54059: संख्यायाश्च गुणान्तायाः ============================== **Padacheda:** सङ्ख्यायाः | S | 5 | 1 | च | S | 0 | 0 | गुणान्तायाः | S | 5 | 1 | Sutrartha --------- **यस्य सङ्ख्यावाचकशब्दस्य अन्ते 'गुण' इति शब्दः विद्यते, तस्मात् कर्षणस्य विषये कृ-धातोः योगे डाच् प्रत्ययः स्वार्थे विधीयते ।** यस्य शब्दस्य उत्तरपदम् 'गुण' तथा पूर्वपदम् सङ्ख्यावाचकः शब्दः अस्ति, तस्मात् शब्दात् कर्षणस्य (To plow a field सन्दर्भे कृ-धातोः योगे 'डाच्' प्रत्ययः स्वार्थे भवति । यथा - द्विगुणं कर्षणं करोति (Plows a field two times इत्येव = द्विगुणं + डाच् → द्विगुणा करोति । प्रक्रिया इयम् - द्विगुण + डाच् → द्विगुण + आ [इत्संज्ञालोपः] → द्विगुण् + आ [**टेः** (6.4.143) इति टिलोपः] → द्विगुणा एवमेव - त्रिगुणं कर्षणं करोति इत्येव = त्रिगुणा करोति । विशेषः - डाच्-प्रत्ययान्तशब्दानाम् **ऊर्यादिच्विडाचश्च** (1.4.61) इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् **स्वरादिनिपातमव्ययम्** (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् **कुगतिप्रादयः** (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - द्विगुणाकृतः / द्विगुणाकृत्य - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'द्विगुणा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः **ते प्राग्धातोः** (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'द्विगुणा करोति' इत्येव वक्तव्यम्, न हि 'करोति द्विगुणा' इति । स्मर्तव्यम् - इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'द्विगुणं कर्षणं करोति' आदयः । Vasu English Summary -------------------- The affix डाच् comes after a numeral followed by the word गुण the sense being 'to plough so many times'. Vasu English Translation ------------------------ The affix डाच् comes after a numeral followed by the word गुण the sense being 'to plough so many times'. The word कृ is understood here. Thus द्विगुणा or त्रिगुणा करोति क्षेत्रम् "he ploughs the field twice or thrice" = द्विगुणं विलेखनं करोति क्षेत्रस्य ॥ Why do we say "when meaning to plough"? Observe द्विगुणां करोति रज्जुम् "he doubles the rope". Kashika ------- कृञ इत्यनुवर्तते, कृषाविति च। संख्यावाचिनः शब्दस्य गुणशब्दोऽन्ते समीपे यत्र संभवति, सा संख्या गुणान्तेत्युच्यते। तादृशात् प्रातिपदिकात् कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे। द्विगुणं विलेखनं करोति क्षेत्रस्य, द्विगुणाकरोति क्षेत्रम्। त्रिगुणाकरोति। कृषाविति किम् ? द्विगुणां करोति रज्जुम्॥ Siddhanta Kaumudi ----------------- कृञो योगे कृषौ डाच् स्यात् । द्विगुणाकरोति क्षेत्रम् । क्षेत्रकर्मकं द्विगुणं कर्षणं करोतीत्यर्थः ॥ Balamanorama ------------ **संख्यायाश्च गुणान्तायाः** - सङ्ख्यायाश्च । शेषपूरणेन सूत्रं व्याचष्टे — कृञो योगे इति । Padamanjari ----------- सङ्ख्यावाचिनः शब्दस्येति। एतेन सङ्खय्या इत्यस्य वष्ट।ल्न्ततां दर्शयति। गुणान्तेति। व्यधिकरणपदो बहुव्रीहिः, अन्तशब्दश्च समीपवचन इत्याह - गुणशब्दोऽन्ते समीप इति। अन्तशब्दस्य सङ्ख्याया इत्येतदपेक्षमाणस्यापि सम्बन्धिशब्दस्य नित्यसापेक्षत्वात्समासः, निपातनाच्च सप्तन्यन्तस्यापि तस्य परनिपातः। यत्रेत्यनेन प्रकृतिर्निर्दिश्यते। सेत्यादिना प्रकृतिसङ्ख्या। गुणान्तेत्युच्यते। सङ्खयाशब्दस्यान्ते गुणश्बदो यस्याः सा तथोक्ता। अत्रापि गमकत्वात्समासः। तादृशादिति। सङ्ख्याशब्दसमीपवतिगुणशब्दादित्यर्थः। अन्तशब्दश्चायं नियतमेव परत्वविशिष्ट्ंअ सामीप्यमाचष्टे, न सामीप्यमात्रम्। तेन गुणविशतिरित्यादौ पूर्वभूते गुणशब्देऽतिप्रसङ्गो नोद्भावनीयः। अनभिधानाद्वाऽत्र प्रत्ययाभावः। द्विगुणं विलेखनं करोति क्षेत्रस्येति। अत्र विलेखनशब्दस्य कृदन्तस्य प्रयोगात्कृद्योगदलक्षणा षष्टी क्षेत्राद्भवति। उत्पन्ने तु तद्धिते तदभावाद् द्वितीयैव भवति। अथैवं कस्मान्न व्याख्यायते - सङ्ख्यायते-सङ्खयाया इति पञ्चमी, अन्तशब्दोऽवयववचनः, सङ्खयावाचिनः परो यो गुणशब्दस्तदन्तायाः प्रकृतेरिति ? उच्यते; एवं हि सति गुणान्ताया एव सङ्ख्याया इति विशेषणं स्यात्, न गुणशब्दस्य समासे गुणभूतस्य। एवं तर्हि मा बूदन्तग्रहणम्, सङ्घ्याया गुणादित्येवास्तु, व्यधिकरणे च पञ्चम्यौ - सङ्ख्यायाः परो यो गुणशब्दस्तस्मादिति? एवमपि वाक्ये प्रसङ्गः - पञ्च गुणान्करोतीति, विपर्ययश्च सम्भाव्येत - गुणशब्दात्परा या सङ्ख्या तदन्तादिति। एवं तर्हि सङ्ख्यादेर्गुणादित्येवास्तु? सत्यम्; तथा तु न कृतमित्येव, प्रत्युत यथान्यासे द्विगुणभागं क्षेत्रं करोतीत्यत्रापि प्रसङ्गः ॥ Prakriyasarvasvam ----------------- कृषौ डाच् । द्विगुणाकरोति क्षेत्रं, द्विः कृषतीत्यर्थः ॥