54068: समासान्ताः ================= **Padacheda:** समासान्ताः | S | 1 | 3 | Sutrartha --------- **अधिकारसूत्रमिदम् । अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तपर्यन्तम् पाठिताः तद्धितप्रत्ययाः समासप्रक्रियायामन्तिमसोपाने विधीयन्ते ।** इदमधिकारसूत्रम् । समासान्तप्रत्ययानामधिकारः अस्मात् सूत्रात् आरभ्य पञ्चमाध्यायस्य अन्तिमसूत्रपर्यन्तम् (= तद्धिताधिकारस्य अन्तपर्यन्तम्) गच्छति । किम् नाम समासान्ताः प्रत्ययाः ? समासप्रक्रियायाम् कुत्रचित् अन्तिमसोपाने कश्चन तद्धितप्रत्ययः विधीयते । अयम् प्रत्ययः समासान्तप्रत्ययः नाम्ना ज्ञायते । अस्य प्रत्ययस्य प्रयोगं विना समासस्य निर्माणमेव न भवति । यथा - 'मद्राणाम् राजा' इत्यत्र एतादृशः समासः भवति - मद्राणाम् राजा [**षष्ठी** (2.2.8) इति षष्ठीतत्पुरुषः समासः] = मद्र + आम् + राजन् + सुँ [अलौकिकविग्रहः] → मद्र + राजन् [**कृत्तद्धितसमासाश्च** (1.2.46) इति प्रातिपदिकसंज्ञा । **सुपो धातुप्रातिपदिकयोः** (2.4.71) इति आम्-प्रत्ययस्य सुँ-प्रत्ययस्य च लोपः] → मद्र + राजन् + टच् [**राजाहस्सखिभ्यष्टच्** (5.4.91) इति 'टच्' प्रत्ययः । अयम् समासान्तप्रत्ययः अस्ति ] → मद्र + राजन् + अ [टकारचकारयोः इत्संज्ञा, लोपः] → मद्र + राज् + अ [**नस्तद्धिते** (6.4.144) इति टिलोपः] → मद्रराज [वर्णमेलनम्] अनेन प्रकारेण 'मद्राणाम् राजा मद्रराजः' इति समासः सिद्ध्यति । यदि अत्र 'टच्' इति तद्धितप्रत्ययः न आगच्छेत्, तर्हि 'मद्रराजन्' इति अनिष्टं प्रातिपदिकम् सिद्ध्येत् । अतः अत्र समासप्रक्रियायाम् 'टच्' प्रत्ययस्य योजनमावश्यकमस्ति । एतादृशाः प्रत्ययाः, ये समासप्रक्रियायामन्ते विधीयन्ते , ते सर्व समासान्तप्रत्ययाः अस्मिन् अधिकारे पाठिताः सन्ति । प्रश्नः - सर्वे समासान्तप्रत्ययाः तद्धितप्रत्ययाः अपि किमर्थम् सन्ति ? उत्तरम् - तद्धितप्रत्ययविशिष्टं कार्याणि (यथा **नस्तद्धिते** (6.4.144) इति टिलोपः, **तद्धितस्य** (6.4.144) इति स्वरविधानम् - आदयः) कारयितुम् एतेषाम् तद्धितसंज्ञा भवति । तथा च, एते प्रत्ययाः प्रातिपदिकात् विधीयन्ते, एतेषाम् योजनेन चापि प्रातिपदिकमेव सिद्ध्यति, अतः एतेषाम् 'तद्धित' इत्येव संज्ञा समीचीना । ज्ञातव्यम् - 1. अस्मिन् अधिकारे विहितः समासान्तप्रत्ययः समासस्य अवयवरूपेणैव विधीयते । इत्युक्ते, समासस्य निर्माणम् सम्पूर्णरूपेण तदा एव भवति यदा समासान्तप्रत्यययोजननेन तद्धितान्तशब्दः सिद्ध्यति । अयम् तद्धितान्तशब्दः एव 'समस्तपदम्' नाम्ना ज्ञायते । समासविशिष्टानि कार्याणि (यथा, **द्विगोः** (4.1.21) इति ङीप्-प्रत्ययः, **परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः** (2.4.26) इति लिङ्गनिर्णयः - आदीनि) अस्मात् तद्धितान्तशब्दात् एव भवितुमर्हन्ति । 