54088: अह्नोऽह्न एतेभ्यः
========================
**Padacheda:** अह्नः | S | 6 | 1 |
अह्नः | S | 1 | 1 |
एतेभ्यः | S | 5 | 3 |
Sutrartha
---------
**यस्मिन् समस्तपदे 'सर्व' शब्दः, 'सङ्ख्यात'शब्दः, एकदेशवाचकः शब्दः उत अव्ययवाचकः शब्दः पूर्वपदरूपेण विद्यते, तथा च 'अहन्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् समासान्तप्रत्यये प्राप्ते अहन्-शब्दस्य अह्न-आदेशः भवति ।**
अनेन सूत्रेण तत्पुरुषसमासस्य उत्तरपदरूपेण विद्यमानस्य अहन्-शब्दस्य 'अह्न' इति आदेशः उच्यते । यस्मिन् तत्पुरुषसमासे उत्तरपदम् 'अहन्' इति शब्दः अस्ति, तथा च पूर्वपदम् 'सर्व' / 'सङ्ख्यात' / 'पुण्य' / एकदेशवाचकः शब्दः / अव्ययवाचकः शब्दः - एतेषु कश्चन विद्यते, तस्मात् **राजाहस्सखिभ्यष्टच्** (5.4.91) इत्यनेन 'टच्' इति समासान्तप्रत्ययः यदा भवति तदा अहन्-शब्दस्य 'अह्न' इति आदेशः विधीयते ।
उदाहरणानि एतानि -
1. सर्वमहः [**पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन** (2.1.49) इति तत्पुरुषसमासः]
= सर्व + अहन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति टच्-प्रत्ययः]
→ सर्व + अह्न + अ [**अह्नोऽह्न एतेभ्यः** (5.4.88) इति अहन्-शब्दस्य अह्न-आदेशः]
→ सर्वाह्न + अ [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः]
→ सर्वाह्न् + अ [**यस्येति च** (6.4.148) इति अकारलोपः]
→ सर्वाह्ण् + अ [**अह्नोदन्तात्** (8.4.7) इति नकारस्य णकारः]
→ सर्वाह्ण [**रात्राह्नाहाः पुंसि** (2.4.39) इत्यनेन पुंस्त्वम्]
2. सङ्ख्यातम् (counted, measured) अहः [**विशेषणं विशेष्येण बहुलम्** (2.1.57) इति कर्मधारयसमासः]
= सङ्ख्यात + अहन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति टच्-प्रत्ययः]
→ सङ्ख्यात + अह्न + अ [**अह्नोऽह्न एतेभ्यः** (5.4.88) इति अहन्-शब्दस्य अह्न-आदेशः]
→ सङ्ख्याताह्न + अ [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः]
→ सङ्ख्याताह्न् + अ [**यस्येति च** (6.4.148) इति अकारलोपः]
→ सङ्ख्याताह्न [**रात्राह्नाहाः पुंसि** (2.4.39) इत्यनेन पुंस्त्वम्]
3. एकदेशवाचकशब्दः (= येन शब्देन एकदेशिसमासः जायते सः शब्दः) -
पूर्वमह्नः [**पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे** (2.2.1) इति एकदेशिसमासः]
= पूर्व + अहन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति टच्-प्रत्ययः]
→ पूर्व + अह्न + अ [**अह्नोऽह्न एतेभ्यः** (5.4.88) इति अहन्-शब्दस्य अह्न-आदेशः]
→ पूर्वाह्न + अ [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः]
→ पूर्वाह्न् + अ [**यस्येति च** (6.4.148) इति अकारलोपः]
→ पूर्वाह्ण् + अ [**अह्नोदन्तात्** (8.4.7) इति नकारस्य णकारः]
→ पूर्वाह्ण [**रात्राह्नाहाः पुंसि** (2.4.39) इत्यनेन पुंस्त्वम्]
