54099: नावो द्विगोः =================== **Padacheda:** नावः | S | 5 | 1 | द्विगोः | S | 5 | 1 | Sutrartha --------- **यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य यदि लुक् भवति तर्हि अयम् टच् प्रत्यय न भवति ।** यस्मिन् द्विगुसमासे 'नौ' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । परन्तु यदि प्रक्रियायाम् द्विगुसमासस्य निमित्तभूतस्य तद्धितप्रत्ययस्य लुक् भवति, तत्र टच् प्रत्ययः न विधीयते । कानिचन उदाहरणानि एतानि - 1. पञ्चानां नावाम् समाहारः [**तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति द्विगुसमासः] → पञ्चन् + नौ + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → पञ्चन् + नाव् + अ [**एचोऽयवायावः** (6.1.78) इति आवादेशः] → पञ्च + नाव् + अ [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] → पञ्चनाव पञ्चानां नावां समाहारः पञ्चनावम् । एवमेव - द्विनावम्, त्रिनावम्, सप्तनावम्, दशनावम् एतादृशाः शब्दाः अपि सिद्ध्यन्ति । अत्रापि प्रक्रियायाम् टच्-प्रत्ययात् पूर्वम् कोऽपि अन्यः तद्धितप्रत्ययः नैव विधीयते, अतः तद्धितलुक् अप्यत्र न सम्भवति । अतः अत्र टच्-प्रत्ययः भवत्येव । 3. पञ्चभ्यः नौभ्यः आगतम् पञ्चन् + नौ + रूप्य [ततः आगतः अस्मिन्नर्थे **हेतुमनुष्येभ्यः रूप्यः** (4.3.81) इत्यनेन रूप्य-प्रत्ययः । **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति तद्धितप्रत्ययस्य विषये द्विगुसमासः] → पञ्चन् + नौ + टच् + रूप्य [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् प्रत्ययः तद्धितप्रत्ययात् पूर्वम् विधीयते यतः समासः तु 'पञ्चन् + नौ' इत्यस्यैव भवति । रूप्य-प्रत्ययः केवलम् समासनिमित्तकः अस्ति, समासस्य अवयवः न ।] → पञ्चन् + नाव् + अ + रूप्य [**एचोऽयवायावः** (6.1.78) इति अवादेशः] → पञ्च + नाव + रूप्य [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] → पञ्चनावरूप्य पञ्चभ्यः नौभ्यः आगतम् पञ्चनावरूप्यम् । अत्र प्रक्रियायाम् 'रूप्य' इति तद्धितप्रत्ययः विधीयते, परन्तु तस्य लोपः नैव क्रियते (**द्विगोर्लुगनपत्ये** (4.1.88) इत्यस्य प्रसक्तिः अत्र न विद्यते यतः अत्र 'रूप्य' इति अजादिप्रत्ययः नास्ति) । अतः अत्र 'टच्' इति समासान्तप्रत्ययः अवश्यं कर्तव्यः । 4. षट् नावः प्रियाः अस्य [**अनेकमन्यपदार्थे** (2.2.24) इति बहुव्रीहिसमासः । अस्मिन् समासे प्रारम्भे **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति द्विगुसमासः] = षष् + नौ + टच् + प्रिय [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः । अयम् समासान्तप्रत्ययः द्विगुसमासस्य अन्ते विधीयते अतः 'प्रिय' शब्दात् पूर्वमेव अस्य स्थापनं क्रियते ।] → षष् + नाव् + अ + प्रिय [**एचोऽयवायावः** (6.1.78) इति अवादेशः] → षड् + नाव् + अ + प्रिय [पदान्तषकारस्य **झलां जशोऽन्ते** (8.2.29) इति जश्त्वे डकारः] → षड्नावप्रिय । षट् नावः प्रियाः अस्य सः षड्नावप्रियः । 5. पञ्चभिः नौभिः क्रीतः = पञ्चन् + नौ + ठक् [**आर्हादगोपुच्छसङ्ख्यापरिमाणात् ठक्** (5.1.19) इति ठक्-प्रत्ययः । **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति तद्धितप्रत्ययस्य विषये द्विगुसमासः] → पञ्चन् + नौ [**अध्यर्धपूर्वद्विगोर्लुगसंज्ञायाम्** (5.1.28) इति द्विगुसमासस्य विषये विहितस्य आर्हीय-प्रत्ययस्य लुक्] → पञ्च + नौ [**नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] → पञ्चनौ पञ्चभिः नौभिः क्रीतः सः पञ्चनौः अत्र वस्तुतः तत्पुरुषसमासः