2. सर्वेषु समासेषु समासान्तप्रत्ययाः न भवन्ति । केषुचन समासेषु, केषाञ्चन शब्दानां विषये एव समासप्रक्रियायाम् तद्धितप्रत्ययः (= समासान्तप्रत्ययः) भवति । एतेषाम् सङ्कलनमस्मिन् अधिकारे कृतमस्ति । 3. अस्मिन् अधिकारे पाठिताः तद्धितप्रत्ययाः समासप्रक्रियायाम् एव प्रयोक्तव्याः । एतेषामन्यत्र (वाक्येषु / शब्दनिर्माणे) प्रयोगः नैव भवितुमर्हति । Vasu English Summary -------------------- The following affixes are added to the ends of compounds without changing their sense. Vasu English Translation ------------------------ The following affixes are added to the ends of compounds without changing their sense. This is an *adhikara* or regulating *sutra*: and governs all *sutras* upto the end of this chapter. All the affixes to be ordained here after become the final part and integral portion of a compound, so that whenever a compound is formed, these affixes must be added to complete the compound. These affixes are useful in forming the *Avyayibhava*, the *Dvigu*, the *Dvandva*, the *Tatpurusha* and the *Bahu*-*vrihi* compounds: in fact so long as these affixes are not added, the compounds do not get the designation of *Avyayibhava* &c. Thus उप + राजन् = उपराजन् : now before this word can be properly called an *Avyayibhava*, we must elide the final अन् by adding the *samasanta* affix डच् (5.4.108), and we get the form उपराज, to which अम् is added by (2.4.83) and we have उपराजम्, so also अधिराजं ॥ So also द्विपुरी, त्रिपुरी the *samasanta* अ being added to पुर् by (5.4.74), then the feminine affix ङीप् by (4.1.21), the whole word द्विपुर being called *Dvigu*. So also, कटकवलयिनी and शङ्खनूपुरिणी ॥ Here the affix इनि (5.2.128) is added to the whole, *samasanta* word कटकवलय &c which gets the name of *Dvandva*. Similarly विधु꣡रः (विगतोधुरः), प्र꣡धुरः (प्रगतोधुरः). Here the whole *samasanta* (5.4.74) word gets the name of *Tatpurusha*, and hence the first member retains its accent by (6.2.2), namely *udatta*. (*phit* IV. 12 and 13) उचैर्धुरः, नीच꣡र्धुरः being *Bahuvrihi*, the first member retains its accent, namely acute on the final, as उचैः, नीचैः have been taught as *antodatta* in the very list of *Svaradi* (l. 1.37). As a general rule all affixes come at the end of a word (2.1.2), what