54075: अच् प्रत्यन्ववपूर्वात् सामलोम्नः ======================================= **Padacheda:** अच् | S | 1 | 1 | प्रति-अनु-अव-पूर्वात् | S | 5 | 1 | साम-लोम्नः | S | 5 | 1 | Sutrartha --------- **यस्य समस्तपदस्य पूर्वपदम् 'प्रति', 'अनु', 'अव' एतेषु किञ्चन अस्ति, तथा च उत्तरपदं 'सामन्' उत 'लोमन्' एतेषु किञ्चन अस्ति तस्य विषये 'अच्' इति समासान्तप्रत्ययः भवति ।** अनेन सूत्रेण 'अच्' इति समासान्तप्रत्ययः विधीयते । 'प्रति + सामन्', 'अनु + सामन्', 'अव + सामन्' तथा च 'प्रति + लोमन्', 'अनु + लोमन्', 'अव + लोमन्' एतेषां षण्णाम् विषये अयमच्-प्रत्ययः अत्र उक्तः अस्ति । क्रमेण पश्यामः - 1. प्रतिगतम् साम / प्रतिगतम् साम अस्य / साम प्रति (एतादृशम् भिन्नाः समासाः भवितुमर्हन्ति इत्याशयः) = प्रति + सामन् + अच् → प्रतिसाम [**नस्तद्धिते** (6.4.144) इति टिलोपः] एवमेव - 2. अनुगतम् साम = अनु + सामन् + अच् → अनुसाम । 3. अवगतम् साम = अव + सामन् + अच् → अवसाम । 4. प्रतिगतम् लोम = प्रति + लोमन् + अच् → प्रतिलोम । 5. अनुगतम् लोम = अनु + सामन् + अच् → अनुलोम । 6. अवगतम् लोम = अव + लोमन् + अच् → अवलोम । अनेन प्रकारेण एते षट् शब्दाः अत्र सिद्ध्यन्ति । अत्र एकम् श्लोकवार्त्तिकम् ज्ञातव्यम् - अस्य अर्थः अयम् - 'कृष्ण + भूमि', 'उदक् + भूमि', 'पाण्डु + भूमि' एते समासाः तथा च यस्मिन् समासे पूर्वपदम् सङ्ख्याशब्दः अस्ति, उत्तरपदं च 'भूमि', 'नदी', 'गोदावरी' एतेषु कश्चन शब्दः अस्ति, तेषाम् सर्वेषां समासानां विषये 'अच्' प्रत्ययः भवति । यथा - 1. कृष्णा भूमिः यस्मिन् सः = कृष्णा + भूमि + अच् → कृष्णभूमः देशः । 2. उदीची भूमिः यस्मिन् सः = उदक् + भूमि + अच् → उदग्भूमः देशः । The country of the northern land. 3. पाण्डुः भूमिः यस्मिन् सः = पाण्डु + भूमि + अच् → पाण्डुभूमः देशः । 4. पञ्चानां भूमीनां समाहारः = पञ्चन् + भूमि + अच् → पञ्चभूमः । 5. पञ्चानां नदीनां समाहारः = पञ्चन् + नदी + अच् → पञ्चनदः । 6. पञ्चानां गोदावरीणां समाहारः = पञ्चन् + गोदावरी + अच् → पञ्चगोदावरः । विशेषः - वस्तुतः केचन अन्ये समासाः अप्यत्र अच्-प्रत्ययं प्राप्तुमर्हन्ति । यथा - अ) पद्मम् नाभौ यस्यः सः = पद्म + नाभि + अच् → पद्मनाभः । आ) ऊर्णा नाभौ यस्य सः = ऊर्णा + नाभि + अच् → ऊर्णनाभः । एतेषाम् सिद्ध्यर्थमस्य सूत्रस्य योगविभागं कृत्वा 'अच्' इत्येव भिन्नम् सूत्रम् निर्मायते, तस्य साहाय्येन च एतेषाम् साधुत्वम् प्रतिपाद्यते । Vasu English Summary -------------------- The affix अच् comes after the words 1. सामन् and 2. लोमन् when 1. प्रति 2. अनु and 3. अव precede them. Vasu English Translation ------------------------ The affix अच् comes after the words 1. सामन् and 2. लोमन् when 1. प्रति 2. अनु and 3. अव precede them. As प्रतिसामम्, अनुसामम्, अवसामम् ॥ प्रतिलोमम्, अनुलोमम्, अवलोमम् ॥ Vart:- The affix अच् comes after the word भूमि preceded by the words कृष्ण, उदक्, पाण्डु, and also after the words गोदावरी and नदी when preceded by a numeral. As, कृष्णभूमः पाण्डुभूमः, उदग्भूमः ॥ पञ्चनदम्, सप्तगोदावरम् (see (2.1.20)). Vart:- The affix अच् is added to भूमि when preceded by a numeral. As, द्विभूमः प्रासादः, त्रिभूमः &c, दशभूमकं सूत्रं ॥ This affix is added to words other than those mentioned above: as पद्मनाभः, ऊर्णनाभः, समरात्रः, दीर्घरात्रः, अरात्रः ॥ Here the affix अच् is added to नाभि and रात्रि ॥ All this can be done by dividing the above *sutra* into two parts viz. (1) अच् (2) प्रत्यन्व &c. That is अच् comes after all compounds and (2) after सामन् and लोमन् preceded by प्रति &c. Kashika ------- प्रति अनु अव इत्येवंपूर्वात् सामान्तात् लोमान्तात् च समासादच् प्रत्ययो भवति। प्रतिसामम्। अनुसामम्। अवसामम्। प्रतिलोमम्। अनुलोमम्। अवलोमम्। कृष्णोदक्पाण्डुपूर्वाया भूमेरच्प्रत्ययः स्मृतः। गोदावर्याश्च नद्याश्च संख्याया उत्तरे यदि॥ कृष्णभूमः। पाण्डुभूमः। उदग्भूमः। पञ्चनदम्। पञ्चगोदावरम्। **नदीभिश्च** (२.१.२०) इत्यव्ययीभावः। भूमेरपि संख्यापूर्वाया अच् प्रत्यय इष्यते। द्विभूमः प्रासादः। त्रिभूमः। दशभूमकं सूत्रम्। अन्यत्रापि च दृश्यते। पद्मनाभः। ऊर्णनाभः। दीर्घरात्रः। समरात्रः। अरात्रः। तदेतत् सर्वमिह योगविभागं कृत्वा साधयन्ति॥ Siddhanta Kaumudi ----------------- एतत्पूर्वात्सामलोमान्तात्समासादच् स्यात् । प्रतिसामम् । अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । अवलोमम् । (वार्तिकम्) ॥ कृष्णभूमः । उदग्भूमः । पाण्डुभूमः । द्विभूमः प्रासादः । (वार्तिकम्) ॥ पञ्चनदम् । सप्तगोदावरम् । अजिति योगविभागादन्यत्रापि । पद्मनाभः ॥ Balamanorama ------------ **अच् प्रत्यन्ववपूर्वात् सामलोम्नः** - अच्प्रत्ययन्वव । एतत्पूर्वादिति । प्रति-अनु-अव-एतत्पूर्वकादित्यर्थः । प्रतिसाममिति । प्रतिगतं सामेति विग्रहः । अच् । 