54084: द्विस्तावा त्रिस्तावा वेदिः ================================== **Padacheda:** द्विस्तावा | S | 1 | 1 | त्रिस्तावा | S | 1 | 1 | वेदिः | S | 1 | 1 | Sutrartha --------- **'वेदिः' अस्मिन् अर्थे 'द्विस्तावा' तथा 'त्रिस्तावा' एतौ शब्दौ निपात्येते ।** वेदिः इत्युक्ते यज्ञस्य कुण्डम् । (The platform for doing a fire-sacrifice) । अस्मिन् सन्दर्भे 'द्विस्तावा' तथा 'त्रिस्तावा' एतौ शब्दौ निपात्येते । कः अर्थः एतयोः शब्दयोः ? या वेदिः सामान्यस्य अपेक्षया द्विगुणा / त्रिगुणा विद्यते (The platform that is double or triple in size than what is usually seen)) तस्याः निर्देशः 'द्विस्तावा' / 'त्रिस्तावा' इत्यनेन क्रियते । अस्य प्रक्रिया एतादृशी अस्ति - द्विस्तावती / त्रिस्तावती वेदिः इत्येव = द्विस् / त्रिस् + तावत् + अच् [अत्र पूर्वपदम् 'सुच्' प्रत्ययान्तशब्दः अस्ति, **द्वित्रिचतुर्भ्यः सुच्** (5.4.18) इत्यनेन अस्य निर्माणं भवति । उत्तरपदम् 'तावत्' इति शब्दः अस्ति । अत्र समासस्य निर्माणार्थम् किमपि सूत्रम् न विद्यते, अतः समासः अतथा अच्-प्रत्ययः द्वावपि निपात्येते ।] → द्विस् / त्रिस् + ताव् + अ [उत्तरपदस्य टिलोपः निपात्यते] → द्विस्ताव / त्रिस्ताव [सकारस्य रुँत्वम्, विसर्गः, पुनः तकारे परे सकारः] → द्विस्ताव / त्रिस्ताव + टाप् [स्त्रीत्वे विवक्षिते **अजाद्यतष्टाप्** (4.1.4) इति टाप्-प्रत्ययः] → द्विस्तावा / त्रिस्तावा [**अकः सवर्णे दीर्घः** (6.1.101) इति सवर्णदीर्घः] या वेदिः सामान्यस्य अपेक्षया द्विगुणा / त्रिगुणा विद्यते तस्याः निर्देशः 'द्विस्तावा' / 'त्रिस्तावा' इति क्रियते । स्मर्तव्यम् - अनेन सूत्रेण निपातितौ शब्दौ केवलम् 'वेद्याः' निर्देशार्थम् एव प्रयुज्यन्ते, अन्येषु विषयेषु न । यथा, 'द्विगुणिका / त्रिगुणिका रज्जूः' (A thread that is double / triple in size) इत्यत्र एतयोः शब्दयोः प्रयोगः न भवति । Vasu English Summary -------------------- The words 1. द्विस्तावा and 2.त्रिस्तावा are irregularly formed meaning a वेदि 'altar'. Vasu English Translation ------------------------ The words 1. द्विस्तावा and 2.त्रिस्तावा are irregularly formed meaning a वेदि 'altar'. The affix अच् is added and the final syllable i. e. टि is elided. Thus द्विस्तावा वेदिः "an altar twice as big as an ordinary one". त्रिस्तावा वेदिः "thrice as big as an altar". The words are compounds of द्विः and त्रिः plus तावत् meaning "as much". Why do we say "when applied to an altar"? Observe द्विस्तावती रज्जुः, त्रिस्तावती रज्जुः ॥ Kashika ------- द्विस्तावा त्रिस्तावेति निपात्यते, वेदिश्चेदभिधेया भवति। अच्प्रत्ययष्टिलोपः समासश्च निपात्यते। यावती प्रकृतौ वेदिस्ततो द्विगुणा वा त्रिगुणा वा कस्याञ्चिद् विकृतौ, तत्रेदं निपातनम्। द्विस्तावा वेदिः। त्रिस्तावा वेदिः। वेदिरिति किम्? द्विस्तावती, त्रिस्तावती रज्जुः॥ Siddhanta Kaumudi ----------------- अच्प्रत्यष्टिलोपः समासश्च निपात्यते । यावती प्रकृतौ वेदिस्ततो द्विगुणा त्रिगुणा वाऽश्वमेधादौ तत्रेदं निपातनम् । वेदिरिति किम् । द्विस्तावती त्रिस्तावती रज्जुः ॥ Balamanorama ------------ **द्विस्तावा त्रिस्तावा वेदिः** - द्विस्तावा । यावती प्रकृताविति । यतोऽङ्गकलाप स्यातिदेशः । सा प्रकृतिः । अआमेघस्य प्रकृतिरग्निष्टोमः, तत्राम्नाताऽङ्गकलापानामआमेधेऽतिदेशात् । तदुक्तं कल्पसूत्रे॒सर्वसोमक्रतूनामग्निष्टोमः प्रकृति॑रिति । तस्मिन्नग्निष्टोमे वेदिपरिमाणं श्रुतम् । तत्र चत्रिशत्पदानि प्रक्रमा वा पश्चात्तिरश्ची षट्त्रशत्, प्राची चतुर्विंशतिः, पुरस्तात्तिरश्ची॑ति प्रकृतौ वेदिपरिमाणमुक्तम् । अस्यां तु वेद्यां ततो द्विगुणितं त्रिगुणितं च क्षेत्रपरिमाणमुक्तं कल्पसूत्रेषु-॒अष्टाविंशत्यूनं पदसहरुआं माहावेदि॑रिति । पदग्रहणमत्र प्रक्रमस्याप्युपलक्षणम् । तथाच प्रकृतौ अग्निष्टोमे यावती वेदिस्तदपेक्षया द्विगुणा त्रिगुणा वाऽआमेधादौ वेदिरस्ति, तत्र आआमेधिकवेद्यामभिधेयायां द्विस्तावेति त्रिस्तावेति च भवतीत्यर्थः ।सङ्ख्यायाः क्रियाभ्युवृत्तिगणने कृत्सुच्द्वित्रिचतुभ्र्यः सुच् इति द्विशब्दत् क्रियाभ्यावृत्तौ सुचि कृते द्विरिति त्रिरिति च रूपम् । तत्र प्राकृतं परिमाणमस्या अस्तीति तावती । प्राकृतपरिमाणेति यावत् । द्विरिति तच्छब्दार्थे प्रकृतिपरिमाणेऽन्वेति । द्विः -तावतीति विग्रहः द्विरावृत्तं प्राक#ऋतं यत् परिमाणं तद्वत्याआमेधिकी वेदिरित्यर्थः । अत एव निपातनात्समासः, अच्प्रत्ययः, तावतीशब्दस्य 'भस्याऽढे' इति पुंवत्त्वे ङीपो निवृत्तौ प्रत्ययस्याऽडित्त्वेऽपि प्रकृतेर्नान्तत्वाऽभावेऽपि टिलोपः । द्विस्तावती त्रिस्तावती रज्जुरिति । अत्र वेद्यामप्रवृत्तेरच्प्रत्ययटिलोपसमासा न भवन्तीत्यर्थः । तथाच प्रत्युदाहरणेद्वि॑रिति भिन्नं पदम् । Padamanjari ----------- समासश्च निपात्यत इति। लक्ष्णाभावात्। यावती प्रकृततावित्यादिना निपातनस्य विषयं दर्शयति, यस्मिन्कर्मण्युपदिष्टा धर्माः कर्मान्तरेणोपजीव्यन्ते सा प्रकृतिर्ज्योतिष्टोमादिः, येनोपजीव्यते साउविकृतिः। कस्याञ्चिद्विकृताविति। अश्वमेधादौ। द्विस्तावेति। तावतीशब्देन तत्सम्बन्धिन्या वृत्तिर्लक्ष्यते, सैव च द्विशब्दनं संख्यायत इति सुच् प्रत्ययः, परस्परसामर्थ्य च। द्विस्तावतीत्यसमासोऽयम्। सूत्रे लिङ्गमविवक्षितमा। द्विस्तावोऽग्निरित्यपि दृश्यते। न चात्राग्निरमिधियते, न वेदिः? अग्निरपि वेदिरेव; उतरवेदिविकारत्वात्, ठुतरवेद्यामग्निशचीयतेऽ इति वचनात् ॥ Nyaas ----- द्विस्तावा त्रिस्तावा वेदिः। (6.4.148) लोपे कृते तावच्छब्शदस्य टिलोपो निपात्यते। `समासश्च` इति। द्वित्रिशब्दयोर्निपात्यते। `यावतो प्रकृतौ` इत्यादिना नपातनस्य फलं दर्शयति। प्रकृतिविकृतिशब्दौ कार्यविशेषवचनौ। कर्मविशेषे हि कश्चित्? यागाख्यः प्रकृतिशब्देनोच्यते, कश्चिद्विकृतितश्बदेन॥ Prakriyasarvasvam ----------------- यावती प्रकृतौ वेदिः ततो द्विगुणा त्रिगुणा वा कस्यांचिद्विकृतौ । तत्र द्विस्तावा त्रिस्तावा च वेदिः । वेदिगतेऽग्निचयेऽपि द्विगुणे सति द्विस्तावोऽग्निरित्याह हरः । वेदेरन्यत्र द्विस्तावती रज्जुः ॥