54098: उत्तरमृगपूर्वाच्च सक्थ्नः ================================ **Padacheda:** उत्तर-मृग-पूर्वात् | S | 5 | 1 | च | S | 0 | 0 | सक्थ्नः | S | 5 | 1 | Sutrartha --------- **यस्मिन् तत्पुरुषसमासे पूर्वपदम् 'उत्तर', 'मृग', 'पूर्व' एतेषु किञ्चन उत उपमानवाचकः शब्दः अस्ति, तथा च उत्तरपदम् 'सक्थिन्' शब्दः अस्ति, तस्मात् टच् इति समासान्तप्रत्ययः भवति ।** यस्मिन् समासे 'सक्थिन्' (leg) इति शब्दः उत्तरपदरूपेण विद्यते, तथा च 'उत्तर', 'मृग' तथा 'पूर्व' एतेषु कश्चन शब्दः उत उपमानवाची कश्चन शब्दः पूर्वपदरूपेण विद्यते, तस्मात् टच् इति समासान्तप्रत्ययः भवति । उदाहरणानि एतानि - 1.उत्तरं सक्थि (The upper part of leg) [** विशेषणं विशेष्येण बहुलम्** (2.1.57) इति तत्पुरुषसमासः] → उत्तर + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → उत्तर + सक्थ् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → उत्तरसक्थ । उत्तरं सक्थि उत्तरसक्थम् । 2. मृगस्य सक्थि (Leg of a deer) [**षष्ठी** (2.2.8) इति तत्पुरुषसमासः] → मृग + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → मृग + सक्थ् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → मृगसक्थ । मृगस्य सक्थि मृगसक्थम् । 3. पूर्वं सक्थि (The lower part of a leg) [**पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन** (2.1.49) इति तत्पुरुषसमासः] → पूर्व + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → पूर्व + सक्थ् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → पूर्वसक्थ । पूर्वं सक्थि पूर्वसक्थम् । उपमानवाचकस्य पूर्वपदस्य उदाहरणम् एतत् - 4. फलकम् इव सक्थि [**मयूरव्यंसकादयश्च** (2.1.72) इति तत्पुरुषसमासः] → फलक + सक्थिन् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → फलक + सक्थ् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → फलकसक्थ । फलकम् इव सक्थि फलकसक्थम् । Vasu English Summary -------------------- The affix टच् comes after सक्थि when preceded by 1. उत्तर 2. मृग 3. पूर्व in a तत्-पुरुष समास as well as when a thing is compared with it. Vasu English Translation ------------------------ The affix टच् comes after सक्थि when preceded by 1. उत्तर 2. मृग 3. पूर्व in a तत्-पुरुष समास as well as when a thing is compared with it. By the force of the word च in the *sutra*, we read in the word उपमानात् also. Thus उत्तरसक्थम्, मृगसक्थम्, पूर्वसक्थम् ॥ So also in फलकमिव सक्थि = फलकसक्थम् ॥ Kashika ------- उत्तर मृग पूर्व इत्येतेभ्यः परो यः सक्थिशब्दः, चकारादुपमानात् च, तदन्तात् तत्पुरुषात् टच् प्रत्ययो भवति समासान्तः। उत्तरसक्थम्। मृगसक्थम्। पूर्वसक्थम्। उपमानात् खल्वपि — फलकमिव सक्थि फलकसक्थम्॥ Siddhanta Kaumudi ----------------- चादुपमानात् । उत्तरसक्थम् । मृगसक्थम् । पूर्वसक्थम् । फलकमिव सक्थि फलकसक्थम् ॥ Balamanorama ------------ **उत्तरमृगपूर्वाच्च सक्थ्नः** - उत्तरमृग । 'उत्तर' 'मृग' 'पूर्व' एभ्य, उपमानाच्च परो यः सक्थिशब्दत्तदन्तास्तत्पुरुषाट्टच्स्यादित्यर्थः । उत्तरसक्थमिति । उत्तरं सक्थीति विग्रहः । पूर्वं सक्थीति विग्रहेपूर्वकालैके॑ति समासः । फलकसक्थमिति । फलकमिव सक्थीति विग्रहे मयूरव्यंसकादित्वात्समासः । सर्वत्र टच्, टिलोपः । Tattvabodhini ------------- **उत्तरमृगपूर्वाच्च सक्थ्नः** - फलकसक्थमिति । अतएव ज्ञापकादसामान्यवचनेनाप्युपमानस्य समास इति माधवः । Nyaas ----- `उत्तरसक्थम्` इति। उत्तरं सक्थ्न इति पूर्वापरादिशूत्रेण (2.1.57) समासः। अथ वा - उत्तरं सक्थीति विशेषणसमासः। `मृगसक्थम्` इति। षष्ठीसमासः। `पूर्वसक्थम्` इति। उत्तरसक्थमित्यनेन तुल्यमेतत्। `फलकसक्थम्` इति। `विशेषणम्` (2.1.56) इत्यादिना समासः॥ Prakriyasarvasvam ----------------- एभ्य उपमानाच्च परस्य सक्थिशब्दस्य टच् । उत्तरसक्थम् पूर्वसक्थं च तस्योर्ध्वाधोभागौ । मृगस्य सक्थि मृगसक्थम् । उपमानांत्-कदलीव सक्थि कदलीसक्थम् । गौर्याः सक्थि गौरिषक्थमिति च माधवः । सुषामादित्वात् षत्वह्रस्वत्वे ॥