एवमेव - अपराह्णः, मध्याह्नः - एतौ शब्दौ अपि सिद्ध्यतः ।
4. सङ्ख्यावाचकशब्दः -
द्वयोः अह्नोः भवः
= द्वि + अहन् + ठञ् [**कालाट्ठञ्** (4.3.11) इति ठञ्-प्रत्ययः । **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति द्विगुसमासः ।]
→ द्वि + अहन् [**द्विगोर्लुगनपत्ये** (4.1.88) इति ठञ्-प्रत्ययस्य लुक्]
→ द्वि + अहन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति टच्-प्रत्ययः]
→ द्वि + अह्न + अ [**अह्नोऽह्न एतेभ्यः** (5.4.88) इति अहन्-शब्दस्य अह्न-आदेशः]
→ द्व्यह्न + अ [**इको यणचि** (6.1.77) इति यणादेशः]
→ द्वह्न् + अ [**यस्येति च** (6.4.148) इति अकारलोपः]
→ द्व्यह्न [**रात्राह्नाहाः पुंसि** (2.4.39) इत्यनेन पुंस्त्वम्]
एवमेव - त्र्यह्नः, चतुरह्नः, पञ्चाह्नः - एतादृशः शब्दाः अपि सिद्ध्यन्ति ।
विशेषः -
अ) 'द्वयोः अह्नोः समाहारः' अत्र यद्यपि तत्पुरुषसमासः भवति तथा च समासान्तः टच्-प्रत्ययः अपि विधीयते, तथापि **न संख्यादेः समाहारे** (5.4.89) इत्यनेन अग्रिमसूत्रेण अत्र अहन्-शब्दस्य विषये अह्न-आदेशः निषिध्यते । अतः 'द्वयोः अह्नोः समाहारः द्व्यहः' इत्येव रूपम् सिद्ध्यति ।
आ) 'एक' शब्दात् परस्य 'अहन्' इत्यस्य 'अह्न' इति आदेशः न भवतीति **उत्तमैकाभ्यां च** (5.4.90) इत्यनेन स्पष्टीभवति । यथा - एकमह्नः एकाहः ।
5. अव्ययवाचकशब्दः -
अतिक्रान्तमहः [**कुगतिप्रादयः** (2.2.18) इत्यत्र पाठितेन अत्यादयः क्रान्ताद्यर्थे अनेन वार्त्तिकेन तत्पुरुषसमासः]
= अति + अहन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति टच्-प्रत्ययः]
→ अति + अह्न + अ [**अह्नोऽह्न एतेभ्यः** (5.4.88) इति अहन्-शब्दस्य अह्न-आदेशः]
→ अत्यह्न + अ [**इको यणचि** (6.1.77) इति यणादेशः]
→ अत्यह्न् + अ [**यस्येति च** (6.4.148) इति अकारलोपः]
→ अत्यह्न [**रात्राह्नाहाः पुंसि** (2.4.39) इत्यनेन पुंस्त्वम्]
एवमेव 'निरह्न' इति शब्दः अपि सिद्ध्यति ।
स्मर्तव्यम् -
1. अस्मिन् सूत्रे 'अह्नः' इति शब्दः द्विवारं प्रयुक्तः अस्ति । एताभ्याम् प्रथमः 'अह्न' शब्दः 'अहन्' शब्दस्य षष्ठ्येकवचनमस्ति । द्वितीयः 'अह्न' शब्दः तु 'अह्न' इत्यस्यैव प्रथमैकवचनमस्ति ।
2. पूर्वसूत्रात् 'अहः' इति अत्र न अनुवर्तेते इति व्याख्यानात् स्पष्टीभवति ।
3. 'पुण्य' शब्दस्य विषये **उत्तमैकाभ्यां च** (5.4.90) इत्यनेन सूत्रेण वर्तमानसूत्रस्य प्रयोगः निषिध्यते, अतः 'पुण्य' शब्दस्य अनुवृत्तिः अपि अस्मिन् सूत्रे नैव स्वीक्रियते ।
Vasu English Summary
--------------------
For अहन् is substituted अह्न when preceded by the above words (अहन् or सर्व or a word denoting a portion of night, or संख्यात or पुण्य) (and taking the affix टच् to be mentioned in राजाऽहस्सखिभ्यष्टच् (5.4.91)).
