54058: कृञो द्वितीयतृतीयशम्बबीजात् कृषौ ======================================= **Padacheda:** कृञः | S | 5 | 1 | द्वितीय-तृतीय-शम्ब-बीजात् | S | 5 | 1 | कृषौ | S | 7 | 1 | Sutrartha --------- **'कर्षणम्' इत्यस्य सन्दर्भे प्रयुक्तेभ्यः 'द्वितीय', 'तृतीय', 'शम्ब' तथा 'बीज' एतेभ्यः शब्देभ्यः 'कृ' धातोः योगे स्वार्थे डाच्-प्रत्ययः भवति ।** 'द्वितीय', 'तृतीय', 'शम्ब', तथा 'बीज' एते शब्दाः यदा 'कृ' इत्यस्य योगे 'कर्षणम्' (To plow a field) अस्मिन् अर्थे प्रयुज्यन्ते, तदा तेभ्यः स्वार्थे 'डाच्' प्रत्ययः भवति । यथा - 1. द्वितीयं कर्षणं करोति (द्वितीयवारम् क्षेत्रस्य कर्षणम् करोति - Plows a field second time) इत्येव = द्वितीय + डाच् → द्वितीया करोति । प्रक्रिया इयम् - द्वितीय + डाच् → द्वितीय + आ [इत्संज्ञालोपः] → द्वितीय् + आ [**टेः** (6.4.143) इति टिलोपः] → द्वितीया 2. तृतीयं कर्षणं करोति इत्येव = तृतीया करोति । 3. शम्बम् करोति (एकस्याम् दिशि कर्षणं कृत्वा ततः विरुद्धदिशि कर्षणं करोति इत्यर्थः । Plows a field second time in the reverse order.) = शम्बाकरोति । 4. बीजेन सह कर्षति (Plows a field with seeds) इत्येव बीज + डाच् → बीजाकरोति । विशेषः - 1. वस्तुतः पूर्वसूत्रात् 'कृ-भू-अस्ति-योगे' इत्यस्य अनुवृत्तिः भवितुमर्हति । परन्तु अस्मिन् सूत्रे केवलम् 'कृ' इत्यस्य योगे एव प्रत्ययविधानम् करणीयमस्ति अतः 'कृ' इत्यस्य पुनर्ग्रहणं कृत्वा 'भू' तथा 'अस्' एतयोः निवृत्तिः क्रियते । 2. अस्मिन् सूत्रे 'कृषौ' इति शब्देन कृषिविषयकम् 'कर्षण'कार्यम् गृह्यते, अतः तस्यैव निर्देशः सर्वेषु विग्रहवाक्येषु कृतः अस्ति । 3. डाच्-प्रत्ययान्तशब्दानाम् **ऊर्यादिच्विडाचश्च** (1.4.61) इत्यनेन 'निपात' तथा 'गति'द्वे अपि संज्ञे भवतः । अस्य प्रयोजनानि एतानि - अ) निपातसंज्ञायाः कारणात् **स्वरादिनिपातमव्ययम्** (1.1.37) इत्यनेन एतेषाम् अव्ययसंज्ञा अपि भवति । इत्युक्ते, सर्वे डाच्-प्रत्ययान्तशब्दाः 'अव्यय'संज्ञकाः अपि सन्ति । आ) डाच्-प्रत्ययान्तशब्दाः यदा कृदन्तशब्दानां योगे प्रयुज्यन्ते, तदा 'गतिसंज्ञा'कारणात् **कुगतिप्रादयः** (2.2.18) इत्यनेन तेषाम् कृदन्तशब्देन सह नित्यं तत्पुरुषसमासः भवति । यथा - बीजाकृतः / बीजाकृत्य - आदयः शब्दाः समस्तपदेन जायन्ते । अतः एतेषामुच्चारणसमये द्वयोर्मध्ये विरामः न ग्रहीतव्यः । तिङन्तैः सह योगे तु एतादृशम् समस्तपदम् न भवति, अतः तत्र 'बीजा करोति' एतादृशम् शब्दद्वयमेव लेखनीयम् । इ) गतिसंज्ञकाः शब्दाः **ते प्राग्धातोः** (1.4.80) इत्यनेन धातोः पूर्वम् एव प्रयोक्तव्याः । अतः 'बीजा करोति' इत्येव वक्तव्यम्, न हि 'करोति बीजा' इति । स्मर्तव्यम् - इदम् सूत्रम् **समर्थानाम् प्रथमात् वा** (4.1.82) अस्मिन् सूत्रे निर्दिष्टायाम् महाविभाषायाम् पाठितमस्ति, अतः अनेन सूत्रेण उक्तः 'डाच्' प्रत्ययः विकल्पेनैव विधीयते । इत्युक्ते, पक्षे वाक्यस्य अपि प्रयोगः भवति । यथा - 'द्वितीयं कर्षणं करोति' आदयः । Vasu English Summary -------------------- The affix डाच् comes after the word 1. द्वितीय 2. तृतीय 3. शम्ब and 4. बीज when connected with the verb कृ 'to make' and meaning 'to plough in such a way'. Vasu English Translation ------------------------ The affix डाच् comes after the word 1. द्वितीय 2. तृतीय 3. शम्ब and 4. बीज when connected with the verb कृ 'to make' and meaning 'to plough in such a way'. The repetition of the word कृ in this *sutra* indicates that the भू and अस्ति are not to be taken. Thus द्वितीया करोति = द्वितीयं कर्षे (= विलेखनं) करोति 'he makes the second ploughing of the field'. So also तृतीया करोति, शम्बा करोति 'he makes the field ploughed contrariwise to what it was ploughed before = अनुलोम कृषं क्षेत्रं पुनः प्रतिलोमं कृषति ॥ So also बाजी करोति = सहबीजेन विलेखनं करोति ॥ Why do we say when meaning "to plough" ? Observe द्वितीयं करोति पदम् ॥ Kashika ------- द्वितीयतृतीयादिभ्यः शब्देभ्यः कृषावभिधेयायां डाच् प्रत्ययो भवति कृञो योगे, नान्यत्र। पुनः कृञ्ग्रहणं भ्वस्त्योर्निवृत्त्यर्थम्। द्वितीयाकरोति। द्वितीयं कर्षणं विलेखनं करोतीत्यर्थः। तृतीयाकरोति। शम्बाकरोति। अनुलोमकृष्टं क्षेत्रं पुनः प्रतिलोमं कृषतीत्यर्थः। बीजाकरोति। सह बीजेन विलेखनं करोतीत्यर्थः। कृषाविति किम् ? द्वितीयं करोति पदम्॥ Siddhanta Kaumudi ----------------- द्वितायादिभ्यो डाच् स्यात्कृञ एव योगे कर्षणेऽर्थे । बहुलोक्तेरव्यक्तानुकरणादन्यस्य डाचि न द्वित्वम् । द्वितीयं तृतीयं कर्षणं करोति द्वितीयाकरोति । तृतीयाकरोति । शम्बशब्दः प्रतिलोमे । अनुलोमं कृष्टं क्षेत्रं पुनः प्रतिलोमं कर्षति शम्बाकरोति । बीजेन सह कर्षति बीजाकरोति ॥ Balamanorama ------------ **कृञो द्वितीयतृतीयशम्बबीजात् कृषौ** - कृञो द्वितीय । द्वितीयादिभ्य इति । द्वितीय, तृतीय, शम्ब, बीज इत्येतेभ्य इत्यर्थः । कृञ एव योगे इति । कृञ्ग्रहणात्कृभ्वस्तिर्नानुवर्तत इति भावः । 'मद्रात्परिवापणे' इति यावत्कृञ इत्यनुवर्तते । बहुलोक्तेरिति ।डाचि बहुलं द्वे भवतः॑ इति बहुलग्रहणादव्यक्तानुकरणस्यैव डाचि द्वित्वम् । नतु तदन्यस्येत्यर्थः । शम्बशब्दः प्रतिलोमे इति । 