54093: अग्राख्यायामुरसः ======================= **Padacheda:** अग्र-आख्यायाम् | S | 7 | 1 | उरसः | S | 5 | 1 | Sutrartha --------- **यस्य तत्पुरुषसमासस्य उत्तरपदरूपेण 'अग्रः' अस्मिन् अर्थे 'उरस्' शब्दः विधीयते, तस्मात् 'टच्' इति समासान्तप्रत्ययः भवति ।** 'उरस्' इति शब्दः 'अग्रः' (= प्रमुखः, प्रधानः, मुख्यः) अस्मिन् अर्थे यदा तत्पुरुषसमासस्य उत्तरपदरूपेण विधीयते, तदा तस्मात् तत्पुरुषसमासात् 'टच्' इति समासान्तप्रत्ययः भवति । यथा - अश्वानाम् उरः [**षष्ठी** (2.2.8) इति तत्पुरुषसमासः] → अश्व + उरस् + टच् [वर्तमानसूत्रेण टच् इति समासान्तप्रत्ययः] → अश्वोरस् + अ [**आद्गुणः** (6.1.87) इति गुण-एकादेशः] → अश्वोरस अश्वानामुरः अश्वोरसम् । एवमेव - हस्तिनामुरः हस्त्युरसम् । रथानामुरः रथोरसम् । यत्र उरस्-शब्दः अन्येषु अर्थेषु प्रयुज्यते, तत्र अस्य सूत्रस्य प्रयोगः न भवति । यथा - देवदत्तस्य उरः देवदत्तोरः । अत्र 'उरस्' शब्दः 'वक्षः' (chest) अस्मिन् अर्थे प्रयुक्तः अस्ति, अतः अत्र 'टच्' प्रत्ययः न भवति । Vasu English Summary -------------------- The affix टच् comes after the word उरस् standing at the end of a तत्-पुरुष समास when it has the sense of 'the most excellent of its kind'. Vasu English Translation ------------------------ The affix टच् comes after the word उरस् standing at the end of a तत्-पुरुष समास when it has the sense of 'the most excellent of its kind'. The word अग्र means 'the principal': as the word उरस् is the principal member of an animal, so by metonomy it has come to mean 'the principal'. Thus अश्वानां उरः = अश्वोरसम् so also हस्त्युरसम् "the most excellent of horses or elephants". Why do we say "when meaning the most excellent". Observe देवदत्तस्योरः = देवदत्तोरः "the breast of *Devadatta*". Kashika ------- उरःशब्दान्तात् तत्पुरुषात् टच् प्रत्ययो भवति, स चेदुरःशब्दोऽग्राख्यायां भवति। अग्रं प्रधानमुच्यते। यथा शरीरावयवानामुच्यत उरः प्रधानम्, एवमन्योऽपि प्रधानभूत उरःशब्देनोच्यते। अश्वानामुरः अश्वोरसम्। हस्त्युरसम्। रथोरसम्। अग्राख्यायामिति किम् ? देवदत्तस्योरः देवदत्तोरः॥ Siddhanta Kaumudi ----------------- टच् स्यात् । अश्वानामुर इव अश्वोरसम् । मुख्योऽश्व इत्यर्थः ॥ Balamanorama ------------ **अग्राख्यायामुरसः** - अग्राख्याया । शेषपूरणेन सूत्रं व्याचष्टे — टच् स्यादिति । पञ्चम्यर्थे सप्तमी । अग्रं प्रधानं, तद्वाची य उपश्शब्दस्तदन्तात्तत्पुरुषाट्टाच्स्यादित्यर्थः ।अग्नाख्याया॑मिति पाठान्तरम् । अग्रे भवमग्रयं । मुख्यमिति यावत् । अआआनामुर इवेति । उरो यथा प्रधानं तथेत्यर्थः । उपश्शब्दस्य मुख्ये वृत्तौ लक्षणाबीजमिदम् । अआओरसमिति । उरश्शब्देन मुख्यवाचिना षष्ठीसमासः । टच् । 'परल्लिङ्गम्' इति नपुंसकत्वम् । अग्राख्यायामिति किं । देवदत्तस्योरः देवदत्तोरः । Tattvabodhini ------------- **अग्राख्यायामुरसः** - अग्राख्यायाम् । पञ्चम्यर्थे सप्तमी । अग्रं प्रधानम् । अग्रवाची य उरःशब्दस्तदन्तात्तत्पुरुषाट्टच्स्यात् । अग्राख्यायां किम् । देवदत्तस्योरो देवदत्तोरः । Padamanjari ----------- ठग्राख्यायाम्ऽ इति पञ्चम्यर्थे सप्तमी, पञ्चम्यन्तेनोरः शब्देन सामानाधिकरण्यात्। सामानाधिकरण्यं तु'स चेदुरःशब्दः' इत्यादिना दर्शितम् ॥ Nyaas ----- स चेदुरःशब्दोऽग्रस्याख्या भवतीत्येनेन दर्शितम्। `अआओरसम्` इति। षष्ठीसमासः। अआआनां प्रधानमित्यर्थः। `हस्त्युरसम्, रथोरसम्` इति॥ Prakriyasarvasvam ----------------- मुख्याख्यायामुरोन्तात् तत्पुरुषाष्टच् स्यात् । मुख्यो द्विजोद्विजोरसम् । उरसः क्लीबत्वात् क्लीबता ।।