Vasu English Translation
------------------------
For अहन् is substituted अह्न when preceded by the above words (अहन् or सर्व or a word denoting a portion of night, or संख्यात or पुण्य) (and taking the affix टच् to be mentioned in राजाऽहस्सखिभ्यष्टच् (5.4.91)).
When the affix टच् follows अहन्, and the latter is preceded by the words सर्व &c, then अह्न is substituted for अहन् ॥ By the term एतेभ्यः "these words", is meant the numerals (with the exception of एक (5.4.90)) the Indeclinables, the words सर्व, संख्यात and words denoting a part of a day, for these are the words mentioned in the last *sutra*. The word अहन् is also mentioned therein, but it is not taken here, for there can be no *Tatpurusha* compound of अहन् with अहन् ॥ The word पुण्य is also excluded by (5.4.90). Thus द्वयोरह्नोर्भवः = द्व्यह्नः, त्र्यह्नः, अहरतिक्रान्तः = अत्यह्नः, निरह्नः ॥ So also सर्वाह्णः, (8.4.7), पूर्वाह्णः, अपराह्णः, संख्याताह्नः (according to some संख्याताहः (5.4.90)).
The ordaining of substitution is redundant according to the *Vartika* *kara*. In his opinion, the *sutra* अह्नः एतेभ्यः alone would have been enough. The meaning then would have been "the affix अच् comes after the word अहन् when preceded by these words सर्व &c". The adding of अच् would produce the same result: as द्वि + अहन् + अच् = द्वि + अह्न् + अच् (6.4.134) the middle अ of अहन् is elided)) = द्व्यह्नः ॥ The only specific result which टच् would have produced was to make the feminine of these words end in long ई (4.1.15), and the elision of the final अन् of अह्न (6.4.145). But the compounds of अहन् are masculine always (2.4.29), they can have no feminine: and as the desired form is द्व्यह्नः, the *sutra* (6.4.145) cannot apply. The affix अच् is therefore, the proper affix and the substitution of अह्न for अहन् is redundant.
Bhashya
-------
अह्नोऽह्न एतेभ्यः (2365) (5936 सूत्रानर्थक्यबोधकवार्तिकम्॥ 1 ॥) - अह्नोऽह्नवचनानर्थक्यं चाह्नष्टखोर्नियमवचनात् - (भाष्यम्) अह्नोऽह्नवचनमनर्थकम्। किं कारणम्? अह्नष्टखोर्नियमवचनात्। अह्नष्टखोरेव (6.4.145) इत्येतन्नियमार्थं भविष्यति॥
Kashika
-------
