54070: किमः क्षेपे ================== **Padacheda:** किमः | S | 5 | 1 | क्षेपे | S | 7 | 1 | Sutrartha --------- **यस्मिन् समासे 'किम्' इति शब्दः निन्दाम् प्रदर्शयितुम् प्रयुज्यते, तस्मिन् समासे समासान्तप्रत्ययाः न भवन्ति ।** **किं क्षेपे** (2.1.64) इत्यनेन सूत्रेण क्षेप (= निन्दा) अस्मिन् अर्थे किम् इति शब्दः सुबन्तेन सह समस्यते । अस्मिन् समासे समासान्तप्रत्ययाः न भवन्ति - इति वर्तमानसूत्रस्य अर्थः । यथा - 'कुत्सितः राजा' (hated king / bad king) इत्यत्र **किं क्षेपे** (2.1.64) इत्यनेन 'किम् + राजन्' इति स्थिते वस्तुतः **राजाहस्सखिभ्यष्टच्** (5.4.91) इत्यनेन टच्-प्रत्ययः भवितुमर्हति, परन्तु वर्तमानसूत्रेण सः निषिध्यते । अतः अत्र 'किंराजन्' इत्येव प्रातिपदिकम् सिद्ध्यति । कुत्सितः राजा = किंराजा । Vasu English Summary -------------------- The समासान्त affix is not applied to a word preceded by किम् in the sense of reproach. Vasu English Translation ------------------------ The समासान्त affix is not applied to a word preceded by किम् in the sense of reproach. Thus किं + राजन् = किंराजन् as किंराजा यो न रक्षति "He is no-king who does not protect". किंसखा योऽभिद्रुह्यति, किंगौर्यो न वहति ॥ (5.4.91), (5.4.92), (2.1.64). The compounding here takes place by Rule (2.1.64). Why do we say "when meaning reproach"? Observe कस्य राजा = किंराज, किंसखः, किंगवः ॥ Bhashya ------- किमः क्षेपे (2347) (क्षेपेग्रहणानर्थक्यबोधकभाष्यम्) क्षेप इति किमर्थम्? कस्य राजा किंराजः॥ क्षेप इति शक्यमकर्तुम्। कस्मान्न भवति - कस्य राजा किंराज इति? लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेति॥ Kashika ------- क्षेपे यः किंशब्दस्ततः परस्य समासान्तो न भवति। किंराजा यो न रक्षति। किंसखा योऽभिद्रुह्यति। किंगौर्यो न वहति। **किं क्षेपे** (२.१.६४) इति समासः। क्षेप इति किम्? कस्य राजा किंराजः। किंसखः। किंगवः॥ Siddhanta Kaumudi ----------------- क्षेपे यः किंशब्दस्ततः परं यत्तदन्तात्समासान्ताः न स्युः । कुत्सितो राजा किंराजा । किंसखा । किंगौः । क्षेपे किम् । किंराजः । किंसखः । किंगवः ॥ Tattvabodhini ------------- **किमः क्षेपे** - किमः क्षेपे । क्षेपग्रहणमिह शक्यमवक्तुं, प्रतिपदोक्तपरिभाषयाकिं क्षेपे॑ इति विहितसमासस्यैव ग्रहणात् । किंराज इत्यादि । किमत्र प्रश्ने षष्ठीसमासः, कर्मधारयो वा । Padamanjari ----------- किराजेति।'किं क्षेपे' इति समासः। कस्य राजा किराज इति। प्रश्नेऽत्र किंशब्दः।'क्षेपे' इति शक्यमाकर्तुम्, कस्मादत्र न भवति - लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमिति? कश्टिदाह - क्षेपग्रहणेनैज्ज्ञापयति - इयमिह परिभाषा नापतिष्ठत इति, तेन निन्दिता धूरस्य शकटस्य किंधूः शटकमिति बहुव्रीहावपि प्रतिषेधः सिद्धो भवतीति। तद्भाष्यविरोधादुपेक्ष्यम्। तस्माद्विस्पष्टार्थं क्षेपग्रहणम् ॥ Nyaas ----- `किंराजा` इति। निन्दितो राजेति विगृह्र **किं क्षेपे** (2.1.64) इति समासः। किंराज इत्यत्र प्रश्ने किंशब्दः, न क्षेपे, षष्ठीसमासः। ननु `लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणम्` (व्या।प।3) इति प्रतिपदोक्तो यः किमः समासः **किं क्षेपे** (2.1.64) इत्यनेन विहितः स एव ग्रहीष्यत इति क्षेपग्रहणमनर्थकम्? एवं तर्हि क्षेपग्रहणेनै तदेव ज्ञापयति - इयं परिभाषा नावतिष्ठत इति। तेन बहुव्रीहावपि प्रतिषेधः सिद्धो भवति - निन्दिता धूरस्य किन्धुरं शकटम्, निर्धरं शकटमिति॥ Prakriyasarvasvam ----------------- क्षेपार्थात् किमः परस्य समासान्तो न । किंराजा । प्रश्ने तु कस्य राजा किंराजोऽयम् ॥ Sutra Prayogas -------------- * **किंसखा** (किरातार्जुनीयम्): `किमः क्षेपे` इति समासान्तप्रतिषेधः।