is the use of employing the word "*anta*" in this *sutra*? It means that when words like *avyayibhava* &c are employed, they mean words having those affixes already at their end. Thus the *Dvigu* compound of द्वि॑ + धुर = द्विधुर् + अ (5.4.74) = द्विधुरः so that when rule (4.1.21) says that the feminine of *Dvigu* compounds ending in अ take ई, it refers to *Dvigu* compounds which have already taken the *samasanta* affix अ, otherwise the rule (4.1.21) would not have applied, for strictly speaking द्विधुर् ends in र् *r* and not in अ ॥ Similarly rule (5.2.128) ordaining इनि after *Dvandva* compounds, means that the affix comes after a *Dvandva* compound that has already taken the *samasanta* affix टच् (5.4.106), as कोश + निषत् = कोश + निषद् + टच् (5.4.106) कोशनिषदं, कोशनिषदिनी ॥ Bhashya ------- समासान्ताः (2345) (अधिकाराधिकरणम्) (अन्तग्रहणप्रयोजनभाष्यम्) अन्तग्रहणं किमर्थम्? अन्तो यथा स्यात्। नैतदस्ति प्रयोजनम्। प्रत्ययपरत्वेनाप्येतत्सिद्धम्॥ इदं तर्हि प्रयोजनम् - तद्ग्रहणेन ग्रहणं यथा स्यात्। कानि पुनस्तद्ग्रहणस्य प्रयोजनानि? (5929 तद्ग्रहणप्रयोजनवार्तिकम्॥ 1 ॥) - प्रयोजनमव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः - (भाष्यम्) अव्ययीभावः प्रयोजनम्। प्रतिराजम्, उपराजम्। अव्ययीभावश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात्। नैतदस्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य। इदं तर्हि प्रयोजनम् - नाव्ययीभावादतोऽम्त्वपञ्ञ्चम्याः (2.4.83) इत्येष विधिर्यथा स्यात्। अव्ययीभाव॥ द्विगु। द्विगुसंज्ञा च प्रयोजनम्। पञ्ञ्चगवम्, दशगवम्। द्विगुश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात्। नैतदस्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य। इदं तर्हि प्रयोजनम् - द्विपुरी, त्रिपुरी - द्विगोरकारान्तादिति ईकारो यथा स्यात्। एतदपि नास्ति प्रयोजनम्। पुरशब्दोऽयमकारान्तस्तेन समासो भविष्यति। आतश्चाकारान्तः। एवं ह्याह - क्षेमे सुभिक्षे कृतसञ्ञ्चयानि पुराणि राज्ञां विनयन्ति कोपम्। इति॥ इदं तर्हि प्रयोजनम् - द्विधुरी, त्रिधुरी - द्विगोरकारान्तादिति ङीब् यथा स्यात्। द्विगु॥ द्वन्द्व। द्वन्द्वसंज्ञा च प्रयोजनम्। वाक्त्वचम्, स्रक्त्वचम् । द्वन्द्वश्च समासो नपुंसकलिङ्गो भवतीति नपुंसकलिङ्गता यथा स्यात्। नैतदस्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य॥ इदं तर्हि प्रयोजनम् - कोशश्च निषच्च कोशनिषदम् - कोशनिषदिनी द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः (5.2.128) इतीनिर्यथा स्यात्। द्वन्द्व॥ तत्पुरुष। तत्पुरुषसंज्ञा च प्रयोजनम्। परमधुरा, उत्तमधुरा - परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः (2.4.26) इति परवल्लिङ्गता यथा स्यात्। नैतदस्तिप्रयोजनम्। उत्तरपदार्थप्रधानस्तत्पुरुषः॥ इदं तर्हि प्रयोजनम् - अर्धधुरा। एतदपि नास्ति प्रयोजनम्। लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य॥ इदं तर्हि - निर्धुरः। अव्ययं तत्पुरुषे प्रकृतिस्वरं भवतीत्येष स्वरो यथा स्यात्। तत्पुरुष॥ बहुव्रीहि। बहुव्रीहिसंज्ञा च प्रयोजनम्। उच्च धुरः, नीचधुरः। बहुव्रीहौ प्रकृत्या पूर्वपदं भवतीत्येष स्वरो यथा स्यात्॥ Kashika ------- अधिकारोऽयम्। आ पादपरिसमाप्तेर्ये प्रत्यया विहितास्ते समासस्यान्ता अवयवा एकदेशा भवन्ति, तद्ग्रहणेन गृह्यन्ते (व्या०प० ८०) इति वेदितव्यम् । प्रयोजनम् — अव्ययीभावद्विगुद्वन्द्वतत्पुरुषबहुव्रीहिसंज्ञाः। उपराजम्। अधिराजम्। **नाव्ययीभावाद्०** (२.४.८३) इत्येष विधिर्भवति। **अनश्च** (५.४.१०८) इति टच्। द्विपुरी, त्रिपुरीति। **द्विगोः** (४.१.२१) इति ङीब् भवति। कोशनिषदिनी। स्रक्त्वचिनी। **द्वन्द्वोपतापगर्ह्याद्०** (५.२.१२८) इतीनिर्भवति। विधु॑रः। प्रधु॑रः। **तत्पुरुषे तुल्यार्थ०** (६.२.२) — इत्येष स्वरो भवति। उ॒च्चैर्धु॑रः। नी॒चैर्धु॑रः। **बहुव्रीहौ प्रकृत्या पूर्वपदम्** (६.२.१) इत्येतद् भवति॥ Siddhanta Kaumudi ----------------- इत्यधिकृत्य ॥ Balamanorama ------------ **समासान्ताः** - समासान्ताः । इत्यधिकृत्येति ।आपादपरिसमाप्ते॑रिति भावः । अत्र समासपदमलौकिकविग्रहवाक्यपरमेव । अत एव 'बहुकुमारीक' इत्यत्र ह्रस्वो न । 'गोस्त्रियोः' इति सूत्रे 'अन्तः' इति सूत्रे च भाष्ये स्पष्टमेतत् । एवंचाऽलौकिकविग्रहवाक्ये समाससंज्ञासमकालमेव समासान्ता इति सिद्धान्तः । अन्तशब्दश्चरमावयववाची । अत एव उपशरदमित्यादौनाव्ययीभावा॑दित्यम् । तत्र टचस्तदनवयवत्वे टजन्तस्याव्ययीभावसमासत्वाऽभावादम् न स्यात् । तथाच टचस्तदनवयवत्वेअव्ययानां भमात्रे टिलोपः॑ इति प्रसज्येत । टचस्तदवयवत्वे तु तदन्तस्यैवाव्ययीभावसमासतया अव्ययत्वादुपशरदित्यस्याव्ययत्वाऽभावान्न टिलोपः । समासान्तप्रत्ययाश्चलौकिकविग्रवाक्ये सुपः परस्तादेव भवन्ति । अत एव 'प्रत्ययस्थात्' इति सूत्राभाष्ये 'बहुचर्मिका' इत्युदाहृतं सङ्गच्छते । विस्तरस्तु शब्देन्दुशेखरे ज्ञेयः । Tattvabodhini ------------- **समासान्ताः** - समासान्त इति । समासस्य समासार्थोत्तरपदस्य वा चरमावयव इत्यर्थः । तेनोपशरदमित्यत्रनव्ययीभावा॑दित्यम् सिध्द्यति, अव्ययीभावस्याऽदन्तत्वात्, द्विपुरीत्यादौतुऋक्पूरब्धू॑रित्यप्रत्यय उत्तरपदस्यावयव इतिअकारान्तोत्तर पदो द्विगुः स्त्रियो॑मिति स्त्रीत्वेद्विगो॑रिति