**राजाहःसखिभ्यष्टच्** (५.४.९१) इति वक्ष्यति। तस्मिन् परभूतेऽहन्नित्येतस्याह्न इत्ययमादेशो भवत्येतेभ्य उत्तरस्य। संख्याव्ययादयः प्रक्रान्ताः सर्वनाम्ना प्रत्यवमृश्यन्ते। सामर्थ्याच्चाहः शब्दः पूर्वत्वेन नाश्रीयते। परिशिष्टानां ग्रहणम्। न ह्यहःशब्दात् परोऽहः शब्दः संभवति। संख्यायास्तावत् — द्वयोरह्नोर्भवो द्व्यह्नः, त्र्यह्नः। अव्ययात् — अहरतिक्रान्तोऽत्यह्नः। निरह्नः। सर्वाह्णः। पूर्वाह्णः। अपराह्णः। संख्याताह्नः। पुण्यशब्दात् प्रतिषेधं वक्ष्यति॥
Siddhanta Kaumudi
-----------------
सर्वादिभ्यः परस्याहन्शब्दस्याह्नादेशः स्यात्समासान्ते परे ॥
Balamanorama
------------
**अह्नोऽह्न एतेभ्यः** - अह्नोऽह्न एतेब्यः । पूर्वसूत्रे अहःसर्वैकदेशसङ्ख्यातपुण्यशब्दा निर्दिष्टाः तत्र चकारेण सङ्ख्याव्यये अनुकृष्टे । अहन्शब्दवर्जं ते सर्वे एतच्छब्देन परामृश्यन्ते, नत्वहःशब्दः, अहःशब्दात्परस्य अहन्शब्दस्य तत्पुरुषे असंभवादित्यभिप्रेत्य व्याचष्टे-सर्वादिभ्य इति । समासान्ते पर इति । एतत्तु प्रकरणाल्लब्धम् ।
Tattvabodhini
-------------
**अह्नोऽह्न एतेभ्यः** - अह्नोऽह्न एतेभ्यः । एतच्छब्देनअहःसर्वैकदेश -॑इति सूत्रस्थाः परामृश्यन्ते । सूत्रे तु तस्मिन्नहरादयो निर्दिष्टाश्चकारेण च सङ्ख्याव्यये अनुकष्टे । तत्र बुद्धिस्थत्वाऽविशेषेऽप्यहःशब्द इह न गृह्रते, असंभवादित्यशयेनाह -सर्वादिभ्यैति । समासान्ते पर इति । एतच्च प्रकारणाल्लब्धम् । भाष्ये तु अह्नादेशः प्रत्याख्यातः,अह्न एभ्योऽच्स्याट्ट्चोऽपवादः॑ इति व्याख्यायाम्,अह्नष्टखोरेवे ति नियमाट्टिलोपाऽभावेअल्लोपोऽनः॑ इत्यकारलोपात्सर्वाह्न इत्यादिरूपसिद्धेः ।
Padamanjari
-----------
तस्मिन्परभूत इति। समासान्तप्रकरणातत्र परतोऽयमादेशो विज्ञायते, न तदपवादः स च टजेव विहित इति सामर्थ्यादयमर्थो लभ्यते, व्याख्यानाच्चाह्नादेशः। स्वयं समासान्तो न विज्ञायते ठूधसोऽनङ्ऽ इत्यादिवत्। सामर्थ्याच्चेत्यादि। सामासान्तो नविज्ञायते ठूधसोऽनह्ऽ इत्यादिवत्। सामर्थ्याच्चेत्यादि। सामर्थ्यमेव दर्शयति। न हीति। एकशेषविधानाद् द्वन्द्वस्तावन्न सम्भवति, तेनैव तस्यासम्बन्धान्न षष्ठीसमासः, नापि विशेषणसमासः, न हि तदेव तस्य विशेषणं सम्भवति। एतेन बहुव्रीहिर्व्याख्यातः। द्व्यह्न इति। तद्धितार्थे समासः,'तत्र भवः' इत्यण्, तस्य'द्विगोर्लुगनपत्ये' इति लुक्। सर्वाह्न इति। ठह्नोऽदन्तात्ऽ इति णत्वम्। अह्नोऽह्नवचनानर्थक्यम्, अह्नष्टखोर्नियमवचनात्,ठह्न एतेभ्यःऽ इत्येतावदेव सूत्रं कर्तव्यम्, अजनुवर्तते, एतेभ्यः परो योऽहन्शब्दस्ततोऽज्भवति, टचोऽपवादः, तत्राचि कृतेऽह्नष्टखोरेवेति नियमाट्टिलोपाबावेऽल्लोपे सति द्वयह्न इत्यादि सिध्यति, रात्राह्नाहाः पुंसिऽ इति वचनात् स्त्रियां प्रवृत्यभावाट्टजचोरविशेषः। ठेतेभ्यःऽ इति वचनं संक्याव्ययार्थम्; इतरथा चानुकृष्टत्वान्न सम्बद्ध्येत ॥