'नस्तद्धिते' इति । टिलोपः । अनुसाममिति । अनुगतं सामेति विग्रहः । अच् । टिलोपः । अवसाममिति । अवकृष्टं सामेति विग्रहः । अच् । टिलोपः । प्रतिलोममिति । प्रतिगतं लोमेति विग्रहः । अनुलोममिति । अनुगतं लोमेति विग्रहः । अवलोममिति । अवगतं लोमेति विग्रहः । सर्वात्राऽच्, टिलोपः । कृष्णोदगिति । नेदं वार्तिकं । किं त्वच्प्रत्येत्यत्र अजिति योगविबागमूलाभियुक्तोक्तिरेषा । कृष्णेति । कृष्णा भूमिर्यस्य, उदीची भूमिर्यस्य, पाण्डुर्भूमिर्यस्य, द्वे भूमी यस्य, तिरुआओ भूमयो यस्येति च विग्रहः । प्रासादः सर्वत्र विशेष्यः । सङ्ख्याया इति । इदमप्यजिति योगविभागमूलकमेव । सङ्ख्यायाः परो यो नदीशब्दो, गोदावरीशब्दश्च ताभ्यामजिष्यत इत्यर्थः । पञ्चनदमिति । पञ्चानां नदीनां समाहार इति विग्रहः । सप्तगोदावरमिति । सप्तानां गोदावरीणां समाहार इति विग्रहः ।नदीभिश्चे॑त्यव्ययीभावः । अचियस्येति चे॑ति लोपः ।नाव्ययीभावा॑दित्यम् । अन्यत्रापीति ।अ॑जिति सेषः । पद्मनाभ इति । पद्मं नाभौ यस्येति विग्रहः । वस्तुतस्तु यागविभागस्य भाष्येऽदर्शनात्पृषोदरादित्वमेवोचितम् । Tattvabodhini ------------- **अच् प्रत्यन्ववपूर्वात् सामलोम्नः** - प्रतिसाममिति । अव्ययीभावः, प्रादिसमासो, बहुव्रीहिर्वा । एवमनुसामादवप्यूह्रम् । कृष्णोदगिति ।अ॑जिति योगविभागेन गतार्थमिदम् । एवमुत्तरवार्तिकमपि ।कृष्णभूम॑इत्यादयौ बहुव्रीहयः । पद्मनाभ इति ।पद्मं नाभा वस्ये॑ति विग्रहः । गड्वादित्वात्सप्तम्यन्तस्य परनिपातः ।पदमाकारा नाभिरस्ये॑ति वा । एवमूर्णनाबोऽपि ज्ञेयः । तत्र तुङ्यापोः संज्ञाछन्दसो॑रिति ह्रस्वो विशेषः । Padamanjari ----------- प्रतिसाममित्यादौ प्रादिसमासः, बहुव्रीहिः, अव्ययीभावश्च यथासम्भवं वेदितव्याः। कृष्णोदक्पाण्कडुर्वाया इति। कृष्णादिशब्दाः पूर्वे यस्यास्तस्या भूमेरच् प्रत्ययः स्मृतः। कृष्णा भूमिरस्मिन् कृष्णभूमो देशः, उदीची भूमिरस्मिन्नुदग्भूमो देशः। कः पुनस्सौ पृथिव्या दक्षिणसीमा? भूमिशब्दो वा तद्विशेषे सस्वसंपन्ने द्रष्टव्यः। यस्य दक्षिणतः खिलः संदेश उदम्भूम। गोदावर्याश्च नद्याश्चाच् प्रत्ययः। समृतः, ते नदि संख्या॥। उतरे भवतः - पञ्चगोदावरम्, पञ्चनदम्।'नदीभिश्च' इति समाहारेऽव्ययीभावः। पद्मनाभ इति। पद्माकारो नाभिरस्येति प्रथमान्तर्योर्वहुव्रीहिः। पद्मं नाभावस्येति विग्रहे गड्वादिपु दर्शनात्सप्तम्याः परनिपातः ऊर्णनाभ इति।'