ङीप्सिध्यतीति बोध्यम् । Padamanjari ----------- अवयववचनोऽन्तशब्द इत्याह-अवयवा एकदेशा इति। समीपवचनस्तु न गृह्यते; प्रत्ययपरत्वेनैव सिद्धत्वात्। अवयववचनं चान्तशब्दमाश्रयता समासार्थादुतरपदादकृत एव समासे समासान्ता भवन्तीत्युक्तं भवति। एवं हि ते समासस्यैकादेशा भवन्ति, यदि प्रागेव तान्प्रत्ययान्कृत्वा तदन्तेन समासः क्रियते। तथा च'न कपि' इत्यत्र वक्ष्यति -'समासार्थे ह्युतरपदे कपि कृते पश्चात्समासेन भवितव्यमिति। ये पुनरत्र पक्षे दोषास्ते ङ्याप्सूत्रे एव प्रतिविहिताः। अधिराजम्, उपराजमिति। विभक्त्यर्थे सामीप्ये चाव्ययीभावः, ठव्ययीभावे शरत्प्रभृतिभ्यः' ठनश्चऽ इति टच्। द्विपुरीति। समाहारद्वन्द्वः। ठृक्पूरब्धूःऽ इत्यकारः। कोषश्च निषच्च कोषनिषदम्, स्रुक्च त्वक् च स्रुक्त्वचम्-द्वन्द्वाच्चुदषहान्तात्समाहारेऽ इति टच्। विगतो धुरः, प्रगतो धुर इति। प्रादिसमासः। तत्पुरुषे तुल्यार्तेत्येष स्वरो भवतीति। पूर्वपदप्रकृतिस्वरः, पूर्वपदं चात्र'निपाता आद्यौदाताः' , ठुपसर्गाश्चाभिवर्जम्ऽ इत्याद्यौदातम्, उच्चैर्नीचैः- शब्दौ स्वरादिष्वन्तोदातौ पठितौ। अथ समासग्रहणं किमर्थम्, यावता'बहुव्रीहौ संख्येये,' 'तत्पुरुषस्याङ्गुलेः' , ठव्ययीभावे शरत्प्रभृतिभ्यःऽ' द्वन्द्वाच्चुदषहान्तात्' इति प्रायेण समासविशेषग्रहणमस्ति? यत्रापि नास्ति तत्रापि सङ्गात एव गृह्यते, यथा ठच् प्रत्यन्ववपूर्वात्सामलोम्नःऽ इति। यत्र तर्ह्येतदुभयं नास्ति ठृक्पूरब्धूःऽ इत्यादौ, समासग्रहममिति ॥ Nyaas ----- `समासान्ताः` इत्ययमधिकारः` इति। वक्ष्यमाणेन `बहुव्रीहौ संख्येये डजबहुगणात्` (5.4.73) इत्यादिना बहुव्रीह्रादित्वेन समासविशेषाद्विधास्यन्ते; यत्रापि बहुव्रीह्रादिग्रहणं नास्ति, तत्र सङ्घातः प्रकृतित्वेन निर्दिश्यते। यता - `अच्? प्रत्यन्ववपूर्वात्? सामलोम्नः` (5.4.75) इति, ततश्च सामर्थ्यादेव समासान्ताः प्रत्याय विज्ञास्यन्ते, तत्क समासग्रहणेन? यत्रैतदुभयं नास्ति - यथा - `ऋक्पूरब्धूःपथामानक्षे` (5.4.74) इति, तदर्थं समासान्तग्रहणं क्रियते। अन्तशब्दोऽयं सामीप्यवचनोऽप्यस्ति, यदि तस्येह ग्रहणं स्यात्? प्रत्ययपरत्वेनैव डजादीनां सामीप्यस्य सिद्धत्वादन्तशब्दोऽनर्थकः स्यादिति मत्वाऽऽह - अवयववचनोऽयमन्तशब्दो गृह्रत इति दर्शयन्नाह - अवयवा इति अस्य पर्यायेण वृतिंत कर्तुमाह - `एकदेशाः` इति। एकदेशशब्दमिहाश्रयता प्राक्समासविधेः समासार्थादुत्तरपदात्? वक्ष्यमाणाः प्रत्यया भवन्ति, पश्चात्? समासः - इत्युक्तं भवति। एवं हि ते समासस्यैकदेशा भवन्ति यदि प्राक्? समासवृत्तेः स्यात्। समासान्तान्? कृत्वा पश्चात्? तदन्तेन समासः क्रियते। एवञ्च तैः सह समाससंज्ञा बवतीत्युपपद्यते डजादीनां समासावयवत्वम्। अतश्चैतदेवं