसुश्वसुदिवशारिकुक्षचतुरश्रैणीपदाजपद- प्रोष्ठपदाः** - शोभनं प्रातस्स्येति । अधिकरणशक्तिप्रधानस्य सामानाधिकरण्याऽसम्भवात्प्रातः शब्देन प्रातस्तनं कर्म लक्ष्यत इत्याहुः ।प्रातःकल्प॑मित्यत्रेव प्रातःशब्दो वृत्तिविषये शक्तिमत्पर इति सामानाधिकरण्यानुपपत्तिरित्यन्ये । एणीपदादिषु निपातनात्पद्भावः । Padamanjari ----------- टिलोपादिकमिति। सुप्रातः, सुख्व इत्यत्र टिलोपः। ठव्ययानां भमात्रे टिलोपःऽ इत्येततु नाश्रितम्। आदिपदेन णणीपदाजपदयोः पद्भावः। शोभनं प्रातरयेति। प्रातः शब्दस्याधिकरणप्रधानत्वात्सामानाधिकरण्याभावात्, प्रातस्तनं कर्म प्रातःशब्देन लक्ष्यते, देवदतादिश्चान्यपदार्थ इत्याहुः। कथं च'वरदः करोतु सुप्रातमह्नामयं नायकः' इति? न ह्ययं बहुव्रीहिः, शोभनं प्रातस्तवार्कः करोत्विति ह्यत्रार्थ? उच्यते; शोभनं प्रातस्तनं कर्म यस्य सन्ध्यादेस्तते करोत्विति क्लेशेनास्य निर्वाहः ॥ Nyaas ----- `टिलोपादिकम्` इति। आदिशब्देन सुशब्दश्च कर्मविशेषणं गृह्रते। `शोभनं प्रातरस्य` इति। शोभनमित्येतदिह कर्मणो विशेषणम्। शोभनं प्रातःकाले कर्मास्येत्यर्थः। एवमुत्तरत्रापि शोभनमित्येतत्कर्मणो विशेषणं वेदिव्यम्। Prakriyasarvasvam ----------------- एतेऽजन्ताः । शोभनं प्रातः शकुनाद्यस्येत्यत्रेति वा सुप्रातो नरः । सुप्रातं दिनम् । एवं सुश्वो धार्मिकः । शोभनं दिवात्रेति सुदिवो हिमकालः । शुकीवत् कुक्षिरस्येति शारिकुक्षः । प्रोष्ठो गौस्तस्येव पादा अस्या इति प्रोष्ठपदा । 'भद्रपदे'ति च भोजः । भद्रश्व गौः ॥ Sutra Prayogas -------------- * **सु-प्रात** (भट्टिकाव्यम्): `सु- प्रात- सुश्व` इति इत्यादिना समासान्तष्टिलोपश्च निपात्यते। * **सुदिवे** (भट्टिकाव्यम्): `सुप्रात` इत्यादिना अच् प्रत्ययः। * **सु-दिवः** (भट्टिकाव्यम्): `सुप्रात` इत्यादिना समासान्तनिपातनम्।