Nyaas
-----
`राजाहःसखिभ्यष्टच्? इति टच्प्रत्ययं वक्ष्यति` इति। अथ परकृत एवाचि कस्मादादेशो न विज्ञायते? अशक्यस्तत्रायं विज्ञातुम्, न ह्रहःशब्दातात्? तत्पुरुषात्? केनचिदज्विहितः, तत्? कथमादेशस्य निमित्तं स्यात्। अथ `अच्? (5.4.75) इति योगविभागेनाज्विधीयते? एवमप्येतद्वचनेमनर्थकं स्यात्; अचि कृते `अल्लोऽपोनः` (6.4.134) इत्यनेनाह्नादेशस्य सिद्धत्वात्। न च टिलोपः प्राप्नोतीति मन्तव्यम्; **अह्नष्टखोरेव** (6.4.145) इति नियमात्। तस्मादच्येव टिलोपापवादोऽयम्। आदेशोऽयमयुक्तः। किं पुनस्तत्? सामर्थ्यम्, यतोऽहःशब्दः पूर्वत्वेन नाश्रीयते? इत्याह - `न ह्रहःशब्दात्` - इत्यादि। `द्व्यह्नः` इति। द्वयोरह्नोर्भव इति **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इत्यादिना समासः, `तत्र भवः (4.3.53) इत्यण्, तस्य **द्विगोर्लुगनपत्ये** (4.1.88) इति लुक्। `आत्यह्नः` इति। अत्यध्ववत्समासः। `निरह्नः` इति। अत्रापि निरध्ववत्? समासः। `सर्वाह्णः` इति। विशेषणसमासः। प्रतिषेधं वक्ष्यतीति। `उत्तर्मकाभ्याञ्च` (5.4.90) इति॥
Praudhamanorama
---------------
(अह्रोह्न एतेभ्यः) ॥ ‘अहः सर्वे’ ति सूत्रे अहरादयो निर्दिष्टाः । चकारेण सङ्ख्याऽव्यये ‘अनुकृष्येते । तत्र सर्वेषां बुद्धिस्थत्वाऽविशेषेऽपि अहः- शब्द इह न गृह्यते, असम्भवादित्याशयेनाऽऽह - **सर्वादिभ्य इति ।** **समासान्ते पर इति ।** प्रकरणबललभ्यमेतत् । प्राचा तु ‘टचि परत’ इति व्याख्यातं, तदपि सामर्थ्यलभ्यमिति कथञ्चिन्नेयम् । भाष्ये त्वह्नादेशः प्रत्याख्यातः । अह्न एतेभ्योऽच् स्यात् । टचोऽपवादः । ‘अह्नष्टखोरेव’ इति नियमाट्टिलोपो न । ‘अल्लोपोऽनः’ इति व्युत्पादनात् ।
Prakriyasarvasvam
-----------------
एतेभ्यः सर्वादिभ्यः परस्याहन्शब्दस्य टचि परेऽह्नादेशः स्यात् । 'अह्नो- दन्तात्' (८-४-७) इणि णः । सर्वाह्णः । 'एकदेशात्—' पूर्वाह्णः, अपराह्णः मध्याह्नः, सायाह्नः इति । सङ्ख्याताह्नः । पुण्याद्वक्ष्यते । सङ्ख्याव्ययादेस्तु— अव्ययान्निर्गतमहर्निरह्नो त्र्यह्न इत्यपि । कोः समासे कदह्रः स्यात् संख्यायास्तूच्यते द्विगौ ॥ ३९० ॥ द्वयोरह्रोर्भवो द्व्यह्रो द्विगोः कालाट्ठञोऽत्र लुक् । त्र्यह्रप्रधानं कर्मेति स्यादुत्तरपदद्विगौ ॥ ३९१ ॥ परिमाणिसमासेऽपि त्रिपदत्वं किलेष्यते । ३९२ ।। पूर्वयोर्द्विगुसिद्धयर्थं द्व्यह्रजातस्ततो भवेत् । द्व्यहजातादि चेह स्यात् समाहारद्विगौ सति ॥ ३९३ ॥
Sutra Prayogas
--------------
* **अपराह्नशीतलतरेण** (शिशुपालवधम्): `अह्नोऽह्न एतेभ्यः` इत्यह्नादेशः।