54072: पथो विभाषा ================= **Padacheda:** पथः | S | 5 | 3 | विभाषा | S | 1 | 1 | Sutrartha --------- **'पथिन्' इति शब्दः यस्य उत्तरपदे विद्यते तस्मात् नञ्-तत्पुरुषशब्दात् समासान्तप्रत्ययाः विकल्पेन भवन्ति ।** अस्मिन् अधिकारे पाठिताः समासान्तप्रत्ययाः नञ्-तत्पुरुषशब्दानां विषये **नञस्तत्पुरुषात्** (5.4.71) इत्यनेन सूत्रेण निषिध्यन्ते । परन्तु यदि पथिन्-शब्दस्य विषये नञ्-तत्पुरुषसमासः विधीयते, तर्हि एते प्रत्ययाः वर्तमानसूत्रेण विभाषा (= विकल्पेन) भवितुमर्हन्ति । यथा - 'न पन्थाः' इत्यस्मिन् अर्थे 'अ + पथिन्' इति नञ्-तत्पुरुष-समासे प्राप्ते प्रक्रियायाम् **ऋक्पूरब्धूःपथामानक्षे** (5.4.74) इत्यनेन 'अ' इति प्रत्ययः भवति । अयम् प्रत्ययः प्रारम्भे **नञस्तत्पुरुषात्** (5.4.71) इत्यनेन सूत्रेण निषिध्यन्ते, परन्तु वर्तमानसूत्रेण अयम् निषेधः विकल्प्यते, अतः पक्षे 'अ' प्रत्ययः भवत्येव । यथा - 1. [अ-प्रत्ययस्य निषेधपक्षः = ] न पन्थाः = अ + पथिन् → अपथिन् । 2. [अ-प्रत्ययस्य प्रयोगपक्षः =] न पन्थाः = अ + पथिन् + अ → अपथ । **नस्तद्धिते** (6.4.144) इति टिलोपः । अतः - न पन्थाः = अपन्थाः अपथम् वा । (अत्र निर्मितः 'अपथ' शब्दः **अपथं नपुंसकम्** (2.4.30) इत्यनेन नपुंसकलिङ्गे एव विधीयते । स्मर्तव्यम् - 1. पूर्वसूत्रेण उक्तः विधिः अनेन सूत्रेण विकल्प्यते, अतः इयम् 'प्राप्तविभाषा' अस्ति । अस्मिन् विषये **न वेति विभाषा** (1.1.44) इत्यत्र विस्तारेण उक्तमस्ति । 2. अस्मिन् सूत्रे प्रयुक्तः 'विभाषा' इति शब्दः 'न' इत्यस्य विकल्पं कारयति । इत्युक्ते, पूर्वसूत्रेण उक्तः निषेधः वर्तमानसूत्रेण विकल्प्यते । समासान्तप्रत्ययाः पक्षे भवितुमर्हति इत्याशयः । 3. नञ्-बहुव्रीहिसमासस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा, 'न विद्यते पन्थाः अस्मिन् देशे' इत्यत्र नञ्-बहुव्रीहिसमासे कृते 'अ + पथिन्' इति स्थिते अत्र तु **ऋक्पूरब्धूःपथामानक्षे** (5.4.74) इत्यनेन 'अ' प्रत्ययः नित्यमेव भवति ।अ + पथिन् + अ = अपथ । यथा - न विद्यते पन्थाः अस्मिन् देशे सः अपथः देशः । Vasu English Summary -------------------- The समासान्त affix does not optionally come after a तत्-पुरुष समास of the word पथिन् with नञ् । Vasu English Translation ------------------------ The समासान्त affix does not optionally come after a तत्-पुरुष समास of the word पथिन् with नञ् । This declares an option, where under the last *sutra* the omission would have been necessary. Thus अपथम् or अपन्थाः ॥ (See (5.4.74) and (2.4.30)). Kashika ------- नञस्तत्पुरुषादिति वर्तते। नञः परो यः पथिन्शब्दः, तदन्तात् तत्पुरुषात् समासान्तो विभाषा न भवति। पूर्वेण नित्यः प्रतिषेधः प्राप्तो विकल्प्यते। अपथम्, अपन्थाः॥ Siddhanta Kaumudi ----------------- नञ्पूर्वात्पथो वा समासान्तः । अपथम् । अपन्थाः । तत्पुरुषादित्येव । अपथो देशः । अपथं वर्तते ॥ Balamanorama ------------ **पथो विभाषा** - पथो विभाषा । पथ इति । पथिन्शब्दादित्यर्थः । अपथिमिति । न पन्था इति विग्रहे नञ्तत्पुरुषः ।॒ऋक्पूः॑ इत्यप्रत्यये सति 'नस्तद्धिते' इति टिलोपः ।पथः सङ्ख्याव्ययादे॑रिति नपुंसकत्वम् । अपन्था इति । अप्रत्ययाऽभावे रूपम् । तत्पुरुषादित्येवेति । अनुवर्तत एवेत्यर्थः । अपथो देश इति । अविद्यमानः पन्था यस्येति विग्रहः । बहुव्रीहित्वात्ऋक्पू॑रित्यप्रत्ययस्य न पाक्षिकोऽपि निषेधः ।*****इति बालमनोरमायाम् समासान्तप्रकरणम् ।***** अथ समासाश्रयविधिः । — — — — — — — — Tattvabodhini ------------- **पथो विभाषा** - अपथं वर्तत इति । अर्थाऽभावेऽव्ययीभाव ।इति सकलसमाससाधारणाः समासान्ताः ।इति तत्त्वबोधिन्यां समासान्तप्रकरणम्॥ Nyaas ----- अपथम्` इत्यत्र पूर्ववदकारः। `अपथं नपुंसकम्` (2.4.30) इति नपुंसकलिङ्गता॥ Prakriyasarvasvam ----------------- नञ्पूर्वात् पथः तत्पुरुषात् समासान्तो वा स्यात् । अपन्थाः, अपथम् । अस्य परवल्लिङ्गे प्राप्ते— Sutra Prayogas -------------- * **अपथे** (रघुवंशम्): `पथो विभाषा` इति वा समासान्तः।