'वर्तते' इति शेषः । बीजेन सह कर्षतीति । आदौ कृष्टक्षेत्रे कुलत्थादिबीजानां वापे कृते पुनर्बोजैः सह कर्षणं प्रसिद्धम् । 'कर्षात्वत' इति सूत्रभाष्यप्रामाण्यात्कृषधातुः शब्विकरणोऽस्ति । तेन शविकरणत्वात्कृषतीत्येव युक्तमिति न शङ्क्यम् । Tattvabodhini ------------- **कृञो द्वितीयतृतीयशम्बबीजात् कृषौ** - बीजेन सहेति । ननु बीजेन सह भूतलस्य कर्षणे बीजानामपि कर्षणप्रसङ्गाद्विवक्षितार्थो न सिध्यतीति चेत् । अत्राहुः -वृत्तिविषये बीजशब्दो बीजावापसहिते विलेखने वर्तते । तथा च बीजावापसहितं विलेखनं करोतीत्यर्थ इति । Padamanjari ----------- कृषावभिधेयायामिति। कस्याभिधेयायाम्? द्विदीयादिशब्दानां डाजन्तानां कृञ्श्च। तद्दर्शयति - द्वितीयं कर्षणं विलेखनं करोतीत्यर्थ इति। प्रतिलोमं कर्षतीत्यर्थं इति। शम्बशब्दस्यात्र प्रातिलोम्ये वृत्तिः, कृञ्श्च कर्षणे। सह बीजेनेति। बीजशब्दस्य बीजावापसहिते विलेखने वृतेरयमर्थो भवति ॥ Nyaas ----- ननु कृभ्बस्तियोग इत्यतः करोतिरनुवर्तते, तत्? किमर्थं कञ्ग्रहणम्? इत्यादि। धातुत्र्यं प्रकृतम्, तत्रासति कृञ्ग्रहणे यथा कृञो भवति, तथा भ्वस्त्योरपि स्यात्। तस्मात्? कृञो ग्रहणं भ्वस्तिनिवृत्त्यर्थम्॥`संक्यायाः` इति सामीप्यसम्बन्धे षष्ठी। `गुणान्तायाः` इति प्रत्ययविधौ संख्यावाचिनः शब्दस्येत्यनेन संख्याशब्दस्य षष्ठन्ततां दर्शयति। अन्तशब्दोऽवयववचनोऽप्यस्ति, तस्येह ग्रहणे संख्याशब्देन सम्बन्धो न स्यात्, न हि संख्याशब्दस्य गुणशब्दोऽवयव उपपद्यते - इति मत्वा सामीप्यवचनोऽयमन्त शब्द इति दर्शयन्नाह - `गुणशब्दोऽन्ते समीपे` इति। `यत्र` इति। अनेन प्रकृतिनिर्द्दिश्यते। `सा` इत्यादि। सा प्रकृतिः संख्या गुणान्तेनाभिधीयत इत्यर्थः। गुणशब्दोऽन्ते यस्य स तथोक्तः। `तादृशात्` इत्यादिना तथाभूतात्? संख्याशब्दात्? सामीप्यवर्त्तिगुणशब्दादित्यर्थः। ननु च सामीप्यवचनान्तशब्दे संख्यायाः पूर्वः परो वा गुण इति विशेषो नावधाय्र्यते, तथा च यत्राप्यसौ पूर्वस्तत्रापि स्यात्? नैष दोषः; सामीप्येऽयं वर्तमानो नियतदेशमेव पराश्रयं वा यत्? सामीप्यं तदाचष्टे, न सामीप्यमात्रम्; यथा - अवयवे वर्तमानो नावयवमात्रमभिधत्ते, किं तर्हि? विशिष्टवेशमेवादयवम् - `द्विगुणं विलेखनं करोति` इति॥ Prakriyasarvasvam ----------------- एभ्यः कृञ एव योगे कर्षणेऽर्थे डाच् । 'बहुलं द्वे' इत्युक्तेः एषु डाचि द्विरुक्तिर्न ! द्वितीयं तृतीयं वा कर्षणं करोति द्वितीयाकरोति, तृतीयाकरोति । पुनस्तिर्यक् कृषति शम्बाकरोति । बीजेन सह कृषति बीजाकरोति । अतःपरं कृञ्योग एव डाच् ॥