एव भवति, परन्तु प्रक्रियायाम् 'ठक्' इति समासनिमित्तकस्य तद्धितप्रत्ययस्य लुक् क्रियते । अतः अत्र वर्तमानसूत्रेण समासान्तप्रत्ययः न भवति । Vasu English Summary -------------------- The affix टच् comes after the word नौ when at the end of a द्विगु समास (Numeral Determinative Compound). Vasu English Translation ------------------------ The affix टच् comes after the word नौ when at the end of a द्विगु समास (Numeral Determinative Compound). Thus द्वे नावौ समाहृते = द्विनावम्, so also त्रिनावम् ॥ Thus द्विनावधनम्, पंचनावप्रियः are also formed. So also द्वाभ्यां नौभ्यामागतं = द्विनावरूप्यम्, द्विनावमयम् (4.3.31). Why do we say 'when in a *Dvigu* compound'? Observe राजनौः "the king's ship". The phrase अतद्धितलुकि "when a *Taddhita* affix is not elided" of *sutra* (5.4.92) applies here also. Therefore टच् does not apply in पंचभिर्नौभिः क्रीतः = पंचनौः, दशनौः ॥ Kashika ------- नौशब्दान्ताद् द्विगोष्टच् प्रत्ययो भवति समासान्तः। द्वे नावौ समाहृते द्विनावम्। त्रिनावम्। द्विनावधनः। पञ्चनावप्रियः। द्वाभ्यां नौभ्यामागतं द्विनावरूप्यम्। द्विनावमयम्। द्विगोरिति किम् ? राजनौः। अतद्धितलुकीत्येव — पञ्चभिर्नौभिः क्रीतः पञ्चनौः। दशनौः॥ Siddhanta Kaumudi ----------------- नौशब्दान्ताद्द्विगोष्टच् स्यान्न तु तद्धितलुकि । द्वाभ्यां नौभ्यामागतः द्विनावरूप्यः । द्विगोर्लुगनपत्ये (SK1080) इत्यत्र अचीत्यस्यापकर्षणाद्धलादेर्न लुक् । पञ्चनावप्रियः । द्विनावम् । त्रिनावम् । अतद्धितलुकीति किम् । पञ्चभिर्नौभिः क्रीतः पञ्चनौः ॥ Balamanorama ------------ **नावो द्विगोः** - नावो द्विगोः । न तु तद्धितलुकीति ।गोरतद्धितलुकी॑त्यतो मण्डूकप्लुत्या तदनुवृत्तेरिति भावः । द्विनावरूप्य इति । तद्धितार्थे समासः, टच्, आवादेशः ।हेतुमनुष्येभ्योऽन्यतरस्यां रूप्यः॑ । तस्य 'द्विगोर्लुगनपत्ये' इति लुकमाशङ्क्याह — द्विगोर्लुगनपत्ये इत्यत्रेति । अपकर्षणादिति ।गोत्रेऽलुगची॑त्यत्तरसूत्रादित्यर्थः । पञ्चनावप्रिय इति । पञ्च नावः प्रिया यस्येति विग्रहे उत्तरपदे द्विगुः, टचि, आवादेशः । द्विनावमिति । द्वयोर्नावोः समाहार इति विग्रहे द्विगुः । टच् । आवादेशः । 'सनपुंसकम्' इति नपुंसकत्वम् । त्रिनावमिति । तिसृणां नावां समाहार इति विगरहः । द्विनाववत् । पञ्चनौरिति । तद्धितार्थे समासः । आर्हीयष्ठक्,अध्यर्धे॑ति लुक् । Tattvabodhini ------------- **नावो द्विगोः** - द्विनावरूप इति ।हेतुमनुष्येभ्यः — ॑इति रूप्यः । पञ्चनौरिति । आर्हीयष्ठत् ।अध्यर्धपूर्वे॑ति लुक् । खार्याः । द्विगोरिति । खारीशब्दान्ताद्द्विगोरित्यर्थः । Nyaas ----- `द्विनावम्? त्रिनावम्` इति। **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इत्यादिना द्विगुः। `द्विनावधनः` इति। द्वे नावौ धनं यस्येति बहुव्रीहौ कृते पूर्वयोः पदयोस्तेनैव सूत्रेणोत्तरपदे द्विगुः। पञ्चनावप्रियम्? इति। पूर्वेण तुल्यमेतत्? द्विनावरूप्यम्, द्विनावमयम्` इति। तेनैव सूत्रेम तद्धितार्थे द्विगुः। पूर्ववद्रूप्यमयटौ। `राजनौः` इति। षष्ठीसमासः। `पञ्चनौः` इति आर्हीयस्य (5.1.19) ठकः `अध्यर्धपूर्वं` (5.1.28) इत्यादिना लुक्॥ Prakriyasarvasvam ----------------- नौशब्दान्ताद् द्विगोष्टच् । द्वयोर्नावोः समाहारो द्विनावम् । —अतद्धितलुकि—' (५-४-९२) इत्यधिकारात् पञ्चसु नौषु जातः पञ्चनौः शुल्क इत्यत्र न । द्विगोर्लुग्—' (४-१-८८) इत्यणो लुक् ॥