54078: ब्रह्महस्तिभ्याम् वर्च्चसः ================================= **Padacheda:** ब्रह्म-हस्तिभ्याम् | S | 5 | 2 | वर्च्चसः | S | 5 | 1 | Sutrartha --------- **यस्य समासस्य पूर्वपदम् 'ब्रह्मन्' उत' हस्तिन्' एतेषु कश्चन शब्दः अस्ति, तथा च उत्तरपदम् 'वर्चस्' इति शब्दः अस्ति, तस्मात् 'अच्' इति समासान्तः प्रत्ययः भवति ।** यस्मिन् समासे 'ब्रह्मन्' उत 'हस्तिन्' एतेषु कश्चन शब्दः पूर्वपदरूपेण विद्यते, तथा च 'वर्चस्' (= तेजः, दीप्तिः, glow) इति शब्दः उत्तरपदरूपेण विद्यते, तस्मात् 'अच्' इति प्रत्ययः समासस्य अन्ते विधीयते । यथा - 1. ब्रह्मणः वर्चः [**षष्ठी** (2.2.8) इति तत्पुरुषसमासः] = ब्रह्मन् + वर्चस् + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः] → ब्रह्म + वर्चस् + अ [पूर्वपदस्य **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] → ब्रह्मवर्चस ब्रह्मणः वर्चः ब्रह्मवर्चसम् । 2. हस्तिनः वर्चः [**षष्ठी** (2.2.8) इति तत्पुरुषसमासः] = हस्तिन् + वर्चस् + अच् [वर्तमानसूत्रेण 'अच्' इति समासान्तप्रत्ययः] →हस्ति + वर्चस् + अ [पूर्वपदस्य **नलोपः प्रातिपदिकान्तस्य** (8.2.7) इति नकारलोपः] → हस्तिवर्चस हस्तिनः वर्चः हस्तिवर्चसम् । अत्र एकं वार्त्तिकम् ज्ञातव्यम् - । यस्मिन् समासे 'पल्य' तथा 'राजन्' एतौ शब्दौ पूर्वपदरूपेण विद्येते, तथा च 'वर्चस्' शब्दः उत्तरपदरूपेण विद्यते, तस्मात् शब्दात् अपि अच्-प्रत्ययः भवति । यथा - पल्यस्य वर्चः पल्यवर्चसम् । राज्ञः वर्चः राजवर्चसम् । Vasu English Summary -------------------- The affix अच् comes after the word वर्चस् when preceded in a compound by the words ब्रह्म or हस्ति। Vasu English Translation ------------------------ The affix अच् comes after the word वर्चस् when preceded in a compound by the words ब्रह्म or हस्ति। Thus ब्रह्मवर्च्चसम्, हस्तिवर्च्चसम् ॥ *Varchas* means 'light', 'strength'. Vart:- So also when *Varchas* is preceded by the words *pallya* and *rajan* : as, पल्ल्यवर्च्चसम्, राजवर्च्चसम् ॥ Bhashya ------- ब्रह्महस्तिभ्यां वर्चसः (2355) (उपसंख्यानभाष्यम्) पल्यराजभ्यां चेति वक्तव्यम्। पल्यवर्चसम्, राजवर्चसम्॥ Kashika ------- ब्रह्महस्तिभ्यां परो यो वर्चःशब्दस्तदन्तात् समासादच् प्रत्ययो भवति। ब्रह्मवर्चसम्। हस्तिवर्चसम्॥ पल्यराजभ्यां चेति वक्तव्यम्॥ पल्यवर्चसम्। राजवर्चसम्॥ Siddhanta Kaumudi ----------------- अच्स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसम् । (वार्तिकम्) ॥ पल्यवर्चसम् । राजवर्चसम् ॥ Balamanorama ------------ **ब्रह्महस्तिभ्याम् वर्च्चसः** - ब्राहृ । शेषपूरणेन सूत्रं व्याचष्टे — अच्स्यादिति । ब्राहृवर्चसमिति । ब्राहृणो वर्चेति विग्रहः । हस्तिवर्चसमिति । हस्तिनो वर्चेति विग्रहः ।पल्यराजभ्यामिति । आभ्यां परो यो वर्चश्शब्दस्मादपि अजिति वक्तव्यमित्यर्थः । पल्यवर्चसमिति । पलं मांसं, तदर्हति पल्यः । मांसभोजीत्यर्थः । तस्य वर्चेति विग्रहः । राजवर्चसमिति । राज्ञां वर्चेति विग्रहः । Tattvabodhini ------------- **ब्रह्महस्तिभ्याम् वर्च्चसः** - ब्राहृवर्चसमिति । षष्ठीतत्पुरुषः । एवं हस्तिवर्चसमपि । पल्यराजभ्यां चेतिवक्तव्यम् । पल्येति । पलं मांसमर्हती॑ति पल्यो मांसभोजी, तदीयं वर्चः — पल्यवर्चसम् । Padamanjari ----------- वर्चःउदीप्तिः। उदाहरणेषु षष्ठीसमासः ॥ Nyaas ----- `ब्राहृवर्चसम्, हस्तिवर्चसम्` इति। षष्ठीसमासौ। वर्चःशब्दोऽयं दीप्तिवचनः। `पल्यराजशब्दाभ्याञ्चेति वक्तव्यम्` [`पल्यराजभ्याम् - काशिका] (इति)। पल्यशब्दाद्राजशब्दाच्च परो यो वर्चस्शब्दस्तस्माच्चाज्भवतीत्येवमर्थरूपं व्याख्येयमित्यर्थः। व्याख्यानं चास्य पूर्वमेव योगविभागमाश्रित्य कर्तव्यम्॥ Prakriyasarvasvam ----------------- अच् स्यात् । ब्रह्मवर्चसम् । हस्तिवर्चसं मदोत्थं तेजः । पल्यराजभ्यां च । करिणां भोजनं पल्यं, तत्कृतं तेजः पल्यवर्चसम् । राजवर्चसम् । Vartika ------- पल्यराजभ्यां च । Sutra Prayogas -------------- * **त्वद्बह्मवर्चसम्** (रघुवंशम्): `ब्रह्महस्तिभ्यां वर्चसः` इति अच्-प्रत्ययः।