54069: न पूजनात् ================ **Padacheda:** न | S | 0 | 0 | पूजनात् | S | 5 | 1 | Sutrartha --------- **पूजनवाचकेभ्यः शब्देभ्यः समासान्तप्रत्ययाः न विधीयन्ते ।** **समासान्ताः** (5.4.69) अस्मिन् अधिकारे विहिताः समासान्तप्रत्ययाः पूजनवाचकेभ्यः शब्देभ्यः (= यत्र आदररूपेण विधानम् क्रियते तेभ्यः शब्देभ्यः) न विधीयन्ते । अस्य सूत्रस्य प्रयोगार्थम् वार्त्तिककारः एकम् नियम् पाठयति - । इत्युक्ते, 'सु' तथा 'अति' एतौ शब्दौ यत्र पूर्वपदरूपेण आगच्छतः, तत्रैव अस्य सूत्रस्य प्रयोगः भवति, अन्यत्र न । यथा - 1. 'शोभनः राजा' इत्यत्र **कुगतिप्रादयः** (2.2.18) इत्यनेन तत्पुरुषसमासे कृते 'सु + राजन्' इति स्थिते वस्तुतः **राजाहस्सखिभ्यष्टच्** (5.4.91) इत्यनेन टच्-प्रत्ययः भवितुमर्हति, परन्तु वर्तमानसूत्रेण सः निषिध्यते, यतः अत्र 'शोभनः राजा' इति प्रयोगः आदरवाचक; / पूजनवाचकः अस्ति । अतः अत्र 'सुराजन्' इत्येव प्रातिपदिकं सिद्ध्यति । 2. 'अतिशयितः राजा' (extra-ordinary king) अत्रापि **कुगतिप्रादयः** (2.2.18) इत्यनेन तत्पुरुषसमासे कृते 'अति + राजन्' इति स्थिते**राजाहस्सखिभ्यष्टच्** (5.4.91) इत्यनेन प्राप्तः टच्-प्रत्ययः वर्तमानसूत्रेण निषिध्यते, अतः 'अतिराजन्' इत्येव प्रातिपदिकं सिद्ध्यति । अत्र एकम् वार्त्तिकम् ज्ञातव्यम् - । इत्युक्ते, अस्य सूत्रस्य प्रसक्तिः **बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्** (5.4.113) इति सूत्रात् प्राक् एव विद्यते । ततः यद्यपि पूजनवाची प्रातिपदिकमस्ति, तथापि समासान्तप्रत्ययः भवत्येव । यथा, 'शोभने अक्षिणी यस्य' इत्यस्मिन् अर्थे 'सु + अक्षि' इति स्थिते **बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच्** (5.4.113) इत्यनेन अत्र षच्-प्रत्ययः भवत्येव, येन 'स्वक्ष' इति प्रातिपदिकम् सिद्ध्यति । स्मर्तव्यम् - यद्यपि अस्मिन् सूत्रे 'पूजनात्' इति निर्देशः अस्ति, तथापि केवलम् 'सु' तथा 'अति' एतयोः विषये एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अन्येषाम् शब्दानाम् विषये न, इति ज्ञातव्यम् । यथा 'महान् राजा' इत्यत्र यद्यपि पूजावचनमस्ति, तथाप्यत्र टच्-प्रत्ययं कृत्वा 'महाराज' इत्येव प्रातिपदिकं सिद्ध्यति । Vasu English Summary -------------------- The समासान्त affixes are not applied to those words whose first member is a word expressing praise. Vasu English Translation ------------------------ The समासान्त affixes are not applied to those words whose first member is a word expressing praise. Later on will be mentioned certain words which when standing as member in a compound take these *samasanta* affixes. The present rule prohibits the application of those affixes when such words are preceded by a word expressing praise. Thus (5.4.91) ordains the affix टच् when the words राजन् enters a compound, as, महा + राजन् = महा + राजन् + टच् = महाराजः, and not महाराजा ॥ But सुराजा, अतिराजा, so also सुगौः, अतिगौः (5.4.92) prohibited)). Vart:- The word expressing praise must be सु or अति and not any word expressing praise in general. Therefore, the prohibition does not apply in परमराजः and परमगवः ॥ Vart:- This prohibition applies up to *sutra* (5.4.113) exclusive. Thus सुसक्थः, अतिसक्थः, स्वक्षः, अत्यक्षः, here the affix पच् (5.4.113) is not prohibited. Bhashya ------- न पूजनात् (2346) (निषेधाधिकरणम्) (सूत्रार्थोपपादकभाष्यम्) इदं विप्रतिषिद्धम्। को विप्रतिषेधः? परिगणिताभ्यः प्रकृतिभ्यः समासान्तो विधीयते, न च तत्र काचित् पूजनान्ता प्रकृतिर्निर्दिश्यते॥ नैतद्विप्रतिषिद्धम्। नैवं विज्ञायते याभ्यः प्रकृतिभ्यः समासान्तो विधीयते न चेत्ताः पूजनान्ता भवन्तीति। कथं तर्हि? न चेत्ताः पूजनात्परा भवन्तीति॥ (5930 उपसंख्यानवार्तिकम्॥ 1 ॥) - पूजायां स्वतिग्रहणम् - (भाष्यम्) पूजायां स्वतिग्रहणं कर्तव्यम्। सुराजा, अतिराजा। क्व मा भूत्? परमगवः, उत्तमगवः॥ (5931 उपसंख्यानवार्तिकम्॥ 2 ॥) - प्राग्बहुव्रीहिग्रहणं च - (भाष्यम्) प्राग् बहुव्रीहिग्रहणं च कर्तव्यम्। इह मा भूत् - स्वक्षः, अत्यक्ष इति॥ Kashika ------- यान् शब्दानुपादाय समासान्ता विधीयन्ते **राजाहःसखिभ्यष्टच्** (५.४.९१) इत्येवमादीन्, यदा ते पूजनात् पूजनवचनात् परे भवन्ति तदा समासान्तो न भवति। सुराजा। अतिराजा। सुगौः। अतिगौः॥ पूजायां स्वतिग्रहणं कर्तव्यम्॥ इह मा भूत् — परमराजः, परमगव इति॥ प्राग्बहुव्रीहिग्रहणं च कर्तव्यम्॥ **बहुव्रीहौ सक्थ्यक्ष्णोः०** (५.४.११३) इत्येवमादौ प्रतिषेधो न भवति। सुसक्थः। अतिसक्थः। स्वक्षः। अत्यक्षः॥ Siddhanta Kaumudi ----------------- पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥ (वार्तिकम्) ॥ नेह परमराजः । पूजनात् किम् । गामतिक्रन्तोऽतिगवः । बहुव्रीहौ सक्थ्यक्ष्णोः - (SK852) इत्यतः प्रागेवायं निषेधः । नेह । सुसक्थः । स्वक्षः ॥ Laghu Siddhanta Kaumudi ----------------------- पूजनार्थात्परेभ्यः समासान्ता न स्युः । सुराजा । अतिराजा ॥ इति समासान्ताः ॥ Balamanorama ------------ **न पूजनात्** - न पूजनात् । 'परेभ्य' इत्यध्याहार्यम् । 'समासान्ता' इति पूर्वसूत्रमनुवर्तते । तदाह — पूजनार्थादिति ।पूजायां स्वतिग्रहणं कर्तव्य॑मिति वार्तिकमभिप्रेत्योदाहरति — सुराजेति । सु=शोभनो राजेति प्रादिसमासः । अतिराजेति । पूज्यो राजेत्यर्थः । उभयत्रापि 'राजाहःसखिभ्यः' इति टज्न भवति । स्वतिभ्यामेवेति । स्वतिभ्यां परो यो राजन्शब्दस्तस्मादेवेत्यर्थः, तथा वार्तिकादिति भावः । नेहेति । 'निषेधे' इति शेषः । परमराज इति । परमश्चासौ राजा चेति विग्रहः । अतिगव इति । 'अत्यादयः' इति समासः । अतेः पूजनार्थकत्वाऽभावान्न टचो निषेधः । एवं 'परमराज' इत्यत्रापि । इत्यतः प्रागिति ।प्राग्बहुव्रीहिग्रहणं कर्तव्य॑मिति वार्तिकार्थसङ्ग्रहोऽयम् । सुसक्थः स्वक्ष इति । सु=शोभने सक्थिनी यस्य, सु=शोभने अक्षिणी यस्येति च विघः ।बहुव्रीहौ सक्थ्यक्ष्णो॑रिति षच् । किमः क्षेपे । किंराजा किंसखेति । इह 'राजाहःसखिभ्यः' इति टज्नभवति, 'किं क्षेपे' इति समासः । किंराजः किंसख इति । किंशब्दोऽत्र प्रश्ने । कस्य राजा, को राजेति वा विग्रहः । Nyaas ----- `सुराजा, अतिराजा` इति। शोभनो राजा, अतिशयितः राजेति विगृह्र `कुगतिप्रादयः (2.2.18) इति समासः। `सुगौः` इति। पूर्ववत्समासः। अत्र **गोरतद्धितलुकि** (5.4.92) इति टच्? प्राप्नोति; अस्माद्वचनान्न भवति। `परमराजः, परमगवः` इति। **सन्महत्परमोत्तमोत्कृष्टाः पूज्यमानैः** (2.1.61) इति समासः। `सुसक्थः` इति। `बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात्? षच्` (5.4.113) इति षच्॥ Prakriyasarvasvam ----------------- पूजनार्थात् परेभ्यः समासान्ता न स्युः । स्वती पूजायामिति सुराजा, अतिराजा । स्वतिभ्यामेव निषेधः । तेन परमराज इत्यादिः स्यात् । बहुव्रीहौ सक्थ्यक्ष्णोरित्यारम्भ्यानिषेधः । सुसक्थः, स्वक्षः ॥ Vartika ------- स्वतिभ्यामेव । Sutra Prayogas -------------- * **सुराज्ञि** (शिशुपालवधम्): `न पूजनात्` इति समासान्तप्रतिषेधः। * **सुसखैष** (शिशुपालवधम्): `न पूजनात्` इति समासान्तप्रतिषेधः।