ङ्यापोः संज्ञाच्छन्दसोर्वहुलम्' इत्यूर्णशब्दस्य ह्रस्वः। तदेतदिति। कृष्णभूमादिकम्। ओगविभागेनेति। अत एव प्राक् प्रत्ययनिर्द्देशः कृतः ॥ Nyaas ----- `प्रतिसामम्` इति। प्रतिगतं साम प्रतिसामम्। प्रादिसमासः। प्रतिगतं वा सामास्येति बहुव्रीहिः। गतशब्दो गतार्थत्वाद्वृत्तौ न प्रयुज्यते। अथ वा - साम प्रतीति यथार्थे `अव्ययं विभक्ति` (2.1.6) इत्यादिनाव्ययीभावः। अनुगतं सामानेनेति बहुव्रीहिर्वा। `अवसामम्` इति। पूर्वेण तुल्यम्। `अनुलोमम्` इत्यादौ पूर्वेण तुल्यम्। `वलोमम्` इत्यादि पूर्ववतप्रादिसमासादयो वेदितव्याः। `कृष्णोदक्पाण्डुपूर्वायाः` इति। कृष्णोदक्पाण्डुशब्दाः पूर्वे यस्या भूमेस्तस्या अच्प्रत्ययः स्मृतः। कृष्णा भूमिरस्मिन्? देशे कृष्णभूमो देशः। उदीची भूमिरस्मिन्? देश उदग्भूमः। पाण्डुर्मूमिरस्मिन्? पाण्डुभूमः। गोदावय्र्याश्च नद्याश्चाच्प्रत्ययः स्मृतः ते चेन्नदगोदवर्यौ संख्याया उत्तरे भवतः। पञ्चानां गोदावरीणां समाहारः; **नदीभिश्च** (2.1.20) इति समाहारेऽव्ययीभावः - पञ्चगोदावरम्, पञ्चनदम्। `भूमेरपि` इत्यादि। न केवलं नदीगीदावरीभ्याम्, अपि तु भूमेरपि संख्यापूर्वाया इष्यते। `द्विभूमः` इत्यादौ सर्वत्र बहुव्रीहिः। `तत्` इत्यादि। एतत्? कृष्णभूमाद्यपि योगविभागं कृत्वाऽऽचार्याः साधयन्ति॥ Prakriyasarvasvam ----------------- प्रत्यादिपूर्वाभ्यां सामलोमभ्याम् अच् स्यात् । प्रतिसामम्–अनुसामम् । अवसामम् । प्रतिलोमम् । अनुलोमम् । एतौ प्रतिमुखानुमुखलोमके संवाहने स्थितौ लक्षणया विरोध्यविरोध्यार्थौ । अवलोमम् । प्रतिसामादौ प्रादिसमासो बहुव्रीहि- रव्ययीभावश्च यथासम्भवमिति हरः । 'कृष्णोदकपाण्डुसङ्ख्यापूर्वाया भूमेरजिष्टः' । कृष्णमृत् कृष्णभूमो देशः, कृष्णीकृततलो वा । एवं पाण्डुभूमः । उदग्भागे भूविस्तारवानुदग्भूमः । द्विभूमः, त्रिभूमः प्रासादः । 'सङ्ख्याया नदीगोदावरीभ्यां च' । पञ्चनदम् । सप्तगोदावरम् । द्वयोर्नदीभिश्च (२-१-२०) इत्यव्ययीभावः । द्विगुर्वा । अन्यत्राप्यजिष्टः । पद्मनाभः । ऊर्णनाभः दीर्घरात्रः । वषरात्रः । 'मुरायुक्तः कतिपयरात्रशब्दश्चिन्त्यः' इति माधवः । सोऽप्यनेन साध्यः ॥ Vartika ------- कृष्णोदक्पाण्डुसंख्यापूर्वाया भूमेरजिष्यते । Sutra Prayogas -------------- * **उन्नाभ** (रघुवंशम्): `अच्प्रत्यन्ववपूर्वात्सामलोम्नः` इत्यत्र `अच्` इति योगविभागात् उन्नाभशब्दः सिद्धः। * **पद्मनाभचरणाङ्किताश्मसु** (कुमारसम्भवम्): `अच्प्रत्यन्ववपूर्वात्सामलोम्नः` इत्यत्र 'अच्' इति योगविभागात् समासान्तः।