54085: उपसर्गादध्वनः ==================== **Padacheda:** उपसर्गात् | S | 5 | 1 | अध्वनः | S | 5 | 1 | Sutrartha --------- **उपसर्गात् विहितात् अध्वन् शब्दात् 'अच्' इति समासान्तप्रत्ययः भवति ।** यस्मिन् समासे कश्चन उपसर्गः पूर्वपदरूपेण तथा च 'अध्वन्' (मार्गः) इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'अच्' इति समासान्तप्रत्ययः भवति । यथा - 1. प्रगतमध्वानम् [ इति वार्त्तिकेन तत्पुरुषसमासः] → प्र + अध्वन् + अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः] → प्राध्वन् + अ [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] → प्राध्व् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → प्राध्व प्रगतः अध्वानम् सः प्राध्वः रथः । The chariot that has crossed the road इत्याशयः । 2. निष्क्रान्तमध्वनः [ इति वार्त्तिकेन तत्पुरुषसमासः] → निर् + अध्वन् + अच् [वर्तमानसूत्रेण समासान्तः अच्-प्रत्ययः] → निरध्व् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → निरध्व । निष्क्रान्तः अध्वनः सः निरध्वः रथः । The chariot that has been taken out of the road इत्याशयः । यदि पूर्वपदमुपसर्गसंज्ञकम् नास्ति, तर्हि अनेन सूत्रेण अच्-प्रत्ययः न भवति । यथा - परमश्च असौ अध्वा सः परमाध्वा । स्मर्तव्यम् - अत्र सर्वसमासान्ताः प्रत्ययाः समाप्यन्ते । अस्मात् अग्रे विशिष्टसमासेषु समासान्तप्रत्ययविधानम् कृतमस्ति । Vasu English Summary -------------------- The affix अच् comes after the word अर्धवन् preceded by an उपसर्ग (Preposition) in a compound. Vasu English Translation ------------------------ The affix अच् comes after the word अर्धवन् preceded by an उपसर्ग (Preposition) in a compound. Thus प्रगतोऽध्वानं = प्राध्वो रथः, प्राध्वम् शकटं, निरध्वम्, प्रत्यध्वम् ॥ Why do we say "when preceded by an *Upasarga*"? Observe परमाध्वा, उत्तमाध्वा ॥ Kashika ------- उपसर्गात् परो योऽध्वन्शब्दस्तदन्तात् समासाद् अच् प्रत्ययो भवति। प्रगतोऽध्वानं प्राध्वो रथः। प्राध्वं शकटम्। निरध्वम्। प्रत्यध्वम्। उपसर्गादिति किम्? परमाध्वा। उत्तमाध्वा॥ Siddhanta Kaumudi ----------------- प्रगतोऽध्वानं प्राध्वो रथः ॥ Laghu Siddhanta Kaumudi ----------------------- प्रगतोऽध्वानं प्राध्वोरथः॥ Balamanorama ------------ **उपसर्गादध्वनः** - उपसर्गादध्वनः । उपसर्गात् परो योऽध्वन्शब्दस्तस्मादच् स्यादित्यर्थः । प्राध्वो रथ इति । 'अत्यादयः' इति समासादच् । 'नस्तद्धिते' इति टिलोपः । Padamanjari ----------- अध्वशब्दस्याक्रियावचनत्वातं प्रत्युपसर्गसंज्ञाभावादुप सर्गग्रहणं प्राद्यौपलक्षणम् ॥ Nyaas ----- `प्राध्वम्` इति। प्रादिसमामः। तत्र प्राध्वमिति `अत्यादयः क्रान्ताद्यर्थे द्वितीयया` (वा।91) इति समासः। निष्क्रान्तमध्वन इति `निरादयः क्रान्ताद्यर्थे पञ्चम्या` (वा।95)`अत्यध्वम्` इति। प्राध्वमित्यनेन तुल्यमेतत्। उपसर्गश्चात्र न गत्युपलक्षणम्। कुत एतत्? क्रियायोगाभावात्॥ Prakriyasarvasvam ----------------- अच् स्यात् । प्रगतोऽध्वानं प्राध्वो रथः । दुष्टोऽध्वा दुरध्वः ॥ Sutra Prayogas -------------- * **समध्वा** (भट्टिकाव्यम्): `उपसर्गादध्वनः` इति समासान्तष्टच्।