विज्ञेयम्। योऽभिमन्यतेसमासे कृते डजादिभिर्भवितव्यमिति, तस्य `न कपि` (7.4.14) इत्यत्र यद्वक्ष्यति वृत्तिकारः - `समासार्थे ह्रु त्तरपदे कपि कृते पश्चात्? समासेन भक्तिव्यम्` इति, तद्विरुध्यते। ननु च समासार्थादुत्तरपदाड्डजादिषु कृतेषु पश्चात्? तदन्तेन समासः क्रियते - इत्यस्मिन्नपि पक्षे समानो दोषः, यतः **पथो विभाषा** (5.4.72) इत्येवमादिषु नञः परो यः पथिन्शब्दस्तदन्तात्? तत्पुरुषाद्विभाषा समासान्तो भवतीत्येवमादयो निर्देशा विरुध्यन्त एव? नैतदस्ति; तदविरोधस्य `ङ्याप्प्रातिपदिकात्` (4.1.1) इत्यत्र प्रतिपादितत्वात्। `तद्ग्रहणेन गृह्यन्ते` इति तच्छब्देन समासः प्रत्यवमृश्यते। समासावयवत्वे सति तेषामपि तदनुप्रदेशो भवति। अतस्ते। समासग्रहणेन गृह्रन्त इति। अथ समासावयवत्वे प्रत्ययस्य किं प्रयोजनम्? इत्याह - `प्रयोजनम्` इत्यादि। `अधिराजम्, उपराजम्` इति। यताक्रमं विभक्त्यर्थे सामीप्येऽव्ययीभावः। **अव्ययीभावे शरत्प्रभृतिभ्यः** (5.4.107) , `अनश्च` (5.4.108) इति टजन्तस्याव्ययीभावग्रहणेन ग्रहणात्? **नाव्ययीभावादतोऽम्त्वपञ्चम्याः** (2.4.83) इति विभक्तेरलुक्, अमन्तभावश्च भवति। द्वे पुरी समाह्मते इति **तद्धितार्थोत्तरपदसमाहारे च** (2.1.51) इति समातः। स च **संख्यापूर्वो द्विगुः** (2.1.52) इति द्विगुसंज्ञः, `ऋक्पूरब्धूःपथाम्` (5.4.74) इत्यकारप्रत्ययान्तस्य द्विगुग्रहणेन ग्रहणावकारान्तात्? **द्विगोः** (4.1.21) इति ङीप्? सिद्धो भवति। कोशनिषदिनीति। कोशश्च निषच्चेति समाहारद्वन्द्वः, `द्वन्द्वाच्चुदषहान्तात्? समाहारे` (5.4.106) इति टच्? तस्य द्वन्द्वग्रहणेन ग्रहणात्? कोशनिषदमस्या अस्तीति **द्वन्द्वोपतापगर्ह्यात् प्राणिस्थादिनिः** (5.2.128) प्राणिस्थादिनिर्भवति, `ऋन्नेभ्यो ङीप्` (4.1.5) इति ङीप्। रुआक्त्वचिनीति। पूर्वेण तुल्यम्। `विधुरः` प्रधुरः` इति। विगतो धुरः, प्रगतो धुर इति **कुगतिप्रादयः** (2.2.18) इति प्रादितत्पुरुषसमासः। पूर्ववदकारस्येह तत्पुरुषग्रहणेन ग्रहणात्? `तत्पुरुषे तुल्यार्थतृतीया` (6.2.2) इत्यादिना पूर्वपदप्रकृतिस्वरः सिद्धो भवति। पूर्वपदं पुनरतर निपात आद्युदात्तः। असति तु समासान्तत्वे प्रत्ययस्वरेणान्तोदात्तता स्यात्। `उच्चैर्धुरः, नीचैर्धुरः` इति। उच्चैर्धूरस्येति नीचैर्धूरस्येति बहुव्रीहिः। पूर्ववदकारप्रत्ययः, तस्य बहुव्रीहिग्रहणेन ग्रहणात्? `बहुव्रीहौ प्रकृतया पूर्वपदम्` (6.2.1) इति पूर्वपदप्रकृतिस्वरो भवति। पूर्वपदप्रकृतिस्वरस्त्विहान्तोदात्तः। सनुतर्, उच्चैस्, नीचैस्, शनैस, ऋधक्, ऋते, युगपत्, आरात्, पृथगित्येते सनुतर्प्रभृतयोऽन्तोदात्ताः, स्वरादिषु पाठात्॥ Prakriyasarvasvam ----------------- इतः परमुच्यमानास्तद्धिताः समासस्यान्तावयवाः स्युः ॥