54102: द्वित्रिभ्यामञ्जलेः ========================== **Padacheda:** द्वि-त्रिभ्याम् | S | 5 | 2 | अञ्जलेः | S | 5 | 1 | Sutrartha --------- **यस्मिन् द्विगुसमासे पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन 'टच्' इति समासान्तप्रत्ययः भवति । परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते ।** यस्य द्विगुसमासस्य पूर्वपदम् 'द्वि' उत 'त्रि' एतयोः किञ्चन अस्ति तथा च उत्तरपदम् 'अञ्जलि' इति शब्दः अस्ति, तस्मात् प्राचामाचार्याणाम् मतेन (इत्युक्ते विकल्पेन) 'टच्' इति समासान्तप्रत्ययः भवति । परन्तु प्रक्रियायाम् द्विगुनिमित्तकस्य तद्धितप्रत्ययस्य लुक् भवति चेत् टच्-प्रत्ययः न विधीयते । यथा - द्वयोः अञ्जल्योः समाहारः [**तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति द्विगुसमासः] → द्वि + अञ्जलि + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → द्व्यञ्जलि + अ [**इको यणचि** (6.1.77) इति यणादेशः] → द्व्यञ्जल् + अ [**यस्येति च** (6.4.148) इति इकारलोपः] → द्व्यञ्जल द्वयोः अञ्जल्योः समाहारः द्व्यञ्जलम् । एवमेव - तिसृणामञ्जलीनाम् समाहारः त्र्यञ्जलम् । पक्षे टच्-प्रत्ययं विना 'द्व्यञ्जलि' / 'त्र्यञ्जलि' एतौ शब्दौ अपि सिद्ध्यतः । यत्र तद्धितप्रत्ययस्य लुक् भवति तत्र तु टच्-प्रत्ययः पक्षे अपि न विधीयते । यथा - द्वाभ्यां अञ्जलीभ्याम् क्रीतम् (purchased by giving two handfuls of something) द्वि + अञ्जली + ठक् [**आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्** (5.1.19) इति ठक्-प्रत्ययः । **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति तद्धितप्रत्ययस्य विषये द्विगुसमासः] → द्वि + अञ्जली [**अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्] → द्व्यञ्जली [**इको यणचि** (6.1.77) इति यणादेशः] द्वाभ्यां अञ्जलीभ्याम् क्रीतम् तत् द्व्यञ्जलि । अत्र **ह्रस्वो नपुंसके प्रातिपदिकस्य** (1.2.47) इति नपुंसकलिङ्गस्य विषये ह्रस्वादेशः भवति । अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति । Vasu English Summary -------------------- The affix टच् is added to the word अञ्जलि when preceded by 1. द्वि or 2. त्रि in a द्विगु तत्-पुरुष समास (Numeral Determinative Compound). Vasu English Translation ------------------------ The affix टच् is added to the word अञ्जलि when preceded by 1. द्वि or 2. त्रि in a द्विगु तत्-पुरुष समास (Numeral Determinative Compound). Thus द्वावञ्जली समाहृतौ = द्व्यञ्जलम्, so also त्र्यञ्जलम् ॥ The word द्विगोः is understood here also, so that when the compound is not a *Dvigu*, the rule does not apply. Thus द्वयोरञ्जलिः = द्वञ्जलिः ॥ The phrase "when a *Taddhita* is not elided (5.4.92)" is understood here also. Therefore the affix टाच् does not apply here : द्वाभ्यामंजलिभ्यां क्रीतः = द्व्यञ्जलिः ॥ So also त्र्यञ्जलिः (5.1.28) The phrase "according to the opinion of the Eastern Grammarians" (5.4.101) is to be read into this *sutra*. Thus in the alternative we have द्व्यञ्जलिप्रियः ॥ Kashika ------- द्वित्रिभ्यां परो योऽञ्जलिशब्दस्तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति। द्वावञ्जली समाहृतौ द्व्यञ्जलम्। त्र्यञ्जलम्। द्विगोरित्येव — द्वयोरञ्जलिर्द्व्यञ्जलिः। अतद्धितलुकीत्येव — द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः। त्र्यञ्जलिः। प्राचामित्येव — द्व्यञ्जलिप्रियः॥ Siddhanta Kaumudi ----------------- टज्वा स्याद् द्विगौ । द्व्यञ्जलम् । द्व्यञ्जलि । अतद्धितलुकीत्येव । द्वाभ्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः ॥ Balamanorama ------------ **द्वित्रिभ्यामञ्जलेः** - द्वित्रिभ्यामञ्जलेः । शेषपूरणेन सूत्रं व्याचष्टे — टज्वा स्यादिति । द्विगाविति । द्व्यञ्जलमिति । द्वयोरञ्जल्योः समाहार इति विग्रहे द्विगुः, टच्यस्येति च॑,स नपुंसकम् । द्व्यञ्जलीति । समाहारे द्विगुः । टजभावे सति नपुंसकह्रस्वत्वम् । अतद्धितलुकीत्येवेति । अनुवर्तत एवेत्यर्थः । अञ्जलिभ्यां क्रीत इति । अञ्जलिशब्दोऽञ्जलिपरिमितधान्यादौ वर्तते, केवलस्थाऽञ्जलेर्मूल्यत्वाऽडसम्भवात् । परिमाणत्वाट्ठञ् ।अध्यर्धे॑ति तस्य लुक् । Tattvabodhini ------------- **द्वित्रिभ्यामञ्जलेः** - व्द्यञ्जलमिति । समाहारे द्विगुः । अतद्धितलुकीत्येवेति । एतच्च पूर्वसूत्रेऽपि बोध्यम् । अञ्जलिभ्यां क्रीत इति । नात्राऽञ्जलिः पाणिद्वयं, तस्य मूल्यत्वाऽसंभवात्, किन्तु अञ्जलिपरिमितो व्रीह्रादिर्विवक्षितः । ततश्टच परिमाणत्वादूव्द्यञ्जलिरित्यत्र ठञ् । तस्य तुअध्यर्धपूर्वे ॑ति लुक् । Padamanjari ----------- द्वाभ्यामञ्जलिभ्यां क्रीतो द्वयञ्जलिरिति। अञ्जलिपरिमितो व्रीह्यादिरञ्जलिः; न पाणिद्वयम्, तस्य मुल्लत्वासम्भवात्। ततश्च परिमाणत्वात्प्राग्वतीयस्य ठकः ठध्यर्द्धपूर्वऽ इति लुक्। द्व्यञ्जलिप्रिय इति। व्यवस्थैतविभाषात्वादुतरपदद्विगोर्न भवतीत्याहुः ॥ Nyaas ----- `द्वाब्यामञ्जलिभ्यां क्रीतो द्व्यञ्जलिः` इति। पूर्ववदर्हीयस्य लुक्। `देव्यञ्जलिप्रियः` इति। पूर्ववदुत्तरपदे द्विगुः॥ Prakriyasarvasvam ----------------- द्विगौ टज्वा । द्व्यञ्जलं, द्व्यञ्जलि । त्र्यञ्जलं, त्र्यञ्जलि । तद्धितलुकि न । द्वयोरञ्जल्योर्भवो द्व्यञ्जलिरेव । उत्तरपदेऽपि नेष्टम् । द्व्यञ्जलिप्रियः ॥ Sutra Prayogas -------------- * **द्व्यञ्जलमन्तिकेऽपाम्** (भट्टिकाव्यम्): `तद्धितार्थे समासः द्वि- त्रिभ्यामञ्जलेः` इति टच्।